गायत्रीकृता महेश्वरस्तुतिः

गायत्रीकृता महेश्वरस्तुतिः

नमो नमस्तेऽस्तु महेश तुभ्यं नमो नमस्ते वृषभध्वजाय । नमो नमस्ते गिरिजाधवाय विद्यास्वरूपाय नमो नमस्ते ॥ १॥ नमो नमस्ते परमात्मने नमः स्वर्गापवर्गप्रद भर्ग शम्भो । भवत्पदाम्भोजविलोकनेन सुखाम्बुधिर्मय्यनुवृत्तिमाप ॥ २॥ आपत्कुलं नष्टमनन्तमीश त्वत्पादपद्यार्पितचित्तवृत्तेः । शुभास्पदत्वं समवाप्य शम्भो प्रसन्नचित्तोऽपि भवेन्नरोऽपि ॥ ३॥ अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ ४॥ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ५॥ अव्यक्तरूपं परमात्मतत्त्वं न वेद वेदान्तपरिश्रमेऽपि । ज्ञेयं परन्त्वीश्वरपादपद्मं प्रसाद विज्ञेयमिति प्रमा मे ॥ ६॥ न यत्स्वरूपं तव वेददृष्टं न दृष्टमीशानसुरैरपीदम् । मया परं भाग्यवशेन दृष्टं भाग्यस्य को वा भगवन्नियन्ता ॥ ७॥ यत्पादपद्मस्मरणप्रवृत्ताः कृतान्तवार्तामतिदुःसहां ताम् । विहाय चानन्दजलाब्धिमग्नाः संसारतापैर्न च पीडिताः स्युः ॥ ८॥ महेश्वर श्रीचरणारविन्दं निधाय चित्ताम्बुजकर्णिकायाम् । आनन्दधारावृतसच्छरीरां सुराः प्रपश्यन्ति नरा न धीराः ॥ ९॥ यदि क्षणं वा शिवपादपद्मं हृत्पद्मसंविष्टमतिप्रकृष्टम् । प्रकृष्ट एवातिनिकृष्टजन्माप्युत्कृष्टजन्मा स तु किं पुनः स्यात् ॥ १०॥ स्वर्गापवर्गप्रदमीश्वरं त्वां भजन्ति धन्याः परमन्तरायैः । विना विमुक्ताघपरम्परास्ते समस्तलोकेषु किलास्तिकास्ते ॥ ११॥ अनन्तकल्याणपरम्परासु तिष्ठन्ति ते शङ्करपूजकास्ते । नान्यत् प्रपश्यन्ति कदापि धीराः धीरास्त एवेति विचारिताश्च ॥ १२॥ माय प्रसादोऽपि कृतस्त्वयाऽयं त्वत्पादसन्दर्शनदानरूपः । आनन्दकन्दोऽयमनुक्षणं मे सूते महानन्दनिधानमीश ॥ १३॥ कारुण्यपूर्णाम्बुधिमीश्वर त्वां स्मृत्वाऽपि सन्तोषमहाब्धिपूर्णाः । दृष्ट्वा भवन्तं भगवन्तमीश को वा न तृप्तः तरसा सुखेन ॥ १४॥ अनुक्षणं तस्य शुभानि शम्भो सुखानि सम्पज्जलराशयोऽपि । यस्यानपाया त्वयि भक्तिरीश सा तावदत्यन्तसुदुर्लभा न ॥ १५॥ येनाप्रमादेन कृतोऽस्ति धर्मो महेश पादार्चनरूप एव । तस्यैव तद्भक्तिशुभप्रवाहः न दुर्लभं किं नु सतामधीश ॥ १६॥ शम्भो यथा भर्गपदप्रवेशो मन्त्रे मदीयेऽपि तथा प्रसादः । भवत्वयं मे भगवन् वरोऽस्य वरत्वमित्येव मतिर्ममास्तु ॥ १७॥ ॥ इति शिवरहस्यान्तर्गते गायत्रीकृता महेश्वरस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। ५७-७३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 57-73 .. Proofread by Ruma Dewan
% Text title            : Gayatrikrita Maheshvara Stuti
% File name             : maheshvarastutiHgAyatrIkRRitA.itx
% itxtitle              : maheshvarastutiH gAyatrIkRitA (shivarahasyAntargatA)
% engtitle              : maheshvarastutiH gAyatrIkRitA
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 2| 57-73 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org