श्रीनटराजसुप्रभातम् अथवा चिदम्बरसभापतिसुप्रभातं
यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् ।
इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ १॥
उत्तिष्ठोत्तिष्ठ गौरीश उत्तिष्ठ वृषभध्वज ।
उत्तिष्ठ चित्सभानाथ त्रैलोक्यस्य शिवं कुरु ॥ २॥
शिवकामसुन्दरि ! शिवङ्करम्पतिं
शिवमद्य सर्वभुवनेश्वरेश्वरम् ।
प्रतिबोधयाशु भुवनस्य गुप्तये
नहि भासतेऽस्य जगदीक्षणादृते ॥ ३॥
श्रीचित्सभेशमहिषि ! प्रियान्विते
शिवताति सर्वभुवनैकमङ्गले ।
शिवकामसुन्दरि ! महीध्रनन्दिनि !
प्रियसुप्रभातमतिरम्यमस्तु ते ॥ ४॥
भास्वानुदेति परितः प्रसृता विलीना-
स्तारागणास्सह सुधाकरमण्डलेन ।
आवाति दक्षिणमरुद्धृतपद्मगन्धः
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ५॥
प्राचीदिगाप्तसुषमा मखिनश्च वृद्धा
विप्रा विनिर्ययुरथ स्वगृहात्प्रभाते ।
लब्धुं तव प्रथमवीक्षणभागधेयं
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ६॥
ब्रह्मा त्वदीयनटनातिशयं दिदृक्षुः
सत्यादुपायनकरः सहसावतीर्य ।
द्वारि त्वदालयवरस्य चिरादुपास्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ७॥
नारायणोऽपि बहुधा श्रुतमद्वितीयं
आनन्दताण्डवममन्दसुखावहं ते ।
द्रष्टुं स्वकीयभवनादुपयाति वेगात्
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ८॥
पातुं निलिम्पनिचयं प्रणवं प्रदातुं
नेतुं स्वलोकममरान्नितरामुपैतुम् ।
आज्ञां तवाप्तुमिह षण्मुख एत्य शास्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ९॥
नन्दी भवत्प्रमथमण्डलयूथपोऽसौ
त्वद्दत्तसर्वभरनिर्वहणप्रवीणः ।
आज्ञाविलम्बममृषन्निव काङ्क्षति त्वां
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १०॥
भृङ्गी भवत्प्रणिधितल्लज एत्य तूर्णं
द्वारे स्थितान्निबिडितान्निखिलान् निलिम्पान् ।
सीमन्तयत्यनुनयैस्तव बोधकाले
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ११॥
एतास्तवालयमुपेत्य जनन्य आरात्
चामुण्डया कलितमङ्गलशब्दगीत्या ।
नीराजनाय धृतपात्रवरा वलन्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १२॥
किं वा भवत्प्रणिधिभिः करणीयमत्र
सिद्धा वयं नियमनेन कृतार्थयास्मान् ।
इत्थं प्रभाष्य विनतान् प्रमथांश्च पश्य
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १३॥
प्राबोधने प्रथमवीक्षणपूर्णपात्र-
लाभाय लुब्धहृदयाः पद्ममुख्याः ।
प्रस्पन्दनं प्रथमजं निधयोऽर्थयन्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १४॥
त्वत्किङ्करस्तव पदप्रवणः प्रवीणः
श्रीभानुकम्प इति सुश्रुतनामधेयः ।
आस्तेऽर्थयंस्तव पदैकनिकेतवासं
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १५॥
प्रागूर्ध्वताण्डवजितापि सभान्तरालान्-
निष्कासितापि निगलेन सुवेल्लितापि ।
विस्मृत्य सर्वमपि सन्निहिताऽत्र काली
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १६॥
बाणासुरस्तव सुहृत्तव भक्तभक्त-
स्त्वद्रक्षितप्रथितशोणितपत्तनेशः ।
त्वत्सेवनाय तव धाम्नि चिरादुपास्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १७॥
अग्रे लसत्यखिललोकपितामहः प्रा-
ग्वेदान्मुखैर्मुखरयन् चतुरः चतुर्भिः ।
त्वय्यात्मनीनमभिमानमलं त्यजिष्यन्
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १८॥
न्यग्रोधभूरुहतले प्रथमोपदेशं
त्वत्तो लभन्त मुनयस्सनकादयो ये ।
द्रष्टुं प्रबोधमिह संसदि ते मिलन्ति
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ १९॥
श्रीनारदस्तव कृते मधुराननर्घा-
नापाद्य गीतनिचयान् स्वविपञ्चिकायाम् ।
द्वारेद्य गायति तव प्रतिबोधनार्थं
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २०॥
प्राबोधन प्रमुखषट्समयार्चनाय
पातञ्जलाख्यनिजसूत्रमतीव हृद्यम् ।
श्रीमान् पतञ्जलिरुपेत्य विवक्षते तत्
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २१॥
श्रीमूलनाथचरणार्पितचित्तवृत्तिः
श्रीव्याघ्रपादमुनिरद्य तवार्चनाय ।
पुष्पोपहारनिकरस्वकरोयमास्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २२॥
श्रीजैमिनिस्तव कृते कलितामनर्घां
श्रीवेदपादघटनासुभगां स्तुतिं च ।
आस्तेऽग्रतः पिपठिषुः प्रतिहारदेशे
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २३॥
दुर्वाससा तव पदाम्बुजभक्तिभारात्
स्वात्मार्पणं कलयितुं त्वयि चित्सभेशे ।
द्वारि प्रणामनिरतेन विलोक्यसे त्वं
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २४॥
सङ्क्रन्दनः सततपूजिततावकाङ्घ्रिः
दैतेयवल्कितकृतामसहामवज्ञाम् ।
इच्छन् प्रमार्ष्टुमिह तिष्ठति ते प्रसादात्
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २५॥
दिक्पालकाः करधृतामलपूर्णकुम्भाः
स्वर्लोकतः सुरभिदर्पणकुञ्जराद्यान् ।
आनीय दर्शयितुमादरतस्त्वरन्ते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २६॥
श्रीज्ञानसङ्गतशिशुर्विबुधाग्रणीस्त्वा-
मुत्कण्ठया कवितया धुरि गातुकामः ।
द्वारे स्थितो वितनुते बहुधा प्रबन्धान्
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २७॥
माणिक्यवाचककविः सुधया सदृक्षाः
गाथास्तवैव सुतरामुचिता विचित्राः ।
गायत्यतीव मधुरं शृणु ताः स्वदेव्या
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २८॥
त्रैलोक्यनाथसदृशः किल हेमवर्मा
प्राकारमण्डपविमानवितानभागान् ।
हेम्नैव कारयितुमर्थयते नियोगं
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ २९॥
मित्राणि ते तव समास्तव जीवभूताः
मान्या नृणां मखिवरास्त्रिसहस्रसङ्ख्याः ।
आयान्त्युपायनकरा विनताः प्रभाते
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ३०॥
भक्ताग्रणीस्तव पदाब्जपरायणोऽसौ
श्रीमानुमापतिशिवः प्रथितप्रभावः ।
आयाति नृत्यसदसीं तव केतुनेता
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ३१॥
श्रीविक्रमः प्रथितचोलमहीमहेन्द्र-
स्त्वत्पादपद्मविनिवेशितनैजचित्तः ।
प्राकारभित्तिकरणाय च नाथते त्वां
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ३२॥
नन्दः स्वकीयकुलनन्दनसौम्यशीलो
दूरात्त्वदीयमुखदर्शनलोलुपोऽसौ ।
दूरे स्थितश्च वलते विनयेन भक्त्या
श्रीचित्सभेश्वर विभो ! तव सुप्रभातम् ॥ ३३॥
इत्थं चिदम्बरसभापतिसुप्रभातं
ये वा पठन्ति मनुजाः प्रतिसुप्रभातम् ।
तेषां सभापतिरुदञ्चयति प्रसादं
सारूप्यसम्पदममुत्र मुदा प्रसूते ॥ ३४॥
॥ इति श्रीनटराजसुप्रभातं अथवा चिदम्बरसभापतिसुप्रभातं सम्पूर्णम् ॥
The first line of the verse 27 is given as
श्रीज्ञानसम्बन्ध .. विबुधाग्रणीस्त्वा
in the original Tamil PDF referenced. As one said,
the nAyanmAr referred to is ``Gnanasambandhar.''
However, technically, in it the two akSharas
are missing. For reasonable chanting purpose,
the line is modified as above. If a more
reliable manuscript is found, it will be
updated.
Encoded by Aruna Narayanan
Proofread by Aruna Narayanan, Rajani Arjun Shankar