मृत्युप्रोक्तं शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
मृत्युरुवाच
नित्यं शिवेति मन्त्रेण पूजयस्व सदाशिवम् ।
नैतस्मादुत्तमो मन्त्रः श्रेष्ठो वेदेष्वपीरितः ॥ ३४८॥
अयमेव महामन्त्री मोक्षदः शङ्करात्मकः ।
अयमेव सदा ध्येयो मन्त्रो मुक्त्यर्थिभिर्नरैः ॥ ३४९॥
एतन्मन्त्रस्य महात्म्यं शिवो वेद न चेतरः ।
वेदैरपि न विज्ञातं तत्त्वमस्य मनोर्ध्रुवम् ॥ ३५०॥
एतस्य तत्त्वं विज्ञातुं यतन्ते योगिनः सदा ।
तथापि तत्त्वमेतस्य ज्ञातुमेव न शक्यते ॥ ३५१॥
तत्त्वं तु शिवमन्त्रस्य येन ज्ञातं भविष्यति ।
तेन तीर्ण इति ज्ञेयो घोरसंसारसागरः ॥ ३५२॥
शिवेति यः परो मन्त्रः स परंब्रह्म कथ्यते ।
परब्रह्मस्वरूपं तु ततो ज्ञातुं न शक्यते ॥ ३५३॥
तथापि परमो मन्त्रः शिवमन्त्रः श्रुतिश्रुतः ।
ततस्तेनैव मन्त्रेण पूजनीयः सदाशिवः ॥ ३५४॥
नित्यं महेशपूजा चेत्क्रियते भक्तिपूर्वकम् ।
तदा नश्यन्ति पापानि बुद्धिपूर्वकृतान्यपि ॥ ३५५॥
बिल्वपत्रैर्महादेवं यः पूजयति शङ्करम् ।
स विधायापि पापानि न प्राप्नोत्येव तत्फलम् ॥ ३५९॥
नव्यैर्बिल्वदलैरीशं सम्पूजयति यः पुमान् ।
स वंशकोटिसंयुक्तः शिवलोकं प्रयास्यति ॥ ३६९॥
बिल्वपत्रैर्महादेवं भस्मधारणपूर्वकम् ।
यः पूजयति यत्नेन स सम्प्राप्नोति शङ्करम् ॥ ३७०॥
दुःखं च मम नास्त्येव शाङ्करे शक्तिकुण्ठनम् (ने) ।
ममापि शासका यस्माच्छाङ्कराः शङ्करप्रियाः ॥ ३७४॥
न मृत्युभयमाप्नोति श्रीमृत्युञ्जयपूजकः ।
सर्वथा सन्यमित्याह जाबालोपनिषत्स्वयम् ॥ ३७५॥
अशाङ्करार्थे सृष्टोऽस्मि शङ्करेण पुरा ततः ।
अशाङ्करेषु मे शक्तिः कुण्ठिता न भविष्यति ॥ ३७६॥
प्राप्यं मृत्युकृतं दुःखममृत्युञ्जयपूजकैः ।
मृत्युञ्जयाराधकैस्तु तन्नैव प्राप्यते ध्रुवम ॥ ३७७॥
मृत्युञ्जयान्याः सर्वेऽपि जन्ममृत्युजरादिभिः ।
पुनः पुनः परिक्रान्ताः दुःखिताः सन्ति सर्वथा ॥ ३७८॥
नित्यमव्यभिचारेण प्रमादेनविना शिवम् ।
यः पूजयति यत्नेन स न जन्मादिभाग्ध्रुवम् ॥ ३७९॥
ददाति स्वेच्छया लोकान्सृष्ट्वा पाति च हन्ति च ।
संहारेच्छा यदा शम्भोः सर्वज्ञस्यामितौजसः ॥ ३९०॥
तदा संहृत्य सकलं स्वयमेकोऽधितिष्ठति ।
सिसृक्षया पुनः साम्बः सृष्ट्वा सर्वमिदं जगत् ॥ ३९१॥
स एव पालनेच्छयां पालयत्येव शङ्करः ।
उत्पत्तिस्थितिसंहारा जायन्ते शङ्करेच्छया ॥ ३९२॥
तत्र यत्नं महादेवो न करोत्येव सर्वथा ।
शिवेच्छयैव कार्याणि सिध्यन्त्याभूतसम्प्लवम् ॥ ३९३॥
तथा च यत्नं कुत्रापि न करोत्येव शङ्करः ।
तत्रैव यत्नः क्रियते स्वेच्छया यन्न सिध्यति ॥ ३९४॥
स्वेच्छामात्रेण सिद्धेऽर्थे न यत्नस्य प्रयोजनम् ।
देवतासार्वभौमस्य स्वतन्त्रस्य पिनाकिनः ॥ ३९५॥
इच्छामात्रेण सिध्यन्ति सर्वकार्याणि सर्वदा ।
एतादृशं महादेवमप्रमादेन सर्वथा ॥ ३९६॥
यः पूजयति यत्नेन स संसारं तरिष्यति ।
संसारतरणोपायः शङ्करस्यैव पूजनम् ॥ ३९७॥
यतः स शङ्करः साम्बो भक्तसंसारतारकः ।
परन्त्वव्यभिचारेण शङ्करस्यैव पूजनम् ॥ ३९८॥
यः करोति स संसारं तरत्येव हि सर्वथा ।
संसारतरणापेक्षा यस्य जन्तोर्भविष्यति ॥ ३९९॥
तेन सर्वात्मना त्याज्यं शिवान्यसुरपूजनम् ।
शङ्करान्ये सुराः सर्वे यतः संसारिणस्ततः ॥ ४००॥
तदर्चनं तु संसारतारकं म भविष्यति ।
येन तीर्णः स संसारः सोऽन्यं तारयितुं क्षमः ॥ ४०१॥
संसारिणं न संसारी तारयिष्यति सर्वथा ।
अन्धो यथान्धसंलग्नः पतत्येव पदे मदे ॥ ४०२॥
तथा पतति संसारे शङ्करान्यसुरार्चकः ।
शिवः पशुपतिर्नित्यः पशुपाशविमोचकः ॥ ४०३॥
यतः पशुपतिर्दृष्टः पशुपाशविमोचकः ।
विष्णुब्रह्मादयो देवा मर्त्याश्च पशवःस्मृताः ॥ ४०४॥
तत्पाशमोचको देवः शिवः पशुपतिः स्मृतः ।
तेषां पशूनां पाशो यः स संसारस्तथा सति ॥ ४०५॥
तन्मोचको महादेवादपरो नास्ति सर्वथा ।
पशुवाशविमोक्षाय सेव्यः पशुपतिः सदा ॥ ४०६॥
तस्मात्पशुपतिं साम्बं पशुपाशविमोचकम् ।
पूजयस्वाप्रमादेन नित्यमव्यभिचारतः ॥ ४०७॥
॥ इति शिवरहस्यान्तर्गते मृत्युप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। वावृत्तश्लोकाः॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . vAvRRittashlokAH..
Notes:
Mṛtyu मृत्यु delivers Upadeśa उपदेश (to Bhilla भिल्ल) about the merits of worshiping Śiva शिव especially with Śiva Mantra शिव मन्त्र that itself is Parama Brahma परम ब्रह्म.
Mṛtyu मृत्यु highlights the importance of worshiping Śiva शिव as Mṛtyuñjaya मृत्युञ्जय and Paśupati पशुपति.
Proofread by Ruma Dewan