मुनिभिः कृतं ५ शिवस्तोत्रम्
(ब्रह्मादय ऊचुः)
ब्रह्मादीनां च देवानां दुर्विज्ञेयानि ते हर ।
अगतिं ते न जानीमो गतिं नैव च नैव च ॥ ३५॥
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम् ॥ ३६॥
नमो भवाय भव्याय भावनायोद्भवाय च ।
अनन्तबलवीर्याय भूतानां पतये नमः ॥ ३७॥
संहर्त्रे च पिशङ्गाय अव्ययाय व्ययाय च ।
गङ्गासलिलधाराय आधाराय गुणात्मने ॥ ३८॥
त्र्यम्बकाय त्रिनेत्राय त्रिशूलवरधारिणे ।
कन्दर्पाय हुताशाय नमोऽस्तु परमात्मने ॥ ३९॥
शङ्कराय वृषाङ्काय गणानां पतये नमः ।
दण्डहस्ताय कालाय पाशहस्ताय वै नमः ॥ ४०॥
वेदमन्त्रप्रधानाय शतजिह्वाय वै नमः ।
भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत् ॥ ४१॥
तव देहात्समुत्पन्नं देव सर्वमिदं जगत् ।
पासि हंसि च भद्रं ते प्रसीद भगवंस्ततः ॥ ४२॥
अज्ञानाद्यदि विज्ञानाद्यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेव कुरुते योगमायया ॥ ४३॥
एवं स्तुत्वा तु मुनयः प्रहृष्टैरन्तरात्मभिः ।
याचन्त तपसा युक्ताः पश्यामस्त्वां यथापुरा ॥ ४४॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकत्रिंशाध्यायान्तर्गतं
मुनिभिः कृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ३१/३६-४३॥
lingapurANa . pUrvabhAga . adhyAya 31/36-43..
Proofread by PSA Easwaran