नटेशविजयम्

नटेशविजयम्

॥ श्रीः ॥ (श्रीमद्वाधूलकुलतिलकैः वेङ्कटकृष्णदीक्षितैः विरचितम्)

१. प्रथमः सर्गः

श्रियं कटाक्षाश्चिरमम्बिकाया- स्तरङ्गयन्तूत्पलदामदीर्घाः । द्रुमेऽपि सद्यस्तिलकाभिधाने प्रणीयते यैः प्रसवाङ्कुरश्रीः ॥ १॥ भद्राणि पुष्णातु स रामभद्रो भद्राकृतिः स्वीकृतभद्रपीठः । कल्पद्रुमो यस्य करादुदारा- दौदार्यमध्येतुमिवान्वगास्ते ॥ २॥ यस्यात्मनीनस्तनयोऽब्जयोनेः पुरोहितोऽभूद्भगवान्वसिष्ठः । अरुन्धतीनाम्नि यदीयमास्ते पतिव्रताज्योतिषि भागधेयम् ॥ ३॥ गाधेयगर्वोदधिकुम्भयोनि- र्यद्ब्रह्मदण्डो यमिताखिलास्त्रः । ब्राह्मे बले क्षात्त्रबले च सारं निरीक्षितॄणां निकषोपलोऽभूत् ॥ ४॥ गाधेः सुतः क्रूरतपोमहिम्ना प्रसेदुषि ब्रह्मणि भाषमाणे । अपि द्विजोऽसीत्यवृणीत यस्य तथाप्यनुज्ञां द्विजभावपूर्त्यै ॥ ५॥ यस्यान्वये योगिवरस्य शक्ति- पराशरव्यासशुकप्रधानाः । सञ्जज्ञिरे सर्वजगत्प्रसिद्धा महर्षयोऽब्धौ मणयो यथाच्छाः ॥ ६॥ तस्यान्ववाये द्विजराज एकः क्षीरोदधौ चन्द्र इवाधिकश्रीः । सौम्यः सतां वर्त्मनि सम्प्रवृत्तो बालाजिनामाजनि पण्डितेन्द्रः ॥ ७॥ अजायतास्मादरणेरिवाग्नि- र्दादाजिनामा तनयोऽग्र्यतेजाः । विरोधिनोऽभ्येत्य विलोलहेतिं चापल्यतो यं शलभीबभूवुः ॥ ८॥ उमाम्बिका नाम हुताशनस्य स्वाहेव तस्याजनि धर्मपत्नी । अजीजनद्धर्ममिवात्तदेहं गोपालनामानमसौ कुमारम् ॥ ९॥ उमाकुमारोऽयमुदग्रशक्ति- र्बाल्यात्प्रतिक्ष्माभृदुरोविभेत्ता । दादाजिनेतुस्तनयो महात्मा बालेन्दुमौलेरिव बाहुलेयः ॥ १०॥ गोपालभूपालवरस्य तस्य गुणौघमाणिक्यखनिः कनीयान् । रामस्य सौमित्रिरिवातिमात्र- प्रेमाश्रयो विठ्ठलपण्डितोऽभूत् ॥ ११॥ धर्मप्रतिष्ठापनतत्परस्य तथाविधोऽक्रूरहितस्य तस्य । सखानघः शङ्करपण्डितोऽभू- द्गाण्डीवधन्वेव गदाग्रजस्य ॥ १२॥ देवो द्विबाहुर्द्विजराजवंशे गोपाल एवाजनि गोप्तुमाप्तान् । चापासिहस्तः स्वयमेष तस्मा- दास्ते विमुक्तारिररोगदश्च ॥ १३॥ पुरा गृहीत्वा पृथुकान्कुचेलं गोपाल एकं कृतवान्धनाढ्यम् । अद्य प्रवादच्युतयेऽनुपाधि कुचेलसङ्घान्कुरुते कुबेरान् ॥ १४॥ शापे च चापे च स रैणुकेयः शान्तौ च कान्तौ च स शारदेन्दुः । योगे च भोगे च स हैहयेन्द्रो ज्ञाने च दाने च स चेद्दधीचिः ॥ १५॥ प्रत्यग्रकर्णः प्रतिपादनेऽसौ सत्ये हरिश्चन्द्रनृपो नवीनः । वीरायिते नूतनविक्रमार्को बोधे कलावान्नवभोजराजः ॥ १६॥ विरोधिसेनातृणवीतिहोत्रः कवीश्वरस्तोमकलापिमेघः । समाश्रितव्रातचकोरचन्द्रः स राजते सज्जनपद्मभानुः ॥ १७॥ स सञ्चरिष्णुर्भुवि चापवेदो दृशाधिगम्यो द्विजभाग्ययोगः । दयारसः स्वीकृतदेहबन्धः सचेतनः साम्बशिवप्रसादः ॥ १८॥ राज्ञः शिवच्छत्रपतेः प्रसादा- त्प्राज्ञस्तदीयामवलम्ब्य मुद्राम् । चिदम्बरप्रान्तभुवं चिराय गोपायति ब्रह्मकुलानुकूलः ॥ १९॥ बिभ्रद्धरित्रीभरमेष शेषं भुजेन बुद्ध्याप्यधरीकरोति । सरोजलक्ष्मीं च सतामलक्ष्मीं निजेक्षणेनैव निराकरोति ॥ २०॥ नीलालकश्चन्द्रमुखोऽब्जनेत्रो बिम्बाधरः कम्बुगलो द्विबाहुः । कवाटवक्षाः स गभीरनाभि- र्महोरुजङ्घो मदनो नु मूर्तः ॥ २१॥ कान्त्या त्वदास्येन जितः क्रशीया- निन्दुर्भवत्यन्वहमित्युडू द्वे । कर्णान्तिके कीर्तयतो धृतान्त- श्छिद्रे नु मुक्ताच्छलतो मुदेऽस्य ॥ २२॥ हयाधिरोहोचितवेषभूषे हसन्मुखेऽस्मिन्सममश्ववारैः । हयेन खेलत्यधिराजमार्गं दृष्ट्वा विमुह्यन्त्यबला द्विषश्च ॥ २३॥ विहारधाटीविततोरुघोटी- खुराग्रधूलीकुहनाभ्रपालिः । विरोधिबालाविपुलाश्रुमाला- नदीषु हेतुर्ननु तस्य नेतुः ॥ २४॥ दुरासदोऽन्यैर्धृतमण्डलाग्रः सोऽयं प्रतापेऽपरसूर्य एव । खमुत्पतन्खड्गहतोऽस्य शत्रु- र्भिन्ते पदं तद्भ्रमतेऽर्कबिम्बम् ॥ २५॥ कराग्रखेलत्करवालमाया- कालाहिलीलाकबलीकृतेषु । प्राणानिलेषु प्रतिपक्षयूना- मास्ते नरेन्द्रोऽयममोघमन्त्रः ॥ २६॥ अनेककाष्ठाक्रमणादजस्रं जाज्वल्यमानाज्जयशालिनोऽस्य । प्रतापवह्नेर्भृशमुत्थिताभि- र्नीलं नभोस्भून्नियतं मषीभिः ॥ २७॥ विसृत्वरैरस्य यशोवितानै- राच्छादिते सन्ततमिन्दुबिम्बे । चन्द्रोपलैज्योतिषिकाः कथञ्चि- ज्जानन्ति पक्षौ निशि शुकुकृष्णौ ॥ २८॥ स्वमन्दिराभ्यन्तरचत्वरेऽस्य वदान्यभावे वितते विचित्रम् । कवीन्द्रबाहीकगृहाङ्गणानि भवन्ति दानोदकपङ्किलानि ॥ २९॥ अनर्घकर्णाभरणाङ्गुलीय चित्राम्बरोष्णीषसुकञ्चुकाद्यैः । अलङ्कृता यस्य सभान्तराले दीव्यन्ति कल्पद्रुमवद्बुधेन्द्राः ॥ ३०॥ यदीयविद्वज्जनयज्ञवाटी- माटीकमानेष्वमरेष्वजस्रम् । वियोगखिन्ना विबुधायताक्ष्यो हन्तायनं दक्षिणमर्थयन्ते ॥ ३१॥ विद्वज्जनो यस्य विभोः सकाशा- दासाद्य वर्षाशनमात्तहर्षः । आविष्करोत्यात्मनि चातकत्वं दातुर्घनत्वं च दिगन्तरेषु ॥ ३२॥ वदान्यतामस्य कथं वदामः कर्णाय दातुर्मणिकुण्डलस्य । कल्पद्रुमेऽपि स्ववशे वलारिः कर्णं ययाचे मणिकुण्डलं यत् ॥ ३३॥ ख्यातिं गतो यः किल कुण्डलेन बुधेन्द्रमेकं परितोष्य कर्णः । कथं न जिह्रेति स कुण्डलानि दत्वामुना तोषयता बुधेन्द्रान् ॥ ३४॥ स कौशिकोऽजायत शक्तिहीनः कर्णात्स्वयं कुण्डलमाददानः । वासिष्ठ एषोऽजनि वृद्धशक्तिः कर्णेऽर्पयन्कुण्डलमाददानः ॥ ३५॥ देहीति दीनध्वनिकन्धराय दत्तामुना रङ्गपुरे द्विजाय । प्राज्ञेन कार्तस्वरकण्ठभूषा प्रश्नोत्तरात्मा प्रथिता तदादि ॥ ३६॥ विद्वन्मणिश्रेणिविराजमानै- र्महीं परिष्कृत्य महाग्रहारैः । ननु स्वयं नायकरत्नभूतो विद्योतते त्रासविवर्जितोऽसौ ॥ ३७॥ जिष्णुः शुचिर्दण्डधरः स पुण्य- जनः प्रचेताः शुभगम्यवाहः । धनाधिनाथो द्विजराजमौलि- राविष्करोत्यात्मनि दिक्पतित्वम् ॥ ३८॥ चिदम्बरे द्राक् शिवगङ्गयाद्भि- र्यया जनानां ह्रियतेऽत्र पङ्कः । हन्तास्य तस्या अपि पङ्कहर्तु- र्वयं कथं पावनतां वदामः ॥ ३९॥ कान्तेन साकं कलधौतशैले विहारवार्ता हृदि विश्वमातुः । व्यावर्तितानेन विहारहेतो- रान्दोलिकामर्पयताभिरूपाम् ॥ ४०॥ सभेशसेवासमयानुशंसि- न्यनेन दत्ते निनदत्यमन्दम् । घण्टामणौ मूर्ध्नि कृताञ्जलिः स्वे लोके वसिष्ठं हि विलोकतेऽजः ॥ ४१॥ तस्यानुकूलाजनि धर्मपत्नी सखाम्बिका नाम सतीमणिर्या । खनीव रत्नं कुलदीपमेनं खण्डोजिनामानमसूत सूनुम् ॥ ४२॥ स्वप्ने तमेनं शिवकामसुन्द- र्यासाद्य दिव्याभरणोज्ज्वलाङ्गी । चिदम्बरेशार्पितचित्तवृत्तिं कदाचिदूचे करुणानुरूपम् ॥ ४३॥ वत्स प्रसन्नस्त्वयि विश्वनाथः सुखी चिरं जीव श‍ृणूदितं मे । सरस्वती श्रीरिव भूरिव त्वां स्वयं शिवानुग्रहतो वृणीते ॥ ४४॥ सारस्वतं सारमिह प्रयुङ्क्ते क्षुद्रेषु देवेष्विरणेष्विवैकः । स्वातीघनः शुक्तिपुटेष्विवान्यो धन्यो महत्स्वेव तु दैवतेषु ॥ ४५॥ नव्यं तदेकं नटनायकस्य प्रणीय काव्यं पुरुषार्थहेतुम् । रामस्य वाल्मीकिरिव त्रिलोक्या- माचन्द्रतारं यश आप्नुहीति ॥ ४६॥ तत्रान्तरे तालमृदङ्गतूर्य- वीणारवैर्मागधरागभेदैः । प्रबोधितोऽसौ परदेवतायै कृताञ्जलिः काल्यविधिं व्यतानीत् ॥ ४७॥ शिवार्चनानन्तरमेव सभ्या- न्स्वप्नानुवादेन सभाजयित्वा । तेषामनुज्ञामधिगम्य धीमा- न्काव्यं क्रमादारभतैष कर्तुम् ॥ ४८॥ विशुद्धवाधूलकुलाब्धिचन्द्रो विद्वन्मणिर्वेङ्कटकृष्णयज्वा । गोपालनेतुः कवने विनेता प्राचेतसस्येव पितामहोऽभूत् ॥ ४९॥ महाकवेर्वीक्ष्य कृतिं मनोज्ञां पर्युत्सुकाः स्युः कवने परेऽपि । महेश्वरे नृत्यति मोदमानाः पार्श्वे नटन्ति प्रमथा न किं वा ॥ ५०॥ ख्यातिं किलैकेन गुणेन लोके भजेत वस्तु प्रबलेऽपि दोषे । किं कालकूटे सति कौस्तुभेन रत्नाकराख्यां लभते न सिन्धुः ॥ ५१॥ दृष्टेऽपि दोषे तदिह प्रबन्धे गुणं बुधाः केवलमाद्रियध्वम् । दोषज्ञताया भवतां न हानि- र्दोषैकदृक्त्वं परधा भवेद्वः ॥ ५२॥ कृताववज्ञापि गुणः शुचीनां कलङ्किनामादृतिरप्यवद्यम् । त्रयीतनोः पादहतापि पद्मि- न्यामोदते नेन्दुकरादृतापि ॥ ५३॥ कृतमतिरिति सोऽयं काव्यनिर्माणबीजं सुकृतिसुलभमन्तश्चिन्तयन्नेव तत्त्वम् । व्यरचयदनवद्यं पद्यवर्गैः प्रबन्धं बहिरपि पटुयोगीवाकरोल्लोकतन्त्रम् ॥ ५४॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्ग मुदाद्यं व्यधात् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये प्रथमः सर्गः सम्पूर्णः ।

२. द्वितीयः सर्गः

माध्यन्दिनो नाम पुरा महर्षिः कृतारिषड्वर्गजयः किलासीत् । विभूतिरुद्राक्षविभूषिताङ्गं विशङ्कते यं विषमेषुरीशम् ॥ १॥ कदाचिदेष स्वकुमारमारा- दधीतसाङ्गश्रुतिमानमन्तम् । भवाब्धिपारं प्रतिलब्धुकामं शुचिं प्रसन्नः स्वयमित्युवाच ॥ २॥ वत्स त्वमेको मम वंशमध्ये सुवृत्तमुक्तामणिवत्सुजातः । शुद्धात्मनस्ते सुजनादृतस्य यत्ते गुणग्राहि सदा हृदासीत् ॥ ३॥ भक्तिर्गुरौ वा परमेश्वरे वा प्रणीयते या पुरुषेषु लोके । धर्मार्थकामामृतदोहनी सा धिनोति दोग्ध्रीव कुलं तदीयम् ॥ ४॥ अनन्यभाजा परमन्तकारि- भक्त्या भवान्येव नृणां प्रसीदेत् । तस्मिन्प्रसन्ने तरुणेन्दुमौलौ तद्वस्तु किं यत्त्रिजगत्यलभ्यम् ॥ ५॥ शक्रः पुरा वाल्कलिना शरोघै- रम्भोमुचा हंस इवाभिभूतः । अगात्पयोधिं हरिनाभिपद्मा- मोदोत्तरैरार्तिहरं मरुद्भिः ॥ ६॥ किरन्तमम्भःकणबृन्दमुचैः सहैव मुक्तामणिभिः समन्तात् । रत्नाकरत्वं मम जीवलोको व्यक्तं विजानात्विति वाञ्छयेव ॥ ७॥ उद्गच्छतीन्दावुरुहर्षयोगा- दुत्तानितैरूर्मिभुजैर्निशासु । उडूनि डिण्डीरमिषादुपात्ता- न्युच्चावचान्यन्वहमुद्वहन्तम् ॥ ८॥ तरङ्गहस्ताञ्चलधूयमान- प्रवालडोलाफलकाधिरूढम् । बृन्दं पयोमानुषदम्पतीनां मुक्ताकलापैर्मुहुरञ्चयन्तम् ॥ ९॥ गर्वोद्धताम्भोगजबृन्दवप्रा- घातक्षणोद्भूतघणात्कृतेन । संसूचयन्तं शतकोटिभीत्या शैलानधस्तात्सलिले निमग्नान् ॥ १०॥ तत्राथ दर्वीकरराजतल्पे पयोमिलत्फेनसमूहकल्पे । शयानमिन्द्रोपलचारुदेहं हिमाचलारूढमिवोदवाहम् ॥ ११॥ आकण्ठपीतामसुरास्रधारां ज्वालामिषादुद्वमता समन्तात् । चक्रेण कृत्तद्विपकर्षणोद्य- न्नक्रेण पार्श्वे निभृतेन जुष्टम् ॥ १२॥ चलाहकान्तर्वलदंशुमालि- क्रमोल्लसत्कौस्तुभरत्नकान्त्या । संरूषितं वामकरेण शङ्खं सन्ध्यांशुशोणेन्दुसमं दधानम् ॥ १३॥ पयोधिकन्यापरिरम्भलग्न- काश्मीरजम्बालमुरःकवाटे । मुदा मुहुर्मूर्तमिवानुरागं श्रीवत्सचिह्नेन समं वहन्तम् ॥ १४॥ म्लानेतरा चम्पकमालिका वा स्थिरद्युतिश्चारुतटिल्लता वा । ततोज्ज्वला वा तपनीय रेखे- त्युल्लिख्यमानां श्रियमुद्वहन्तम् ॥ १५॥ श्रिया सुधाशीतलया श्रितानां तापं हरन्तं जनदर्शनीयम् । पुरः पुराणं पुरुषं वलारि- श्चकोरकश्चन्द्रमिवालुलोके ॥ १६॥ प्रणम्य बद्धाञ्जलिसम्पुटेन सहस्रनेत्रेण सहानिमेषैः । तोष्टूय्यमानोऽतुलदिव्यरूपो दयालुरेनं दनुजारिरूचे ॥ १७॥ युष्माकमत्रागमनं यदर्थं योगेन जानामि तदेतदद्य । वध्यो न ते वज्रकठोरकायः स वाल्कलिः शक्र विना तपोभिः ॥ १८॥ शचीपतेऽतः शिवराजधानीं तिल्वाटवीमेत्य तपश्चर त्वम् । तत्राहमेत्य त्वदनुग्रहार्थं वत्स्यामि शैले वरदस्त्रिकूटे ॥ १९॥ इत्युक्तवन्तं पतिमिन्दिरायाः प्रणम्य तेन प्रहितोऽथ शक्रः । तिल्वाटवीमेत्य तपश्चचार प्रसादहेतोः परमस्य पुंसः ॥ २०॥ तपो वितन्वन्द्युपतिस्तपर्तौ पञ्चाग्निमध्ये प्रतितिष्ठति स्म । सद्यः कथं साहसमन्तरेण भद्राणि लोके पुरुषा भजेरन् ॥ २१॥ नागेश्वरो नन्विह वायुभक्षो विष्णुं वशीचक्र इतीव मत्वा । नाकेश्वरोऽपि स्वयमीदृशोऽभू- न्नाथं वशीकर्तुमनास्तमेव ॥ २२॥ गुरूपदिष्टं पुनरेष कुर्व- न्नशून्यशय्याव्रतमादरेण । प्रहर्षयामास परं पुमांसं गुरुप्रसादः किल कार्यसिद्ध्यै ॥ २३॥ प्रसुप्तपङ्केरुहमण्डलस्य प्रगे तटाकस्य पुरोऽर्यमेव । प्रमीलिताक्षिप्रकरस्य विष्णुः प्रबोधकृत्प्रादुरभूद्रमेशः ॥ २४॥ श्रान्तोऽसि वज्रिन्सुचिरं तपोभि- र्महेशितुस्त्वं मम च प्रसादात् । जहि द्विषं तं जयमाप्नुहीति व्याहृत्य विष्णुर्विससर्ज जिष्णुम् ॥ २५॥ ततो विजित्य द्विषमाप राज्यं शक्रो हरिस्तु स्वयमीशनाट्यम् । दिदृक्षुरास्तेऽहिशयोऽत्र तेन त्वदिष्टलाभस्तपसात्र भावी ॥ २६॥ पुत्रैकदा पुल्कसजातिरेको व्याधो वसन्विन्ध्यगिरिप्रदेशे । तीर्थाटनोत्साहजुषां द्विजानां वसून्यसून्यप्यहरद्विशङ्कः ॥ २७॥ हिंसाविहारोऽयमतिप्रभूतं सम्पाद्य वित्तं सुहृदे तदर्धम् । द्विजाय कस्मैचिददात्कदाचि- त्स तं दयालुः स्वयमित्युवाच ॥ २८॥ सखे वचो मे श‍ृणु सारभूतं सुदुर्लभं मानुषजन्म जन्तोः । पुण्यादिदं प्राप्य पुनर्विमोहा- त्पापानि कुर्वन्शुरेव लोके ॥ २९॥ आयुर्हरत्यस्तमयोदयाभ्या- मल्पाल्पमर्कोऽन्वहमस्य जन्तोः । उत्तानकूपाम्भ इवोष्णकाले न वेत्त्ययं प्रत्युत नन्दतीह ॥ ३०॥ मज्जास्थिमेदोरुधिरामिषत्व- क्प्राये शरीरे परिणामहेये । विनश्वरे व्याधिनिधौ विवेकी रक्ष्यत्वबुद्ध्या रचयेदघं कः ॥ ३१॥ चन्द्रानना चम्पकदामगौरी कुम्भस्तनी कुञ्जरगामिनीति । सम्भावयन्कामपि चर्मभस्त्रां दुष्कर्म मूढस्तनुते तदर्थम् ॥ ३२॥ भार्याः सुता बन्धुजनाः परे च यावद्धनं तावदुपासतेऽमुम् । वित्तेन हीनं तु विनैव हेतु- मुत्सृज्य विश्वासमुदासते ते ॥ ३३॥ पापानि कृत्वा परिसञ्चितं स्वं भुङ्क्ते गृहे बन्धुजनोऽस्य कामम् । भोक्तव्यमेकेन परत्र लोके स्वेनैव पापस्य फलं तु शश्वत् ॥ ३४॥ तत्कर्म कुर्वन्नतिदारुणं त्वं कदापि धर्मस्य कथां न वेत्सि । करेण पाशं कलयन्कृतान्तः समागतश्चेत्तव कः सहायः ॥ ३५॥ संसारसिन्धौ सहसावतीर्णं पारं वृषः प्लावयति प्लवो वा । अधो नयत्याशुतरामघाली कण्ठे निबद्धेव शिलातिगुर्वी ॥ ३६॥ पापापनोदाय भवादृशानां सम्भूय नालं निरयाः समस्ताः । दहेयुरेधांसि दवाग्निखण्डाः किं कुर्युरासाद्य तु गण्डशैलान् ॥ ३७॥ मोहादनिष्टेषु कृतेष्टबुद्धेः पदे पदे पातककारिणश्च । क्षीणायुषस्ते शलभोपमस्य तिल्वाटवीदेशगतिर्हितैका ॥ ३८॥ इमं समाकर्ण्य हितोपदेशं स पुल्कसस्तेन सह द्विजेन । तिल्वाटवीमेत्य धृतानुतापः शान्तस्तपस्वी शिवधाम भेजे ॥ ३९॥ मध्याह्नकाले मकरन्दनद्याः पूरे विहृत्य प्रमदेन यत्र । पुलिन्दबालाः पुनरेव सायं परागपालीपुलिने लुठन्ति ॥ ४०॥ सर्वत्र शाखाच्छदपुष्पपूर्णाः फलन्त्यजीर्णा द्रुलताः स्वकाले । चिरन्तनो यत्र तु चित्रमेकः स्थाणुः सदैका च फलत्यपर्णा ॥ ४१॥ विद्याधरा यत्र विलासिनीभिः समं लतासद्मसु सानुरागाः । सङ्गीतविद्यारसिका रमन्ते निर्वेशिनः कीचकनादभेदैः ॥ ४२॥ पञ्चानना यत्र शिवापरीता गजारयो बद्धगुहाभिलाषाः । भीमाः शरन्नीरदगौरदेहाः सटाभिरामाः सततं वसन्ति ॥ ४३॥ निकुञ्जलीने निबिडेऽन्धकारे दर्पात्प्रतिद्वन्द्विधिया प्रपत्य । भल्लूकमल्लाः परिभग्नदंष्ट्राः पलायमानाः प्रणदन्ति यत्र ॥ ४४॥ अधीयतेऽध्यायदिनेषु यत्र शुकैः सह स्वाश्रमसीम्नि बालाः । शार्दूलसिंहर्क्षवराहशाबैः क्रीडन्त्यनध्यायदिनेषु कामम् ॥ ४५॥ तां भक्तिकन्यामणिजन्मभूमिं विद्यानटीविभ्रमरङ्गशालाम् । विमुक्तिवध्वाश्च विवाहवेदिं तिल्वाटवीमेत्य तपः स तेपे ॥ ४६॥ चिरं चरन्नत्र तपस्तपस्वी तटे तटाकस्य वसन्प्रसन्नम् । आमूलचूडं हरिचन्दनाद्यैः श्रीमूलनाथं शिवमर्चति स्म ॥ ४७॥ बिल्वीदलैरेष बिसप्रसूनै- र्जतीसरैश्चम्पकदामभिश्च । सम्पूजयन्साम्बशिवं व्यनैषी- दनेहसं कञ्चिदखण्डभक्तिः ॥ ४८॥ आहर्तुकामः कुसुमं हिमानी- करालिते कण्टकिते वनेऽसौ । निःशङ्कसञ्चारकृते निशासु व्याघ्राङ्घ्रिभावं वरमाप शम्भोः ॥ ४९॥ सितेतरग्रीवमुमासहायं त्रिलोचनं दिव्यतनुं युवानम् । स्मेराननं चन्द्रकलावतंसं ध्यायन्नयं देववरं स धन्यः ॥ ५०॥ मौञ्जीधरोऽयं मृगचर्मवासाः शुभ्रोपवीतः सुपलाशदण्डः । भालोल्लसद्भास्मनबिन्दुरासी- न्मुनेः सुतो मूर्त इवाश्रमोऽग्र्यः ॥ ५१॥ तं व्याघ्रपादं तपसि प्रसक्तं कृताम्बिकानाथनतिः कुमारम् । गुरुः कदाचित्कृपया समेत्य हृष्टः प्रणम्रं हितमित्युवाच ॥ ५२॥ प्रतिष्ठितस्त्वं प्रथमाश्रमेऽस्मि- न्नधीतवेदोऽस्यनृणो मुनीनाम् । इष्ट्या सुराणां प्रजया पितॄणा- मानृण्यमाप्नुह्यधुना गृही सन् ॥ ५३॥ अन्याश्रमाः केवलमात्मनीना विनाश्रमं विश्वजनीनमेनम् । उद्द्योतयान्यानुदितोऽर्कवत्त- त्खद्योतभावं भज मा कदापि ॥ ५४॥ हितं पितुर्वाक्यमिदं गृहीत्वा स व्याघ्रपादः स्वगुणानुरूपाम् । सतीं वसिष्ठस्य मुनेः स्वसार- मुदुह्य धर्मानुचितान्व्यतानीत् ॥ ५५॥ सा व्याघ्रपादं समुपाश्रयन्ती नगप्रकाण्डं नवमल्लिकेव । काले नवं गुच्छमिवाच्छकान्ति- र्बभार गर्भं भुवनाभिनन्द्यम् ॥ ५६॥ कलेव चन्द्रस्य तदा कृशाङ्गी कान्त्याः प्रपूरैर्ववृधेऽन्वहं च । वराहदंष्ट्रेव विपाण्डुवर्णा वसुन्धरासक्तिमती च साभूत् ॥ ५७॥ हठात्स्वमाक्रान्तवतोरिदानीं कार्ष्ण्यं मुखेऽभूत्कुचयोरतीव । आकर्ण्य मध्यं तदवेक्षितुं द्रा- क्स्वयं बहिः प्रादुरभूत्सुकेश्याः ॥ ५८॥ पदे पदे ग्लायति बाहुवल्ली- मंसे सखीनामबला निधत्ते । निरन्तरं निःश्वसितीति वार्ता कर्णे सुधां तत्कमितुर्न्यषिञ्चत् ॥ ५९॥ विक्षोभ्यमाणेव पयोधिवेणी निर्मथ्यमानेव निवारणी सा । कान्तामणिः कुन्धनखिद्यमाना तेजोमयं दिव्यमसूत सूनुम् ॥ ६०॥ वसिष्ठमुख्या मुनयः समेत्य वैयाघ्रपादं दिवसे शुभंयौ । आसन्नयज्ञान्वयमागमज्ञं मोदादकुर्वन्नुपमन्युसंज्ञम् ॥ ६१॥ आजानशुद्धैः सुरभेः पयोभि- र्मूर्तेः स्वयं सत्त्वगुणैरिवामुम् । कृतोदयं मातुलगेहसीम- न्यरुन्धती वर्धयति स्म हर्षात् ॥ ६२॥ माध्यन्दिनिस्तदनु मातुलगेहमध्या- द्वेदोक्तकर्मविहितातिशयं कुमारम् । वैतानपावकमिवाध्वरवेदिमध्या- दादाय तिल्ववनमाप मुदा सदारः ॥ ६३॥ मुग्धं वन्याहारवैरस्ययोगा- द्दुग्धं स्मारं स्मारमेनं रुदन्तम् । आरान्नीतं वीक्ष्य पित्रा हरोऽस्मै क्षीराब्धिं द्रागानयद्दीनबन्धुः ॥ ६४॥ पुनरपि सह पत्न्या पुण्यकृद्व्याघ्रपादो नटपरिबृढदिव्यानन्दनाट्यं दिदृक्षुः । अतनुत शिवपूजामादरादाप्तवाचा परमसखपतञ्जल्यागमैकप्रतीक्षः ॥ ६५॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं द्वितीयं व्यधात् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये द्वितीयः सर्गः सम्पूर्णः ।

३. तृतीयः सर्गः

कैलासशैलमधिगत्य कदाचिदारा- न्नारायणः सविनयं प्रणमञ्शिवेन । आलिङ्ग्य गाढमभिनन्द्य च भद्रपीठे पार्श्वे विचित्रमणिभासिनि वेशितोऽभूत् ॥ १॥ तत्र क्षणं तरलवेत्रलताविलास- व्याख्याततत्तदधिकारविशेषयोगः । प्रस्थापयन्दिगधिपान्प्रभवे निवेद्य त्रैलोक्यभारभृददृश्यत तेन भृङ्गी ॥ २॥ रोमन्थलोलगलकम्बललम्बिघण्टं कण्ठक्वणत्कनककिङ्किणिकाकलापम् । चन्द्रांशुगौरचलचामरचारुश‍ृङ्गं साक्षाच्चकार धुरि शाक्करराजमेषः ॥ ३॥ द्वैमातुरोदरफणाधरपारणोत्क- षाण्मातुरीयरथसम्भृतवल्गितानि । आलोक्य किञ्चिदवलम्बितमन्दहासा- मम्बामपश्यदपि सादरमम्बुजाक्षः ॥ ४॥ तावत्समुद्र इव शान्ततरङ्गघोषे माशब्दिकस्तिमितमर्दलतालगीते । सर्वेशयोः सदसि संलपतोर्मुहूर्तं चित्रार्पिता इव बभुः सनकादिसिद्धाः ॥ ५॥ प्रालेयशैलतनयापरिकर्मितस्व- देहोक्तविश्वजननीजनकैकयोगः । भालेक्षणोऽब्जनयनेन मिथः प्रजल्प्य प्रस्थाप्य संसदमनेन सह प्रतस्थे ॥ ६॥ विश्वातिशायिसुषमोदयवीक्षणीयौ दाम्पत्यदर्शितमिथःप्रणयानुबन्धौ । आसेदतुः स्वयमनीश्वरवादिजुष्टं तौ देवदारुवनमीप्सितदुष्टशिक्षौ ॥ ७॥ कन्दर्पकोटिकमनीयतनुः कपाली मन्दस्मिताङ्कुरमनोहरगण्डभागः । कुन्दप्रसूनरदनः कुमुदाप्तचूडो नन्दद्गणो वनमगाहत तन्नटेशः ॥ ८॥ भस्मानुलेपपरिधूसरपाण्डराङ्गो विस्मापितामरपुरन्ध्रिविकीर्णपुष्पः । उक्षाधिभूगतिरुदारकुमारवेषो भिक्षाटनाय सुरदारुवनं स भेजे ॥ ९॥ मञ्जीरचक्रमुखरं मणिपादुकाङ्कं पुञ्जीभवन्नखरुचि प्रणिकुञ्च्य पादम् । उत्तानतानगतिरुद्धतमुग्धढक्क- स्तत्तादृशं व्यतत ताण्डवमिन्दुमौलिः ॥ १०॥ तावत्तपस्वितरुणीपरिषत्तमेन- मत्यद्भुताकृतिमवेक्षितुमादरेण । स्वस्वाश्रमान्निरजिहीत सुवर्णवर्णा सौदामिनीततिरिवाम्बुदचक्रवालात् ॥ ११॥ एका विनिर्गतवती निजयज्ञवाटा- त्पत्नी नितम्बपरिमण्डलबद्धयोक्त्रा । सन्नह्य पुष्पधनुषा सहसेव कृष्टा हृष्टान्तिके चिरमतिष्ठत हन्त तस्मै ॥ १२॥ अन्या तदीयमुखमण्डलमादरेण धन्या सुधाकरमिवाखिलदर्शनीयम् । इन्दीवरेण सरसीव निजेक्षणेन मन्दीभवन्मुकुलनेन मुहुः सिषेवे ॥ १३॥ साकूतमन्दहसितेन शशाङ्कमौलेः काकूदितेन च करम्बितपारवश्या । दुग्धान्नमित्युपहृतं नवनीतमेका स्निग्धात्मकं स्वमिव चित्तमदादमुष्मै ॥ १४॥ मारप्रवीरविशिखैरिव मुच्यमानैः केशप्रकीर्णकुसुमैरनुगम्यमाना । कामारिमेत्य लघु काप्यवदत्सुभक्ता भक्तानुरक्त भगवन्नवलोकयेति ॥ १५॥ मत्तेभकुम्भतटमर्दनलब्धवर्णाः पञ्चाननस्य नखरा इति नः प्रसिद्धम् । तन्मेऽद्य दर्शय वने दयया दिदृक्षोः कुम्भस्तनी तमिति गूढमुवाच काचित् ॥ १६॥ प्रस्वेदवारिकणिकापरिशोभिभालं श्वासातिरेकदरजल्पितचारुवक्त्रम् । नाट्यं झलञ्झलितनूपुरमुद्धतं त्वं काल्या कृतं कुरु मयेति तमाह् काचित् ॥ १७॥ शश्वत्प्रतार्य सुदतीजनमर्जितं य- त्पापं तदेव हि गलं परिवेष्टते ते । क्ष्वेलच्छलात्कृतमतः परवञ्चनेन स्वामिन्दयस्व मयि साध्विति काचिदूचे ॥ १८॥ मुग्धा मुहूर्तमवलोक्य शिवं प्रमोदा- त्काचित्परित्रुटितकञ्चुककङ्कणालिः । श्वश्रूभिया तमुपसृत्य सकङ्कणं मे दत्त्वाशु कञ्चुकमितः प्रचलेत्यरौत्सीत् ॥ १९॥ आदाय कापि मणिदर्विकयान्नमुच्चैः पात्रे समर्पयितुमुन्नमिताङ्गयष्टिः । तावत्समुच्छ्वसितनीविदुकूलमाशु ह्रीणा करेण दधती हृषितावतस्थे ॥ २०॥ वाचालकिङ्किणिविजृम्भितहृद्यढक्का- वाद्यध्वनिस्मितविकासिमुखेन्दुशम्भौ । वल्गत्युदारमिति वामदृशां तदीयं मञ्जीरचक्रयुगलं निगलं हृदोऽभूत् ॥ २१॥ अत्रान्तरे सरयमाश्रमदेशमाप्ता नारायणी नवनवोदितयौवनश्रीः । कादम्बिनीसविधकन्दलितेव शम्पा पर्याकुलं परमहंसकुलं वितेने ॥ २२॥ ताटङ्करत्नतरलांशुनिचोलचक्र- व्यानद्धगल्लमुकुरव्यतिरोचमाना । नालीकदीर्घनयनाञ्चलकज्जलश्री- व्याख्यातमारविषदिग्धशरप्रकारा ॥ २३॥ धम्मिल्लमध्यगतचम्पकदामगन्ध- मोमुह्यमानयुवमानसमत्तभृङ्गा । भालामृतांशुशकलोपरिभासमान- कस्तूरिकातिलककन्दलिताङ्कशङ्का ॥ २४॥ नासाञ्चलाभरणमौक्तिकनामधेय- नक्षत्रनित्यकृतचन्द्रजिदास्यदास्या । आपाटलाधरदलार्चिरुदारसन्ध्या- रागानुबन्धिरदनावलिबालचन्द्रा ॥ २५॥ माणिक्यहेममयमङ्गलसूत्रलक्ष्मी- सन्दर्शित स्मरहरिज्जयतोरणश्रीः । कामेशदर्शनकुतूहलियौवनद्रा- गानीतपूर्णकलशाभकुचाभिरामा ॥ २६॥ कौसुम्भकञ्चुकविराजिकुचाग्ररिङ्ख- त्काश्मीरजन्मरसकर्बुरतारहारा । सन्ध्यारुचिच्छुरितशैलतटान्तरुद्य- त्तारावलीरुचिरदिक्तरुणीविलासा ॥ २७॥ नाभीगभीरसरसीसरसोज्जिहान- नालाभरोमलतिकाग्रलसत्कुचाब्जा । चञ्चद्भुजायुगलचम्पकदामकोटि- व्यालम्बिकोकनदविभ्रमकारिहस्ता ॥ २८॥ लावण्यसिन्धुलहरीपुलिनानुकारि- श्रोणीविहारिविहगावलिचारुकाञ्चिः । अब्जोपरिस्फुरदधोमुखहेमरम्भा- सम्भावनार्हचरणोज्ज्वलजङ्घिकोरुः ॥ २९॥ मञ्जीरमञ्जुरवसञ्जनितस्वशङ्का- सम्प्राप्तहंसगलहस्तिकचारुयाना । आलोहिताम्बरसमुल्लसदङ्गवल्ली- सम्भाविताभिनवचन्द्रकलाविलासा ॥ ३०॥ नीलोत्पलद्वितयनिर्गतमत्तभृङ्गी- भङ्गीवहस्फुटकटाक्षपरम्पराभिः । निःशेषपीतनियतव्रतयोगवृन्द- हृत्पङ्कजोदितविवेकमरन्दबिन्दुः ॥ ३१॥ किञ्चिच्च्युतं कुचदुकूलमुरस्युदारं प्रत्यर्पयन्त्यनुकलं करपल्लवेन । आदाय घर्मकणिकामलिकात्किरन्ती सौन्दर्यबिन्दुमिव शोणरुचा नखेन ॥ ३२॥ वामेन विश्लथतरां कबरीं करेण काञ्चीं नितम्बगलितामितरेण धृत्वा । मूले क्वचिद्विटपिनो मुहुरध्वखेदा- त्तिष्ठन्त्यमूमुहदशेषजगत्कृशाङ्गी ॥ ३३॥ लीलाविघूर्णितविलोचनकोणपातै- र्हालाहलैरिव जनानतिमोहयन्ती । नीलालकान्तिकविलोलललन्तिकैका बाला परिभ्रमति काननसीनि कैषा ॥ ३४॥ गाढानुरागकलशोदधिचन्द्रिका वा श‍ृङ्गारसौधशिखरार्पितदीपिका वा । मारैन्द्रजालिकविमोहनपिञ्छिका वा लीलाभिरामरतिपञ्जरशारिका वा ॥ ३५॥ राकासुधा किरणमण्डलरम्यवक्त्रा तारावलीसदृशतादृशतारहारा । शोणाधरार्चिरधरीकृतसान्ध्यरागा श्यामा प्रपञ्चयति पञ्चशरप्रतापम् ॥ ३६॥ आः पश्यतामभिनवस्मितचन्द्रिकाभि- र्हृत्वा बहिस्तिमिरमन्तरिवार्पयन्ती । जाज्वल्यमाननखशोणमयूखजालैः पार्श्वद्रुमान्सपदि पल्लवितान्करोति ॥ ३७॥ मोघेतरा कदनकर्मणि मुष्टिमेय- मध्येयमेव मकरध्वजचापयष्टिः । आद्यन्तयोर्यदरविन्दमथोत्पलं च धत्ते पदेक्षणमिषेण तदीयमस्त्रम् ॥ ३८॥ आलानमुच्चलितमारुरुचे त्रिधोच्चै- राकृष्यताद्रितटमायसश‍ृङ्खला च । कामद्विपेन तदिदं कुचयोरधस्ता- द्रोमावली त्रिवलिनाभिखनीति दृष्टम् ॥ ३९॥ पञ्चेषुमुक्तपटुबाणपरम्परोद्य- च्छिद्राणि योगिनिवहैश्चिरमर्पितानि । चित्तान्युरोजयुगले सुगुणानि शुद्धा- न्यस्या लुठन्ति नवहारमणिच्छलेन ॥ ४०॥ उद्यद्भुजद्वितयमुद्यतबाहुमूल- मुत्तम्भितस्तनमुदारविलोलहारम् । उन्नम्रमध्यमुपवेल्लितपादमस्या उज्जृम्भितं जयति हुङ्कृतयोगिधैर्यम् ॥ ४१॥ इत्थं विभाव्य धुरि योगिजनश्चिरं तां मोहानिलव्यतिकरास्तविवेकदीपः । स्नानं जपं हवनमध्ययनं पुराणं शास्त्रं व्रतं च सकलं विजहौ किमन्यत् ॥ ४२॥ पुङ्खानुपुङ्खशरवर्षुकपुष्पचापे कोलाहलप्रवणकोकिलयूनि काले । अत्यद्भुताकृतिरसौ विपिने चरन्ती हा हन्त हन्त जगदात्मवशीचकार ॥ ४३॥ तां सुन्दरीं प्रति तपस्विजनेऽनुरक्ते तं सुन्दरं प्रति तदीयवधूजने च । जातक्रुधः कतिपये जरठास्तदानी- मुद्दिश्य शम्भुमभिचारमुपाक्रमन्त ॥ ४४॥ तस्मादभूत्प्रथममुग्रतरस्तरक्षुः सम्प्रेरितो मुनिभिरेत्य शिवं जिघांसुः । तच्छूलकोटिदलितस्वकठोरदेहः प्राप त्वचा सपदि तत्परिधानभावम् ॥ ४५॥ भूयोऽपि ते भुजगमेकमुदीतमग्नेः कालं करालगरलाग्निभरं किरन्तम् । प्राचोदयञ्जहि पिनाकिनमित्यथैनं केयूरयन्भुजगमेव कृती स चक्रे ॥ ४६॥ भूतं पुनर्भुवनभीषणमेकमग्ने- रुद्भूतमुत्तरललोचनमुग्रदंष्ट्रम् । शम्भोर्वधाय ससृजुर्मुनयस्तमीशो- न्यञ्चन्निपात्य विदधे निजपादपीठम् ॥ ४७॥ अग्निं तमेव पुनराकुलकीलजालं तेऽचोदयन्नथ तमप्युपनम्रमाशु । किञ्जल्कपिञ्जरितकोकनदाविशेषं हस्ते वहन्व्यहरदद्भुतशक्तिरीशः ॥ ४८॥ मूर्तान्पुनर्जडधियो मुनयः समन्त्रा- नाहूय हन्तुमददुः शिवमभ्यनुज्ञाम् । तानागतानपि तदा स विधाय शक्त्या माणिक्यनूपुरमयानघृताङ्घ्रियुग्मे ॥ ४९॥ इत्थं हतोद्यममवेक्ष्य तपस्विसङ्घं घोराट्टहासदलिताण्डकटाहकूटः । भीमाकृतिर्भ्रमितपिङ्गजटोऽथ कोपा- दत्युग्रताण्डवपरोऽभवदष्टमूर्तिः ॥ ५०॥ तत्तादृशं तमवलोक्य महर्षिवृन्दं निश्चेष्टितं भुवि निलीनमभूद्भयार्तम् । तादृक्षवेगधुतपक्षतिमक्षिकोणै- रालक्ष्य तार्क्ष्यमहिवृन्दमिवान्तरिक्षे ॥ ५१॥ विश्वातिशायिनि जने विहितोऽभिचारो न व्यर्थ एव ननु कर्तुरनर्थहेतुः । उद्दिश्य भानुमुपलः प्रहितः किलोर्ध्वं क्षेप्तुः शिरो विदलयेत्क्षणतो निपत्य ॥ ५२॥ तद्देवदारुवनतापसवृन्दमेवं मूर्च्छालमाकलयतो मदनान्तकस्य वज्रारवव्यथितचातकमण्डलस्य धारेव मङ्क्षु जलदस्य दयाविरासीत् ॥ ५३॥ कर्पूरगौरतनुरिन्दुकलावतंसः स्मेराननः शिखरिराजसुतासमेतः । आलोलपिङ्गलजटापटलोऽथ तेषा- मानन्दताण्डवमदर्शयदन्तकारिः ॥ ५४॥ आनन्दबाष्पभरितायतलोचनाना- माविर्भवत्पुलकमेदुरिताङ्गकानाम् । आधूयमानशिरसां द्रुतमाविरासी- दानन्दताण्डवरसानुभवो मुनीनाम् ॥ ५५॥ पश्चाज्जगत्पतिमिमं प्रतिबुध्य पश्चा- त्तापात्प्रणम्य मुहुरेत्य शिवप्रसादम् । अन्तर्हिते सति सहाम्बुजलोचनेऽस्मि- न्सर्वे तदादि समुपासत साम्बमेनम् ॥ ५६॥ आनन्दनाट्यमनुभूतमिदं कदाचि- द्दुग्धोदधौ स्मृतवता दनुजान्तकेन । हर्षप्रकर्षभरितेन महाभरार्तः पृच्छन्नभाणि फणिराट्किल भारहेतुम् ॥ ५७॥ पूर्वं मया यदनुभूतमभूत्पुरारे- र्नृत्तं तदेतदनुसन्दधतोऽधुना मे । आनन्दसिन्धुलहरीमतिवेलमन्त- रासेदुषो वहनतोऽजनि तेऽतिभारः ॥ ५८॥ तस्यैव जन्म सफलं भुवने स एव श्लाघ्यः स एव तरति त्वरितं भवाब्धिम् । आनन्दताण्डवरसं हरिणाङ्कमौले- र्धन्यः स्वयं पिबति यः किल दृक्पुटाभ्याम् ॥ ५९॥ आकर्ण्य मद्गिरमिमामहिराज तेऽक्षी- ण्यानन्दबाष्पभरितान्यधुना भवन्तम् । शंसन्ति शम्भुनटनेक्षणसाभिलाषं धन्योऽसि सेत्स्यति च तेऽभिमतं तदेतत् ॥ ६०॥ मामाश्रितस्य फणिनायक ते महान्तं कालं मयाद्य कथितं परमं रहस्यम् । तद्गच्छ तावकसुतोऽस्तु मदीयतल्पं त्वं द्रक्ष्यसि त्रिनयनं तपसे यतस्व ॥ ६१॥ सञ्चोदयन्तमिति चक्रधरं प्रणम्य क्षीराम्बुधेः स निरगादुरगाधिराजः । कैलासभूधरमुपेत्य कृतान्तहन्तुः प्रीत्यै तपश्चिरमतप्यत चाप्रमत्तः ॥ ६२॥ वाताशनत्वमनिशं वसतिर्गुहायां शेषस्त्वचः सततसङ्कुचितिश्च भोगे । सर्पस्वभाव इति सर्वमिदं विहाय पञ्चाग्निमध्यमभजत्फणिराडनश्नन् ॥ ६३॥ दर्वीकराधिपतिना तपसातिमात्रं सम्प्रीणितस्तदनु चन्द्रकलावतंसः । आविर्बभूव तमभाषत चाथ वत्स सम्पत्स्यते सपदि तेऽभिमतार्थसिद्धिः ॥ ६४॥ तिल्वाटवीं भज तपश्चर तत्र चाहं श्रीमूलनाथसदनं समया विराजः । हृत्पुण्डरीककुहरे धरणी सुषुम्णा- नाडीपदे सदसि दर्शयितास्मि नाट्यम् ॥ ६५॥ अत्रेः पुरा त्वमभवस्तनयोऽनसूया त्वामञ्जलौ धृतमवेक्ष्य भुजङ्गरूपम् । त्रासादपातयदतोऽजनि ते पतञ्ज- ल्याख्याधुनापि भव तादृशनामरूपः ॥ ६६॥ उपदिशति पिनाकिन्येवमुन्निद्ररोमा विरचितनतिरन्तर्विस्तृतानन्दसिन्धुः । कृतनुतिरनुमत्या कुण्डलीशः पुरारे- रभजत निजलोकं हर्षिताशेषलोकः ॥ ६७॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं तृतीयं व्यधात् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये तृतीयः सर्गः सम्पूर्णः ।

४. चतुर्थः सर्गः

अथ पतञ्जलिरन्तकहन्तरि स्थिरमतिस्तपसे धृतनिश्चयः । अनुमतः स्वजनैरधिकं दया- मृदुरगादुरगालयतो बहिः ॥ १॥ बिलमुखादुदितः स पिकारवै- र्ह्वयदिव स्वमुदैक्षत काननम् । चलकराङ्गुलि चारुमरुल्लल- त्तपनतापनतारुणपल्लवम् ॥ २॥ सकलभं कलभङ्गुरसंरट- च्छुकपिकं कपिकम्पितभूरुहम् । वरसमीरसमीरितवल्लरी- निकरमाकरमासददाशिषाम् ॥ ३॥ परिवृढः फणिनामथ पावने महति तिल्ववनेऽत्र महात्मनः । प्रमुदितानकृत प्रणतः स्वयं मुनिजनान्निजनाम्न उदीरणात् ॥ ४॥ क्वचन तत्र तरक्षुपदश्वर- न्कुसुमपत्रकृते तमुदैक्षत । फणिपतिं बहुकालदिदृक्षितं भसितभासितभावुकविग्रहम् ॥ ५॥ तमभिवाद्य मुनिः स तरक्षुपा- दनयदाशु निजाश्रममादरात् । अपि च तस्य शिवेऽर्पितचेतसो निजगृहे जगृहे चरणोदकम् ॥ ६॥ परिणतैरधुनाजनि मे चिरा- त्पितृपितामहपुण्यभरैर्ध्रुवम् । सकलवाञ्छितसङ्घटनाय य- त्प्रभवता भवतास्मि समागतः ॥ ७॥ रजनिषु द्विजराज उदित्वरः स हरते बहिरेव तमः शनैः । अनिशामन्तरपीदमरं त्वया शकलितं कलितं द्विजराज नः ॥ ८॥ भगवता सुकरं भुवि मादृशां प्रणमतां दुरिताङ्कुरभञ्जनम् । प्रयतते खलु भद्रतराकृति- र्वनकरी न करीरविपाटने ॥ ९॥ उपचरन्मुनिरेष तदादरा- दुरगपुङ्गवमप्यमुना स्वयम् । समधिकं विनुतः सुखदुःखयो- रुपचयापचयावुपसेदिवान् ॥ १०॥ इति परस्परमीरितवैभवा- वुपचितप्रमदावुभकौ मुनी । गिरिशताण्डवदर्शनसत्वरा- वभवतां भवतान्तहृदौ चिरात् ॥ ११॥ विधिवदर्चनया व्रतचर्यया नुतिगिरा तपसा नतिकर्मणा । उपचचार मुनिद्वयमुच्चकै- रिह वने हवनेन च शङ्करम् ॥ १२॥ अथ कदाचन नाट्यमुमापते- रचिरभावि विचार्य किलाभवत् । उषसि रञ्जयितुं रविरुत्सुकः किरणतोरणतो गगनाङ्गणम् ॥ १३॥ सुरतविह्बलिता सुचिरं वधू- रुपपतेरुरसि स्वपती तदा । कलकलैः कृकवाकुगलोद्गतै- र्हतरसा तरसा समबुध्यत ॥ १४॥ मुनिकुमारकृताध्ययनारवै- र्मुखरितासु दिशासु विनिद्रितम् । विचरति स्म पयोजवने मिथः सकलहं कलहंसकुलं तदा ॥ १५॥ अनुकृतः क्षणमम्बुजमेचको हरिरहीश्वरतल्पशयोऽम्बुधौ । सरसि षट्चरणेन समुच्छ्वस- त्कमलकोमलकोटरशायिना ॥ १६॥ भ्रमरडिम्भमुपात्तरवं प्रगे मरुदुपाहृतमादृत पद्मिनी । प्रदिशती मकरन्दपयः स्वयं निजपयोजपयोधरतः स्नुतम् ॥ १७॥ उदितमिन्दुकलाशतमीक्ष्यतां क्षितिभृतीति सखीभिरुदीरिते । स्तनपटेन नखक्षतयोऽरुणा रुरुधिरे रुधिरेण नवोढया ॥ १८॥ रविशताङ्गरथाङ्गजवोञ्चर- त्प्रथमभूधरगैरिकपुञ्जवत् । फणिभुगग्रभुवः स्फुटमुद्ययौ रुचिरमर्चिरमर्त्यपथे पुरः ॥ १९॥ अरुणरोचिरसृक्परिमुञ्चती तिमिरदन्तिघटोषसि वायुना । प्रचलितानुदिशं पटलीभव- द्भ्रमरतोमरतोदवशादिव ॥ २०॥ मघवदिङ्मुखमण्डनकुण्डल- भ्रमकराकृति बिम्बमहर्पतेः । उदधिमध्यगविद्रुमवीरुधा- मुदलसद्दलसच्छविगुच्छवत् ॥ २१॥ हर हरेति सतामरुणोदये द्विरुपदेशवशेन किलान्तरम् । अहृत बाह्यमपि प्रसभं तमो दिनकरो न करोति किमुद्यतः ॥ २२॥ तिमिरकौशिकतस्करजारिणी- कुलमलीयत केवलमीदृशैः । उदितवत्युरुतेजास शक्यते श्वसितुमासितुमालपितुं च किम् ॥ २३॥ यदद्भवद्विरहज्वरवत्पुरा तदधुना परिरम्भसुधारसम् । उपनते सति भास्वति चक्रयो- र्युगलमागलमापिबदुत्सुकम् ॥ २४॥ स्फटिकचक्रमिव स्फुटरश्मि य- द्विलसति स्म पुरा विधुमण्डलम् । गलितकान्त्यधुना धुरि गोपते- स्तदधिकं दधिखण्डमिवैक्ष्यत ॥ २५॥ अनघदुग्धमधिश्रितमाहृतं विधिवदाहवनीयहुताशने । अजुहवुः शुचयोऽध्वरिणस्तदा नवपयो वपयोपमितं रसे ॥ २६॥ स्फुरितदक्षिणबाहुदृशौ तु तौ विहितकाल्यविधी मुनिपुङ्गवौ । मनसि देवमचिन्तयतां तदा नियमतो यमतोदकपादुकम् ॥ २७॥ मिहिरमम्बरमध्यगतं क्रमा- दुपचितोष्मभरः स्वकरोत्करम् । ददृशुरात्मविदो दधतं वपु- र्हरमयं रमयन्तमुपासकान् ॥ २८॥ क्वचन धूमरुचो विलुलोकिरे क्वचन निर्मलवज्रमणीरुचः । क्वचन नीरधिनीररुचो रवेः क्वचन काञ्चनकान्तिधराः कराः ॥ २९॥ न पिबति स्म नितान्ततृषाकुलं मृगकुलं तरुमूलमुपेत्य च । अनु विशङ्क्य बतात्मविलोचनैः समकरं मकरन्दमयं हृदम् ॥ ३०॥ सुखमशेत युवा शिशिरे वधू- कुचतटे कलहंस इवाम्बुजे । अपिबदध्वगबृन्दमपोंशुना सह रवेर्हरवेश्मितवर्ष्मणः ॥ ३१॥ नवपतङ्गशिलानलदर्शन- स्मृतहरालिकदृक्सतरक्षुपात् । उरगराडभिषेकमुमापते- र्विहितवान्हितवाञ्छितदायिनः ॥ ३२॥ तदहरेव दयाब्धिसुधाझरी- सहचरीभिरलं सुखयञ्जगत् । द्युतिभिराविरभूदिह धूर्जटि- र्धुरि तयोरितयोरमलात्मताम् ॥ ३३॥ जयति तिल्ववनं जगतीतले जयति तत्र पुरं च चिदम्बरम् । जयति तत्र सभा च पुरेत्यभू- द्बहलकाहलकाकलितारवः ॥ ३४॥ ददृशतुः शिवमम्बिकया समं चपलया शरदभ्रमिवाद्भुतम् । परिणतैः सुकृतैः प्रणयान्मिथः समुदितौ मुदितौ मुनिपुङ्गवौ ॥ ३५॥ द्रुतमतर्कितदर्शनविस्मितौ शिवमुभौ प्रणिपत्य जगत्पतिम् । सपदि तुष्टुवतुः सविधभ्रम- द्दिविषदं विषदन्तुरकन्धरम् ॥ ३६॥ पदयुगं भवदीयमभूदिदं नयनयोरयनं सुकृतेन नः । न ददृशे पुरुषेण पुरा चिरा- दिह वराहवराकृतिनापि यत् ॥ ३७॥ स्वजनरक्षणतद्रिपुशिक्षण- व्यसनिता विदिता ननु ते विभो । यदुदपादि मृकण्डुसुतापदां प्रशमनं शमनं भवता घ्नता ॥ ३८॥ स्वजनमत्र चिराय समुत्सुकं प्रमदनाट्यरसं वस पाययन् । सह तरक्षुपदा स पतञ्जलि- र्मदनमर्दनमर्थितवानिति ॥ ३९॥ अथ ननर्त हरः सदसोऽन्तरे दरनिकुञ्चितवामपदाम्बुजः । तदुपरि प्रहितस्फुरदङ्गद- स्वभुजगं भुजगं परिनर्तयन् ॥ ४०॥ भृशमनर्ति पिनाकभृता घना- घनगभीररवभ्रमकारिभिः । डमरुकध्वनिभिर्गुहवाहनं कलयता लयतालसमक्रमम् ॥ ४१॥ अभयमुद्रितमेकतरं दध- त्करमुमापतिरन्यमुदर्चिषम् । किमपि संसदि कोमलताण्डवं व्यतनुतातनुतापहरं नृणाम् ॥ ४२॥ ध्वनिकृता नटनामृतवर्षिणा तटिदुदारजटाततिशालिना । शमिततापशता मुनयोऽमुना मुमुदिरे मुदिरेण नगा इव ॥ ४३॥ पशुपतेर्नटनं परिपश्यतां न हि मनो विषयान्तरमृच्छति । कुलमपि स्वकृतेः पशुपक्षिणा- मुपरतं परतन्त्रमभूद्यतः ॥ ४४॥ तदिदमद्भुतताण्डवमुत्सुकौ समवलोक्य सदाशिवमूचतुः । यमिवरौ त्रसतो यमराण्महा- भुजगतो जगतोऽस्य हितैषिणौ ॥ ४५॥ जय जयामितबोध सुखाम्बुधे जय जयादृतदिव्यतराकृते । जय जयैच्छिकलोकजनिस्थिति- प्रलय पालय पादनतं जनम् ॥ ४६॥ हरिविधिप्रमुखैरमरैः समं वस चिरं रचयन्निह ताण्डवम् । इति मुनी विभुमात्मशिरः सतां सुलभमालभमानमयाचताम् ॥ ४७॥ अथ तथेत्यभिधाय स ताण्डवं विरचयन्निजभक्तवरप्रदः । अधिवसत्यधुनापि चिदम्बरं सुरुचिरं रुचिरञ्जितदिक्तटम् ॥ ४८॥ इदमुदन्तमवेत्य रविः स्वयं वरुणलोकजनाय सविस्मयः । गदितुकाम इवास्तगिरेस्तटं द्रुततरस्ततरश्मिरगाहत ॥ ४९॥ चरमभूभृदशोकगुलुच्छव- द्रविरहर्विरमेऽरुचदात्मनि । अवतरद्धरिकौस्तुभतेजसा विहितरोहितरोचिरिव स्थितः ॥ ५०॥ प्रणयनक्षणपल्लवितानल- ध्वजविलोकनतः शयितुं वनात् । अनघमाश्रममण्डलमादरा- दुरुचमूरुचमूरुपशिश्रिये ॥ ५१॥ सहरथे चरमाचलश‍ृङ्गतो निपतति द्युमणौ नियतेर्बलात् । उचितमेव रथाङ्गयुगं हि य- द्विजघटे जघटे च तमोजनिः ॥ ५२॥ ज्वलति सान्ध्यमरीचिमिषाद्बहि- र्विरहिशोकशिखावति विश्वतः । उडुशतोदयकैतवतोऽस्फुट- द्वियदहो यदहोभिरनीदृशम् ॥ ५३॥ अतिविविक्ततयानि यज्जग- त्सकलमर्थसमूहमवैक्षत । निपतिते निजचक्षुषि नाशक- त्सतमसं तमसन्तमिवेक्षितुम् ॥ ५४॥ उदजिहीत हुतोऽग्निरिवोदया- चलतटान्मदनेन जयार्थिना जलधिना जनकेन कटाक्षितो हिमकरो मकरोत्थितिकैतवात् ॥ ५५॥ अकृत धूममिवाङ्कमसौ वह- न्विरहिणीर्हरिणीरिव विह्वलाः । उदयशैलदवाग्निरिवोन्मिष- त्तरुणिमारुणिमानमुदञ्चयन् ॥ ५६॥ अथ चकोरकुलैरतिचूषणा- त्किल गतोऽर्जुनतां खमहोदधौ । मदनकेलिमराल इवाययौ जनमनो न मनोचितदीधितिः ॥ ५७॥ अरमगस्त्य इवाम्बुधिमत्रिजे पिबति सन्तमसं परिशेषिता । मुहुरदृश्यत मौक्तिकपङ्क्तिव- द्भुवि ततो विततोडुततिर्दिवि ॥ ५८॥ उदितवत्युडुनेतरि मानिनी- जनमनः शशिकान्तवदुद्द्रवम् । अजनि कान्तसमागमतो यथा कुमुदमुन्मुदमुञ्चत च ज्वरम् ॥ ५९॥ प्रणयिनामनुरागवचः क्रमः प्रणयिनीसविधे शुकहस्तया । अकथि दूतिकयार्धमतिर्हि त- न्मुखगतः खगतः प्रकटः परः ॥ ६०॥ अखिलमन्यथयन्सुदृशोऽग्रतो न हि शशाक विटोऽपि निगूहितुम् । कुलटया कलितं बत यद्रते- ऽधरदलं रदलम्भितलक्ष्म तत् ॥ ६१॥ तदनु कोपनयापि तया हठा- दतितरामपराधकृदप्ययम् । शशधरोदयतः स्मरतः सखी- वचनतश्च नतः परिषस्वजे ॥ ६२॥ चषकमध्यगतादधिवासिता- द्दलितबालरसालदलादिभिः । प्रणयिनो नवशीधुरभूद्भृशं मदयिता दयितामुखवासितः ॥ ६३॥ प्रियतमेऽधरपानसमुत्सुके विवलिताननवारिरुहः शुकी । कुचतटस्पृशि क्लृप्तचमत्कृते- र्वरतनोरतनोदनुमोदनम् ॥ ६४॥ रहसि यातिरसादुपभुक्तव- त्युपपतिं यदुपाहृतमङ्गना । सबहुमानमतोष्यत सा सखी चिरतरं रतरञ्जितया तया ॥ ६५॥ प्रियतमेन बलादुपभुक्तया रहसि बालिकयैश्नि सलज्जया । निजहृदुत्थितनव्यनखक्षता- वलिकुचे लिकुचेन समे मुहुः ॥ ६६॥ परिजना इव जालकपद्यया निभृतमेत्य निशान्तमकारयन् । शशिकराः सुदृशां सुरतश्रमा- पनयनान्नयनाम्बुजमीलनम् ॥ ६७॥ कैशिकं न कमितुर्गणयन्त्या साहसेन बहुमन्तुमनाहि । प्राग्ययाद्य पुनरस्य पुरोऽभू- त्सा हसेन बहुमन्तुमना हि ॥ ६८॥ विततैः स्वकरैर्वियोगभाजां विधुनानेन समन्ततो मनो भूः । उददीपि च माधवेन सख्या विधुनानेन समं ततो मनोभूः ॥ ६९॥ पशुपतिनटनैः परिस्फुरद्दोः शुचिभसितैरजनि प्रसाधिताशैः । हिमकरकिरणैश्च हर्षिता भूः शुचिभसितै रजनिप्रसाधिताशैः ॥ ७०॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं चतुर्थं व्यधात् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये चतुर्थः सर्गः सम्पूर्णः ।

५. पञ्चमः सर्गः

तस्मिन्काले देवतासार्वभौमः स्रष्टा यष्टुं सत्यलोकात्सदारः । निश्चक्रामानुद्रुतो नारदाद्यै- र्दूरं गङ्गातीरमुद्दिश्य देवैः ॥ १॥ ध्यायं ध्यायं दिव्यगङ्गातरङ्गा- नाधावन्तं राजहंसावतंसम् । आरूढोऽसावध्वरस्थापितोच्चै- र्यूपं गङ्गानूपमापाभिरूपम् ॥ २॥ श्रीमानेष श्रीशपादाब्जमाध्वीं नीलग्रीवप्ताहिनिर्मोकवल्लीम् । वीक्षांञ्चक्रे भूवधूहारयष्टिं स्वार्निःश्रेणीं सागराणां च गङ्गाम् ॥ ३॥ कूलास्फालालोलकल्लोलजाल- स्फायत्फेनश्वेतमानप्रवाहा । आकूपारादा हिमाद्रेश्च मूर्ता दृष्टा कीर्त्तिर्या दिलीपात्मजस्य ॥ ४॥ बालेवालं प्रस्तरास्फालनोद्य- त्पाथोबिन्दुप्रौढमुक्ताफलानि । उत्क्षिप्योत्क्षिप्याददानोर्मिहस्तैः प्रालेयार्द्रेर्या परिक्रीडतेऽङ्के ॥ ५॥ दन्तादन्ति क्रीडतां दिग्गजानां गण्डोड्डीनैः कीर्यमाणं द्विरेफैः । हन्त स्नानात्पूर्वमध्यात्तगन्धं गन्धर्वीभिर्धूयते यत्र कैश्यम् ॥ ६॥ स्नातुं दारैः साकमेकत्र सङ्घ सप्तर्षीणां सैकते सन्निधत्ते । क्वापि स्वर्गग्रामणीः सावरोधः प्रातर्यत्रान्यत्र चार्याः सभार्याः ॥ ७॥ अम्भो यस्याः शम्बरं हस्तदेशे मङ्क्तुः क्षीरं मूर्ध्नि कण्ठे विषं च । अङ्गेष्वन्येष्वाकलय्यामृतं च प्राहुस्तत्तच्छब्दवाच्यं प्रवाचः ॥ ८॥ बुद्ध्वा यस्याः पातकध्वंसदीक्षा- माशङ्क्यान्तः स्वाधिकारच्युतिं द्राक् । प्रेतेशः किं प्रेषयामास भीतः सौहार्दाय स्वस्वसारं प्रयागे ॥ ९॥ चण्डीलक्ष्मीजन्मभूमी स्पृशन्ती- माद्यं ताभ्यामादरात्तद्वयस्याम् । मत्वा नूनं मध्यदेशे मिलित्वा सख्यायान्तर्यां सरस्वत्युपास्ते ॥ १०॥ स्नात्वोत्तिष्ठत्यत्र जन्तुस्त्रिवेण्यां कण्ठे नीलः केशपाशे पिशङ्गः । गात्रे शुभ्रः सूर्यकन्यासरस्व- त्यभ्रह्रादिन्यानुरूप्यं बिभर्ति ॥ ११॥ वाराणस्यां विश्वनाथोपकण्ठे कायार्धं या केदयन्ती मुमुक्षोः । तापं पापं हन्ति यत्तन्न चित्रं यस्या मोक्षः सोऽपि याथाकथाचः ॥ १२॥ कायव्यूहं प्राप्य कान्तेन साकं कामं रन्तुं गाढमभ्युत्सुकेव । स्वीकुर्वाणा स्रोतसां या सहस्रं खेलोदारं गाहते पार्श्वमब्धेः ॥ १३॥ न क्रोधो मे नाथ वर्वर्ति नित्यं नागस्त्वय्यप्यस्ति नैतन्मृषेति । क्रुध्यन्त्यागस्कारिणं सिन्धुराजं प्रत्याचष्टे या च्छलोक्तिप्रगल्भा ॥ १४॥ मौलौ शम्भोर्मालिकावद्विभाती निर्गच्छन्ती या नखांशुच्छटेव । विष्णोः पादाद्व्याकरोत्येतदैक्यं तन्मूलं हि स्नौति पूरो यदग्रे ॥ १५॥ पद्मानेतुः पादनिर्नेजनाम्भो मत्वाचामन्किं मुनिर्जह्नुनामा । सद्यः स्मृत्वा शम्भुनिर्माल्यभावा- च्चण्डेशार्हां श्रोत्रतो यामहासीत् ॥ १६॥ भूरि स्वैरं यत्पुरा भूतिजालं स्रोतोलीढं शङ्करीये कपर्दे । चन्द्रस्निग्धं सैकतव्याजतस्त- द्वारिप्रान्ते या वमन्तीव भाति ॥ १७॥ युक्ता वाचो युक्तिरस्यां सरस्व- त्यन्तर्वाहिन्यास्त इत्याप्तवाचाम् । पायं पायं पामराश्चाम्बु यस्याः सारं निष्ठीवन्ति सारस्वतं यत् ॥ १८॥ पाथोहस्तिग्राहपाठीनमीन- व्यालीभेकीकर्कटीकच्छपीभिः । वीचीमध्यव्यञ्जितोद्ग्रीविकाभिः सायाह्ने या दर्शनीया समिन्द्वे ॥ १९॥ तीरे यस्या देवदारूपगूढे मध्याह्नार्कम्लानकर्णावतंसाम् । भिल्लः स्वैरं पाययन्नम्बु भिल्लीं दत्ते नाकेऽनादरं देवयूनाम् ॥ २०॥ शाखाभेदश्लाघनीयाकृतीनां तीरोपान्तस्थायिनां दिव्यधाम्नाम् । भूदेवानां भूरुहाणां च वृन्दैः प्रातः प्रातर्यार्च्यते पुष्पवर्षैः ॥ २१॥ अन्तर्वेदीनाम्नि तत्तीरसीम्नि स्रष्टा सृष्ट्वा यज्ञशालां यियक्षुः । ब्रह्माध्वर्यूद्गातृहोत्राद्युपेत- स्तत्र प्रेम्णा दारयुक्तो दिदीक्षे ॥ २२॥ अभ्यक्तोऽङ्गेष्वेष हैयङ्गवीनै- रष्टस्वक्षिष्वञ्जनोदञ्चितश्रीः । क्षौमं विभ्रचर्म चैणं विषाणं मेने लोकैर्मूर्तिमानेष धर्मः ॥ २३॥ अग्नाविष्णू दक्षिणीयाख्ययेष्ट्या धिन्वन्वेधा देवताः सम्प्रगृह्य । पश्चादिष्टिं प्रायणीयां वितत्य क्रीते सोमेऽयष्ट चातिथ्ययेष्टया ॥ २४॥ प्रातः सायं च प्रवर्ग्योपसद्भ्या- मह्नो रात्रेश्चापि मध्यं व्रतेन । शेषं कालं शास्त्रवादप्रवीणैः सभ्यैर्निन्ये साकमम्भोजयोनिः ॥ २५॥ तत्र भ्रेजे घर्मतापाभियोगा- दग्निज्वालामुद्वमन्नाननेन । द्वित्रैः पुम्भिर्वीज्यमानो धवित्रै- र्मध्ये रुक्माङ्को महाराज एकः ॥ २६॥ सुब्रह्मण्ये सामभेदैस्तदानी- मिन्द्रागच्छेत्याह्वयत्यप्यमन्दम् । तिल्वारण्ये देवराडिन्दुमौले- र्नाट्यासक्तो नागमन्नित्यतृप्तः ॥ २७॥ देवैः साकं देवराजं विरिञ्च- स्तत्तादृक्षं दिव्यदृष्टया विदित्वा । तैरानेतुं तं हविर्भागहेतोः पुत्रं तावत्प्रेषयामास तूर्णम् ॥ २८॥ धीरस्तिल्वारण्यदेशं स गत्वा नत्वा शम्भुं नारदस्तस्य पार्श्वे । साकं देवैः सन्ददर्शामरेशं तृप्तं नित्यं ताण्डवालोकनेन ॥ २९॥ अन्तर्नाट्यानन्दपूरेऽभिवृद्धे देवस्याग्रे तत्परीवाहकल्पम् । अक्ष्णां वृन्दैर्बिभ्रदानन्द बाष्पं वज्री वीणायोगिना व्यालुलोके ॥ ३०॥ शम्भूत्तंस्यच्चन्द्रपादैः स्रवन्त्या चन्द्रग्राव्णा क्लृप्तया शक्रमूर्त्या । आनन्दाश्रुव्याकुलाक्षोऽमुनाग्रे साक्षादिन्द्रो वीक्ष्यते स्माविशेषम् ॥ ३१॥ नम्रो गत्वा नारदस्तं कथञ्चि- त्पित्रादिष्टं प्रापयन्नर्थमेनम् । नित्यानन्दावाप्तितो निर्वृतेन प्रत्यूचेऽथैनेन भावानुरूपम् ॥ ३२॥ यज्ञैर्दानैर्यं तपोभिश्च शुद्ध- स्वान्ताः शान्ताः साधवः सद्गुरूक्त्या । बुद्ध्वाखण्डानन्दबोधात्मरूपं तेरुः शोकं तं मुने पश्य देवम् ॥ ३३॥ अस्मिन्नर्कद्योतमध्ये नदीवो - देति भ्रान्त्या खानिलाग्न्यम्बुभिर्भूः । अन्तर्धत्ते चात्र तत्त्वावबोधा- त्स्रज्यध्यस्ता सर्पिकेव क्षणेन ॥ ३४॥ सारं वच्मि श्राव्यमा ब्रह्मलोका- दाशावीचेः सञ्चरन्नेष जन्तुः । भूयो भूयः प्राप्नुवञ्जन्ममृत्यू कर्माधीनः क्व क्षणं निर्वृणोतु ॥ ३५॥ क्षीणे पुण्ये मर्त्यलोकं विशन्ती- त्येषा गीता यानभिप्रेत्य वृत्ता । शोच्यस्तेभ्यः कोऽन्य इत्यात्मनीनाः कर्म त्यक्त्वा केचन प्रव्रजन्ति ॥ ३६॥ निष्ठाः केचिन्निर्विकल्पे समाधौ बोधात्मानं पूर्णमन्तर्बहिश्च । शम्भुं सान्द्रानन्दमध्यक्षयन्तो मन्यन्तेऽपि ब्रह्मलोकं तृणाय ॥ ३७॥ कामक्रोधौ यस्य यस्याशनायो- दन्ये यस्यावश्यिकौ जन्ममृत्यू । चित्तं प्राणो देह इत्याहुरेत- त्साक्ष्ये तस्याहं तु सच्चित्सुखात्मा ॥ ३८॥ शंसत्येवं स्वानुभूतिं सुपर्व- ग्रामण्यामाकारणे कुण्ठिताशः । प्रत्यावृत्य ब्रह्मणे तं सुरर्षि- र्हन्त व्याचष्टाशयं देवनेतुः ॥ ३९॥ आकर्ण्यदं नारदादात्मयोनिः कल्यन्ते या कर्महानिर्भवित्री । सद्यः प्राप्तां शङ्कमानः स्वयं तां तिल्वारण्यं देहभेदेन भेजे ॥ ४०॥ शुद्धः स्नात्वा शैवगङ्गेऽम्भसीह प्रत्युद्यातो दैवतैः पद्मयोनिः । व्याहृत्यादौ व्याघ्रपादेन साकं शम्भुं नत्वा साधु तुष्टाव पश्चात् ॥ ४१॥ यो देवानामादिभूतं पुरस्ता- न्मामद्राक्षीज्जायमानं महर्षे । स त्वं पुत्रं शाधि सर्वाधिकैनं साध्व्या बुद्ध्या चापि संयोजयस्व ॥ ४२॥ प्रायेणाहोरात्रिभेदादिशून्ये काले मायाकर्बुरे केवलस्त्वम् । पर्यालोच्य प्राणिकर्मप्रभेदं चित्रं विश्वं सृष्टवानस्युमेश ॥ ४३॥ ब्रह्मा विष्णू रुद्र इन्द्रस्तथान्ये त्वत्तो जातास्त्वं तु सर्वस्य हेतुः । शम्भो सर्वस्येशिषे येन तस्मा- द्योगिध्येयः शश्वदेकस्त्वमेव ॥ ४४॥ अज्ञात्वा त्वत्तत्त्वमादित्यवर्गः पप्रच्छ त्वां को भवानित्यथास्मै । सर्वात्माहं सर्वकालानपायी नान्यो मत्तोऽस्तीत्यवोचः स्वरूपम् ॥ ४५॥ स्तोतुं साकं चेतसा द्राक्प्रवृत्ताः सर्वा वाचः शक्तिशून्या निवृत्ताः । अप्राप्य त्वामित्यहो वेदवादे- ऽप्यज्ञः स्तोतुं हन्त सोऽहं प्रवृत्तः ॥ ४६॥ वेदस्त्वन्निःश्वासभूतस्त्वयादौ क्लृप्तः कर्मब्रह्मकाण्डात्मको यः । तस्येदानीमङ्गतस्तावदास्ते प्रामाण्याप्रामाण्ययोगः प्रसक्तः ॥ ४७॥ आज्ञाभूतं ते श्रुतिस्मृत्यशेषं तस्य स्यादुल्लङ्घने दोषभूमा । अज्ञो जन्तुर्नन्वनीशोऽयमातः सर्वज्ञे किं न्वस्ति विज्ञापनीयम् ॥ ४८॥ ब्रह्मण्यब्रह्मण्यमेवं ब्रुवाणे सानुक्रोशः शम्भुरेनं जगाद । अद्यारभ्याटन्तु गामध्वराशा अंशैः स्वैः स्वैरास्यतामत्र चेति ॥ ४९॥ शम्भोरेवंभावमम्भोजजन्मा व्यक्तं बुद्ध्वा व्याघ्रपादानुयातः । ईशं नत्वा यज्ञदेशं यियासुः प्राप्तानन्दः प्रार्थयामास सभ्यान् ॥ ५०॥ आर्याजानेराज्ञया व्याघ्रपादो ये तत्रासन्यज्ञकर्मप्रवीणाः । सङ्ख्यावद्भिस्तैः सहस्रत्रयेण ब्रह्माणं प्रातिष्ठिपद्भूसुरेन्द्रैः ॥ ५१॥ तिल्वारण्यादुत्थितस्तैः सहैव व्योमाध्वानं व्योमयानेन तीर्त्वा । वेगादन्तर्वेदिमासाद्य सद्य- स्तत्रत्यं स्वं देहमेष प्रविष्टः ॥ ५२॥ सभ्यैरेभिः साकमृत्विक्प्रवेकै- स्तावद्यज्ञे ब्रह्मणस्तायमाने । अस्यागच्छन्हव्यमादातुकामा देवास्तत्र द्योतमानैर्विमानैः ॥ ५३॥ स्वैरं भुक्त्वा षड्रसोपेतमन्नं भूषावासोभूषितो दिव्यगन्धः । विद्वल्लोको वीटिकाभृत्सभायां तुष्टः सङ्घीभूय तुष्टाव यज्ञम् ॥ ५४॥ प्राग्वंशात्प्राक्सोमवेद्यां सदोऽग्नी- द्गेहोपेतायां हविर्धानवत्याम् । अग्निश्चिक्ये पुच्छपक्षात्मशीर्षै- र्युक्तो यज्ञस्यैव वाहोऽवतीर्णः ॥ ५५॥ तस्मिन्नेव स्थण्डिलेऽग्निः प्रणिन्ये बैल्वे यूपे पूर्वतः स्थापितस्य । अग्नीषोमीयः पशुश्चाबबन्धे नेतुर्वाहस्तत्समीपे हि नाह्यः ॥ ५६॥ अन्यत्रास्ते यांहसो हेतुरार्या- स्तां हिंसां तद्धवंसिनीं तत्र बुद्ध्वा । आजिघ्रन्तो होमगन्धं वपाया आज्ञां शम्भोरद्भुतामभ्यनन्दन् ॥ ५७॥ अध्वर्युर्वसतीवरीरथ गृहीत्वापोऽर्धरात्रे हवि- र्धाने साध्वभिषुत्य सोममभिसङ्गृह्य ग्रहेषु क्रमात् । हुत्वा सद एत्य शिष्टमिह सम्भक्ष्यानुमान्य स्तुतं शस्त्रं च प्रतिगीर्य सोऽनुसवनं युक्तान्वितेने विधीन् ॥ ५८॥ उद्गातरि स्तुवति सामभिरात्तशस्त्रो होता कथं तदुपरि क्रमतेऽथ तस्मै । अध्वर्युराः प्रतिगृणाति कथं कथं त- द्ब्रह्मानुमन्यत इति प्रजगुः कवीन्द्राः ॥ ५९॥ विधिवदवभृथान्ते विस्तृतं दक्षिणाभिः सुरसरिदुपकण्ठे सप्ततन्तुं समाप्य । वरमृषिगणमन्तर्वेदिदेशे निवेश्य स्वयममरयुतोऽजः सत्यलोकं जगाहे ॥ ६०॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं व्यधात्पञ्चमम् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये पञ्चमः सर्गः सम्पूर्णः ।

६. षष्ठः सर्गः

गुणनिधिरिह तर्हि गौडनाथो विपुलबलोऽजनि विक्रमाङ्कनामा । दशरथ इव यो द्वयोर्महिष्योः शुभगुणयोस्तपसाभजत्सुतांस्त्रीन् ॥ १॥ शिवभजनकृदेषु सिंहवर्मा तनयवरेषु दयालुरग्रजन्मा । पितुरनघगुणैः प्रियोऽतिमात्रं समजनि राम इव श्रितानुकूलः ॥ २॥ प्रवयसि पितरि प्रचोदयत्य- प्यवनिपरिब्रढिमानमजोऽपि । अयमनुमनुते स्म न त्वगार्त्या लुलितमना भरताम्बयेव रामः ॥ ३॥ सितवपुरधिकं स सिंहवर्मा शतभिषगाहितसत्क्रियोऽपि शश्वत् । विधुरिव हृदये वहन्कलङ्कं कृशतनुराश्रितवान्गिरीशमेत्र ॥ ४॥ व्युदसितुमयमङ्गभूविकारं बत बहिरन्तरिव प्रसह्य जातम् । अचकमत शिवार्चनेन शश्व- त्स हि विदितः स्मरशत्रुरादिवैद्यः ॥ ५॥ शिवचरणसमर्पितान्तरः श्री- शिखरिवटाटविकालहस्तिकाञ्चीः । नियतमतिरटन्निषादयूना सममभजञ्च चिदम्बरं कदाचित् ॥ ६॥ अविकलहठयोगराजयोगा- भ्यसनपरैः शुकशारिकार्भकैर्यत् । परिचितपदभाष्यफक्किकैश्च प्रथितपतञ्जलिपुण्यपर्णशालम् ॥ ७॥ घनतरसुकृताद्रिकूटकल्पैः शिवचरणाब्जसमर्पितापनीतैः प्रथयति ननु बिल्वराशिभिर्य- त्सुरभितरक्षुपदोटजं समन्तात् ॥ ८॥ परिचितभसितत्रिपुण्ड्रपञ्चा- क्षरशतरुद्रजपाः सदा मुनीन्द्राः । पशुपतिपशुपाशबन्धमोक्षा- द्यखिलपदार्थविदो यदावसन्ति ॥ ९॥ चिरतरसुकृतैश्चिदम्बरं त- त्पुरमधिगम्य तरक्षुपादमत्र । शरणमुपजगाम सिंहवर्मा रविमिव साम्बमुरुत्विषं रुजार्तः ॥ १०॥ स्फुटतरशिवभक्तचिह्नमेनं विनयमिवाद्यतविग्रहं महर्षिः । अभिमुखमतिशीतलैरपाङ्गै- रसुखयदिन्दुरिवांशुभिश्वकोरम् ॥ ११॥ ऋषिवरमवलोक्य राजपुत्रो घनमिव तापकदर्थितः शिखीन्द्रः । हृषिततनुरुहोऽतिहृष्टचेताः श्रुतिसुखदां गिरमाददे गभीराम् ॥ १२॥ सुकृतसुरमहीरुहैरिदानीं फलिभिरभावि मदीयपूर्वपुंसाम् । चरणकमलसेवया यतस्ते चिरमहमस्मि चराचरेषु धन्यः ॥ १३॥ जगति पतिमपामपादगस्त्यः शयचुलुकेन पुरेत्यहं श‍ृणोमि । दुरितजलधिशोषणक्षमं त्वां पदरजसाद्य परं निशामयामि ॥ १४॥ कुरु मयि भगवन्कृपां क्षणं ते मनसि निवेदितमस्तु मामकीनम् । तव सविधमुपागतस्त्वगार्त्या धरणिपतेस्तनयोऽस्मि सिंहवर्मा ॥ १५॥ जगदुपकृतयेऽत्र जागरूकं शरणमुपैमि भवन्तमीदृशोऽहम् । किमु जगति घनाघनं विनैकं गतिरितरास्ति कृशस्य चातकस्य ॥ १६॥ अनुपधिकमनुग्रहं विधेहि प्रबलगदाभिहते मयि प्रपन्ने । ननु जनपरितापनोदनाय प्रभवति स द्विजराज एव पूर्णः ॥ १७॥ क्व नु मम जननं क तिल्वदेशः क्व च बत मच्चरितं क्व दर्शनं ते । अघटित घटनापटीयसीभिः शिवकरुणाभिरहो समुज्जजृम्भे ॥ १८॥ इति निगदति दीनमिङ्गितज्ञो धरणिपतेस्तनये तरक्षुपादः । अविकलमकरोदनुग्रहं य- त्सदयहृदः शरणागतेषु सन्तः ॥ १९॥ अलिकगतशुभाक्षराङ्कुरोत्थि- त्यनुगुणदोहलभास्मनत्रिपुण्ड्रम् । स्नपयति पयसि स्म शैवगङ्गे स तमुपवासकृशं कृशानुकल्पः ॥ २०॥ अमुमथ शिवगङ्गयाभिषिक्तं कनकरुचिं विरचय्य कञ्चिदस्मै । मनुवरमुपदिष्टवान्महर्षि- र्वितरति च स्म हिरण्यवर्मसंज्ञाम् ॥ २१॥ अवसदिह तदाद्यसौ प्रसक्तः सततमनन्यमनाः शिवार्चनायाम् । उपनमति महत्युपप्लवेऽपि क्वचन मृकण्डुकुमारवद्दृढात्मा ॥ २२॥ त्रिपुररिपुजपी त्रिकूटशैले त्रिषवणमञ्जनकृत्त्रिपुण्ड्रधारी । त्रिकरणविमलस्त्रिलोकनेतु - स्त्रिपुरभिदोऽकृत स त्रिकालपूजाम् ॥ २३॥ हिमकरमकुटं हिरण्यवर्मा परिचरति स्म तथैव पार्वतीशम् । सततमपि यथा सभा मुनीना- मभिनवमेनमगस्त्यमेव मेने ॥ २४॥ जनकमथ कदाचिदस्य जीर्णं प्रतिनृपतिः प्रवसत्सुतं च बुद्ध्वा । त्रिदिवसममदः पदं जिघृक्षु- र्द्रुतमभिषेणयति स्म दुर्विनीतः ॥ २५॥ रथगजहययोधराजिनिर्य- त्तुमुलरजोभरधूसरान्तरालात् । अपटुकरणमम्बरात्पतन्तो रथशिखरं परिरेभिरेऽस्य गृध्राः ॥ २६॥ अपि च रथशिरस्यसह्यपातं सपदि निषद्य समं मुखानि गृध्राः । अनुपदमुदतेजयन्नबाधं कठिनकलेवरकर्तनेच्छयेव ॥ २७॥ विपुलवलदकाण्डचण्डवात- व्यतिकरनिर्दलितोऽस्य केतुदण्डः । अपतदधिबलं तदानुकुर्व- ञ्शमनकरेरितकालदण्डरीतिम् ॥ २८॥ प्रबलपटहभेरिशङ्खनादैः प्रलयघनाघनगर्जितप्रकाण्डैः । शिथिलितजगदण्डसन्धिबन्धै- र्हरिदिभफीट्कृतिमांसलैरजृम्भि ॥ २९॥ सपदि वियति बभ्रमुः शकुन्ता- स्तरुशिखराणि जनास्तदाध्यरोहन् । गृहमनु निवहो गवामधाव- त्पटहरवे परितो विजृम्भमाणे ॥ ३०॥ घनमिममवकर्ण्य कर्णशूलं पटहरवं भटवीरवादमिश्रम् । विपुलभुजबलोऽथ विक्रमाङ्को निजनगरान्निरगान्नृपः ससैन्यः ॥ ३१॥ कतिचन करिकन्धराधिरूढाः पुनरितरेऽश्ववरिष्ठपृष्ठनिष्ठाः । अधिरथमपरे कृताधिरोहा बहिरगमन्नगरात्पदातयोऽन्ये ॥ ३२॥ करकलितकृपाणमात्तचापं परुषतरस्तनितं प्रसह्य गौडः । अभिमुखमरिसैन्यमभ्यधाव- च्चलतटिभ्रमिवाशु चण्डवायुः ॥ ३३॥ त्वरितमथ तुरङ्गिणा तुरङ्गी समकृतहस्तिपकेन हस्तिपालः । रणभुवि रथिना रथी भटेन प्रतिभट इत्युदभून्मिथः समीकम् ॥ ३४॥ रथिभटतुरगेभरक्तधारा- प्लुतधरणीपतदुत्पतत्कबन्धम् । उभयबलजुषामुदायुधानां सुरमुनिरैक्षत विस्मितः सुयुद्धम् ॥ ३५॥ सपदि रथिशिरांसि सारथीना- मुपरि निपत्य समं तदुत्तमाङ्गैः । अथ हयमभिपत्य तच्छिरोभिः सह युगपत्समरक्षितौ निपेतुः ॥ ३६॥ अरिभटरुधिरारुणैः शरैः खं निबिडतरं नितरां बभार शोभाम् । भटसुरसुदृशां प्रवालदण्डै- र्विधिविहितस्य विवाहमण्डपस्य ॥ ३७॥ अभिनवरुधिरारुणानि हृत्वा करिवरकर्णदलानि काकगृधैः । अनुतरुशिखमर्पितानि रेजु- र्ध्वजपटवत्त्रिदशीस्वयंवरस्य ॥ ३८॥ द्विपकरहृतदूरनुन्न एको वियति तदा सुरवारसुन्दरीणाम् । वरवरणमरं विचार्य वक्तुं तदिव पुनर्धरणीतले पपात ॥ ३९॥ स्ववदनमपरः स्वयं गृहीत्वा गगनपथेऽतिजवेन गृध्रनीतम् । अहरत मणिकुण्डलान्यनर्घा- ण्यमरपुरीगणिकादृतो विमाने ॥ ४०॥ असिविदलितहस्तिदन्तखण्डैः सममदसीयशिरोविकीर्णमुक्ताः । शरशकलितचन्द्रतारकाभा अधिसमराजिरमम्बरान्निपेतुः ॥ ४१॥ महति रुधिरमण्डले निपेतु- र्मदगजमस्तकमौक्तिकप्रवेकाः । ज्वलन इव भटाग्रणीजयश्री- परिणयमङ्गलविप्रकीर्णलाजाः ॥ ४२॥ समजनि विजयः पराजयो वा समबलयोरुभयोर्न सम्प्रहारे । कतिपयदिवसैस्तु गौडनेतुः क्षयमगमद्धनधान्यकोशजातम् ॥ ४३॥ स तु विमलमतिः समाहितात्मा सचिवगिरा शिवसन्निधौ निषण्णः । अभयवरदमात्मबन्धुमेनं चिरमनुचिन्तयति स्म शत्रुत्यै ॥ ४४॥ शरणमुपगतं सुतं मृकण्डो- रतिलघु मृत्युमुखादमोचयद्यः । अपि दशमुखमर्थित प्रदाना- दतनुत हृष्टममुष्य सोऽग्रतोऽभूत् ॥ ४५॥ मनुकुलमणिदीप मा स्म भैषी- स्तव तपसा त्वदपत्यभक्तितश्च । त्वरितमरिकुलं तवापनोत्स्या- म्यहमिति तं स वदन्नभूददृश्यः ॥ ४६॥ निरवधिकरुणानिधिर्महेशो निटिलतटीनटदीक्षणः क्षणेन । निशि निशिततरत्रिशूलहस्तो निखिलमरातिकुलं निरास्थदस्य ॥ ४७॥ पतिरपि वरणं प्रगे प्रजाना- मिदमविदन्नधिरुह्य बाह्यदेशे । अरिकुलमखिलं हतं विलोक्य प्रमुदितहृत्प्रशशंस पार्वतीशम् ॥ ४८॥ अथ नृपतिरसौ सुधीर मात्या- न्सदसि तदात्महितान्सभाजयित्वा । शिवमिदमभवच्छिवाज्ञयातः परमिह किं करणीयमित्यपृच्छत् ॥ ४९॥ प्रगुणतरपरस्परैकमत्य- द्रढिमदलत्परराष्ट्रमन्त्रतन्त्राः । प्रतिजगदुरमी परावरज्ञाः परिणतिचारु वचोऽस्य पथ्यमित्थम् ॥ ५०॥ त्वमिह नृप पिता त्वमेव माता त्वमितरबन्धुरथ त्वमीश्वरश्च । इति जगति जना हितैषिणं त्वां ननु कथयन्ति नयोन्नतं तदास्ताम् ॥ ५१॥ पलिततरशिरस्तया प्रजाना- मवनविधाधुना भवानशक्तः । प्रभवति य इह प्रधानसूनु- र्विधिवशतो भवतः स विप्रकृष्टः ॥ ५२॥ अहह जनपदेष्वराजकेषु स्वगृहकलत्रसुताः स्युरव्यवस्थाः । अथ जगदखिलं मिथः प्रकुप्ये- त्सपदि च मात्स्यनयः समुज्जिहीते ॥ ५३॥ विषयमिह विवर्जितं नियन्त्रा निभृतमरिर्निविशेत लब्धरन्ध्रः । गृहपतिरहितं गृहं विशङ्को विवृतकवाटमिवाशु विश्वकद्रुः ॥ ५४॥ उपकरणशतोपशोभमाना- प्यधिगतवत्यपि वाहिनीशमग्र्यम् । परिबृढरहिता तु पार्थिवश्री- र्न चलति नौरिव नष्टकर्णधारा ॥ ५५॥ नृपतिरिह पदान्निजादपेत- स्तृणकणतूलतुषायतेऽतिशोच्यः । घनगिरिवरगह्वराच्च्युतश्चे- दपि हि वृकैरभिभूयते तरक्षुः ॥ ५६॥ तदिह तनयमानयात्मजं तं प्रभुमवनेः कुरु भद्रमस्तु राज्यम् । दृढतरमवलम्ब्य दारुधुर्यं जगति हि तिष्ठति धाम दीर्घकालम् ॥ ५७॥ इति सचिववचो हितं निशम्य प्रकृतिभिरप्यनुमोदितः प्रजेशः । परमशिवमुपास्त भक्तियुक्तो निजतनयानयने निरूढभावः ॥ ५८॥ तदखिलमधिगम्य दिव्यदृष्ट्या निजभगिनीपतये निवेद्य चैनम् । प्रहिणु नृपसुतं पुरं प्रतीति न्यगददुपेत्य चिदम्बरं वसिष्ठः ॥ ५९॥ तदनु मुनिवचस्तरक्षुपादो हृदि शिवकार्यहितं विचार्य सद्यः । नृपसुतमनुनीय नीतिवादै- रवददिह स्थिरकीर्त्तिमस्य काङ्क्षन् ॥ ६०॥ त्वमसि शिवकटाक्षतो धुतार्ति- र्जगदवनं भुजजन्मनां हि धर्मः । तदिह निजपुरं त्वरस्व पित्रा परिचितमाप्नुहि भद्र भद्रपीठम् ॥ ६१॥ स्थित्वा कञ्चन कालमात्मनगरे कृत्वा प्रजारञ्जनं प्रत्यागम्य चिदम्बरं पुनरिदं श्रीराजधानीं प्रभोः । निष्पाद्यात्र शिवस्य वेदविहितां नित्यां च नैमित्तिकी- मन्तर्वेदिगतैर्वितानय महापूजां मुनीन्द्रैरिति ॥ ६२॥ स तथेति समेत्य गौडदेशे निजराज्यं परिभुज्य शश्वदत्र । त्रिसहस्रयुगेत्य तिल्वदेशं शिवकैङ्कर्यमिह स्वयं वितेने ॥ ६३॥ अष्टप्राकारजुष्टं हरिरुचिरचतुर्गोपुराग्र्यं सहस्र- स्तम्भोत्तम्भाभिरामस्फटिकमयमहामण्डपं सत्तटाकम् । वीथीभिर्भासमानं विविधमणिगृहं पुण्डरीकाभिधानं शिल्पिश्रेष्ठैर्विचित्रं व्यरचयत पुरं शाश्वतं हेमवर्मा ॥ ६४॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं तु षष्ठं व्यधात् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये षष्ठः सर्गः सम्पूर्णः ।

७. सप्तमः सर्गः

एकदा किल हिरण्यवर्मणा क्लृप्तमन्त्र शिवकार्यमद्भुतम् । प्रेक्ष्य तुम्बुरुरितो गतो दिवं पृष्ट एवमवदद्बृहस्पतिम् ॥ १॥ श्रीनटेश शिवकामसुन्दरी- नित्यवासनिबिडीकृतोत्सवा । वेदशास्त्रविपणिर्विराजते पुण्डरीकनगरीति भूतले ॥ २॥ यत्र हाटकसदस्यहर्निशं नृत्यतो निटिलचक्षुषो मुदा । पूर्वसागरतरङ्गभाङ्कृति- र्व्याकरोति घनवाद्यवैखरीम् ॥ ३॥ सौधगोपुरगृहैः सहैव या प्रस्थितेव निलयं पतञ्जलेः । लक्ष्यतेऽधिशिवगङ्गमुल्लस- न्त्यम्बुबिम्बनवशादधोमुखी ॥ ४॥ पूर्वतन्त्रपदभाष्यभाषिणौ यत्र जैमिनिपतञ्जली उभौ । पूर्वमद्य तु परःशता बुधा- स्तादृशाः प्रतिवसन्ति दुर्जयाः ॥ ५॥ सारहीरमणिसौधदीधिति- व्यापनेन वितमस्यहर्निशम् । यत्र तर्ककृद्भावमर्चिषा- मन्धकारपदवाच्यमास्थितः ॥ ६॥ यत्र यज्वगृहधूमधोरणी ज्यां दिवोऽवतरतां हविर्भुजाम् । वालवायजशिलाविनिर्मिता रोहणालिरिव लक्ष्यतेऽम्बरे ॥ ७॥ हर्म्यभूरगुरुधूमण्डली कुर्वती नभसि कालिकाश्रियम् । यत्र शश्वदुपयाति निर्भरं नीलकण्ठनटने निदानताम् ॥ ८॥ पद्मरागमणितोरणच्छटा पाकशासनशरासनोज्ज्वले । नीलसौधनवनीरदान्तरे यत्र भान्ति युवतिक्षणप्रभाः ॥ ९॥ चारु यत्सदनचन्द्रशालिका- जालकान्तरचरो विधुर्ध्रुवम् । चुम्बितो युवजनैः प्रियास्यमि- त्यङ्कवानजनि तद्रदक्षतैः ॥ १०॥ व्योमसिन्धुजलवीचिशीतल- स्फीतकेतनपटाञ्चलानिलैः । यत्र सौधशिखरेषु यौवतं सञ्चरत्सुरतखेदमुज्झति ॥ ११॥ क्वापि यत्र पटवासपांसुले केलिसौधशिखरे कुमारिकाः । कुल्ययाभ्रसरितः कुतूहला- त्पोषयन्ति नवपुष्पवाटिकाः ॥ १२॥ प्रोन्नतेषु किल पूर्वपश्चिम- स्वर्णगोपुरशिरःसु सङ्गता स्वर्णदीसितवितानसम्पदं तन्वती वियति यत्र दृश्यते ॥ १३॥ यत्र वज्रमयगोपुरस्फुर- च्छत्रमध्यचरमर्कमण्डलम् । वेदितुं दिवि विधुन्तुदो झटि- त्यक्षमो गिलति हन्त जातुचित् ॥ १४॥ रत्नसालरुचिमण्डलं दिवि व्याप्तमात्रपरिवेषविभ्रमम् । पुष्पवद्विरहितं प्रपद्यते यत्र विष्णुपदहंसकश्रियम् ॥ १५॥ वीक्ष्य केलिवनसीम्नि सुभ्रुवां यत्र चारुगतिमेतदीप्सया । स्नाति हंसमिथुनं मृणालभु- ग्दीर्घिकासु सवनत्रयं शुचि ॥ १६॥ नालिकेरतरवो निजैः फलैः शैवगाङ्गसलिलानि बिभ्रतः । स्वर्गसिन्धुपयसो निरीक्षितुं स्वादिमानमिव यत्र सून्नताः ॥ १७॥ अग्रसीम्नि शिशिरात्ययेऽङ्कुर- त्पल्लवं क्वचन बिल्वकानने । वीक्ष्य यत्र जनता विशङ्कते व्याघ्रपादपचितावशेषितम् ॥ १८॥ भर्गयोग्यनवपुष्पवाटिका- सौरभोच्चयहरं समीरणम् । प्साति यत्र फणिराट् भवद्रुहः शिक्षणं हि शिवभक्तलक्षणम् ॥ १९॥ गन्धहस्तिकरटस्थलस्खल- द्भृङ्गसङ्गतमदा यदब्जिनी । पीड्यते प्रतिगजेन मानिनो मर्षयन्ति न हि गन्धमप्यरेः ॥ २०॥ यत्र सेवितुमुपेयुषां शिवं भास्वतां रथहया इति प्रजाः । मन्वते मरकतोपलस्फुर- न्मन्दुरोदरगतान्महाहयान् ॥ २१॥ कम्पते रविरवेक्ष्य खड्गिनो यद्भटान्सततमीदृशः खलु । शत्रुशस्त्रदलितस्वविग्रहो विग्रहं मम विदारयेदिति ॥ २२॥ अङ्गजो युवजनेष्वहर्निशं सञ्चरन्स्वसदृशेषु रूपतः । साध्वसं त्यजति यत्र साहसी सततं त्रिनयनेऽपि जाग्रति ॥ २३॥ जाग्रति त्रिनयनेऽपि चेष्टते मन्मथः कथमिहेति विस्मिताः । वीक्ष्य यत्र तरुणं दिवौकसो निर्णयन्ति मनुजं निमेषणात् ॥ २४॥ स्वस्य यत्र शुकशारिकार्भकैः श्राविते सुरतचाटुनि प्रगे । कार्यमन्यदपदिश्य गच्छति व्रीडया गुरुसमीपतो वधूः ॥ २५॥ केलिवेगगलितं नतभ्रुवां मन्दिरेषु मणिमौक्तिकव्रजम् । प्रातरुत्करगतं प्रमार्जना- द्वीक्ष्य यत्र धनदोऽपि लज्जते ॥ २६॥ वीक्ष्य यत्र मणिमौक्तिकावली- र्विस्तृता विपणिषूपकण्ठगः । नूनमेष निखिलस्वलुण्टना- त्क्रोशतीति कवयोऽब्धिमीरते ॥ २७॥ शीतदीधितिशिलोदयत्पयः- पूरदूरितरजस्तृणां भृशम् । भासयत्युषसि यत्प्रतोलिकां चन्द्रिकैव नवचेटिकायते ॥ २८॥ गोपुरे मरकतैः कृतां शुकीं स्वप्रियेति समुपागतः शुकः । स्पर्शतः परमवैति तत्त्वतः स्पन्दतः परममुं च यज्जनः ॥ २९॥ यत्र हेमशिबिकाधिरोहिणः पार्श्वयोर्मुकुरभित्तिबिम्बितान् । स्वान्कृताञ्जलिपुटाः परान्विदु- र्वीथिकासु विविधास्तथाविधान् ॥ ३०॥ यां किलेश्वरदिदृक्षया मुनौ वैणिके विशति तं गवेषयन् । पर्वतः प्रतिगृहं भ्रमत्यधि- स्त्रैणगीति महतीरिति भ्रमात् ॥ ३१॥ स्नातचोलयुवतिस्तनद्रव- त्कुङ्कुमारुणकवेरजोर्मिभिः । कुर्वता परिचयं कृतार्थिताः पावनेन पवनेन यज्जनाः ॥ ३२॥ मत्स्यमब्धिजलमध्यतो हृतं प्रेक्ष्य यत्र गरुडेन भक्षितम् । स्वीयमन्तुशमनार्थमुद्धृतां दृष्टिमर्पयति तत्पदे हरिः ॥ ३३॥ पूर्वसिन्धुलहरीपरम्परो- त्कूलितः किल सहाब्धिकन्यया । विष्णुरध्युषितशेष एव गो- विन्दराज इति यत्र विश्रुतः ॥ ३४॥ भोगवत्यपि सुधर्मवत्यपि स्फीतचैत्ररथवत्यपि स्वयम् । न द्विजिह्वसहिता न सत्रभु- क्सङ्कुला न सकुबेरका च या ॥ ३५॥ योगिनो दहरविद्ययोत्सुकाः सर्वलोकचिदुपासनोचितम् । यां विराड्ढृदयपुण्डरीकमि- त्याहुरत्र किल मानमागमः ॥ ३६॥ तत्र केचन वसन्ति दीक्षिता वीक्षिताग्रिमपुराणविस्तराः । आस्तिकाः सततमाहिताग्नयः साधवः शिवपदैकसंश्रयाः ॥ ३७॥ ते हि तिल्वमुनयः शिवं चिरा- दर्चयन्ति कृतकेतरोक्तिभिः । दर्शयन्त इह देवताद्यभि- व्यक्तिरर्चकतपोबलादिति ॥ ३८॥ राजराष्ट्रकुशलं रथोत्सवैः कारयाम इति बद्धकङ्कणाः । एकदा नटपतेरिमे मुदा मार्गशीर्षिकमहोद्यमं व्यधुः ॥ ३९॥ भेरिभाङ्कृतिभरण निर्दल- न्नूनमद्य निपतेत्खमित्यमी । पुङ्गवाञ्चितपटाञ्चलध्वजो- त्तम्भितं विदधिरे तदादितः ॥ ४०॥ पालिकासु यदि पञ्चसु प्रति- ष्ठापिता दिगधिपास्तदार्चकैः । अद्भुतं किमिह हन्त यैर्विभुः पञ्चभिश्चुलुकितः परोऽक्षरैः ॥ ४१॥ अध्वरेषु विधिवन्मुदा यदा- ह्वानतः क्रतुभुजोऽभजन्हविः । तद्ध्वनिश्रवणमात्रतस्तदा सत्वरं सपरिवारमापतन् ॥ ४२॥ हस्तिमेषमहिषाशराग्रणी- नक्रऋश्यनरनन्दिवाहनाः । आपतन्हरिदधीश्वराः पुर- स्कृत्य खे गरुडहंसवाहनौ ॥ ४३॥ मण्डितानि मणितोरणालिभि- र्गोपुराणि गगने चकाशिरे । द्योरिवावतरतां दिवौकसां व्योमयानवलयानि विश्वतः ॥ ४४॥ शैवयागविधिना समर्पितं हव्यजातमुपगृह्य हव्यवाट् । अर्पयन्करतलेऽम्बिकापते- रास्त इत्यगणि तावदागतैः ॥ ४५॥ चन्द्रहंसहरिभूतसैन्धव- क्ष्माधरद्विरदनन्दिचक्रिभिः । वाहनैर्मणिवरोज्ज्वलैः शिवं तेऽनुवीथि समचारयन्द्विजाः ॥ ४६॥ तालमर्दलततोरुकाहली- भेरिशङ्खपटहारवैर्भृशम् । बाधिरी नयनयोः पतञ्जले- स्तावदाविरभवत्तदद्भुतम् ॥ ४७॥ अभ्यभूयत जनारवस्तदा वाद्यवर्गनिनदेन वल्गुना । सोऽपि कीर्तनभरेण शूलिनो वेदघोषविभवेन सोऽपि च ॥ ४८॥ चन्द्रमण्डलमुपेयुषि स्वयं वाहनायितमुमापतौ मुदा । तारकाभिरपि तत्क्षणं महा- दीपिकात्मभिरभावि सर्वतः ॥ ४९॥ साम्प्रतं हि शिवकामसुन्दरी- मन्दयानमहिमाभिलाषिणः । स्कन्धसीम्नि कलहंसिकापते- रम्बिकार्धवपुषोऽधिरोहणम् ॥ ५०॥ कोपविस्तृतकरालदंष्ट्रकं सिंहमिन्दुमकुटेऽधितिष्ठति । सादरं शरभमूर्त्यपासकाः साधु साध्विति शिरांस्यकम्पयन् ॥ ५१॥ दर्शयन्निव पतञ्जलौ दयां नागराजमवलम्ब्य निर्गतः । मञ्जुतत्फणमणिश्रियारुणं सन्ध्ययेव शशिनं वहञ्शिवः ॥ ५२॥ भूतनाथमनुभाव्य निःसर- द्भीमनेत्रपुटमुत्थितोदरम् । मेनिरेऽखिलभृतो महाभरा- द्धूर्जटेरुदितदुर्दशं जनाः ॥ ५३॥ अश्वरत्नमधिरुह्य निर्गते सादिवेषजुषि शङ्करे पुरः । मङ्क्षु जातमणिमल्लमर्दन- प्रत्यभिज्ञमभवत्प्रजामनः ॥ ५४॥ रावणांसगतरूप्यभूधरा- रूढमद्रिसुतयान्वितं शिवम् । वीक्ष्य राक्षसविमानिताः पुरा सन्निधातुममराः शशङ्किरे ॥ ५५॥ एकमूर्तिभरणेऽपि यस्य दि- ग्दन्तिनो दधति खेदमेकदा । अष्टमूर्तिममुमद्भुतं गजो वाहनाकृतिरुवाह विभ्रमात् ॥ ५६॥ विश्वतो वृषभवाहनोत्सवे सम्पतन्सुरनरौघवारिधिः । रोधसी रचयति स्म खावनी रोदसी इति तु लेखकभ्रमः ॥ ५७॥ श‍ृङ्गसङ्गिचलचारुचामरं रत्नपल्ययनरञ्जितं वृषम् । श्वेतशैलमिव जङ्गमं शिवः साम्बमूर्तिरधिरुह्य निर्ययौ ॥ ५८॥ पाण्डरे वृषभवाहने पुर- श्चन्द्रमण्डल इवोदिते सति । पाणिपल्लवपुटानि पश्यतां पद्मवन्मुकुलतां प्रपेदिरे ॥ ५९॥ वारयौवतविलासलास्यतो विस्मितो वलभिदप्सरोगणैः । शाक्करोत्सवमवेक्ष्य सादरं चक्षुषां दशशतीमधन्ययत् ॥ ६०॥ दिव्यमङ्गलतनुद्युतिच्छटा- दूरितान्धतमसो नटेश्वरः । आरुरोह रथमार्यया सह च्छाययेव सवितोदयाचलम् ॥ ६१॥ मेरुकूटमुत मेघमण्डलं विद्युदुद्द्युति विमानमेव वा । इत्यतर्कि रथश‍ृङ्गमुल्लस- च्छत्रकेतनशतं हिरण्मयम् ॥ ६२॥ इन्द्रपूर्वकविमानमीश्वर- श्चन्द्रकोटिशतशीतलाकृतिः । मन्द्रगीतमधिरुह्य मञ्जुनि- स्तन्द्रसेवककुलं सदोऽसदत् ॥ ६३॥ चारुचामरवितानतोरणे चन्दनागुरुसुजातसौरभे । रत्नहेमरचिते महामणि- स्तम्भराजिरुचिराजितोदरे ॥ ६४॥ लोलपुष्पसरलोलसम्पत- द्भृङ्गडिम्भपटलेन वीप्सिताम् । इन्द्रनीलमणितोरणावलिं सन्ततं दधति चित्सभान्तरे ॥ ६५॥ तैलदुग्धदधिसर्पिरैक्षव- क्षौद्रकेरसलिलाम्बुसम्प्लुतम् । शुद्धशङ्खसलिलाभिषेचन- स्वच्छदिव्यतनुमुज्ज्वलांशुकम् ॥ ६६॥ गन्धसारघनसारकुङ्कुम- क्षोदशोभिमृगनाभिचर्चितम् । हेमकुण्डलकिरीटमुद्रिका- हारसारसकहंसकोज्ज्वलम् ॥ ६७॥ मल्लिकावकुलबिल्वमालती- चम्पकाब्जसरचारुसौरभम् । स्वानुरूपशिवकामसुन्दरी- नित्यशोभिनिजवामपार्श्वकम् ॥ ६८॥ व्याघ्रचर्मपरिधानवेष्टन- व्यालदष्टमणिमुण्डमालिकम् । किञ्चिदुन्नमितकिङ्किणीकन- त्सव्यपादधृतदिव्यनूपुरम् ॥ ६९॥ अज्ञतां यवनिकात्मिकां नृणा- मादितस्त्रिरपसार्य दीक्षिताः । ब्रह्मरूपमुषसि प्रदर्शया- मासुरौपनिषदं महेश्वरम् ॥ ७०॥ श्रवणमननध्यानैः शश्वत्समाहितचेतसः परमशिवमध्यक्षीकुर्वन्ति यं परमर्षयः । तमिह दयया तिल्वारण्यद्विजव्रजदर्शितं ददृशुरखिला लोका दिव्याकृतिं सुकृतोच्चयैः ॥ ७१॥ भव हर शिव शम्भो पार्वतीश त्रिनेत्र प्रमथनुत नटेश प्रार्थितं नः प्रदेहि । पटुतरमिति शब्द प्राणिनां रत्नसालाः प्रतिरवमिषतो नु प्राहुरप्राणिनोऽपि ॥ ७२॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं व्यधात्सप्तमम् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये सप्तमः सर्गः सम्पूर्णः ।

८. अष्टमः सर्गः

सरसी शिवकामसुन्दरी- करुणेवात्र पुरे गरीयसी । जयति प्रथिता जगत्त्रये शिवगङ्गेति शिवप्रदा नृणाम् ॥ १॥ नवषट्पदनीलवेणिका दलदिन्दीवरदीर्घलोचना । धृतचक्रकुचावतिष्ठते धुरि देव्याः परिचारिकेव या ॥ २॥ परिगृह्य तरङ्गबाहुभिः शिवनिर्माल्यदलानि सादरम् । स्वयमर्पयतीव सन्ततं लसदावर्तविलोचनेषु या ॥ ३॥ जनिमृत्युदुरध्वजाङ्घिक- क्लमविच्छेदकलापटीयसा । यमदूतततिर्यदूर्मिका- पवमानेन बलान्निरस्यते ॥ ४॥ पुरुहूतपुरातिशायिनो नगरस्यास्य पुनर्निरीक्षितुम् । मणिदर्पणमण्डलीव या निहिताधिक्षिति भाति निर्मला ॥ ५॥ महतस्तटवृक्षमण्डला- न्मधुधारामिषतो विनिःसृता । अमलामवगाहतेऽन्वहं द्युनदी यां द्रुतमात्मशुद्धये ॥ ६॥ धृतपातकभङ्गदीक्षया श्रितकल्याणसमर्पणोत्कया । यमभीषिकया यया सदा निजमूर्त्यैव निवेश्यते शिवः ॥ ७॥ निजलोकगतो विराट् परा- त्सर ऐरम्मदमेत्य साधकः । निजवासनया निमज्जने ननु यस्यास्तनुते नमस्क्रियाम् ॥ ८॥ जलकेलिषु यत्र बालिका- चलहारच्युतरत्नमालिका । बलिसद्मनिवासिभिर्ध्रुवं भ्रियते मूर्धसु भोगिनां वरैः ॥ ९॥ कलशीतनयेन चूषितं बडबाहव्यवहेन दूषितम् । रघुवीरशरेण शोषितं धुरि यस्या जलधिं कथं स्तुमः ॥ १०॥ यदि जातु यदृच्छया मना- गपि यस्यां मनुजो निमज्जति । निखिलो निरयार्णवात्तदा द्रुतमुन्मज्जति तत्कुलोद्भवः ॥ ११॥ इदमद्भुतमग्रतोऽपि यो भवसिन्धौ किल यत्र मज्जति । तमवेक्ष्य बुधा वदन्त्ययं भवसिन्धौ न निमज्जतीति यत् ॥ १२॥ सकृदप्यवगाहनान्नृणां सहसा पङ्कहरे यदम्भसि । अवमज्ज्य जनोऽस्तु निर्मलः कथमास्ते धृतकालिमा गले ॥ १३॥ शिवशब्दमुदीरितं नृभिः स्वयमभ्यस्य यदम्बुगाहिभिः । दिशि दिश्यनुवादिनः शुका दलयन्त्यर्कजकिङ्करोद्धतिम् ॥ १४॥ परिमज्ज्य यदम्बुनि प्रगे परितः पद्मपरागपिञ्जरम् । पतिमागतमीक्ष्य भामिनी परनारीपरिरब्धमूहते ॥ १५॥ परमेश्वरभावनोन्मुखै- र्भसितालङ्कृतभालसीमभिः । यदुपान्तिकमण्डपालयै- र्यतिभिर्ब्रह्मपुरं न गण्यते ॥ १६॥ दलिते सति यत्तटीजुषां दहरोपासनया हृदम्बुजे । अवतीर्ण इवालिमण्डलो हृदि रुद्राक्षसरो विराजते ॥ १७॥ धृतगोपुरदीपसञ्चय- प्रतिबिम्बं निशि वीक्ष्य यत्पयः । तटसुप्तसमुत्थितो नभः स्फुटतारं मनुतेऽपि दुर्दिने ॥ १८॥ रविगोपुररत्नकुम्भयो- रनुबिम्बावले यदम्बुनि । अवलोक्य मुहूर्तमन्यत- श्चलनादेव जनोऽध्यवस्यति ॥ १९॥ क्वचनालिकुलान्धकारिते बत देशेऽतिबिभेति कुत्रचित् । नवकोकनदारुणीकृते रमते यत्र रथाङ्गयोर्युगम् ॥ २०॥ अघमर्षणसूक्तशंसिना- मनिशं यत्सलिलावगाहिनाम् । मणिमण्डपभित्तिमानव- प्रतिमाश्छात्रयति प्रतिध्वनिः ॥ २१॥ कलहंसकुलाकुलीकृतैः कमलैः कीर्णपरागकेसरैः । कृतकामुककौतुकाः प्रगे कमलिन्यो विलसन्ति यद्गताः ॥ २२॥ कमले कमले कृताटनो मधु विन्दन्मधुपः स्वनच्छलात् । फलमस्त्यटतामसंशयं पुरुषाणामिति यत्र शंसति ॥ २३॥ नटराजरथोत्सवे तदा ननु तस्या नवपाथसस्तटे । मणिमण्डितमण्डपेऽभव- न्महति ब्राह्मणभोजनक्रमः ॥ २४॥ पुरुषोऽधिकृतः पुरोधसा प्रवणेनाक्षतपात्रपाणिना । अनुगेहमन्महीसुरा- न्निभृतात्मा न्यममन्त्रताशितुम् ॥ २५॥ शुचयोऽथ जनाः शुभौदनं विविधव्यञ्जनसूपपूपकम् । अपचन्नतिमात्रसौरभ- प्रसभामन्त्रितभूसुरव्रजम् ॥ २६॥ पुरुषः स तदा पदे पदे कुसुमाकल्पनकोमलेऽमले । सलिलोक्षणशीतले तले हसतोऽवेशयदुद्विजाद्विजान् ॥ २७॥ विबुधान्विहिताङ्घ्रिशोधना- न्मणिपीठेषु निवेश्य मञ्जुषु । कुशलान्परिवेषणक्रमे स्वजनानादिशदेष सत्वरम् ॥ २८॥ दृढवेष्टितदिव्यवासस- श्चलचामीकरचारुकुण्डलाः । परितस्तरिरे प्रियं नृणां कलयन्तः कदलीदलानि ते ॥ २९॥ अभिघार्य सलीलमादितो नवमुक्तामणिजालनिर्मलम् । अदिशन्नधिपात्रमोदनं मृदुमन्योन्यमसक्तमूष्मलम् ॥ ३०॥ अपि सूपमपारसौरभं कनकप्रार्थितकामनीयकम् । शशिबिम्बसमीपवर्तिभू- सुतसच्छायमदुस्तदन्तिके ॥ ३१॥ कुचहेमघटद्वयद्रव- द्धनकस्तूरिकया कयाचन । लवणं प्रददानया नृणां ललितं तत्क्षणमाददे मनः ॥ ३२॥ कुचकुट्मलकान्तिचौर्यतो दलितं पश्यत दिव्यजम्भलम् । इति तद्ब्रुवतीव हेलया निदधे काचन नीलकुन्तला ॥ ३३॥ गलितं सुदतीकराञ्चला- त्किमु गारुत्मतमङ्गुलीयकम् । इति खण्डितकारवल्लिका- दलमुत्प्रैक्ष्यत भर्जितं जनैः ॥ ३४॥ परिकर्मविशेषयोगतः स्पृहणीयामतिकोमलाकृतिम् । बृहतीं स्वतनूमिवावरा प्रथयन्त्यैक्ष्यत भोक्तुमुत्सुकैः ॥ ३५॥ स्ववशं विदधे न केवलं स्वदनीयैः कदलीशलाटुभिः । अपि चाटुभिरुल्लसद्रसै- र्मनुजानां हृदयं मृगेक्षणा ॥ ३६॥ हितमारिचहिङ्गुजीरकं सह सामुद्रनिशाम्यसर्षपम् । अहरद्द्रुतमाज्यसम्प्लुतं जनचित्तानि पदार्थजालकम् ॥ ३७॥ स्तनसीम्नि च दत्तदृष्टिभि र्युवभिः काचन हेमविग्रहा । बहुलं परिवेषयन्त्यपि प्रतिषिद्धा न भृशं बुभुक्षुभिः ॥ ३८॥ पनसाम्रकपित्थगोस्तनी- कदलीजाम्बवनालिकेरदाः । अपि तेऽधरबिम्बवञ्चना- त्तरुणीर्वीक्ष्य तदा निशश्वसुः ॥ ३९॥ मणिपत्रपुटे मनोहरे घृतधारा कनकालुकामुखात् । तपनादिव कान्तिधोरणी पतिता बालरसालपल्लवे ॥ ४०॥ चषकेऽधिकचारुणि व्यभा- न्मधुराक्ष्या मधु दत्तमुत्तमम् । अरविन्द इवातिसुन्दरे महनीयं मकरन्दजालकम् ॥ ४१॥ अकरोदधिपात्रमोदनो विविधव्यञ्जनजालसेवितः । बहुकोशपरीतपङ्कज- च्छदनिद्राणसितच्छदभ्रमम् ॥ ४२॥ अथ पात्रमपूरि पर्पटै- र्वटकैर्लड्डुकमोदकोत्तरैः । अतिमात्ररसैरपूपकै- र्मृदुगोधूममयैश्च मण्डकैः ॥ ४३॥ परितः परिषिच्य भाजनं मृदुहस्ताब्जमरन्दितोदकान् । अवलोक्य जनान्स हर्षतो हृदि दध्यावधिकार्युमापतिम् ॥ ४४॥ अधिकारिगिराद्भुतं मना- गथ सर्वत्र सुभोज्यमस्त्विति । उपरि स्फुरदुत्तरोत्तरं व्यरमच्छास्त्रविदां मिथो वचः ॥ ४५॥ न बहिर्निजपात्रतो रसाः षडिति प्रत्ययसाधका इव । मणिपात्रगतं महाजना घृतमग्रे स्वकरेण पस्पृशुः ॥ ४६॥ प्रचलत्तरुणीपदद्वयी- चलमञ्जीरघणात्कृतिर्जनान् । प्रतिपङ्क्ति पदे पदेऽधिका- र्युपचारोक्तिवदुत्सुकान्व्यधात् ॥ ४७॥ अमृतं धुरि हेमभाजने कलयन्ती विदधे करे नरान् । कनदिन्दुकलेव कामिनी निजसन्दर्शनमात्रनिस्तृषान् ॥ ४८॥ तरलीकृततालवृन्तया गुरुलक्ष्यस्तनदर्शनीयया । बहिरेव कयापि कामिनां नुनुदेऽन्तस्तु न हन्त सञ्ज्वरः ॥ ४९॥ रसलेह्यपयोरसायनैः परमान्नैरपि भूरिशर्करैः । परिपूरितभाजना जनै- रबला कल्पलतामसस्मरत् ॥ ५०॥ परिवेषयती पयः स्वयं नवपीयूषनिबद्धसौहृदम् । नितरां निजरूपसम्पदा विबुधान्कापि वधूरमोहयत् ॥ ५१॥ मसृणं शरदिन्दुमण्डल- प्रतिमल्लं वरवर्णिनी परा । धुरि मूर्तमिवात्मनः स्मितं दधिखण्डं दिशति स्म माहिषम् ॥ ५२॥ परिपक्वकपित्थसौरभं पटुजम्बीररसार्द्रकाञ्चितम् । परिपीय च तक्रमन्ततः प्रशशंसुः सुहिताः प्रभुं जनाः ॥ ५३॥ अधिविप्रमुखं यथार्पितै- र्गिरिशोऽभ्येति मुदं घृतौदनैः । न तथाग्निमुखे निपातितैः पशुसोमाज्यपयश्चरुव्रजैः ॥ ५४॥ परिशोधितपाणिपल्लवा वरचित्रासनवेदिकास्थिताः । प्रणमन्तमधिक्षिति प्रभुं परमाशीर्भिरवर्धयन्बुधाः ॥ ५५॥ क्रमुकैरथ खण्डितैर्नवैः सितताम्बूलदलैः सुगन्धिभिः । कुसुमैर्घनसारचन्दनै- रपि विप्रानधिकार्यपूजयत् ॥ ५६॥ विबुधास्तु विशेषतोऽचिता मणिहेमाम्बरमञ्जुभूषणैः । भुवनेऽखिलभुक्तिमुक्तिदं प्रशशंसुः परमेश्वरोत्सवम् ॥ ५७॥ इत्थं महोत्सवपरम्परयैधमाने रम्ये चिदम्बरपुरे रचिताग्निहोत्राः । सन्तः सभाधिपतिदर्शनशान्ततापाः साम्राज्यशर्म दधति श्रुतिशास्त्रपाठैः ॥ ५८॥ द्वैतप्रन्थग्रहिलदुरहङ्कारधिक्कारदक्षै- र्वाचां गुम्भैर्वलदुपनिषत्सौरभैर्व्याघ्रपुर्याम् । पाराशर्यग्रथितमनघं ब्रह्मसूत्रं यतीन्द्रा व्याकुर्वन्ति त्रिमुनिकणभुग्भट्टविद्यानिषद्याः ॥ ५९॥ अहमिदमवलोक्यात्यद्भुतं तिल्वदेशे शिवचरितमुपागां शीघ्रमाख्यातुकामः । त्रिदिवमिति वदन्तं तुम्बुरं हृष्टचेता गुरुरथ बहुमेने गीर्भिराशीर्मयीभिः ॥ ६०॥ त्रिदशालय एव देवलोक- स्त्रिसहस्रालय एष तिल्वदेशः । अनयोः क्व तुलाप्सरःसु रम्भा दिवि सैकात्र तु ताः परःसहस्रम् ॥ ६१॥ मरणाज्जननाच्च मुक्तिरुक्ता स्मरणादप्यपरत्र सा हि गौणी । इह दर्शनतः किलेरिता सा सकलश्रुत्यविरोधिनीति मुख्या ॥ ६२॥ दृष्ट्वा रथोत्सवदिनेषु दिशामधीशा- नष्टौ समागतवतो ध्रुवमानुपूर्व्यात् । प्रापुः पुरीं स्वयमपि प्रमदाय शम्भोः स्वस्वोचितां षडृतवो दधतः समृद्धिम् ॥ ६३॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं चकाराष्टमम् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये अष्टमः सर्गः सम्पूर्णः ।

९. नवमः सर्गः

चन्दनाचलपटीरकुटीर- स्पन्दमानपवमानगभीरैः । अध्वनीनजनमानधनैका- गारिकैरजनि कैश्चिदहोभिः ॥ १॥ पञ्चमेन निनदेन दिशन्ती पञ्चतां पथिकलोकवधूनाम् । पञ्चसायकयशांसि पठन्ती सञ्चचार पिकसन्ततिरुच्चैः ॥ २॥ मन्मथोपनिषदां महनीयं कोकिलेषु कथयत्सु रहस्यम् । स्थाण्डिलैरपि जनैस्तरुणीनां केवलं विलुलुठे कुचसीम्नि ॥ ३॥ पल्लवानि परिदश्य लतानां कोमलं नदति कोकिलयूनि । भावविद्युवजनः प्रमदानां पर्यकूजदधरान्परिचुम्ब्य ॥ ४॥ पुष्पमास इति भूरुहवाटी- त्यङ्गजोत्सव इति ह्रदिनीति । कुञ्जगेह इति कोकिलवाणी- त्युत्तरोत्तरमभूद्युवभाग्यम् ॥ ५॥ मारवीरसमधिष्ठितमाद्य- द्गन्धवाहगजराट्पदलग्ना । श‍ृङ्खलेव दिवि षट्पदमाला चञ्चलान्वगतिचारु शिशिञ्जे ॥ ६॥ षट्पदाक्षवलयं सविरावं पल्लवाङ्गुलितलैः परिचिन्वन् । मोहनाय जगतां मधुयोगी पुष्परेणुभरभस्म चकार ॥ ७॥ चञ्चरीककुलझङ्कृतिमन्त्रै- र्मोचयन् झडिति मानपिशाचम् । कालमान्त्रिकवरः खलु कान्तै- र्यौवतानि सह योजयति स्म ॥ ८॥ मारुतो भुवनमारणविद्यां प्रेतनायकपुरे समधीत्य । आगतः प्रयुयुजेऽध्वगवृन्दे प्रागहो बत परीक्षितुमेनाम् ॥ ९॥ पाण्ड्ययौवतपयोधरभार- स्फारहारपटलीषु विलुठ्य । मारुतोऽजनि हिमो मलयाद्रौ लेलिहानरसनेन कदुष्णः ॥ १०॥ फुल्लहल्लकपरागसरागे वाति शीतलतरे वनवाते । पादपाः सपदि पर्यचकम्प- न्साधु साध्विति किल स्वशिरांसि ॥ ११॥ वन्यवातशिशुना व्रततीनां गृह्णता किसलयाङ्गुलिजालम् । चक्रमे मुखरषट्पदमाला- किङ्किणीतिभृता गहनान्ते ॥ १२॥ स्नानमब्जमधुवारिषु वल्ली- मण्डपेषु जपकर्म वनेषु । पत्रपुष्पहरणं पथिकाङ्गे- ध्वनिकार्यमनिलेन वितेने ॥ १३॥ अम्बरोत्थितपरागमनङ्ग- स्यन्दने चलति चन्दनशैलात् । पाटलध्वजपटाञ्चललक्ष्मीः प्रत्यपादि नवपल्लवजालैः ॥ १४॥ सौधजालकमुखे सुरतार्तं दर्शनीयविवृतस्तनभारम् । गन्धसारगिरिगन्धवहोऽहो सस्वजे युवतिवृन्दममन्दम् ॥ १५॥ चारुपल्लवचयैः शयनीयं पुष्परेणुपटलैः पटवासम् । कुर्वती रहसि कुञ्जलताभू- त्केलिषु प्रियसखी कुलटानाम् ॥ १६॥ बालचूततरुमूलतलेषु स्यन्दमानमकरन्दहिमेषु । कामकेलिरभसोदितखेदाः शेरते स्म हरिणा हरिणीभिः ॥ १७॥ कम्पितानि सहकारतरूणां दाक्षिणात्यपवनेन दलानि । कृत्तपान्थगलशोणितदिग्धा- न्याङ्गजान्यसिदलान्यनुचक्रुः ॥ १८॥ मञ्जरीषु कृतमालतरूणां पुञ्जरीतिमधिगम्य परागैः । पिञ्जरीकृततनुभ्रमरालिः कुञ्जरीरमणगण्डमदेऽस्नात् ॥ १९॥ वन्यसीमनि वसन्ततरक्षो- रध्वनीनदलनादसृगार्द्राः । विस्तृता इव नखा विरराजुः किंशुकस्य मुकुलाः कुटिलाग्राः ॥ २०॥ मान्मथी मरतकोपलकोशा- म्लानमुष्टिरुचिरा च्छुरिकेति । कापि चञ्चुगतकिंशुकपुष्पा भीतमैक्ष्यत शुकी पथिकेन ॥ २१॥ मानिनीदुरभिमानशिलानां भेदनाय किमयं प्रसवेषोः । स्वर्णटङ्क इति संशयदात्रं चम्पकस्य मुकुलेन चकाशे ॥ २२॥ प्राप्तया वनभुवि प्रथमर्तुं सङ्गमं झटिति चम्पकवल्ल्या । प्राप्तवान्बत कथं पवमानो मुक्तवानथ कथं मधुपो वा ॥ २३॥ माधवीमुकुलवान्तमधूली- सेकयोगसुलभाङ्कुरजालम् । व्यत्यषिक्त मधुभिर्वकुलस्तां युज्यते ह्युपकृतावुपकारः ॥ २४॥ अङ्गनाचरणताडनलीला- माप्नुवन्सबहुमानमशोकः । प्रेक्षितुं तदिव भागमुपेतैः पल्लवैरभिनवैः परिवव्रे ॥ २५॥ मङ्क्ष्वकल्प्यत मधूकतरूणां मण्डलेषु मधुदुर्दिनितेषु । कोरकौघकरकोत्करवर्षि- ष्वध्वगैः पिकरुतेऽशनिबुद्धिः ॥ २६॥ कर्णिकारकुसुमं मरुताभ्रे कृष्यमाणमलिकीर्णमलासीत् । ग्रस्तमध्वगकुलक्षयहेतो राहुणेव रविबिम्बमकाले ॥ २७॥ दर्शनीयतिलकोऽपि विपुण्ड्रः श्राव्यनव्यकलकण्ठरवोऽपि । अङ्कुरत्कुरवकोऽयमनेहा मद्यपोऽप्यजनि मध्वनुकूलः ॥ २८॥ पक्कदाडिमफलं परिदीर्णं पाटलत्वगनुबन्धि बबन्ध । पट्टकञ्चुकितमारपुरन्ध्री- पद्मरागमणिकञ्चुकबुद्धिम् ॥ २९॥ नालिकेरकुलीनवधूली । धोरणी भ्रमरधूमलिताग्रे । उद्यदम्बुदधियोद्गतकण्ठं नीलकण्ठनिवहेन निरौक्षि ॥ ३०॥ घातुके रति कोकिलयूनि द्रोहिणि ध्वनति दुर्मदभृङ्गे । वाति पातकिनि वात किशोरे जातु पान्थजगदाश्वसितु क्व ॥ ३१॥ भृङ्गकीरपिकसारसऋत्वि- ग्भूषितेऽधिमधु भूरुहषण्डे । पान्थलोकपशुसंज्ञपनार्थं धीमता मनसिजेन दिदीक्षे ॥ ३२॥ सत्यमेव परपुष्टसमूहः कालकूटविषकल्पितदेहः । अन्यथा कथमदःकृतमोहः पान्थको भुवि पतेद्विगतेहः ॥ ३३॥ उन्मिषत्कुचयुगां कुसुमार्थं निष्कुटेषु नितरां वलमानाम् । कुञ्जगेहमनु कोरकिताशो नायको नववधूं विचकर्ष ॥ ३४॥ पाटलैः किसलयैः पवमानैः शीतलैः सुरभिभिः सुमनोभिः । कोकिलैः कलरवैर्मधुभिश्च स्वादुभिः सुहितमिन्द्रियजालम् ॥ ३५॥ मन्मथोत्सवविधौ मणिडोला- रोहणे सुमनसां लवने च । उत्सुको युवतिभिर्युवलोको व्यत्यलङ्घत सुखेन वसन्तम् ॥ ३६॥ वासराधिपशताङ्गपराञ्च- त्कासरारिकुलगात्ररुहाभाः । धूसराः स्वरजसाथ सुमानां केसरा ददृशिरेऽधिशिरीषम् ॥ ३७॥ कोकिलं क्वचन सम्भृतमौनं वीक्ष्य हन्त मुकुलैर्विकसद्भिः । मल्लिका परिजहास महान- प्याद्रियेत किमनेहसि याते ॥ ३८॥ फेनखण्डपतितोऽधिपयोधि क्ष्वेलबिन्दुरिव षट्पदडिम्भः । मल्लिकामुकुलभाग्वनमध्ये मोहकृद्विरहिभिर्मुहुरैक्षि ॥ ३९॥ मारयुद्धगलितं निशि कैश्या- न्मल्लिकाकुसुमदाम विभाते । कुञ्जधाम्नि कुलटा किमुदीक्ष्य व्यालकञ्चुकभिया व्यगलद्दाक् ॥ ४०॥ मारमत्तगजमस्तकभाग- स्यन्दमानमदशीकरशङ्काम् । कुर्वतीभिरबलाकुचकुम्भे घर्मवारिकणिकाभिरजृम्भि ॥ ४१॥ काञ्चनाद्रिमपि धर्ममहिम्ना सम्भृतद्रवमवेत्य समन्तात् । युक्तमेव कुचसीम्नि युवत्या स्वेदजन्म बुबुधे बुधसङ्घः ॥ ४२॥ सुभ्रुवामतनुत श्रमतोयै- र्दूषितस्तिलकितो मृगनाभिः । नासिकाग्रनवमौक्तिकलग्न- श्चम्पकभ्रमरसङ्गतिशङ्काम् ॥ ४३॥ उन्नमय्य वदनं युवतीना- मुत्सुकास्तिलकनेन युवानः । घर्मशीकरकदकर्थितयत्नाः प्रावृतन्नधरपानकपाने ॥ ४४॥ मल्लिकामुकुलजालविमोक- प्रेमशालिनि पृथग्युवयुग्मे । मध्यभाजि मदनोत्सव आसी- त्प्रौढगाढपरिरम्भणशेषः ॥ ४५॥ भूरितापभरितं मणिमञ्चे पर्यशेत मिथुनं पृथगेव । हारयष्टिभिरवेष्टि यथेष्टं कूलमुद्रुजकुचद्वयसीम्नि ॥ ४६॥ तालवृन्तशतदुर्विनिवारं तापमाशु तरुणस्य तरुण्याः । आचचाम हरिचन्दनधूली- धूसरः कुचदुकूलसमीरः ॥ ४७॥ हस्तवर्ति हरिचन्दनसिक्तं तालवृन्तमलसत्तरुणीनाम् । भिक्षितुं वदनबिम्बविलासं चन्द्रमण्डलमिव स्वयमेतम् ॥ ४८॥ स्वर्णवर्णसुभगं सुदृगङ्गं स्विन्नमुन्नतकुचं कृतिना द्राक् । हन्त चेट्युपहृतेन जलार्दा वायुनोपजुगुहे धुरि भर्तुः ॥ ४९॥ स्नानतो मृगदृशः स्तनकुम्भ- स्तत्क्षणं विरलतोयकणाङ्कः । कामुकेन कचधूननकाले प्रेमगाढमुरसा परिरेभे ॥ ५०॥ शीतमंशुकशिखाञ्चितमग्रे बिभ्रती नवपयोधरकुम्भम् । शालिका न तु परं सलिलानां पालिकाप्यहृत पान्थमनांसि ॥ ५१॥ तृष्णयाधरधृताञ्जलिरूर्ध्वं दत्तदृक्कुचतटे धुतमौलिः । पानतः प्रथममेव युतत्या पर्यहासि पथिकोऽम्बु ददत्या ॥ ५२॥ चण्डभानुकरचण्डिमभ्रूम्ना दीपितेऽध्वगजनो दिनमध्ये । वृक्षमूलकृतवेदिषु वृन्दं वृन्दमास्त परिपीय पयांसि ॥ ५३॥ पक्षिणो गिरिनदीषु पयांसि ग्रीष्मभानुकिरणक्वथितानि । पातुमक्षमतया प्रतिवृक्षं दीनदीनमकुवन्त तृषार्ताः ॥ ५४॥ नानटन्नवकृशानुशिखानि स्वैरमर्यमशिलाफलकानि । आवहन्पुरहरालिकपट्ट- प्रक्रियां प्रतिदिनं विपिनेषु ॥ ५५॥ प्रौढदावदलनस्फुटिताद्रि- ग्रावखण्डहतिविह्वलगात्राः । मन्दमन्दमचलन्मिहिराश्वा दिव्यतः किल दिनेऽजनि दैर्घ्यम् ॥ ५६॥ पद्मबान्धवकरैः परिभूतो लोहितेक्षणपुटोऽद्रिलुलायः । तूर्णमाविलयति स्म तदीयैः सेवितं समवगाह्यं तटाकम् ॥ ५७॥ वारि भूरि परिपीय वसूनां नायको निजकरैरतिमात्रम् । तद्वमन्निव तदा मृगतृष्णा- व्याजतः प्रतिदिशं विलुलोके ॥ ५८॥ सर्वथैव पवनाशनसङ्घ- क्षामयोगसमये समुदीते । पिप्पलेषु विबुधा भुवि रूढ्या जज्ञिरे चलदलव्यवहारम् ॥ ५९॥ क्वापि वारणगणस्तरुमूले हस्तशीकरकिरोऽधिकपोलम् । शङ्क्यते स्म दवथुं लघु हन्तुं मेघसङ्घ इव मन्त्रयमाणः ॥ ६०॥ शुद्धया च सुमनोगणमध्ये श्लाघ्यया च सुरभिः शुभजात्या । आपगासु शुचिराचमनेऽपां व्यापृतो यदि किमत्र विचित्रम् ॥ ६१॥ अम्बु शीतमजनिष्ट तदानीं काञ्चनादपि कथञ्चन मृग्यम् । नीरदानमत एव निदाघे स्वर्णदानशतसम्मितमाहुः ॥ ६२॥ उष्णभास्युदयगे सति याभिः पर्यदीप्यत पतङ्गशिलाभिः । अस्तगे पुनरभूयत ताभि- र्धूमनिःश्वसितधूसरिताभिः ॥ ६३॥ चत्वरे न न चतुष्पथदेशे वेदिकासु न न वा विशिखासु । सङ्घशस्तु समदृश्यत धारा यत्र गेहसविधे युवलोकः ॥ ६४॥ भाललोचनसुदर्शनपाण्यो- र्नैव चेच्छ्वशुरगेहनिवासः । गाढतापबहुलः कथमेष ग्रीष्मवासरगणः क्रमणीयः ॥ ६५॥ वासराणि कदलीवनवीथ्या- मत्यगाद्युवजनोऽम्बुविहारैः । चन्द्रकान्तभुवि चन्द्रमयूखैः शर्वरीश्च समुदञ्चति तापे ॥ ६६॥ प्रमदवनसमीरः पाटलीगन्धलिप्सा- परिमिलदलिवृन्दामन्दझङ्कारभेदैः । कनकसदसि नृत्यं कुर्वतश्चन्द्रमौले- रनुगुणमपराह्णे स्वैरमारब्धं गीतम् ॥ ६७॥ आषाढे किल मासि तत्र नगरे हृष्टाः पुनर्मल्लिका- गन्धान्धभ्रमरावलीकृतहरिद्ग्रावस्फुरत्तोरणे । सिञ्चन्तो नटनायकस्य पुरतः श्रीगन्धसारोदकं सोत्साहं त्रिसहस्रदीक्षितवराश्चक्रुः शताङ्गोत्सवम् ॥ ६८॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्नवमं नटेशविजये सर्गं चकाराद्भुतम् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये नवमः सर्गः सम्पूर्णः ।

१०. दशमः सर्गः

ग्रीष्मकाननकृशानुशिखोत्थैः कज्जलैर्मलिनितं खमभूत्किम् । संशयं विदधतीति समेषां प्रावृडाविरभवद्भ्रमदभ्रा ॥ १॥ प्राक्कदम्बसुरभिः पवमानः पाकशासनधनुर्ननु पश्चात् । दक्षिणाभिनवतोयधरश्री- रुत्तरा च तटिदुन्मिषति स्म ॥ २॥ मारदिग्विजयमङ्गलयात्रा- कालिकैः किल गभीरगभीरम् । शैलवारणशिरोभिरुदूढै- र्दध्वने जलददुन्दुभिवृन्दैः ॥ ३॥ वारिदस्मरभटा वलमाना दिक्षु धूनिततटिद्गुणवेत्राः । प्रोषितान्निजगृहं प्रति यूनो द्रावयन्त इव धीरमगर्जन् ॥ ४॥ नीलसौधशिखराण्यनु पश्य- न्त्यात्मनः सरणिमध्वगयूना । कौतुकादुपवने कनकाङ्गी केकिनेव ददृशे घनविद्युत् ॥ ५॥ वीचिभिर्जलनिधौ विपुलाभि- र्दूरदर्शिततिरोहितरूपा । चारुविद्रुमलतेव चकाशे चञ्चला जलदसङ्कुलितेऽभ्रे ॥ ६॥ कालिकामभि कृतारभटीका- मन्तरेऽभ्रसदसोऽधिकहर्षात् । नीलकण्ठमवलोक्य नटन्तं प्रह्वभावमभजत्फणिराजः ॥ ७॥ कालमेघनिनदैः सनिनादं वारिबन्धमधिगम्य वलद्भिः । मेदुरा मदकणा इव मुक्ताः प्राप्नुवन्प्रथमबिन्दव ऊर्वीम् ॥ ८॥ सम्पतत्तृषितचातकपोत- त्रोटिकोटिदलचूषितशेषाः । शीकराः प्रथमतः किल चेल- क्नापमापुरवनीं घनमुक्ताः ॥ ९॥ वारिवाहनिवहे वलहन्तु- श्चापयष्टिरचिरेण चकाशे । इन्द्रनीलशिखरीन्द्रनितम्बे गैरिकद्रवझरीव गलन्ती ॥ १०॥ अस्फुटद्बहिरजाण्डकटाहो- द्धट्टने मणिमयं कटकार्धम् । विक्रमेषु किमु विष्णुपदे य- द्दृष्टमिन्द्रधनुरित्यवशिष्टम् ॥ ११॥ ग्रीष्मसोष्मघनगोमयपङ्कैः प्रावृषा पदमलिप्यत विष्णोः । रङ्गवल्लिरपि रत्नरजोभि- स्तन्यते स्म धनुराकृतिरत्र ॥ १२॥ मेघमण्डलमहोदधिमध्ये तन्वता मणिधनुर्मयसेतुम् । कालदाशरथिनावधि काण्डै- रुष्णपङ्किवदनो हतशीतः ॥ १३॥ कर्षणस्यदघनक्षुभितासृ- क्पाटलाहिपतिभोगपरीतम् । आशु मन्दरमसस्मरदब्धौ खे धनुर्वलयितो घनसङ्घः ॥ १४॥ धार्तराष्ट्रभयदायिनि कृष्णे सिंहनादिनि घने सति सद्यः । अर्जुने गृहशिखण्डिनि चारा- द्भीष्म उष्ण उदभिद्यत काण्डैः ॥ १५॥ मर्दनं बत शुचेर्मलिनात्मा काल एष कृतवानिति मत्वा । मानसं प्रति नु मङ्क्षु पलायां- चक्रिरेऽतिशुचयः कलहंसाः ॥ १६॥ आहतासु पयसाम्बुजवाटी- ष्वाततासु सरणिष्वतिपङ्कैः । आवृतासु च हरित्सु घनौघै राजहंसगतयो न रराजुः ॥ १७॥ हंससन्ततिरलक्षि वलर्क्षी क्रौञ्चशैलकुहरं प्रविशन्ती । निर्गलद्विमलनिर्झरिणीभि- र्निर्विशेषमटवीषु निषादैः ॥ १८॥ दीनचातकशिशौ दयनीये क्रन्दति स्नुतपयःकणजालः । प्रावृषो धृतपयोधरनामा तावदभ्रनिवहस्तनति स्म ॥ १९॥ प्रावृषि प्रथममेव हि वर्षा- द्विष्टपे विरहिणीबहुलेऽस्मिन् । अञ्जनद्रवमयी सरिदग्रे पान्थलोकमरुधत्प्रवहन्ती ॥ २०॥ सुभ्रुवां प्रियसमागमवार्ता- न्वेषणव्यसनिना हृदयेन । साकमुन्नततटं सरिदोघः पातयन्बत पथः प्ररुरोध ॥ २१॥ मारदिग्जयमहोत्सवहेतो- र्नीरवाहकुलनीलविताने । विस्तृते वियति तत्र विरेजुः स्थूलमौक्तिकसरा इव धाराः ॥ २२॥ कालमेघकुलकज्जलिताभ्रे भेकभाङ्कृतिभयङ्करदिक्के । अर्धरात्रिसमयेऽभिसरन्त्याः साहसं हि भुवि षड्गुणमाहुः ॥ २३॥ वातविस्तृतघनाघनवर्षा- कामिनीकचभरे परिफुल्ला । मल्लिकास्रगिव मञ्जुबलाका- मालिकातिमहती विलुलोके ॥ २४॥ जृम्भिते सति जलोदयकाले यत्र पूर्वमुदलासि मरालैः । तारकाभिरपि तत्र बकौघै- र्ज्योतिरिङ्गणगणैश्च चकाशे ॥ २५॥ अम्बरे सति पयोधरभारे- णावृते तव पयोधरभारः । अम्बरेण कथमावृत इत्या- कर्षिं यौवतकुचांशुकमिष्टैः ॥ २६॥ चातकेषु भुवनं स्वनिषेवि- ष्वर्पयन्वितरणित्वमगाद्यः । केतकीद्रुभिरसेवि घनोऽसौ कुट्मलच्छलकृताञ्जलिबन्धैः ॥ २७॥ अभ्रनिर्गलदनारतधारा- वर्तनावनितलाम्बुविहारी । उत्पतन्नुरुतपा इव मत्स्यः स्वर्गसिन्धुसलिलं विजगाहे ॥ २८॥ वानरेषु घनवर्षहतेषु व्याप्नुवत्सु विटपाद्विटपाग्रम् । प्रत्यबोधि पतनोत्पतनाभ्यां पक्वजम्ब्वलिपरस्परभेदः ॥ २९॥ काकघूककलविङ्ककुलाय- प्रायचैत्यतरुषु प्रतिपत्य । आशुनाशिभिरहो करकौघैः पातकं भुवि परं समचायि ॥ ३०॥ गन्धवाहयुवघट्टनदीर्य- च्छक्रचापशुभकञ्चुलिखण्डाः । प्रावृषः किल पयोधरभारा- दिन्द्रगोपनिकरा इति पेतुः ॥ ३१॥ उद्यते जगदुपेन्द्रकुमारे जेतुमस्य जयसाधनमिन्द्रः । वाहनं वरधनुश्च ददत्स्वं हन्त कोपमपि मूर्तममुञ्चत् ॥ ३२॥ चञ्चलायतकशे जलवाहा- ध्यापके नदति धीरमुदारम् । शैलसीम्नि शिखिमाणवकानां शुश्रुवे कलकलः श्रवणीयः ॥ ३३॥ नीलमेघनिवहेन दशाना- मावृतेऽपि हरितामवकाशे । उल्ललास तरणेरुडुपस्या- प्यप्सु मण्डलमहो तटिनीनाम् ॥ ३४॥ अस्तमेति सवितास्य तटाकाः कुर्वतेऽस्य कमलाञ्जलिबन्धम् । श्रोत्रियैरिति घनस्थगितेऽभ्रे सायकर्मसमयो निरणायि ॥ ३५॥ कामिनीकलितनिर्दयकण्ठा- श्लेषसञ्जनितशर्मविशेषैः । रारटज्जलधरो लघुवर्षा- वासरः सुकृतिभिर्विललङ्घे ॥ ३६॥ अम्बरं परिदधत्यवदातं हंसपङ्क्तिभिरलङ्कृतपार्श्वम । आययौ शरददभ्रसिताभ्रा लालिताभ्युदितराजकरेण ॥ ३७॥ विष्टपं शरदृतोर्वशयन्द्रा- गङ्गजप्रभुरदत्त किमस्मै । लक्ष्मकैतवलसन्निजमुद्रं चन्द्रबिम्बमिषशासनपत्रम् ॥ ३८॥ चारुभिर्विरहिताश्चपलाभिः पाण्डुतामिव घनाः प्रतिपद्य । दिक्षु तूललघवो वलमाना- श्चिक्षियुर्बत चिरं विधुरत्वात् ॥ ३९॥ शम्पया कनकश‍ृङ्खलदाम- च्छद्मया परिवृतो जलदः खे । निःस्पृहः शरदि नीलमहोक्ष- व्याजतोऽधिगु वलन्नदति स्म ॥ ४०॥ सप्तपर्णकुसुमेषु समीरः सन्निपत्य मधुगन्धिषु सद्यः । निष्पतन्गिरिगुहासु निषण्णै- रभ्यधाव्यत रुषा हरिडिम्भैः ॥ ४१॥ गन्धसिन्धुरकपोलतलस्पृ- क्पुण्डरीकमुखपर्यटनोत्कः । बाणकोटिषु पतन्नपि नालि- र्विव्यथे विरहिदुर्विधिपाकात् ॥ ४२॥ षट्पदालिररुणाम्बुजषण्डे मेदुरा युवमनोमृगहत्यै । दारुणस्मरकिरातततायो- वागुरेव दवसीम्नि विरेजे ॥ ४३॥ सिन्धवः स्वपतिचूषणशीले स्फीततेजसि मुनौ सति भीताः । अम्बुजाञ्जलिमकुर्वत कार्श्या- द्राजसप्रकृतितां रहयन्तः ॥ ४४॥ प्राग्रजस्वलतया बहुरात्रं प्राप या न तटिनी प्रतिकर्म । निर्मला शरदि सा निजकेशा- ञ्छैवलान्पयसि शोधयति स्म ॥ ४५॥ पुण्डरीककुलभूरिविलासा- वासनीलवनराजिसमेता । तावदद्रिषु तटी तटिनी च द्वे परस्परतुलामलभेताम् ॥ ४६॥ दन्तिदन्तशकलैरिव दीप्रैः कैरवैरुडुगणैरपि कीर्णम् । शारदं मनसिकृत्य स नूनं कं च खं च कविराह सवर्णम् ॥ ४७॥ कामकुण्डलितकार्मुकचक्र- क्रेङ्कृतिभ्रमकरं गहनान्ते । कूजितं मदकलं कुररीणा- माततान पथिकानधिकार्तान् ॥ ४८॥ दैविकी मम तिरस्कृतिरासी- त्कुप्यमात्रगुणिनीति तुलास्थे । प्रत्ययार्थमिव भास्वति पद्मि- न्युन्नमय्य मुखमुच्छ्वसिति स्म ॥ ४९॥ प्रावृषेण्यदिवसे प्रतिपेदे सम्मदं स किल षण्मुखवाहः । शारदेऽह्नि तु चतुर्मुखवाहः कस्यचिद्भवति कश्चन कालः ॥ ५०॥ भूषणानि पथि शिञ्जितभीत्या द्राग्विमुच्य तटिनीं निशि यान्त्या । हंसके नदति हन्त सशङ्कं स्वाङ्घ्रियुग्ममभिसारिकयैक्षि ॥ ५१॥ राजहंस इति पाथसि राका- चन्द्रबिम्बमभिसृत्य सरागम् । वञ्चिताथ वरटा निजनाथे न स्म विश्वसिति जातु यथार्थे ॥ ५२॥ वाजपेयविहितावभृथानां यज्वनामुपरि हंसयुवानः । आतपत्रमवलोक्य गृहीतं हंस इत्यनुनदं दिवि नेदुः ॥ ५३॥ बह्वमन्यत शुचिर्द्विजवृन्दे शुद्धमानसगतिः सुनदीष्णः । शीतवातसहनोऽपि च हंसो वर्णसङ्करवशात्तु शिखी न ॥ ५४॥ वासवोपलमयीव वितर्दि- श्चन्द्रकान्तमणिपीठसमेता । शिश्रिये शितिजला सरिदाविः- सैकता च सुगिरा द्विजपङ्क्त्या ॥ ५५॥ स्पर्धितं विरुरुधे हि मिथस्त- त्खञ्जरीटमिथुनं घटमानम् । येन सर्वयुवमोहनदात्रा सूचिकाजनि निधेः शरदुर्व्याम् ॥ ५६॥ कन्दलत्कुमुदकाननखेल- द्राजहंसरमणीचरणानि । दुग्धसिन्धुसरसोदरवल्ग- द्विद्रुमाङ्कुरविलासमपुष्णन् ॥ ५७॥ शारदेषु दिवसेषु समानं पुण्डरीकपटलेन पयोधौ । उन्मिमेष दृगुभय्यपि विष्णोः पुण्डरीकनयनो हि स कालः ॥ ५८॥ सप्तपर्णमभिसृत्य सकामं मञ्जरी परिवहन्मदगन्धम् । स्कन्धदेशविनिवेशितशुण्डा- काण्डया चिरमवर्ति करिण्या ॥ ५९॥ सञ्चरत्सरसि सन्ततखेल- त्कामिनीकुचतटीघुसृणाक्ते । मल्लिकाक्षमिथुनं चरणास्ये राजहंसयुगरीतिमधत्त ॥ ६०॥ रक्तवारिरुहरङ्गरजोभि- र्धूसरा धुरि मिथो घटमानाः । मारदेवमहिता इव मल्ल्याः षट्पदाः सनिनदं दिशि चेरुः ॥ ६१॥ शुद्धराजतघटं पुलिनान्ते न्यस्य कल्पितनदीजलकेल्या । मुग्धया हृद उदीक्ष्य मरालं चुक्रुशे निजघटः स्रवतीति ॥ ६२॥ पुण्ड्रपर्वगलितस्फुटमुक्ता- वारशर्करिलया वनगोप्यः । इक्षुशाकटजनस्य सरण्या कालमीनमभजन्त कथञ्चित् ॥ ६३॥ अध्वगः कलमपालिकयाग्रे दर्शितेऽपि पथि तद्गतचेताः । स्पृष्टवानिव पदौषधिभेदं बम्भ्रमीति बत तां परितः स्म ॥ ६४॥ चाखलीषि न च शक्ष्यसि गन्तु- मस्ति सिद्धिरिति कापि भुजङ्गम् । लोलदृष्टिमरुणल्लघुभोगि- ग्राहिणीव पथिकं यवगोप्त्री ॥ ६५॥ प्रस्थितस्य परितः क्रममाणा दिग्जयाय मदनस्य तुरङ्गाः । श्यामलाः कलमसीम्नि समेता जृम्भिता वनशुका अवतेरुः ॥ ६६॥ घोषितैः कलमकाननगोप्याः प्रस्थितान्बत शुकान्समगृह्णन् । पल्लवैश्च कुसुमैः प्रहियन्त्र- स्थाणवस्तदुपगीतिसमुत्थैः ॥ ६७॥ प्रोच्य मासमवधिं प्रसवर्तो- र्योषिति प्रचलितः पथि वन्ये । गोपिकाध्वनिषु कोकिलबुद्ध्या हा वसन्त इति कश्चिदमुह्यत् ॥ ६८॥ तत्र तत्र नवदर्भसमूहाः पुष्पितास्त्रिभुवनं विजिगीषोः । रेजिरे रजतकेसरपङ्क्त्या राजिता रतिपतेरिव कुन्ताः ॥ ६९॥ दिग्जयाय चरतामिह राज्ञां हस्तिभिर्हरितपट्टपताकाः । दीर्घशैलकदलीदलपाली- विभ्रमं विदधिरे भ्रियमाणाः ॥ ७०॥ राजहंसरजनीकरकाश- स्तोमकैरवकुलच्छलतः स्वाम् । अङ्गजे किरति कीर्तिमगच्छ- त्सा शरच्छरदयोगिषु भूत्वा ॥ ७१॥ वायुवह्निजलखानि वसन्त- ग्रीष्मवार्दिनशरत्सु किमृद्धिम् । प्रापुरित्यृतुयुगे परिशिष्टे भूरजांसि परिवृद्धिमगच्छन् ॥ ७२॥ अम्बरे विधिरपां परमाणू- न्व्यस्तृतातपते हिमदम्भात् । अप्सिसृक्षुरत एव बुधानां भाविवर्षपरिकॢप्तिरिदानीम् ॥ ७३॥ हैमनेषु दिवसेषु यतोऽभू- द्द्यौश्चिराय धृतजीवनगर्भा । विप्रकीर्णहिमघर्मकणौघा पाण्डिमानमत एव बभार ॥ ७४॥ दिव्यहंसनिवहेऽभ्रतटिन्यां शारदेषु दिवसेषु विहृत्य । क्लिन्नपक्षकुलकम्पिनि पेतुः शीकरा हिममिषेण समन्तात् ॥ ७५॥ दिङ्मुखानि कुशकाशगुलुच्छै- रूर्ध्वपुण्ड्रलसितान्यथ तानि । हैमनेन दिवसेन हिमानी- भूतिलेपभरितानि कृतानि ॥ ७६॥ अच्छमिन्दुमणिमम्बरशाणे कर्षति ग्रथितरश्मि कृतान्ते । तस्य चूर्णपटलीव तदानी- माविरास महतीति हिमानी ॥ ७७॥ हारदाग्नि सलिले च हिमत्वं प्रायशो मिहिकया प्रथयन्त्या । पद्मपालिषु वियोगिषु च प्रा- लेयता प्रकटिता बत लोके ॥ ७८॥ यामिनीषु यदभूदतिदैर्घ्यं यच्च ह्रस्वमजनिष्ट तदाहः । प्रोदितोऽजनि चिराय तदेत- त्पांसुलाकुलतपःपरिपाकः ॥ ७९॥ जारदष्टमधरं पिदधाना कापि नव्यकुलटा कुलटाभिः । पृच्छते स्वपतये व्रणहेतुं शीलिता हिम इतीति वदस्व ॥ ८०॥ इत्वरी बत निशासु हिमानी- दुर्निरीक्षगमनापि विभाते । शाद्वलेषु समसूच्यनुरागैः प्रस्नुतैरिव बहिः पदयावैः ॥ ८१॥ हास्तिकं दिनमुखे बहिरेष्य- त्सन्ततं स्थपुटिते हिमपिण्डैः । प्राङ्गणेऽपि पदमेकमनीशं कर्तुमुद्धृतकरं रटति स्म ॥ ८२॥ वालिनेव शिशिरेण विदूरं द्रावितो रवितनूज इवोष्मा । ऋश्यमूकमिव सोऽपि तदानीं प्राप यौवतपयोधरदुर्गम् ॥ ८३॥ वीटिकाद्विपटिकाप्रतिसीरा- गर्भगेहमृगनाभिहसन्तीः । सन्निधाप्य सुदतीकुचदुर्गं संश्रितैर्विमुमुचे शिशिराद्भीः ॥ ८४॥ सायमातपदवाग्निशिखाभि- र्व्याहता निशि हिमैर्वनराजिः । कुन्दपुष्पकपटेन विभाते बाष्पबिन्दुपटलं विससर्ज ॥ ८५॥ इत्थं दुरन्तहिमवर्षिणि जृम्भमाणे काले वियोगिजनजीववियोगकाले । कान्ताकुचोष्मकबलीकृतशीतगर्वा निद्रासुखान्यनुभवन्ति निशि स्म धन्याः ॥ ८६॥ तरुकुलमुरुशाखाशेषमात्रं तदानीं प्रतिदिशमवलोक्य प्राणभृद्व्याघ्रपुर्याम् । अमनुत शिवरात्रावर्चितुं भूसुरेन्दै- रखिलमपि विलूनं पत्रपुष्पाङ्कुरौघम् ॥ ८७॥ जननमरणभीतो जैमिनिर्व्यासवाचा विदितदहरविद्यासम्प्रदायो विमुक्त्यै । विमलमतिरुपास्ते वेदपादस्तवाद्यै- र्वर इह नटराजं पुण्डरीकाभिधाने ॥ ८८॥ श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी- रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् । गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः काव्येऽस्मिन्दशमं नटेशविजये सर्गं चकाराद्भुतम् ॥ इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये दशमः सर्गः सम्पूर्णः । इति नटेशविजयं सम्पूर्णम् ॥ Proofread by Ruma Dewan
% Text title            : Natesha Vijayam by Venkatakrishna Dikshita
% File name             : naTeshavijayam.itx
% itxtitle              : naTeshavijayam (veNkaTakRiShNadIkShitavirachitam)
% engtitle              : naTeshavijayam venkaTakRRiShNadIkShitavirachitam
% Category              : shiva, mahAkAvya
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Venkatakrishna Dikshita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : April 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org