ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा
शिवलिङ्गार्चनध्यानशस्त्रेणातिशितेन तु ।
संसारपाशविच्छेदो भवतीत्यवगम्यताम् ॥ १॥
संसारसागरे तावत् भयं भवति सर्वथा ।
यावन्नाराधितो देवो महादेवो भवः प्रभुः ॥ २॥
यस्तु देवो महादेवः सर्वदेवशिखामणिः ।
तन्नामस्मरणोद्योगेऽप्यघराशिलयो भवेत् ॥ ३॥
श्रीमहादेवनामानि स्मर्तव्यानीति यस्य धीः ।
तस्य पापाचलाद्भीतिः कदापि न भविष्यति ॥ ४॥
महादेवार्चने बुद्धिः तावन्नैवोपजायते ।
यावन्नाघकुलध्वान्तविलयः शङ्करः स्मृतः ॥ ५॥
शङ्करस्मरणाकारप्रभाकरकरादृते ।
चित्तपापान्धकारस्य विलयो न भवेत ध्रुवम् ॥ ६॥
श्रीमहादेवभक्तानां भवबन्धभयं कुतः ।
भवस्मरणमात्रेण भवराशिर्विनश्यति ॥ ७॥
भवगाढान्धकारोऽपि महामोहप्रदः सदा ।
तद्भक्तिभानुमालोक्य स्वत एव विनश्यति ॥ ८॥
दिवाभीतनिभं यत्तु भयं संसारलक्षणम् ।
तन्महेशार्चनाकारसूरे दृष्टे विनश्यति ॥ ९॥
महादेवप्रसादस्तु सहसा जायतेऽपि न ।
तज्ज्ञाने सति संसारभयमेव न जायते ॥ १०॥
महादेवं सकृद्वाऽपि यः स्मरेत् भस्मभूषणः ।
तत्पाददर्शनेनापि न संसारमहाभयम् ॥ ११॥
महादेवार्चने भक्तिः सहसा नोपजायते ।
सा चेज्जाता ततो दुःखं कालादपि न जायते ॥ १२॥
महादेवाभिधानानि सुधाधारानिभानि यः ।
शृणोति तत्कुलस्यापि न संसारभयं भवेत् ॥ १३॥
महादेवाभिधानेन श्रुतेनापि स्मृतेन वा ।
संसारसागरापारतरिणाऽपि तरन्ति ते ॥ १४॥
महादेवं सकृत् ध्यात्वा स्मृत्वा तन्नाम सादरम् ।
सम्भारनागरं तीर्त्वा प्रयान्ति शिवम दरम् ॥ १५॥
भाग्यवन्तो महादेवनामरूपां सुधां मुहुः ।
स्मृत्वा कर्णपुटैः पीत्वा स्तन्यानि पिबन्ति हि ॥ १६॥
भक्या कर्णसुवर्णपात्रगमहादेवाभिधानामृतं
पीत्वा तिष्ठ गरिष्ठनिष्ठुरवचोचीचीप्रपञ्चैरलम् ।
तेनैवाशु वरिष्ठतां व्रज पुनः संसारघोरार्णवं
व्याकीर्णामिव कर्णधारवरतां प्राप्य त्वया सत्वरम् ॥ १७॥
महादेवाभिधानेन निधानेन परं धनी ।
तद्धनं सावधानेन साधुभिर्ध्यायते हृदि ॥ १८॥
महादेवाभिधानस्य ध्वनिमध्वनि साधवः ।
सुधाधुनीमिव प्राप्य सानन्दं प्राप्नुवन्ति हि ॥ १९॥
महादेवाभिधानेन महानन्दसमृद्धयः ।
वृद्धिं प्रयान्ति तासां तु परमानन्दसन्निभाः ॥ २०॥
महादेवं मुहुर्ध्यात्वा सकृद्वा पुण्यकोटिभिः ।
पुण्यराशिमनुप्राप्य पुण्यवानेव जायते ॥ २१॥
पापघोराब्धिमग्नानां क्षणात् तरणकारणम् ।
महादेवभिधानं हि महापत्तारकं परम् ॥ २२॥
महादेवाभिधारूपममृतं शिवनिर्मितम् ।
संसारोस्मरापारविषयशिविनाशकम् ॥ २३॥
संसारसागरे घोरे मग्नो भग्नमनोरथः ।
अनाथनाथं न कथं विश्वनाथमहं भजे ॥ २४॥
इदं दृष्टं शिवस्थाने पापनाशाय जायते ।
पापघोराब्धिममग्नानां क्षणात् तरणकारणम् ॥ २५॥
इतोऽप्यत्युत्तमं लिङ्गं लिङ्गं तीर्थेश्वराभिधम् ।
इतोऽप्यत्युत्तमं लिङ्गं मण्डलेऽस्मिन् न दृश्यते ॥ २६॥
तत्राद्य गत्वा तीर्थेशः पूजनीयः प्रयत्नतः ।
सोमत्रयोदशी सेयं पातार्द्रासंयुता तथा ॥ २७॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। १७-४९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 17-49 ..
Proofread by Ruma Dewan