मुनिभिः कृतं ४ शिवस्तोत्रम्
(मुनय ऊचुः)
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम् ॥ ६६॥
नमो भवाय भव्याय भावनायोद्भवाय च ।
अनन्तबलवीर्याय भूतानां पतये नमः ॥ ६७॥
संहर्त्रे कपिशाङ्गाय अव्ययाय व्ययाय च ।
गङ्गा सलिलधाराय चाधाराय गुणात्मने ॥ ६८॥
त्र्यम्बकाय त्रिनेत्राय त्रिशूलवरधारिणे ।
कन्दर्पाय नमस्तुभ्यं नमोऽस्तु परमात्मने ॥ ६९॥
शङ्कराय वृषाङ्काय गणानां पतये नमः ।
दण्डहस्ताय कालाय पाशहस्ताय वै नमः ॥ ७०॥
वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ।
भूतं भव्यं भविष्यच्च स्थावरं जङ्गमं च यत् ॥ ७१॥
तव देहात्समुत्पन्नं देव सर्वमिदं जगत् ।
शम्भो पाहि च भद्रं ते प्रसीद भगवंस्ततः ॥ ७२॥
अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेव कुरुते योगमायया ॥ ७३॥
एवं स्तुत्वा तु मुनयः प्रहृष्टेनान्तरात्मना ।
याचन्ते तपसा युक्ताः पश्यामस्त्वां यथा पुरा ॥ ७४॥
प्रकृतिस्थं च ते लिङ्गं तथैवास्तु यथा पुरा ।
नमो दिग्वाससे नित्यं किङ्किणीजालमालिने ॥ ७५॥
विकटाय करालाय करालवदनाय च ।
अरूपाय सुरूपाय विश्वरूपाय ते नमः ॥ ७६॥
कटङ्कटाय रूद्राय स्वाहाकाराय वै नमः ।
सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः ॥ ७७॥
दुर्गन्धाय सुगन्धाय शूलहस्ताय वै नमः ।
स्वयं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ।
नीलकण्ठाय देवाय चिताभस्माङ्गरागिणे ॥ ७८॥
गुणत्रयात्मने तुभ्यं नमो विश्वाय वेधसे ।
श्मशानवासिने नित्यं प्रेतरूपाय वै नमः ॥ ७९॥
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।
आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ॥ ८०॥
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ।
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ ८१॥
ॐ करः सर्ववेदानां ज्येष्ठसाम च सामसु ।
आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः ॥ ८२॥
ग्राम्याणामृषभश्चापि भगवाँल्लोकपूजितः ।
सर्वथा वर्त्तमानोऽपि यो यो भावो भविष्यति ॥ ८३॥
त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा ।
कामः क्रोधश्च लोभश्च विषादो मद एव च ॥ ८४॥
एतदिच्छाम वै रोद्धुं प्रसीद परमेश्वर ।
महासंहरणे प्राप्ते त्वया देव कृतात्मना ॥ ८५॥
करं ललाटे सम्पीड्य वह्निरुत्पादितस्त्वया ।
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ॥ ८६॥
तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ।
यानि चान्यानिभूतानि स्थावराणि चराणि च ॥ ८७॥
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वाह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ ८८॥
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ।
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ ८९॥
आज्ञापय वयं नाथ कर्त्तारो वचनं तव ।
रूपकोटिसहस्रेषु रूपकोटिशतेषु च ॥ ९०॥
इति ब्रह्माण्डपुराणे पूर्वभागे सप्तविंशाध्यायान्तर्गतं
मुनिभिः कृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्माण्डपुराण । अनुषङ्ग । अध्याय २७/६७-९०॥
brahmANDapurANa . anuShanga . adhyAya 27/67-90..
Proofread by PSA Easwaran