मङ्कणकृता १ शिवस्तुतिः
(शिवरहस्यान्तर्गते ईश्वराख्ये)
मङ्कणः
हे शम्भो भगवन्महेश गिरिजाजाने न जाने विभो
त्वत्तत्त्वं शशिसङ्गरञ्जितमहागङ्गातरङ्गोद्यत ।
विद्युत्पुञ्जसमाधिकावृतजटाजूटं निटालेक्षणं
देवं देवशिखामणे गरगलोदारं हरं शङ्करम् ॥ ८॥
मारापारशरातिभीकरकणासारेण संहारिणं
भो भर्ग त्रिजगच्छरण्य चरणाम्भोजप्रभाभावतः ।
भस्मोद्धूलित कामिनीवरधृतार्धाङ्गाङ्गसङ्ग प्रभो
त्वत्तो वेद्मि न चैव देव कुसुरोदारं वरं पामरम् ॥ ९॥
हारं धीरतरं ममैव हृदयं जानासि शम्भोऽधुना
वीक्षाशिक्षितमन्मथान्धकपुरं दक्षादिदीक्षापहम् ।
त्र्यक्षं भिक्षितमौनियोषितमुमाकान्तं क्षपेशाङ्कितं
उक्षाङ्गस्थितमप्रमेयविभवाध्यक्षं हि वीक्षे कदा ॥ १०॥
भक्षीभूतगरं भवार्णवहरं पक्षीन्द्रवाहार्चितम् ॥ ११॥
सोमावतंस वरसामसुगीत शम्भो
निर्धूतकाम गिरिजापरिपूर्णकाम ।
निः सीमभूममहिमन् भगवन्नमस्ते
त्वं व्योमधाम गरिमालधिमासमश्च ॥ १२॥
त्वच्छासनं भसितमेव भवादिरोग-
संशामनं शमनभेदनमेव शम्भो ।
तद्भेषजं भवति भूतिकरं महेश
पारं भवेद्भवसारित्पतितारणाय ॥ १३॥
लिम्पन्निलिम्पपदवीमदवीयसीं वै
यात्येव तद्भसितभालतलो हि (ऽपि) जन्तुः ।
मृत्स्नामलीकतिलकं त्वलिके हि बिभ्र-
त्कृत्स्नं महाघनिचयं स लभेत शम्भो ॥ १४॥
यो नित्यं भसितत्रिपुण्ड्ररहितो हा आहिताग्नावधो
(यो नित्यं भसितत्रिपुण्ड्ररहितो वह्नौ जुहोति द्विजः)
भग्नो यात्यनुवासरं स नितरां नग्नो विभूतिं विना ।
शावास्पृश्यसमं तदीयमधुना देहं हि दाहोपमं
हा हा हन्त भवेत पातककरं त्र्यक्षाधुनाद्रक्षये ॥ १५॥
(हा हा हन्त भवेत पातककरं त्र्यक्षाद्य पश्याम्यहम्) ॥ १५॥
तस्यानुक्षणदुर्मुखाधममुखं दृष्टं च दुःखास्पदं
यात्येवानुदिनं स शावजमहास्पृश्योपमः सूतकी ।
घोरां याति च यातनां यमकृतां निःसीमकामातिगां
तस्योद्धारपरम्परासु न हरिर्वाचां पतिर्नो सुराः ॥ १६॥
भाण्डास्तर्क वितर्ककर्कशधियो भस्मत्रिपुण्ड्रोज्झिता-
स्ते सौर्युद्धतबाहुदण्डविधृतप्रोच्चण्डदण्डाहताः ।
धाराखड्ग निपातनाधममहामुण्डादिषण्डाकुलाः
कोदण्डोरुशराभिघातसुमहादेहा द्रवन्त्यार्तवत् ॥ १७॥
शिवार्चनपरौ करौ शिवविलोकने लोचने
शिवध्वनिपरे श्रुती शिवनमोविनोदं शिरः ।
अहो परमदुर्लभं किमपि भाग्यमस्मादृशां
शिवैकविषयं मनः शिवपतिव्रता भारती ॥ १८॥
॥ इति शिवरहस्यान्तर्गते मङ्कणकृता शिवस्तुतिः १ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ९ देवस्तुतिः । ८-१८॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 9 devastutiH . 8-18..
Proofread by Ruma Dewan