मौद्गल्यमुनिप्रोक्तं शिवलिङ्गस्वरूपोपदेशम्

मौद्गल्यमुनिप्रोक्तं शिवलिङ्गस्वरूपोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) मौद्गल्य उवाच लिङ्गरूपी महादेवः शिवलिङ्गे समर्चितः । ददाति महदैश्वर्यं मोक्षं चान्ते द्विजोत्तमाः ॥ ४८७॥ नानाविधानि लिङ्गानि तान्युच्यन्ते मयाधुना । गोमेदकाख्यमस्त्येकं लिङ्गं शङ्करसम्मतम् ॥ ४८८॥ वैद्रुमं लिङ्गमस्त्येकं पद्मरागमयं तथा । वज्रवैडूर्यलिङ्गानि तथा धातुमयानि च ॥ ४८९॥ काश्मीरलिङ्गमस्त्येकं स्फाटिकं लिङ्गमस्ति च । अन्नलिङ्गं धान्यलिङ्गं लिङ्गं गोमयनिर्मितम् ॥ ४९०॥ लावणं लिङ्गमस्त्येकं फलदारुमयं तथा । भस्मना रचितं लिङ्गं मृन्मयं लिङ्गमस्ति च ॥ ४९१॥ नर्मदाजलसम्भूतं लिङ्गमेकं मुनीश्वराः । शिलाजन्यं रसोत्पन्नं लिङ्गं जाबालचोदितम् ॥ ४९२॥ लिङ्गेष्वेतेषु सर्वेषु लिङ्गत्रयमनुत्तमम् । तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः ॥ ४९३॥ मृद्बाणरसलिङ्गानि श्रेष्ठान्येतेषु वस्तुतः । त्रिष्वाद्याद्बाणमुत्कृष्टं रसलिङ्गं ततोऽधिकम् ॥ ४९४॥ विद्युद्गोमुखवत्कार्यं मृन्मयं लिङ्गमुत्तमम् । एवमन्यानि लिङ्गानि कर्तव्यानि मनीषिभिः ॥ ४९५॥ वक्षयेऽहं बाणलिङ्गस्य लक्षणं श्रुतिचोदितम् । बाणलिङ्ग श्रुतिप्रोक्तं तल्लक्षणमपि द्विजाः ॥ ४९६॥ त्रिपञ्चसप्तधा यत्तु तुलातुलितमास्तिकाः । न याति समतां तत्तु बाणलिङ्गमिति श्रुतम् ॥ ४९७॥ सपीठमस्त्वपीठं वा बाणलिङ्गं शिवात्मकम् । पूजनीयं प्रयत्नेन भुक्तिमुक्तिफलेप्सुभिः ॥ ४९८॥ न प्रतिष्ठाद्यपेक्षापि बाणलिङ्गस्य वस्तुतः । यतः कुतश्चिदानीय बाणलिङ्गं प्रपूजयेत् ॥ ४९९॥ नर्मदे नर्मदालिङ्गे निवसाम्यहमन्वहम् । सन्देहं मा कुरुष्वेति प्राह शम्भुर्यतः पुरा ॥ ५००॥ शिवलिङ्ग सहस्राणां पूजया यत्फलं लभेत् (भवेत्) । ततः शतगुणं पुण्यं रत्नलिङ्गस्य पूजनं(नात्) ॥ ५०१॥ गोमेदकानि लिङ्गानि रत्नलिङ्गानि सुव्रताः । रत्नलिङ्गसहस्राणां पूजया यत्फलं लभेत् (भवेत्) ॥ ५०२॥ ततः शतगुणं पुण्यं धातुलिङ्गस्य पुजने । धातुलिङ्गेष्वपि श्रेष्ठं हेमलिङ्गं श्रुतिश्रुतम् ॥ ५०३॥ तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः । धातुलिङ्ग सहस्राणां पूजया यत्फलं भवेत् ॥ ५०४॥ ततः शतगुणं पुण्यं मृत्तिकालिङ्ग पूजने । मृल्लिङ्गानां सहस्रस्य पूजया यत्फलं लभेत् (भवेत्) ॥ ५०५॥ ततः शतगुणं पुण्यं बाणलिङ्गस्य पूजने । अनन्तबाणलिङ्गानां पूजया यत्फलं भवेत् (लभेत्) ॥ ५०६॥ ततोऽनन्तगुणं पुण्यं रसलिङ्गस्य पूजणे । रसलिङ्गसमंलिङ्गं नास्ति न श्रूयतेऽपि च ॥ ५०७॥ रसलिङ्गे शिवः साक्षात्सच्चिदानन्दलक्षणः । रसलिङ्गस्य माहात्म्यं जानाति भगवाञ्छिवः ॥ ५०८॥ तदन्ये न विजानन्ति सत्यं सत्यं न संशयः । न बहवो मुनयः पूर्वं रसलिङ्गार्चनाद्द्विजाः ॥ ५०९॥ मोक्षं प्रापुरनायासाद्विना यागादिकर्मभिः । शिवास्वयमुमाकान्तं रसलिङ्गस्वरूपिणम् ॥ ५१०॥ पूजयामास तेनैव प्रसन्नोऽभून्महेश्वरः । रसः साक्षान्महादेवो ``रसो वै सः'' इति श्रुतः ॥ ५११॥ अतोरसात्मकं लिङ्गं जाबाले बहुधा श्रुतम् । रसः सृष्टोमहेशेन भक्तानुग्रहकाङ्क्षया ॥ ५१२॥ तत्कृतं लिङ्गमुत्कृष्टं सर्वाभीष्टफलप्रदम् । यं यं कामयते कामं रसलिङ्स्य पूजया ॥ ५१३॥ तं तमाप्नोति विप्रेन्द्राः सत्यं सत्यं न संशयः । सर्वलिङ्गोत्तमं पुण्यं रसलिङ्गमनुत्तमम् ॥ ५१४॥ ततस्तत्पूजया शम्भुः साक्षात्सम्पूजितो भवेत् । रसलिङ्गार्चनं श्रेष्ठं सर्वलिङ्गार्चनादपि ॥ ५१५॥ ततस्तदेव यत्नेन पूजनीयं मनीषिभिः । रसलिङ्गं यदि भवेत्पूजनीयं तदन्वहम् ॥ ५१६॥ तदभावे पूजनीयं बाणलिङ्गं प्रयत्नतः । बाणलिङ्गं यदि गृहे न भविष्यति सर्वथा ॥ ५१७॥ पूजनीयं प्रयत्नेन मृत्तिकालिङ्गमास्तिकैः । तदभावे पूजनीयं धातुलिङ्गं प्रयत्नतः ॥ ५१८॥ काश्मीरलिङ्गमभ्यर्च्यं तदभावे प्रयत्नतः । तदभावे पूजनीयं शिलालिङ्गं प्रयत्नतः ॥ ५१९॥ तदभावे पूजनीयं दारुलिङ्गं प्रयत्नतः । तदभावे पूजनीयमन्नलिङ्गं प्रयत्नतः ॥ ५२०॥ तदभावे तु भूत्यादिलिङ्गान्यर्च्यानि यत्नतः । यादृशं तादृशं वाऽस्तु शिवलिङ्गं शिवात्मकम् ॥ ५२१॥ पूजनीयं प्रयत्नेन द्विशैर्वेदोक्तमार्गतः । शैवः पञ्चाक्षरो मन्त्रो यः सर्वश्रुति श्रुतः ॥ ५२२॥ तेनैव मन्त्रराजेन पूजनीयो महेश्वरः । श्रीमत्पञ्चाक्षरेणैव पूजितः श्रामहेश्वरः ॥ ५२३॥ ददाति परमामृद्धिं मोक्षं चान्ते न संशयः । श्रीमहादेवमाराध्य लिङ्गरूपिणमव्ययम् ॥ ५२४॥ पञ्चाक्षरेण सम्पूज्य मुक्ताः पूर्वमनन्तशः । श्रौतेत मनुनाकार्यं श्रौत लिङ्गार्चन द्विजाः ॥ ५२५॥ श्रौतोमनुर्मन्त्रराजः शैवः पञ्चाक्षरः स्मृतः । वैदिकैर्यत्नतः कार्यं वैदिकं लिङ्गपूजनम् ॥ ५२६॥ अन्यथा रौरवं याति यावदाचन्द्रतारकम् । लिङ्गपूजैव कर्तव्या वैदिकैर्वेदवादिभिः ॥ ५२७॥ शिवलिङ्गान्यपूजायां वैदिका नाधिकारिणः । द्विजाः कलौकरिष्यन्ति शिवलिङ्गान्यपूजनम् ॥ ५२८॥ ते रौरवं प्रयास्यन्ति सत्यं सत्यं न संशयः । यावन्न कलिरायाति तावद्यूयं प्रयत्नतः ॥ ५२९॥ शिवलिङ्गार्चनं कृत्वा लभध्वं मुक्तिमास्तिकाः । श्रौतं शिवार्चनं यस्मात्कर्तव्यं मुक्तिकाङ्क्षिभिः ॥ ५३०॥ श्रौतलिङ्गार्चनत्यागे पतन्ति नरके ध्रुवम । चरलिङ्गानि पूज्यानि स्थावरान्यपि यत्नतः ॥ ५३१॥ त्रिकालं स्थावरं लिङ्गं पूजनीयं प्रयत्नतः । कृत्वा स्थावरलिङ्गार्चां चरलिङ्गार्चनं विना ॥ ५३२॥ भोक्तव्यं स्थावरार्चां तु विना भुञ्जीत न द्विजाः । स्थावरं लिङ्गमभ्यर्च्य स्पृष्ट्वा च प्रत्यहं द्विजैः ॥ ५३३॥ भोक्तव्यमन्यथा याति नरकं सूतकं विना । न यत्र स्थावरंलिङ्गं यत्र स्थातव्यमेव च ॥ ५३४॥ यतः स्थावरलिङ्गस्य पूजा नित्यं द्विजन्मनाम् । सर्वथा स्थावरं लिङ्गं यदि न स्यात्तदा द्विजैः ॥ ५३५॥ चरलिङ्गमुपस्पृश्य जप्यो रुद्रोऽष्टधा द्विजैः । अथवा नार्मदं लिङ्गमनुलिप्तेऽवनीतले ॥ ५३६॥ स्थापयित्वा पूजनीयं शैवेन मनुना द्विजैः । पूजान्ते तत्पुनर्ग्राह्य नार्मदं लिङ्गमास्तिकैः ॥ ५३७॥ नीत्वान्यत्रापि संस्थाप्य पूजनीयं पुनः पुनः । यदि नार्मदलिङ्गस्याप्यभावः स्यात्तदा द्विजैः ॥ ५३८॥ सम्पूज्यं पार्थिव लिङ्गं स्थापयित्वाऽवनीतले । मृल्लिङ्गार्चनमात्रेण स्थावरं लिङ्गमर्चितम् ॥ ५३९॥ स्थावरत्वं च मृल्लिङ्गे स्थावरत्वस्य कल्पनात् । सद्योजातादिभिर्मन्त्रैः स्थापयित्वा स्थिरोभव ॥ ५४०॥ गृहाण पूजामिति च स्थावरत्वं च कल्पयेत् । नित्यं बिल्वदलैः कार्यं भस्मना च शिवार्चनम् ॥ ५४१॥ धूपदीपादिक सर्वं कल्पनीयं स्वशक्तितः । शिवलिङ्गार्चनं पुण्यं भुक्तिदं मुक्तिदं सदा ॥ ५४२॥ काशीप्राप्तिकरं चैतत्किं निर्वाणं न यच्छति । शिवलिङ्गार्चनाद्विप्राः काशीतत्वं च बुध्यते ॥ ५४३॥ तादृशं तद्भक्तिदं च मुक्तिदं च भविष्यति । ५४४.१ ॥ इति शिवरहस्यान्तर्गते मौद्गल्यमुनिप्रोक्तं शिवलिङ्गस्वरूपोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ४८७-५४४.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 487-544.1.. Notes: Maudgalya Muni मौद्गल्य मुनि delivers Upadeśa उपदेश about worshiping Śivaliṅga-s शिवलिङ्गानि made of various materials including Gomedakaliṅga गोमेदकलिङ्ग, Vaidrumaliṅga वैद्रुमलिङ्ग, Kāśmīraliṅga काश्मीरलिङ्ग, Sphaṭikaliṅga स्फटिकलिङ्ग, Annaliṅga अन्नलिङ्ग, Dhānyaliṅga धान्यलिङ्ग, Gomayaliṅga गोमयलिङ्ग, Lāvaṇaliṅga लावणलिङ्ग, Phaladārumayaliṅga फलदारुमयलिङ्ग, Bhasmanāracitaliṅga भस्मनारचितलिङ्ग, Mṛnmayaliṅga/Mṛlliṅga मृल्लिङ्ग/मृन्मयलिङ्ग, Rasaliṅga रसलिङ्ग, Nārmadaliṇga/Bāṇaliṅga नार्मदलिङ्ग/बाणलिङ्ग. He also specifies regarding worship of Sthāvaraliṅga/Sthiraliṅga स्थावरलिङ्ग/स्थिरलिङ्ग and Caraliṅga चरलिङ्ग. Proofread by Ruma Dewan
% Text title            : Maudgalyamuniproktam Shivalingasvarupopadesham
% File name             : maudgalyamuniproktaMshivalingasvarUpopadesham.itx
% itxtitle              : shivaliNgasvarUpopadesham maudgalyamuniproktaM (shivarahasyAntargatam)
% engtitle              : maudgalyamuniproktaM shivalingasvarUpopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | 487-544.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org