मणिग्रीवकृतं शिवस्तोत्रम्
मणिग्रीव उवाच ।
नमः सर्वजगत्कर्त्रे पित्रे प्रकृतिसाक्षिणे ।
भैरवाय परानन्दनिधये वेधसे नमः ॥ ७८॥
नियन्त्रे सर्वलोकानां निगमागममूर्तये ।
भैरवाय परानन्दनिधये वेधसे नमः ॥ ७९॥
रोगशोकभयक्लेशमोहतामिस्रभास्वते ।
भैरवाय परानन्दनिधये वेधसे नमः ॥ ८०॥
प्रसीद मन्त्रागमतीर्थदेवताक्रतुक्रियाक्षेत्रविशेषरूपिणे ।
भवाय पापक्षयहेतवे सतां नमो नमो भैरवभद्रमूर्तये ॥ ८१॥
इति स्तुवन् नयनयुगाज्जलद्रवं जलौघतः पदयुगमस्य सेचयन् ।
पपात तत्सविधमसौ महीतले भवार्णवादव शिव मामितीरयन् ॥ ८२॥
इति ताम्रपर्णीमाहात्म्ये एकत्रिंशाध्यायान्तर्गतं
मणिग्रीवकृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ३१/७८-८२॥
tAmraparNImAhAtmya . adhyAya 31/78-82..
Proofread by PSA Easwaran