मङ्कणकृता २ शिवस्तुतिः
(शिवरहस्यान्तर्गते ईश्वराख्ये)
मङ्कण उवाच ।
शम्भो भर्ग भवेन्दुशेखर महादेवाव्ययेशान ते
पादद्वन्द्व समर्चनार्जितमहाभक्तिप्रभाभावितः ।
भावोऽहं भव भावभावपरमानन्दाम्बुधौ मग्नधीः
उन्मत्तोत्तमधन्यमान्यपदवीमासादितः सादरम् ॥ १७॥
(हे शम्भो शशिखण्डसुन्दर जटाकाण्डोरु)
मातङ्गत्वगलङ्कृताङ्ग गिरिजादेहार्धसङ्ग प्रभो
हस्ते बालकुरङ्गसङ्ग शशधृग्वह्न्यर्कनेत्रोज्ज्वल ।
लिङ्गस्थाङ्ग महोत्तमाङ्गविलसद्गङ्गामृतांशो भव-
त्पादौ वै शरणं प्रयामि सततं पापौघभङ्गाय मे ॥ १८॥
उग्र भीम भव भर्ग शङ्कर
त्र्यक्ष रक्ष मखभक्ष वीक्ष माम् ।
अन्धकान्तक कृतान्तखण्डन
वेदवेद्य जितमन्मथ पाहि ॥ १९॥
त्वपाद पद्मपरिषेवणयत्नलभ्यं
पुण्यासपत्नामघहारि विशुद्धनूत्नम् ।
हृष्टो विशिष्ट करुणारुण शिष्टमिष्ट-
मोजिष्ठमष्टतनवे करवै नमस्ते ॥ २०॥
वस्तु स्वस्तिदमस्तु मे हृदि सदा वेदोरुमस्तस्तुतं
निस्तोकं वरहस्तशस्त्रलुलितब्रह्मोत्तमाङ्गं परम् ।
शूलत्रस्तसमस्तदैत्यनिकरारम्भेण मातङ्गहृ-
च्छस्तं निस्तुलमाविरस्तु पुरतो ध्वस्ताघसङ्घ परम् ॥ २१॥
अद्राक्ष्म त्र्यक्षपादं फणिघृणियुक् लेख मौल्युत्थरेखा
किणमसृणसुसिद्धं सिद्धसंसिद्धिवन्द्यम् ।
अरुणिमशरणानां लोकलीलाविनोदं
मदमुदितभवानां भावनानाशहेतुम् ॥ २२॥
अयज्महि पुरा जनौ मदवशान्न ते प्रीतये
अयुज्म यदि शाङ्करं तवसुयोगमत्यादरात् ।
अदद्महि महापथप्रतिपदोरुदानैरपि
दधीमहि हृदामुदा तव सरोज पादं सदा ॥ २३॥
अधीमहि सदाघहं सुगममुक्तिमार्गप्रदं
शतश्रुतिशिरोगतं विमलमेवरुद्रं सदा ।
अलेऽपि भसितं सितं विमलमेव पुण्ड्रं सदा
भवेम सततं भवे भव तवैकभावाः सदा ॥ २४॥
अचकृम वरिवस्यां शाङ्गलिङ्गोत्तमाङ्गे
तव सदयकटाक्षैर्मोदमानाः सदैव ।
तव शिव चरणाब्जालोकनेनालमेत-
न्नवरसुरवराणां वारणे कारणं मे ॥ २५॥
॥ इति शिवरहस्यान्तर्गते मङ्कणकृता शिवस्तुतिः २ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः १० मङ्कणस्तुतिः । १७-२५॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 10 ma~NkaNastutiH . 17-25..
Proofread by Ruma Dewan