मन्त्रार्णमुक्तावली
A garland of 24 verses studded as it were with pearls
of Beejakshara of Medha Dakshinamurti moola mantra
ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।
The verses start with letters corresponding to the letters in the mantra in sequence.
ॐकारसन्मणिसमुद्गनिधेय नित्यनीवीमयाय निगमान्तविदां मुनीनाम् ।
आनन्दबोधघनमङ्गलविग्रहाय न्यग्रोधमूलनिलयाय नमःशिवाय ॥ १॥
नक्षत्रनाथपरिपाटलचारुगात्रं मन्दस्मिताञ्चितमुखं स्वसुखालसाक्षम् ।
चिन्मुद्रिकाकलित पुस्तक चिन्हपाणिं पश्याम्यपस्मृतिहरं हरमन्तरङ्गे ॥ २॥
मोक्षाय मुक्तविषयैर्मुनिभिः पुराणैः श्रीदक्षिणाननमुपास्यमपास्य मन्दाः ।
मोहो महानयमहो मुषिता हृषीकैर्यद्देवतान्तरमुपासितुमारभन्ते ॥ ३॥
भव्यो भवस्सरहितादिभवप्रवाहे यस्मिन् पथि त्रयगमागमखेदखिन्नाः ।
दिष्ट्या महापथिक विश्रमदिव्यवृक्षं देवं वटद्रुतटमङ्गलमाश्रयन्ते ॥ ४॥
गम्यं गिरामनिदमादिमसम्भवानामन्तेषु सन्ततसमाधिगतान्तरङ्गैः ।
पारे तमः परचितं परयोगदृष्ट्या दिव्यं वटद्रुतटवासि महः प्रपद्ये ॥ ५॥
वस्तामभावुकभरेरजिनं मृगाणामास्तामनाथवदधो वदभूरुहस्य ।
आलम्बतामपि चिताभसिताङ्गरागमन्तस्तमेव शरणं मरणेऽपि कुर्वे ॥ ६॥
ते ते समस्त जगतामभिलोभनीया भावा भवन्तु हृदि मे चिरमाविरावीः ।
तेजस्तदेव परमाश्रितवृक्षमूलमालम्बते हृदयमादृतयोधमुद्रम् ॥ ७॥
दत्ते स्वयं सघनदत्वमुदारभोगं वागीश्वरत्वमपि वाञ्छितमोक्षलक्ष्मीम् ।
यस्य स्मृतौ सकृदपस्मृतिहारि तेजो जागर्ति हृत्तिमिरमण्डलचण्डभानुः ॥ ८॥
क्षिप्रं क्षिणोतु दुरितं मम दक्षिणास्यं क्षीणाघतापसपचेलिमभागधेयम् ।
ज्योतिर्यदान्तरतमं वटवृक्षमूले क्षेमाय दीक्षितमुदीक्षितमात्तपुण्यैः ॥ ९॥
णाविष्टवत्प्रकृतिकार्यमिति ब्रुवाणा यन्नामवर्णगुणगन्ध्यपि पाणिनीयाः ।
विद्याविशारदगणेषु गणेयरूपास्तं दक्षिणाननगुरुं गुणयामि चित्ते ॥ १०॥
मूर्च्छाकुलस्य मुहुरेव भवाधिदावज्वालावलीसमवलीढसुधी कुलस्य ।
आर्तेरपाकरणमाश्वसनीयमास्ते मूर्तं महः किमपि मूलतटे वटद्रोः ॥ ११॥
तप्तं तपः परमतीतभवान्तरेषु दत्तं च वित्तमभिगम्य महत्तमेभ्यः ।
आराधिता गुरुजना यदधो वटद्रोरीक्षे महः किमपि मङ्गलदायि साक्षात् ॥ १२॥
ये केचिदाजनिजडा अपि चैडमूका मूकाश्च केवलममी यमनुस्मरन्तः ।
चूडापदेषु विदुषामपि वावदूका दीव्यन्ति दिव्यगुरुदेशिकमेनमीडे ॥ १३॥
मन्दाक्षमन्थरदृशा शिवयासिताङ्कं मन्दाकिनीपृषतमञ्जुजटाकलापम् ।
चिन्मुद्रिकाक्षगुणपुस्तककुण्डिकाढ्यं श्रीदक्षिणाभिमुखमादिगुरुं भजामः ॥ १४॥
ह्यन्ते वसन्ति मुनयो हितदेशनार्था मौनं विभर्ति मुहुरादिमदेशिकोऽपि ।
पश्यन्त्यथापि परतत्वममुन्तु मन्ये साक्षात्कृते नहि भवत्युपदेशकाङ्क्षा ॥ १५।
मेधाविनोऽपि वसु मे वसनादिकं मे क्षेत्राणि मे क्षितिरियं सकलैव वेति ।
मे मे गिराजसमजोपमिता वटद्रुवास्तव्यवस्तुविवशा मम शोचनीयाः ॥ १६॥
धाम्ना कदापि हृदयं सदयन्तु तस्मिन् धातास्तु वा शतमखो धनदो गुरुर्वा ।
आराध्यमादिगुरुमादरते वटद्रुमूलालयं यदि न मूढमतिर्नमस्यन् ॥ १७॥
प्रत्यक्षमाकलयत प्रतिभां पुरस्तादस्ताधिभिर्मुनिभिरन्तरुपासनीयाम् ।
छायामयन्तिमिरमच्छतनुप्रकाशैरातन्वतीं वटतरोस्तरुतानुमेयाम् ॥ १८॥
ज्ञान्तानि कार्यकरणानि विविच्य विज्ञैर्यज्ज्ञानयोगनिरतैर्यतिभिर्विचेयम् ।
ज्योतिः परं किमपि तद्वटवृक्षमूले वीक्षध्वमक्षिजडिमक्षिपमात्तदेहम् ॥ १९॥
प्रत्यर्चनीयकुशला मम ते शुकाद्याश्शाखासु येऽपि बहुपादुरुपादपस्य ।
चाचंयमं कमपि वासितबोधमुद्रमासाद्य सत्सदसि देशिकतां भजन्ते ॥ २०॥
यत्सम्भवो यमवतामुचितान्ववाये यच्चापि सद्गुरुपदाब्जपरागसेवा ।
यच्चाप्यपस्मृतिहरस्य हरस्य विद्या सर्वं तदन्यभवसञ्चितभागधेयम् ॥ २१॥
छन्दो ममेति बहुपादपि सम्भवेयं यो दक्षिणाननगुरोरुपसंश्रयेण ।
मौनावलम्बमतिलम्बिजटाकलापमासेवितं शुकमुखैरुपयामि साम्यम् ॥ २२॥
स्वाराज्यमस्तु दिवि वा दिविषन्निषेव्यं याम्या भवन्तु निरये मम यातना वा ।
क्रव्यादभव्यमपि वा विपिने मृगत्वं स्मेराननं यदि मनः स्मरति स्मरारिम् ॥ २३॥
हा हान्त पश्यत समेत वटद्रुमूले मोहं नुदत्किमपि वस्तु मुनीन्द्रगुह्यम् ।
चक्षुः शुचं प्रशमयच्चरणाभिभूतापस्मारमस्ति बहुविस्मयनीयशीलम् ॥ २४॥
ओङ्कारध्वनिवासनामुपनिषद्द्योसल्लतावल्लरीं
हार्दव्योमसमुद्यदिन्दुकलिकामन्तर्निशाहर्दशाम् ।
न्यग्रोधद्रुममूलनित्यनिलयामेकामनाकालिकी-
मच्छाभां प्रतिभां विभावयत तामन्तर्दृगुद्दीपिनीम् ॥ २५॥
इत्येषा विहिता विमोक्षपदवीदीक्षागुरोर्दक्षिणा-
मूर्तेरार्तजनावनव्यसनिनो मन्त्रार्णमुक्तावली ।
आकल्पं सुधियामनल्पसुषुमा कण्ठेषु कल्प्या सदा
विद्यामुक्तिवधूस्वयंवरविधौ माङ्गल्यमालायिता ॥ २६॥
श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना ।
कृष्णानन्देन मन्त्रार्णमुक्तावलिरियं कृता ॥ २७॥
इति मन्त्रार्णमुक्तावली समाप्ता ॥
Proofread by Rajesh Thyagarajan