नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः
नारदः -
हर हर पुरहर भवाब्धिपार स्मरहर शङ्कर तार्य पार्य वार्य ।
गरकन्धर भूधरोरुमाल धृतशूलावृतकाल बालपाल ॥ २२॥
शशिखण्डशिखण्डमण्डने विधिमुण्डामलहस्तमण्डले ।
धृतनागसुकुण्डलोरुगण्डे त्वयि चेतो विदधामि शङ्करे ॥ २३॥
साङ्गोपनिषदो वेदास्तदा तुष्टुवुरीश्वरम् ।
ऋग्वेदः -
सकलामरतुल्यमेकमीशं भगवन्तं मनुते विमूढचेताः ।
वदतीयं श्रुतिरीश बह्वृचानां मात्वरुद्रवचोगणैर्महेश ॥ २४॥
भवरोगहरौषधप्रधाने भिषजां नायक इत्यपि श्रुतिः ।
परमंहो गिरिरूपिणोऽपि ये वै भगवंस्त्वं हि जलाषभेषजः ॥ २५॥
यजुर्वेदः -
संसारघोरजनितां रुजमाशु चेश सद्यो विनाशय महेश कृपाम्बुराशे ।
त्वां रुद्रमाहुरखिलागमतत्वसाराः धीरास्त्वदीयचतुरा विनिवृत्तमाराः ॥ २६॥
सत्वानस्तव हे महेश्वर महादेवेति नामामृतैः (स्तुत्वानस्तव)
लोकं शोकभयाग्निदग्धतृणकं सिञ्चन्ति वर्षन्ति च ।
तेभ्यश्चाकरवं प्रणाममधुना वेदोऽपि वक्ति स्वयं
त्वद्भक्तेष्व खिलेषु पाहि दयया विश्वेश सर्वस्वया ॥ २७॥
सामवेदः -
त्वं सामस्तोमभूमा मदुदितनमसां पात्रमीशस्त्वमाद्यो
वैद्यः सर्वैरभेद्यस्त्वधिपतिरिति यत्क्षेत्रमित्रादिवाक्यैः ।
अन्नानां पतिरेक एव धनपस्त्वां स्तोभगानात्मकैः
गीतैर्गायति गानलोल भगवन् सामश्रुतिः शङ्करम् ॥ २८॥
शम्भो शाक्वररैवतैश्च भगवन् वैराजमाहेन्द्रकैः
रौद्रैर्देवव्रताद्यैः प्रतिपदनमसां राशिभिः स्तोभगुम्भैः ।
त्वां स्तव्यं स्तुवते महेश्वर सदा सामश्रुतीनां गणो
राजद्राजनहिकृतेः प्रतिपदैराद्यन्तरैर्भूस्कृतैः ॥ २९॥
अथर्वणः -
यो वै रुद्रेति मन्त्रैः प्रतिपदनमसां राशिभिस्त्वामतर्क्य
तर्कादीनामगम्यं प्रणवपदहितं सूक्ष्मबुद्धयादि पश्यन् ।
पश्यन्त्येते यमितकरणा वाङ्मनो ज्ञानमात्मा
शान्त्या बुद्ध्या प्रसन्नस्त्वमसि हि भगवन्नन्तरायाद्विहीनः ॥ ३०॥
अजातस्त्वं देवः श्रुतिशिखरवर्यैकवचनैः
भवानीशो वक्त्रं तव च भव याम्यं भवपरम् ।
स गच्छेदत्यन्तं जनिमरणनाशाय शरणं
शरण्यं शम्भुं त्वां शरणद वरेण्यं प्रभुमहो ॥ ३१॥
ओङ्कारवषट्कारौ -
देवस्त्वं नमसां पतिः श्रुतिशतैर्भीत्या नमोन्तैः पदैः
आद्यन्तोपरिधारयद्भवहरापारार्थसंसूचकम् ।
स्तोमं वो छाद्यरुद्रैः श्रुतिपदतिलकैः बह्वृचैस्तैत्तिरीयैः (स्तोमं चोच्चाररुद्रैः)
साम्नां देवव्रतानामखिलशिवतरो रत्नभूतस्त्वमीशः ॥ ३२॥
स्वामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपयं (गां) ति ।
अध्वर्यवः कल्पयन्ते च भागं सोमात्मकं चाध्वरेश प्रसीद ॥ ३३॥
अपर्णारमणं दृष्ट्वा सुपर्णगतिरुत्तमम् प्राञ्जलिः ।
श्रीमहेशानं तुष्टाव प्रणतस्तदा ॥ ३४॥
विष्णुः -
सोमस्त्वं जनिता जगञ्जनयिता विष्णोस्तथा ब्रह्मणः
सुत्राम्णः पवनस्य वह्निजनकः पृथ्वीदिवोः शीतगोः ।
अर्यम्णो जनकम्त्वमेव भगवन् देवासुराणां पुनः
विश्वं त्वद्भवमेव सर्वमधुना वेदोऽपि वक्ति स्वयम् ॥ ३५॥
अग्नीषोममयं जगच्छ्रुतिगणैः सर्वत्र सम्पूज्यते
तस्मात्सर्वजगद्गतं च भगवन् वह्निश्च सोमात्मकम् ।
रुद्रो वा एष चाग्निः श्रुतिपदशतकैर्नाथ एकस्त्वमीड्यः
सोमश्चोमामहेश प्रकृतिपुरुषजं विश्वमेतद्विचित्रम् ॥ ३६॥
हंसमन्त्नाक्षरगतं हंसवाहो महेश्वरम् ।
प्राञ्जली रुद्रमन्त्रैश्च तुष्टाव जगदीश्वरम् ॥ ३७॥
ब्रह्मा -
अरुणतरणिसंस्थं ताम्रमाशास्य मीशं
नीलग्रीवमुदारदिक्षु सततं रुद्रः सदासंवृतम् ।
ज्योक् पश्येम सुचक्षुषा सुललितं विश्वेशमत्यादरात्
आगोपालघटोदचेटिभिरहो दृश्यं सदा योगिभिः ॥ ३८॥
बभ्रुर्बभ्रुश इत्यपि श्रुतिशतैरुच्चैस्तवमृद्घुष्य से
क्रूरान् क्रन्दयसे रिपून् पृतनया पत्रीश जेजीयसे ।
सत्वानस्तव धीवसे सुखयितुं पापं तदीयं पुनः (धावसे)
निश्शेषं सहसे तमीश दयया ज्ञानेन पुष्णासि ताम् ॥ ३९॥
सुकुमारकुमारेण केकिकण्ठैकवाहिना ।
संस्तुतः परमेशानस्तदा प्राञ्जलिना शिवः ॥ ४०॥
स्कन्दः -
त्वत्तो न ओजस्वितरोऽस्ति देवः पतिः पशूनां महिमा प्रतिष्ठः ।
त्वल्लिङ्गसम्पूजनमात्रतुष्टाः स्यामो रयीणां पतयो वयं हि ॥ ४१॥
त्वमात्मन् महात्मन् सुखात्मन् भवघ्नः प्रदोषे स्वदोषैकनाशेऽस्तदोषे ।
त्वदीयं महालिङ्गसङ्गं कदाचित् स मुक्तिं लभेतैव भावो विसङ्गः ॥ ४२॥
नदद्द्विरदवक्त्रेण शुण्डादण्डेन राजता ।
संस्तुतः परमेशानः प्रणतार्तिहरो हरः ॥ ४३॥
गणपतिः -
त्वमुग्रोऽहमव्यग्र एव त्वदीयं पदाब्जं समग्रं मदीयैः फणीन्द्रैः ।
यमोदग्रदुर्ग्राहसङ्ग्राममार्गं न पश्यामि शश्वत् प्रपन्नः प्रपन्नः ॥ ४४॥
सुधामण्डलाखण्डलोच्चण्डतेजः स्फुरन्मेरुकोदण्डपाणेऽखिलाण्डम् ।
त्वदाज्ञावशं दण्डितारातिषण्डं समुच्चण्डमुण्डारिणीश प्रपन्नः ॥ ४५॥
पठच्छ्रीरुद्रसूक्तेन मुनिव्रातेन शङ्करः ।
सुमनोगणवर्षेण जयशब्देन भूरिणा ॥ ४६॥
संस्तुतः परमेशानश्चन्द्रार्धकृतशेखरः ॥ ४७॥
मुनयः -
पुगं मिदं त्वामभितः प्रणोनुमो आषाढमुग्रं सहमानमीशम् ।
जेतारमीशं न कुतोऽपराजितं धनुर्धरं हेतिधरं नताः स्मः ॥ ४८॥
भूरेर्दातारं सत्पतिं रुद्रसूक्तैः स्तोष्यामस्त्वां भावयुक्ता गृणीमः ।
तस्मादस्मान् रक्ष रक्षेश शम्भो ग्रामे ह्यस्मिन्नातुरं नैव भूयात् ॥ ४९॥
देवाः -
भगवंस्तव सुन्दराङ्घ्रिपद्मं पुरुहूतामरवृन्दसन्नुतम् ।
प्रणताः स्म पुनः पुनर्मुदा शमिताशेषदुरन्तदुःखजालम् ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ६। २२-५०॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 6. 22-50..
Notes:
The shlokas numbers are maintained per the referenced source text.
Proofread by Ruma Dewan