महादेवतपश्चर्यावर्णनम्

महादेवतपश्चर्यावर्णनम्

(शिवरहस्यान्तर्गते ईशाख्ये) स्कन्द उवाच । तदा ब्रह्मा हरिश्चैव सदक्षो वासवः सुराः । नत्वा स्तुत्वा महादेवं ययुर्लोकान् सुरास्तदा ॥ १॥ महादेवोऽपि विश्वात्मा ब्रह्मणा परिसन्त्वितः । जगाम गणवृन्दैश्च नन्दिना विश्वनन्दिना ॥ २॥ गणानां गर्जनैश्चैव भेरीपटहगोमुखैः । काहलैः शङ्खगोश‍ृङ्गैर्नदद्भिः गणवक्त्रतः ॥ ३॥ नानाछत्र धरैरन्यैश्चामरासक्तपाणिभिः । गणेन्द्रैः केतुहस्तैश्च चन्द्रस्फाटिकनिर्मलैः ॥ ४॥ भस्मभूषितसर्वाङ्गैर्गणेन्द्रैर्वरुणोपमैः । वृषारूढो महादेवः कोटित्रयगणावृतः ॥ ५॥ सत्या वियोगदुःखेन तपस्तप्तुं मनो दधे । जगाम मन्दिरे तत्र नानाद्रुम विराजिते ॥ ६॥ चम्पकाशोकपुन्नागबकुलैः समलङ्कृते । सालतालतमालढ्ये अङ्कोलकदलीयुते ॥ ७॥ कपित्थपूगहिन्तालरसालपनसावृते । पारिजातकसम्पूर्णे नानापक्षिविराजिते ॥ ८॥ पुष्पगुच्छैकसुभगमिलद्भृङ्गकुलाकुले । परभृत्सुन्दरगिरा पल्लवोल्लासिमारुते ॥ ९॥ नृत्यन्मयूरकेकाभिर्नदन्नत्यूहशोभिते । हंसक्रेङ्कारसरसीसारसैः समलङ्कृते ॥ १०॥ फुल्लहल्लकपद्मालिनीलोत्पल सुकौमुदैः । कदम्बमञ्जरीलोलस्रवत्पुष्परजोवृते ॥ ११॥ गलन्मधुस्रवालोलशाखान्दोलितमारुते । भ्रमत्सारङ्गमातङ्ग सङ्घर्षितमहाद्रुमे ॥ १२॥ उत्पुच्छचमरीसङ्घे सरघोड्डीनसङ्कुले । कस्तूरिकामृगभ्राम्यद्गन्धवाहैकसुन्दरे ॥ १३॥ कपोतगलहुङ्कारै गोलाङ्गुलोत्थहुङ्कृते । वानरोदरसम्बद्धस्तन्धयकुतूहले ॥ १४॥ शाखालीढेषु संलीन शशिवक्त्रकणादरे । सपक्षपक्षिविक्षेपैः पक्षिपोतैश्च भासुरे ॥ १५॥ खरोरुनखरोत्कीर्णलिक्षावीक्षणवानरे । नैकधातुशतैश्चित्रे विचित्रकुसुमोज्ज्वले ॥ १६॥ शाखाशतसहस्राढ्ये दवधूमसमाकुले । कदम्बकदलीपुष्पवनान्दोलनसुन्दरे ॥ १७॥ गिरिमस्तकसंस्राविनिर्झरप्रविराजिते । पल्वलोदतटान्तस्थगुल्मवल्लीगृहैर्युते ॥ १८॥ फुल्लवल्लीमहावल्लीगुच्छहल्लीस(ष)शोभिते । वेणुसङ्घर्षणोत्पन्नहव्यवाहशिखावृते ॥ १९॥ वेणुक्रीङ्कारबहुले झिल्लीगणविनादिते । हल्लीस(ष)लास्यं कुर्वद्भिर्द्रुमहस्तैः परस्परम् ॥ २०॥ मातङ्गबृंहितरवैः कोलघर्घरनिःस्वनैः । घर्घरैस्तालपत्राणां नारिकेलैश्च शोभिते ॥ २१॥ तद्भूतपत्रसल्लून पक्वनारेलतालकैः । समावृता सा भूर्भाति मातङ्गमदपङ्किला ॥ २२॥ विमलस्वादुपानीयैर्नैकप्रस्रवणैर्युते । निरूढशष्पसम्पूर्मभूभागसमलङ्कृते ॥ २३॥ वनगोरससन्तप्तशिलातल विराजिते । स्निग्धवर्णमहामूलसटावटविराजिते ॥ २४॥ मन्दं च तत्र गणपैर्महादेवो वृषास्थितः । महादेवस्य देवस्य शङ्करस्यामितात्मनः ॥ २५॥ दीप्तमाद्यतनं तत्र हैमं मणिविभूषितम् । हेमप्राकार संयुक्तं मणितोरणमण्डितम् ॥ २६॥ स्फाटिकैः सुविचित्रैश्च गोपुरैश्च समन्वितम् । सिह्मासनैर्मणिमयैः शुभास्तरमसंयुतैः ॥ २७॥ रम्यादर्शगृहैश्चित्रैश्चित्ररङ्गविचित्रितैः वृक्षपाषाणफलकैश्चित्रितैः सौधभूषितैः ॥ २८॥ वितानतानितैश्चित्रैर्दिव्यास्तरणिकावृते । पद्मरागैः पुष्परागैर्नीलवैडूर्यनिर्मितैः ॥ २९॥ गोमेदवज्रमुक्ताच्छविद्रुमैश्च विराजितैः । मण्डितैः पुष्पमालाढ्यैर्धूपदीपसमावृतैः ॥ ३०॥ प्रमथैरावृते तत्र वेणु वीणाब्जनादिते । झल्लरीशङ्खपटहभेरीगोमुखडिड्डिमैः ॥ ३१॥ सिद्धदेवर्षिगन्धर्वैर्ब्रह्मेन्द्राद्यमरैर्वृतैः । किम्पुरुषैस्तथा नागैरप्सरोगणसेवितैः ॥ ३२॥ गायद्गन्धर्वनिकरैर्वीणातन्त्रीविराजितैः(विनादितैः) । मन्दारैश्चारुशिखरैरुपेतं शङ्करस्तदा ॥ ३३॥ दृष्ट्वा न हर्षमापाथ महादेवो महेश्वरः । तदा रुद्रगणैः सार्धं निशश्वास मुहुर्मुहुः ॥ ३४॥ रुद्धाहिराडिवास्वस्थः स्थाणुः स्थाणुरिव स्थितः । तदा सतीवियोगार्तो बभूवातीव विह्वलः ॥ ३५॥ दृष्ट्वा चन्द्रमसं रात्रौ फुल्लमल्लीगणानिलम् । जिघ्रत्स्वाङ्गमहासर्पपारणां व्यदधाद्धरः ॥ ३६॥ विनिश्वसन् तदा देवस्तपस्येव मनो दधे । विधाय स्वात्मनात्मानं भस्मरूषितविग्रहः ॥ ३७॥ त्रिपुण्ड्रविलसद्भालो रुद्राक्षाङ्गदकङ्कणः । जटिलालकसन्मौलिपिशङ्गितगिरिप्रभः ॥ ३८॥ प्रभाविभासिसोमार्कः सुन्दरामलविग्रहः । सोम धामवृतोत्तंसो महादेवो महेश्वरः ॥ ३९॥ उत्फुल्लपुण्डरीकाभमुखमण्डलभासुरः । भालानलानिलालोल नेत्राञ्जलसुपक्षकः ॥ ४०॥ उद्यद्भानुप्रभा भासिवामलोचनसुन्दरः । पूर्वपुण्यसुधाधाममण्डलोत्तुङ्गदक्षधृक् ॥ ४१॥ चाम्पेयकलिकोद्दामनासापुटविराजितः । बिम्बप्रभावधिक्कारिरदच्छदविशोभितः ॥ ४२॥ स्वच्छादर्शकपोलोद्यत्प्रभाभासितदिक्ततिः । नागकुण्डल बिभ्राजत्कर्णावर्तविशोभितः ॥ ४३॥ शम्बाभकण्ठगरल कीलाललितकन्धरः । करिशुण्डाभवृत्तोरुबाहुदण्डविराजितः ॥ ४४॥ चतुर्दशोरुभवनस्थानायितमहोदरः । वृत्तगम्भीरसुभगनाभीकूपविराजितः ॥ ४५॥ त्रिवलीललितोदारमृगेन्द्रसमसत्कटिः । व्याघ्रचर्मपरीधानः कृत्तिवासा महेश्वरः ॥ ४६॥ रम्भावृत्तोरुस्निग्धोरु रुक्मदण्डपदद्वयः । पादपद्मयुगालीढव्यालीमञ्जीरफूत्कृतिः ॥ ४७॥ नागहारो महादेवस्त्यक्त्वा चायुधमुत्तमम् । मृगटङ्कौ परित्यज्य वटोरुविटपास्तृते ॥ ४८॥ भूतलेऽजिन संस्तीर्णे व्याघ्राजिन विराजिते । योगपट्टाभिरामेण पादावाबध्य चान्यतः ॥ ४९॥ भस्माङ्गरागसुभगदेहकान्तिविराजितः । नासाग्रन्यस्तनयनो भगनेत्रनिपातनः ॥ ५०॥ उग्रोऽप्यंव्यग्रमनसा इन्द्रियाण्यथ संहरन् । विश्वतः परमेशानः रुद्रो विश्वाधिकः प्रभुः ॥ ५१॥ आत्मानमात्मना ध्यायन् बाह्यव्यापारवर्जितः तमसः परमं साक्षात् ब्रह्म तन्निर्गुणं परम् । चतुर्थं शिवमद्वैतं पूर्णात्पूर्णतरं शिवं विश्वतश्चक्षुषं देवं विश्वतोमुखमीश्वरम् ॥ ५२॥ सर्वेन्द्रियगुणातीतं सर्वेन्द्रियविवर्जितम् । आकाशकोशं विश्वेशं चेतनानां च चेतनम् ॥ ५३॥ निरञ्जनं शिवं नित्यं व्याप्यव्यापकवर्जितम् । भूतं भव्यं भविष्यच्च यद्भाव्यमभयं परम् ॥ ५४॥ परात्परं साक्षिणं च विश्वस्मादुत्तरोत्तरम् । अमृतं परमं धाम सीमा पुच्छप्रतिष्ठितम् ॥ ५५॥ ऋतं सत्यं परं धाम वृद्धं ब्रह्म सनातनम् । अणोरणुं महान्तं तमीशानं विश्वतोमुखम् ॥ ५६॥ पुरीशयं गुहासंस्थं अवस्थातीतमीश्वरम् । शाश्वतं ध्रुवमक्षय्यं क्षराक्षरविलक्षणम् ॥ ५७॥ अपाणिपादजघनमचक्षुर्घ्राणमीश्वरम् । अनक्षिघ्राणरसनं सर्वेन्द्रियगुणातिगम् ॥ ५८॥ शाश्वतं शान्तगम्भीरवेद्यं वेद्यविवर्जितम् । रसं परं हरं तारं प्रणवं नादबोधितम् ॥ ५९॥ योगसाङ्ख्यदुरापं तं सर्वात्मानं गुणातिगम् । वेदवेदान्तसंवेद्यं विश्वात्मानं सनातनम् ॥ ६०॥ भावाभावैकरहितं हृदयं शरणं शिवम् । प्रत्यग्दृश्यमनौपम्यं सर्वदृक्सर्वहृद्गतम् ॥ ६१॥ वेदवेद्यं नतद्वेद्यमभेद्यं द्वैतवर्जितम् । आनन्दं व्यापकं बोधं सर्वचैतन्यबोधदम् ॥ ६२॥ बहुरूपमरूपं च चिद्घनं भानभानकम् । शिवं तुरीयमद्वैतं सर्वान्तर्यामिनं हरम् ॥ ६३॥ विश्वात्मानं विश्वरूपं वृत्तिवाग्रूपवर्जितम् । सूक्ष्मं सूक्ष्मप्रतीकाशं वाच्यवाचकवर्जितम् ॥ ६४॥ न दिव्यं नान्तरिक्षं च वेदाश्रमविवर्जितम् । आनन्दरूपममृतं सदैकरसमद्वयम् ॥ ६५॥ अखण्डैकरसं देवः स्वात्मानं स्वात्मनि स्थितम् । निश्चलस्थाणुवत्स्थाणुरतिष्ठद्गणसेवितः ॥ ६६॥ दशसाहस्रमब्दानां एवं तेपे तपो हरः ॥ ६७॥ कुमार उवाच । स्वात्मानमानन्दमखण्डबोधं वेदान्तसारं परमेश्वरं तदा । स्वात्मानमालोक्य सनातनं शिवं न वेद किञ्चान्यदपीश्वरस्तदा ॥ ६८॥ ॥ इति शिवरहस्यान्तर्गते सुब्रह्मण्यप्रोक्तं महादेवतपश्चर्यावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ८ महादेवतपश्चर्या । १-६८ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 8 mahAdevatapashcharyA . 1-68 .. Notes: Śiva शिव departs from the scene of the Dakṣādhvara दक्षाध्वर along with His gaṇa-s गणाः et al and finds a suitable place where He settles into deep yogic meditation performing tapaḥ तपः for a very long time. Proofread by Ruma Dewan
% Text title            : Mahadevatapashcharyavarnanam
% File name             : mahAdevatapashcharyAvarNanam.itx
% itxtitle              : mahAdevatapashcharyAvarNanam (shivarahasyAntargatam)
% engtitle              : mahAdevatapashcharyAvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 8 mahAdevatapashcharyA | 1-68 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org