नागैः कृता केदारेशमहेश्वरस्तुतिः
(शिवरहस्यान्तर्गते भीमाख्ये)
नागा ऊचुः ।
पाह्यब्जमित्रनयनामलभूतिगात्र
रुद्र त्रिणेत्र गिरिराजसुताकलत्र ।
पात्रं विचित्रतरमेतदहो पवित्र-
सत्रातिरात्रमखतर्पित लोकयाशु ॥ ४॥
श्रीव्योमकेश सकलेश महेश शम्भो
कोशावकाश शशिशेखर शङ्करेश ।
देवेश खण्डपरशो पशुपाशनाश
पाहीश मामकधिया तव पादभक्तान् ॥ ५॥
तं भर्गसर्गकरणाव्यय दीनवर्गं
सन्तारयार्गलपदान्परिमोचयाशु ।
दूर्वादलार्चितपद त्रिदशारिगर्व-
निर्वापणार्णववसाम्बुजनेत्रपूज्य ॥ ६॥
श्रीमन्मेरुशरासन त्रिभुवनाध्यक्षाध्वराध्यक्ष नो
वीक्षस्वाद्य दयाकटाक्षलहरीसंहारितापादिकान् ।
उक्षाधीश्वरकेतनेश्वर दयापात्र त्रिणेत्राधुना
कक्षाणां च पते सुदक्षमखहृत् तूर्णं प्रसादं कुरु ॥ ७॥
भूभृद्राजकुमारिकाकुचतटीपाटीरपङ्काङ्कितं
रुद्राक्षप्रिय भस्मयुक्त निटिलज्वालोरु गङ्गाधर ।
वैयाघ्रत्वगलङ्कृताङ्गमसकृत्पश्येम चित्ते सदा
विश्वेशादिपदप्रदं हरिशरं सम्भावयामो हर ॥ ८॥
- -
स्कन्द उवाच ।
नागानां च स्तवं श्रुत्वा केदारेशो महेश्वरः ।
तल्लिङ्गमध्याच्च तदा ह्याविरासीत्स्वयं हरः ॥ ९॥
नागाजिनोत्तरासङ्गः शशाङ्ककृतशेखरः ।
उमया सहितो देवो नीलकण्ठस्त्रिलोचनः ॥ १०॥
गङ्गाधरः कपालाङ्कशूलज्वलनसत्करः ।
तं दृष्ट्वा देवदेवेशं सर्पाः कद्रूसमन्विताः ॥ ११॥
प्रणम्य च महादेवं संस्तुवन्नीललोहितम् ॥ १२॥
- -
नागाः उचुः
वेदार्व शर्व यमगर्वहराव शर्व-
कन्दर्पदर्पहर सर्पमहोरुहार ।
अग्न्यग्र भीम भव भर्ग सुसर्गवर्ग-
स्वर्गापवर्गद विभो तव भक्तिमार्गम् ॥ १३॥
दूर्वादलार्चनकृतां भवदीयलिङ्गे
सङ्गेऽपि शाङ्गनिवहाः किमुतापमार्गैः ।
बिल्वैश्च पङ्कजवरैः कनकैः कदम्बैः
पूज्येन्दुचूड कुलभूधरवास शम्भो ॥ १४॥
विश्वाधिकेश्वर महेश्वर रामधीर
गौरीमनोहर हरात्यय मारमार ।
संसारभारपरिहारभव प्रसीद
श्रीशङ्कराव वरधुर्यधर प्रसीद ॥ १५॥
॥ इति शिवरहस्यान्तर्गते नागैः कृता केदारेशमहेश्वरस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २६ शिवप्रसादः । ४-१५॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 26 shivaprasAdaH . 4-15..
Notes:
Skanda स्कन्द narrates the scene where Nāga-s नागाः pray to Śiva शिव, while He makes an appearance to them and their mother Kadrū कद्रू.
Proofread by Ruma Dewan