महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम्
क्षेत्रपालभैरवाष्टकस्तोत्रम्
अथवा महाकालभैरवाष्टकम्
अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम्
॥ ॐ ॥
यं यं यं यक्षरूपं दशदिशिविदितं(वदनं) भूमिकम्पायमानं
सं सं संहारमूर्तिं शिर(शुभ)मुकुटजटाशेखरं चन्द्रबिम्बम् ।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १॥
रं रं रं रक्तवर्णं कटि(ट)कटिततनुं तीक्ष्णदंष्ट्राकरालं(विशालं)
घं घं घं घोष(र)घोषं घ घ घ घ घटितं घर्झरं(घर्घरा)घोरनादम् ।
कं कं कं कालपाशं(रूपं) ध्रुक्ध्रुक्ध्रुकितं (धगधगधगितं) ज्वालितं कामदा(दे)हं
दं दं दं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ २॥
लं लं लं लम्बदन्तं ल ल ल ल ल(लु)लितं दीर्घजिह्वा(ह्वं)करालं
धूं धूं धूं धूम्रवर्णं स्फुटविकट(कृत)मुखं भास्क(सु)रं भीमरूपम् ।
रुं रुं रुं रुण्डमालं रवितमनियतं (रुधिरमयमुखं) ताम्रनेत्रं करालं(विशालं)
नं नं नं नग्नभूषं(रूपं) प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ३॥
वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं
(वं वं वं वायुवेगं प्रलयपरिमितं ब्रह्मरूपं स्वरूपं)
खं खं खं खड्गहस्तं त्रिभुवनवि(नि)लयं भास्करं भीमरूपम् ।
चं चं चं चं चलित्वाऽचल चल चलिता चालितं भूमिचक्रं
(चं चं चं चालयन्तं चलचलचलितं चालितं भूतचक्रं)
मं मं मं मायिरूपं(मायकायं) प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४॥
शं शं शं शङ्खहस्तं शशिकरधवलं मोक्षसम्पूर्णतेजं(पूर्णतजः स्वरूपं)
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् ।
(भं भं भं भावरूपं कुलमकुलकुलं मन्त्रमूर्तिं स्वतत्त्वम् ।)
भं भं भं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं
(भं भं भं भूतनाथं किलिकिलितवचश्चारु जिह्वालुलन्तं)
अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ५॥
खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं (कालकालान्धकारं)
क्षं क्षं क्षं (क्षिं क्षिं क्षिं) क्षिप्रवेगं दहदहदहनं तप्त(नेत्र)सन्दीप्यमानम् ।
हूं हूं (हुं हुं) हूंकारनादं(हुङ्कारशब्दं) प्रकटितगहनं गर्जितैर्भू(तं भू)मिकम्पं
बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ६॥
सं सं सं सिद्धियोगं सकलगुणमखं(यं) देवदेवं प्रसन्नं
पं पं पं पद्मनाभं हरिहरमय(वद)नं चन्द्रसूर्याग्निनेत्रम् ।
ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं
(यं यं यं यक्षनाथं सततभयहरं सर्वदेवस्वरूपं)
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ७॥
हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
धं धं धं नेत्ररूपं शिरमुकुटजटाबन्धबन्धाग्रहस्तम् ।
टं टं टङ्कारनादं त्रिदशलटलटं कामगर्वापहारं
भ्रूं भ्रूं भ्रूं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ८॥
(हं हं हं हंसघोषं हसितकहहारावरौद्रट्टहासं
यं यं यं यक्षरूपं शिरसि कनकजं मौकुटं सन्दधानम् ।
रं रं रं रङ्गरङ्गप्रहसितवदनं पिङ्गल श्यामवर्णं
सं सं सं सिद्धनाथं प्रणमत सततं भैरवं क्षेत्रपालम्) ॥ ८॥
एवं वै भावयुक्तः प्रपठति मनुजो भैरवस्याष्टकं यो
निर्विघ्नं दुःखनाशं भवति भयहरं शाकिनीनां विनाशम् ।
दस्यूनां व्याघ्रसर्पोद्भवजनितभियां जायते सर्वनाशः
सर्वे नश्यन्ति दुष्टा ग्रहगणविषमा लभ्यते चेष्टसिद्धिः ॥ ९ ॥
॥ इति विश्वसारोद्धारे क्षेत्रपालभैरवाष्टकस्तोत्रं सम्पूर्णम् ॥
Variations पाठभेद are placed in parenthesis.
Encoded and proodread by Sunder Hattangari, Ruma Dewan