नटेश्वरसहस्रनामस्तोत्रस्य उत्तरपीठिका

नटेश्वरसहस्रनामस्तोत्रस्य उत्तरपीठिका

श्रीगणेशाय नमः । श्रीचिदम्बरनटेश्वरसहस्रनामस्तोत्रस्य उत्तरपीठिका ॥ इति ते कथितं देवि नटराजस्य सुन्दरम् । नाम्नां सहस्रमत्यन्तं गोप्यं नेदं प्रकाशयेत् ॥ १॥ सर्वसिद्धिकरं पुण्यं सर्वविद्याविवर्धनम् । सम्पद्प्रदमिदं नृणां सर्वापद्घ्नमघापहम् ॥ २॥ अभिचारप्रयोगादिमहाकृत्यनिवारणम् । अपस्मारमहाव्याधिज्वरकुष्ठादिनाशनम् ॥ ३॥ अत्युत्पादभयक्षोभक्षुद्रशान्तिदकारणम् । कूश्माण्डरुद्रवेतालशाकिन्यादिभयापहम् ॥ ४॥ स्मरणादेव जन्तूनां ब्रह्महत्यादिनाशनम् । अस्मात्परतरं स्तोत्रं नास्ति लोकत्रयेऽम्बिके ॥ ५॥ एतन्नामसहस्रस्य पठनात्सकृदेव हि । महापातकयुक्तोऽपि शिवसायुज्यमाप्नुयात् ॥ ६॥ प्रयोगलक्षणं वक्ष्ये श‍ृणु शैलसुतेऽधुना । पज्चम्यामथवाऽष्टम्यां दशम्यां वा विशेषतः ॥ ७॥ स्नात्वा शुभासने स्थित्वा ध्यायन् श्रीनटनायकम् । प्रजपेत्द्वादशावृत्या सर्वान् कामान् लभेन्नर। ॥ ८॥ आर्द्रायां प्रातरारभ्य नटराजस्य सन्निधौ । आसायं प्रजपेदेतत् एवं संवत्सरत्रयम् ॥ ९॥ तस्य भक्तस्य देवेशो नटनं दर्शयेत्प्रभुः । बिल्ववृक्षस्य निकटे त्रिवारं प्रजपेदिदम् ॥ १०॥ षड्भिर्मासैर्महैश्वर्यं लभते न चिरान्नरः । अनेन स्तोत्रराजेन मन्त्रितं भस्मधारयेत् ॥ ११॥ भस्मावलोकनान्मृत्युर्वश्यो भवति तत्क्षणात् । सलिलं प्राशयेद्धीमान् मन्त्रेणानेन मन्त्रितम् ॥ १२॥ सर्वविद्यामयो भूत्वा व्याकरोत्यश्रुतादिकम् । नाटकादिमहाग्रन्थं कुरुते नात्र संशयः ॥ १३॥ चतुर्थ्यन्तं समुच्चार्यनामैकैकं ततो जपेत् । पञ्चाक्षरं तथा नाम्नां सहस्रं प्रजपेत्क्रमात् ॥ १४॥ एवं त्रिवारं मासानामष्टाविंशतिके गते । निग्रहानुग्रहौ कर्तुं शक्तिरस्योपजायते ॥ १५॥ नाम्नामादौ तथान्ते च पञ्चाक्षरमहामनुम् । जप्त्वा मध्यस्थितं नाम निर्ममोन्तं सदा सकृत् ॥ १६॥ चतुर्थ्यन्तं जपेद्विद्वान् त्रिवर्षं च त्रिवारकैः । अणिमादिमहासिद्धिरचिरात्प्राप्नुयाद्ध्रुवम् ॥ १७॥ सर्वेष्वपि च लोकेषु सिद्धस्सन्नाचरेन्नरः । लक्ष्मीबीजद्वयक्षिप्तमाद्यन्ते नाम यश्शिवे ॥ १८॥ वाञ्छितां श्रियमाप्नोति सत्यमुक्तं वरानने । हल्लेखामन्त्रसंयुक्तं पूर्ववत्संयुतं जपेत् ॥ १९॥ योगसिद्धिर्भवेत्तस्य त्रिचतुः पञ्चवत्सरैः । किमत्र बहुनोक्तेन या या सिद्धिरभीप्सिता ॥ २०॥ तां तां सिद्धिं लभेन्मर्त्यः सत्यमेव मयोदितम् । कण्ठदघ्नजले स्थित्वा त्रिवारं प्रजपेदिदम् ॥ २१॥ रिपूनुच्वाटयेच्छीघ्रमेकेनैव दिनेन सः । दक्षिणाभिमुखोभूत्वा धृत्वाऽऽर्द्रवसनं शुचिः ॥ २२॥ शत्रुनामसमुच्वार्य मारयेतिपदाङ्कितम् । पठेदिदं स्तवं क्रोधात् सप्तकृत्वस्त्रिभिर्दिनैः ॥ २३॥ स रिपुर्मृत्युगेहस्य ध्रुवमातिथ्यभाग्भवेत् । हरिद्रया नटाधीशं कृत्वा प्राणान् प्रतिष्ठिपेत् ॥ २४॥ पीतपुष्पैः समभ्यर्च्य स्तोत्रमेतज्जपेन्नरः । स्तम्भयेत्सकलान्लोकान् किमिहक्षुद्रमानुषान् ॥ २५॥ आकर्षणाय सर्वेषामुत्तराभिमुखोजपेत् । वाञ्छितायोषितस्सर्वास्तथा लोकान्तरस्थिताः ॥ २६॥ यक्षाश्च किन्नराश्चापि राजानोवशमाप्नुयुः । कुम्भस्थितं जलंस्पृष्ट्वा त्रिवारं प्रजपेदिदम् ॥ २७॥ महाग्रहगणग्रस्तान् अभिषेकञ्चकारयेत् । जलस्पर्शनमात्रेणमुच्यते च ग्रहादिभिः ॥ २८॥ किमत्र बहुनोक्तेन सिद्धयन्त्यखिलसिद्धयः । साक्षान्नटेश्वरो देवो वश्यो भवति तत्क्षणात् ॥ २९॥ अस्मात्परतरासिद्धिः कावास्तिकथयप्रिये । निष्कामस्याचिरादेव ब्रह्मज्ञानमवाप्यते ॥ ३०॥ तस्मात्सर्वप्रयत्नेन यतिभिर्ब्रह्मचारिभिः । वनस्थैश्च गृहस्थैश्च सर्वैर्जप्यं प्रयत्नतः ॥ ३१॥ नित्यकर्मवदेवेदं स्तोत्रं जप्यं सदादरात् । ब्रह्मादयोऽपि यन्नाम पाठस्यैव प्रसादतः ॥ ३२॥ सृष्टित्वित्यन्तकर्तारो जगतां चिरजीविनः । यदिदं मुनयः सर्वे हयग्रीवादयः पुरा ॥ ३३॥ पठित्वा परमां सिद्धिं पुनरावृत्तिवर्जिताम् । प्रापिरे तदिदं स्तोत्रं पठ त्वमपि शैलजे ॥ ३४॥ अस्मात्परतरं वेद्यं नास्ति सत्यं मयोदितम् । ॥ इत्युत्तर पीठिका ॥ इत्याकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे पञ्चविंशतिमूर्तिप्रकरणे तत्त्वातीत श्री चिदम्बर नटेश्वर सहस्रनामस्तोत्रमालामहामनोपदशो नाम एकोनषष्टितमोऽध्यायः । ॥ ॐ शिवमस्तु ॥ Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, Ruma Dewan The text follows after the Nateshasahasranamastotram with pUrvapIThikA is recited. It is given separately.
% Text title            : naTeshauttarapIThikA
% File name             : naTeshauttarapIThikA.itx
% itxtitle              : naTeshasahasranAmastotrasya uttarapIThikA
% engtitle              : naTeshauttarapIThikA
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, Ruma Dewan
% Description-comments  : To be recited after pUrvapIThikA and sahsaranAmastotram
% Indexextra            : (pUrvapIThikA evaM sahsaranAmastotram)
% Latest update         : November 5, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org