ऋषि मङ्कणककृतं श्रीमहादेवस्तुतिः
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ १॥
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ २॥
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ॥ ३॥
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ ।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ॥ ४॥
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।
त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ॥ ५॥
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः ।
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ॥ ६॥
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् ।
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ॥ ७॥
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् ।
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ॥ ८॥
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर ।
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ॥ ९॥
प्रपद्ये शरणं शम्भुं सर्वदा सर्वतः स्थितम् ।
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ॥ १०॥
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि
एकोनचत्वारिंशोऽध्याये ऋषि मङ्कणककृतं
श्रीमहादेवस्तुतिः समाप्ता । (९.३९ श्लोकाः ४९-५८)