गायत्रीकृता महेश्वरस्तुतिः
नमो नमस्तेऽस्तु महेश तुभ्यं नमो नमस्ते वृषभध्वजाय ।
नमो नमस्ते गिरिजाधवाय विद्यास्वरूपाय नमो नमस्ते ॥ १॥
नमो नमस्ते परमात्मने नमः स्वर्गापवर्गप्रद भर्ग शम्भो ।
भवत्पदाम्भोजविलोकनेन सुखाम्बुधिर्मय्यनुवृत्तिमाप ॥ २॥
आपत्कुलं नष्टमनन्तमीश त्वत्पादपद्यार्पितचित्तवृत्तेः ।
शुभास्पदत्वं समवाप्य शम्भो प्रसन्नचित्तोऽपि भवेन्नरोऽपि ॥ ३॥
अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ ४॥
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ५॥
अव्यक्तरूपं परमात्मतत्त्वं न वेद वेदान्तपरिश्रमेऽपि ।
ज्ञेयं परन्त्वीश्वरपादपद्मं प्रसाद विज्ञेयमिति प्रमा मे ॥ ६॥
न यत्स्वरूपं तव वेददृष्टं न दृष्टमीशानसुरैरपीदम् ।
मया परं भाग्यवशेन दृष्टं भाग्यस्य को वा भगवन्नियन्ता ॥ ७॥
यत्पादपद्मस्मरणप्रवृत्ताः कृतान्तवार्तामतिदुःसहां ताम् ।
विहाय चानन्दजलाब्धिमग्नाः संसारतापैर्न च पीडिताः स्युः ॥ ८॥
महेश्वर श्रीचरणारविन्दं निधाय चित्ताम्बुजकर्णिकायाम् ।
आनन्दधारावृतसच्छरीरां सुराः प्रपश्यन्ति नरा न धीराः ॥ ९॥
यदि क्षणं वा शिवपादपद्मं हृत्पद्मसंविष्टमतिप्रकृष्टम् ।
प्रकृष्ट एवातिनिकृष्टजन्माप्युत्कृष्टजन्मा स तु किं पुनः स्यात् ॥ १०॥
स्वर्गापवर्गप्रदमीश्वरं त्वां भजन्ति धन्याः परमन्तरायैः ।
विना विमुक्ताघपरम्परास्ते समस्तलोकेषु किलास्तिकास्ते ॥ ११॥
अनन्तकल्याणपरम्परासु तिष्ठन्ति ते शङ्करपूजकास्ते ।
नान्यत् प्रपश्यन्ति कदापि धीराः धीरास्त एवेति विचारिताश्च ॥ १२॥
माय प्रसादोऽपि कृतस्त्वयाऽयं त्वत्पादसन्दर्शनदानरूपः ।
आनन्दकन्दोऽयमनुक्षणं मे सूते महानन्दनिधानमीश ॥ १३॥
कारुण्यपूर्णाम्बुधिमीश्वर त्वां स्मृत्वाऽपि सन्तोषमहाब्धिपूर्णाः ।
दृष्ट्वा भवन्तं भगवन्तमीश को वा न तृप्तः तरसा सुखेन ॥ १४॥
अनुक्षणं तस्य शुभानि शम्भो सुखानि सम्पज्जलराशयोऽपि ।
यस्यानपाया त्वयि भक्तिरीश सा तावदत्यन्तसुदुर्लभा न ॥ १५॥
येनाप्रमादेन कृतोऽस्ति धर्मो महेश पादार्चनरूप एव ।
तस्यैव तद्भक्तिशुभप्रवाहः न दुर्लभं किं नु सतामधीश ॥ १६॥
शम्भो यथा भर्गपदप्रवेशो मन्त्रे मदीयेऽपि तथा प्रसादः ।
भवत्वयं मे भगवन् वरोऽस्य वरत्वमित्येव मतिर्ममास्तु ॥ १७॥
॥ इति शिवरहस्यान्तर्गते गायत्रीकृता महेश्वरस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। ५७-७३ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 57-73 ..
Proofread by Ruma Dewan