नटेशविजयम्
॥ श्रीः ॥
(श्रीमद्वाधूलकुलतिलकैः वेङ्कटकृष्णदीक्षितैः विरचितम्)
१. प्रथमः सर्गः
श्रियं कटाक्षाश्चिरमम्बिकाया-
स्तरङ्गयन्तूत्पलदामदीर्घाः ।
द्रुमेऽपि सद्यस्तिलकाभिधाने
प्रणीयते यैः प्रसवाङ्कुरश्रीः ॥ १॥
भद्राणि पुष्णातु स रामभद्रो
भद्राकृतिः स्वीकृतभद्रपीठः ।
कल्पद्रुमो यस्य करादुदारा-
दौदार्यमध्येतुमिवान्वगास्ते ॥ २॥
यस्यात्मनीनस्तनयोऽब्जयोनेः
पुरोहितोऽभूद्भगवान्वसिष्ठः ।
अरुन्धतीनाम्नि यदीयमास्ते
पतिव्रताज्योतिषि भागधेयम् ॥ ३॥
गाधेयगर्वोदधिकुम्भयोनि-
र्यद्ब्रह्मदण्डो यमिताखिलास्त्रः ।
ब्राह्मे बले क्षात्त्रबले च सारं
निरीक्षितॄणां निकषोपलोऽभूत् ॥ ४॥
गाधेः सुतः क्रूरतपोमहिम्ना
प्रसेदुषि ब्रह्मणि भाषमाणे ।
अपि द्विजोऽसीत्यवृणीत यस्य
तथाप्यनुज्ञां द्विजभावपूर्त्यै ॥ ५॥
यस्यान्वये योगिवरस्य शक्ति-
पराशरव्यासशुकप्रधानाः ।
सञ्जज्ञिरे सर्वजगत्प्रसिद्धा
महर्षयोऽब्धौ मणयो यथाच्छाः ॥ ६॥
तस्यान्ववाये द्विजराज एकः
क्षीरोदधौ चन्द्र इवाधिकश्रीः ।
सौम्यः सतां वर्त्मनि सम्प्रवृत्तो
बालाजिनामाजनि पण्डितेन्द्रः ॥ ७॥
अजायतास्मादरणेरिवाग्नि-
र्दादाजिनामा तनयोऽग्र्यतेजाः ।
विरोधिनोऽभ्येत्य विलोलहेतिं
चापल्यतो यं शलभीबभूवुः ॥ ८॥
उमाम्बिका नाम हुताशनस्य
स्वाहेव तस्याजनि धर्मपत्नी ।
अजीजनद्धर्ममिवात्तदेहं
गोपालनामानमसौ कुमारम् ॥ ९॥
उमाकुमारोऽयमुदग्रशक्ति-
र्बाल्यात्प्रतिक्ष्माभृदुरोविभेत्ता ।
दादाजिनेतुस्तनयो महात्मा
बालेन्दुमौलेरिव बाहुलेयः ॥ १०॥
गोपालभूपालवरस्य तस्य
गुणौघमाणिक्यखनिः कनीयान् ।
रामस्य सौमित्रिरिवातिमात्र-
प्रेमाश्रयो विठ्ठलपण्डितोऽभूत् ॥ ११॥
धर्मप्रतिष्ठापनतत्परस्य
तथाविधोऽक्रूरहितस्य तस्य ।
सखानघः शङ्करपण्डितोऽभू-
द्गाण्डीवधन्वेव गदाग्रजस्य ॥ १२॥
देवो द्विबाहुर्द्विजराजवंशे
गोपाल एवाजनि गोप्तुमाप्तान् ।
चापासिहस्तः स्वयमेष तस्मा-
दास्ते विमुक्तारिररोगदश्च ॥ १३॥
पुरा गृहीत्वा पृथुकान्कुचेलं
गोपाल एकं कृतवान्धनाढ्यम् ।
अद्य प्रवादच्युतयेऽनुपाधि
कुचेलसङ्घान्कुरुते कुबेरान् ॥ १४॥
शापे च चापे च स रैणुकेयः
शान्तौ च कान्तौ च स शारदेन्दुः ।
योगे च भोगे च स हैहयेन्द्रो
ज्ञाने च दाने च स चेद्दधीचिः ॥ १५॥
प्रत्यग्रकर्णः प्रतिपादनेऽसौ
सत्ये हरिश्चन्द्रनृपो नवीनः ।
वीरायिते नूतनविक्रमार्को
बोधे कलावान्नवभोजराजः ॥ १६॥
विरोधिसेनातृणवीतिहोत्रः
कवीश्वरस्तोमकलापिमेघः ।
समाश्रितव्रातचकोरचन्द्रः
स राजते सज्जनपद्मभानुः ॥ १७॥
स सञ्चरिष्णुर्भुवि चापवेदो
दृशाधिगम्यो द्विजभाग्ययोगः ।
दयारसः स्वीकृतदेहबन्धः
सचेतनः साम्बशिवप्रसादः ॥ १८॥
राज्ञः शिवच्छत्रपतेः प्रसादा-
त्प्राज्ञस्तदीयामवलम्ब्य मुद्राम् ।
चिदम्बरप्रान्तभुवं चिराय
गोपायति ब्रह्मकुलानुकूलः ॥ १९॥
बिभ्रद्धरित्रीभरमेष शेषं
भुजेन बुद्ध्याप्यधरीकरोति ।
सरोजलक्ष्मीं च सतामलक्ष्मीं
निजेक्षणेनैव निराकरोति ॥ २०॥
नीलालकश्चन्द्रमुखोऽब्जनेत्रो
बिम्बाधरः कम्बुगलो द्विबाहुः ।
कवाटवक्षाः स गभीरनाभि-
र्महोरुजङ्घो मदनो नु मूर्तः ॥ २१॥
कान्त्या त्वदास्येन जितः क्रशीया-
निन्दुर्भवत्यन्वहमित्युडू द्वे ।
कर्णान्तिके कीर्तयतो धृतान्त-
श्छिद्रे नु मुक्ताच्छलतो मुदेऽस्य ॥ २२॥
हयाधिरोहोचितवेषभूषे
हसन्मुखेऽस्मिन्सममश्ववारैः ।
हयेन खेलत्यधिराजमार्गं
दृष्ट्वा विमुह्यन्त्यबला द्विषश्च ॥ २३॥
विहारधाटीविततोरुघोटी-
खुराग्रधूलीकुहनाभ्रपालिः ।
विरोधिबालाविपुलाश्रुमाला-
नदीषु हेतुर्ननु तस्य नेतुः ॥ २४॥
दुरासदोऽन्यैर्धृतमण्डलाग्रः
सोऽयं प्रतापेऽपरसूर्य एव ।
खमुत्पतन्खड्गहतोऽस्य शत्रु-
र्भिन्ते पदं तद्भ्रमतेऽर्कबिम्बम् ॥ २५॥
कराग्रखेलत्करवालमाया-
कालाहिलीलाकबलीकृतेषु ।
प्राणानिलेषु प्रतिपक्षयूना-
मास्ते नरेन्द्रोऽयममोघमन्त्रः ॥ २६॥
अनेककाष्ठाक्रमणादजस्रं
जाज्वल्यमानाज्जयशालिनोऽस्य ।
प्रतापवह्नेर्भृशमुत्थिताभि-
र्नीलं नभोस्भून्नियतं मषीभिः ॥ २७॥
विसृत्वरैरस्य यशोवितानै-
राच्छादिते सन्ततमिन्दुबिम्बे ।
चन्द्रोपलैज्योतिषिकाः कथञ्चि-
ज्जानन्ति पक्षौ निशि शुकुकृष्णौ ॥ २८॥
स्वमन्दिराभ्यन्तरचत्वरेऽस्य
वदान्यभावे वितते विचित्रम् ।
कवीन्द्रबाहीकगृहाङ्गणानि
भवन्ति दानोदकपङ्किलानि ॥ २९॥
अनर्घकर्णाभरणाङ्गुलीय
चित्राम्बरोष्णीषसुकञ्चुकाद्यैः ।
अलङ्कृता यस्य सभान्तराले
दीव्यन्ति कल्पद्रुमवद्बुधेन्द्राः ॥ ३०॥
यदीयविद्वज्जनयज्ञवाटी-
माटीकमानेष्वमरेष्वजस्रम् ।
वियोगखिन्ना विबुधायताक्ष्यो
हन्तायनं दक्षिणमर्थयन्ते ॥ ३१॥
विद्वज्जनो यस्य विभोः सकाशा-
दासाद्य वर्षाशनमात्तहर्षः ।
आविष्करोत्यात्मनि चातकत्वं
दातुर्घनत्वं च दिगन्तरेषु ॥ ३२॥
वदान्यतामस्य कथं वदामः
कर्णाय दातुर्मणिकुण्डलस्य ।
कल्पद्रुमेऽपि स्ववशे वलारिः
कर्णं ययाचे मणिकुण्डलं यत् ॥ ३३॥
ख्यातिं गतो यः किल कुण्डलेन
बुधेन्द्रमेकं परितोष्य कर्णः ।
कथं न जिह्रेति स कुण्डलानि
दत्वामुना तोषयता बुधेन्द्रान् ॥ ३४॥
स कौशिकोऽजायत शक्तिहीनः
कर्णात्स्वयं कुण्डलमाददानः ।
वासिष्ठ एषोऽजनि वृद्धशक्तिः
कर्णेऽर्पयन्कुण्डलमाददानः ॥ ३५॥
देहीति दीनध्वनिकन्धराय
दत्तामुना रङ्गपुरे द्विजाय ।
प्राज्ञेन कार्तस्वरकण्ठभूषा
प्रश्नोत्तरात्मा प्रथिता तदादि ॥ ३६॥
विद्वन्मणिश्रेणिविराजमानै-
र्महीं परिष्कृत्य महाग्रहारैः ।
ननु स्वयं नायकरत्नभूतो
विद्योतते त्रासविवर्जितोऽसौ ॥ ३७॥
जिष्णुः शुचिर्दण्डधरः स पुण्य-
जनः प्रचेताः शुभगम्यवाहः ।
धनाधिनाथो द्विजराजमौलि-
राविष्करोत्यात्मनि दिक्पतित्वम् ॥ ३८॥
चिदम्बरे द्राक् शिवगङ्गयाद्भि-
र्यया जनानां ह्रियतेऽत्र पङ्कः ।
हन्तास्य तस्या अपि पङ्कहर्तु-
र्वयं कथं पावनतां वदामः ॥ ३९॥
कान्तेन साकं कलधौतशैले
विहारवार्ता हृदि विश्वमातुः ।
व्यावर्तितानेन विहारहेतो-
रान्दोलिकामर्पयताभिरूपाम् ॥ ४०॥
सभेशसेवासमयानुशंसि-
न्यनेन दत्ते निनदत्यमन्दम् ।
घण्टामणौ मूर्ध्नि कृताञ्जलिः स्वे
लोके वसिष्ठं हि विलोकतेऽजः ॥ ४१॥
तस्यानुकूलाजनि धर्मपत्नी
सखाम्बिका नाम सतीमणिर्या ।
खनीव रत्नं कुलदीपमेनं
खण्डोजिनामानमसूत सूनुम् ॥ ४२॥
स्वप्ने तमेनं शिवकामसुन्द-
र्यासाद्य दिव्याभरणोज्ज्वलाङ्गी ।
चिदम्बरेशार्पितचित्तवृत्तिं
कदाचिदूचे करुणानुरूपम् ॥ ४३॥
वत्स प्रसन्नस्त्वयि विश्वनाथः
सुखी चिरं जीव शृणूदितं मे ।
सरस्वती श्रीरिव भूरिव त्वां
स्वयं शिवानुग्रहतो वृणीते ॥ ४४॥
सारस्वतं सारमिह प्रयुङ्क्ते
क्षुद्रेषु देवेष्विरणेष्विवैकः ।
स्वातीघनः शुक्तिपुटेष्विवान्यो
धन्यो महत्स्वेव तु दैवतेषु ॥ ४५॥
नव्यं तदेकं नटनायकस्य
प्रणीय काव्यं पुरुषार्थहेतुम् ।
रामस्य वाल्मीकिरिव त्रिलोक्या-
माचन्द्रतारं यश आप्नुहीति ॥ ४६॥
तत्रान्तरे तालमृदङ्गतूर्य-
वीणारवैर्मागधरागभेदैः ।
प्रबोधितोऽसौ परदेवतायै
कृताञ्जलिः काल्यविधिं व्यतानीत् ॥ ४७॥
शिवार्चनानन्तरमेव सभ्या-
न्स्वप्नानुवादेन सभाजयित्वा ।
तेषामनुज्ञामधिगम्य धीमा-
न्काव्यं क्रमादारभतैष कर्तुम् ॥ ४८॥
विशुद्धवाधूलकुलाब्धिचन्द्रो
विद्वन्मणिर्वेङ्कटकृष्णयज्वा ।
गोपालनेतुः कवने विनेता
प्राचेतसस्येव पितामहोऽभूत् ॥ ४९॥
महाकवेर्वीक्ष्य कृतिं मनोज्ञां
पर्युत्सुकाः स्युः कवने परेऽपि ।
महेश्वरे नृत्यति मोदमानाः
पार्श्वे नटन्ति प्रमथा न किं वा ॥ ५०॥
ख्यातिं किलैकेन गुणेन लोके
भजेत वस्तु प्रबलेऽपि दोषे ।
किं कालकूटे सति कौस्तुभेन
रत्नाकराख्यां लभते न सिन्धुः ॥ ५१॥
दृष्टेऽपि दोषे तदिह प्रबन्धे
गुणं बुधाः केवलमाद्रियध्वम् ।
दोषज्ञताया भवतां न हानि-
र्दोषैकदृक्त्वं परधा भवेद्वः ॥ ५२॥
कृताववज्ञापि गुणः शुचीनां
कलङ्किनामादृतिरप्यवद्यम् ।
त्रयीतनोः पादहतापि पद्मि-
न्यामोदते नेन्दुकरादृतापि ॥ ५३॥
कृतमतिरिति सोऽयं काव्यनिर्माणबीजं
सुकृतिसुलभमन्तश्चिन्तयन्नेव तत्त्वम् ।
व्यरचयदनवद्यं पद्यवर्गैः प्रबन्धं
बहिरपि पटुयोगीवाकरोल्लोकतन्त्रम् ॥ ५४॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्ग मुदाद्यं व्यधात् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये प्रथमः सर्गः सम्पूर्णः ।
२. द्वितीयः सर्गः
माध्यन्दिनो नाम पुरा महर्षिः
कृतारिषड्वर्गजयः किलासीत् ।
विभूतिरुद्राक्षविभूषिताङ्गं
विशङ्कते यं विषमेषुरीशम् ॥ १॥
कदाचिदेष स्वकुमारमारा-
दधीतसाङ्गश्रुतिमानमन्तम् ।
भवाब्धिपारं प्रतिलब्धुकामं
शुचिं प्रसन्नः स्वयमित्युवाच ॥ २॥
वत्स त्वमेको मम वंशमध्ये
सुवृत्तमुक्तामणिवत्सुजातः ।
शुद्धात्मनस्ते सुजनादृतस्य
यत्ते गुणग्राहि सदा हृदासीत् ॥ ३॥
भक्तिर्गुरौ वा परमेश्वरे वा
प्रणीयते या पुरुषेषु लोके ।
धर्मार्थकामामृतदोहनी सा
धिनोति दोग्ध्रीव कुलं तदीयम् ॥ ४॥
अनन्यभाजा परमन्तकारि-
भक्त्या भवान्येव नृणां प्रसीदेत् ।
तस्मिन्प्रसन्ने तरुणेन्दुमौलौ
तद्वस्तु किं यत्त्रिजगत्यलभ्यम् ॥ ५॥
शक्रः पुरा वाल्कलिना शरोघै-
रम्भोमुचा हंस इवाभिभूतः ।
अगात्पयोधिं हरिनाभिपद्मा-
मोदोत्तरैरार्तिहरं मरुद्भिः ॥ ६॥
किरन्तमम्भःकणबृन्दमुचैः
सहैव मुक्तामणिभिः समन्तात् ।
रत्नाकरत्वं मम जीवलोको
व्यक्तं विजानात्विति वाञ्छयेव ॥ ७॥
उद्गच्छतीन्दावुरुहर्षयोगा-
दुत्तानितैरूर्मिभुजैर्निशासु ।
उडूनि डिण्डीरमिषादुपात्ता-
न्युच्चावचान्यन्वहमुद्वहन्तम् ॥ ८॥
तरङ्गहस्ताञ्चलधूयमान-
प्रवालडोलाफलकाधिरूढम् ।
बृन्दं पयोमानुषदम्पतीनां
मुक्ताकलापैर्मुहुरञ्चयन्तम् ॥ ९॥
गर्वोद्धताम्भोगजबृन्दवप्रा-
घातक्षणोद्भूतघणात्कृतेन ।
संसूचयन्तं शतकोटिभीत्या
शैलानधस्तात्सलिले निमग्नान् ॥ १०॥
तत्राथ दर्वीकरराजतल्पे
पयोमिलत्फेनसमूहकल्पे ।
शयानमिन्द्रोपलचारुदेहं
हिमाचलारूढमिवोदवाहम् ॥ ११॥
आकण्ठपीतामसुरास्रधारां
ज्वालामिषादुद्वमता समन्तात् ।
चक्रेण कृत्तद्विपकर्षणोद्य-
न्नक्रेण पार्श्वे निभृतेन जुष्टम् ॥ १२॥
चलाहकान्तर्वलदंशुमालि-
क्रमोल्लसत्कौस्तुभरत्नकान्त्या ।
संरूषितं वामकरेण शङ्खं
सन्ध्यांशुशोणेन्दुसमं दधानम् ॥ १३॥
पयोधिकन्यापरिरम्भलग्न-
काश्मीरजम्बालमुरःकवाटे ।
मुदा मुहुर्मूर्तमिवानुरागं
श्रीवत्सचिह्नेन समं वहन्तम् ॥ १४॥
म्लानेतरा चम्पकमालिका वा
स्थिरद्युतिश्चारुतटिल्लता वा ।
ततोज्ज्वला वा तपनीय रेखे-
त्युल्लिख्यमानां श्रियमुद्वहन्तम् ॥ १५॥
श्रिया सुधाशीतलया श्रितानां
तापं हरन्तं जनदर्शनीयम् ।
पुरः पुराणं पुरुषं वलारि-
श्चकोरकश्चन्द्रमिवालुलोके ॥ १६॥
प्रणम्य बद्धाञ्जलिसम्पुटेन
सहस्रनेत्रेण सहानिमेषैः ।
तोष्टूय्यमानोऽतुलदिव्यरूपो
दयालुरेनं दनुजारिरूचे ॥ १७॥
युष्माकमत्रागमनं यदर्थं
योगेन जानामि तदेतदद्य ।
वध्यो न ते वज्रकठोरकायः
स वाल्कलिः शक्र विना तपोभिः ॥ १८॥
शचीपतेऽतः शिवराजधानीं
तिल्वाटवीमेत्य तपश्चर त्वम् ।
तत्राहमेत्य त्वदनुग्रहार्थं
वत्स्यामि शैले वरदस्त्रिकूटे ॥ १९॥
इत्युक्तवन्तं पतिमिन्दिरायाः
प्रणम्य तेन प्रहितोऽथ शक्रः ।
तिल्वाटवीमेत्य तपश्चचार
प्रसादहेतोः परमस्य पुंसः ॥ २०॥
तपो वितन्वन्द्युपतिस्तपर्तौ
पञ्चाग्निमध्ये प्रतितिष्ठति स्म ।
सद्यः कथं साहसमन्तरेण
भद्राणि लोके पुरुषा भजेरन् ॥ २१॥
नागेश्वरो नन्विह वायुभक्षो
विष्णुं वशीचक्र इतीव मत्वा ।
नाकेश्वरोऽपि स्वयमीदृशोऽभू-
न्नाथं वशीकर्तुमनास्तमेव ॥ २२॥
गुरूपदिष्टं पुनरेष कुर्व-
न्नशून्यशय्याव्रतमादरेण ।
प्रहर्षयामास परं पुमांसं
गुरुप्रसादः किल कार्यसिद्ध्यै ॥ २३॥
प्रसुप्तपङ्केरुहमण्डलस्य
प्रगे तटाकस्य पुरोऽर्यमेव ।
प्रमीलिताक्षिप्रकरस्य विष्णुः
प्रबोधकृत्प्रादुरभूद्रमेशः ॥ २४॥
श्रान्तोऽसि वज्रिन्सुचिरं तपोभि-
र्महेशितुस्त्वं मम च प्रसादात् ।
जहि द्विषं तं जयमाप्नुहीति
व्याहृत्य विष्णुर्विससर्ज जिष्णुम् ॥ २५॥
ततो विजित्य द्विषमाप राज्यं
शक्रो हरिस्तु स्वयमीशनाट्यम् ।
दिदृक्षुरास्तेऽहिशयोऽत्र तेन
त्वदिष्टलाभस्तपसात्र भावी ॥ २६॥
पुत्रैकदा पुल्कसजातिरेको
व्याधो वसन्विन्ध्यगिरिप्रदेशे ।
तीर्थाटनोत्साहजुषां द्विजानां
वसून्यसून्यप्यहरद्विशङ्कः ॥ २७॥
हिंसाविहारोऽयमतिप्रभूतं
सम्पाद्य वित्तं सुहृदे तदर्धम् ।
द्विजाय कस्मैचिददात्कदाचि-
त्स तं दयालुः स्वयमित्युवाच ॥ २८॥
सखे वचो मे शृणु सारभूतं
सुदुर्लभं मानुषजन्म जन्तोः ।
पुण्यादिदं प्राप्य पुनर्विमोहा-
त्पापानि कुर्वन्शुरेव लोके ॥ २९॥
आयुर्हरत्यस्तमयोदयाभ्या-
मल्पाल्पमर्कोऽन्वहमस्य जन्तोः ।
उत्तानकूपाम्भ इवोष्णकाले
न वेत्त्ययं प्रत्युत नन्दतीह ॥ ३०॥
मज्जास्थिमेदोरुधिरामिषत्व-
क्प्राये शरीरे परिणामहेये ।
विनश्वरे व्याधिनिधौ विवेकी
रक्ष्यत्वबुद्ध्या रचयेदघं कः ॥ ३१॥
चन्द्रानना चम्पकदामगौरी
कुम्भस्तनी कुञ्जरगामिनीति ।
सम्भावयन्कामपि चर्मभस्त्रां
दुष्कर्म मूढस्तनुते तदर्थम् ॥ ३२॥
भार्याः सुता बन्धुजनाः परे च
यावद्धनं तावदुपासतेऽमुम् ।
वित्तेन हीनं तु विनैव हेतु-
मुत्सृज्य विश्वासमुदासते ते ॥ ३३॥
पापानि कृत्वा परिसञ्चितं स्वं
भुङ्क्ते गृहे बन्धुजनोऽस्य कामम् ।
भोक्तव्यमेकेन परत्र लोके
स्वेनैव पापस्य फलं तु शश्वत् ॥ ३४॥
तत्कर्म कुर्वन्नतिदारुणं त्वं
कदापि धर्मस्य कथां न वेत्सि ।
करेण पाशं कलयन्कृतान्तः
समागतश्चेत्तव कः सहायः ॥ ३५॥
संसारसिन्धौ सहसावतीर्णं
पारं वृषः प्लावयति प्लवो वा ।
अधो नयत्याशुतरामघाली
कण्ठे निबद्धेव शिलातिगुर्वी ॥ ३६॥
पापापनोदाय भवादृशानां
सम्भूय नालं निरयाः समस्ताः ।
दहेयुरेधांसि दवाग्निखण्डाः
किं कुर्युरासाद्य तु गण्डशैलान् ॥ ३७॥
मोहादनिष्टेषु कृतेष्टबुद्धेः
पदे पदे पातककारिणश्च ।
क्षीणायुषस्ते शलभोपमस्य
तिल्वाटवीदेशगतिर्हितैका ॥ ३८॥
इमं समाकर्ण्य हितोपदेशं
स पुल्कसस्तेन सह द्विजेन ।
तिल्वाटवीमेत्य धृतानुतापः
शान्तस्तपस्वी शिवधाम भेजे ॥ ३९॥
मध्याह्नकाले मकरन्दनद्याः
पूरे विहृत्य प्रमदेन यत्र ।
पुलिन्दबालाः पुनरेव सायं
परागपालीपुलिने लुठन्ति ॥ ४०॥
सर्वत्र शाखाच्छदपुष्पपूर्णाः
फलन्त्यजीर्णा द्रुलताः स्वकाले ।
चिरन्तनो यत्र तु चित्रमेकः
स्थाणुः सदैका च फलत्यपर्णा ॥ ४१॥
विद्याधरा यत्र विलासिनीभिः
समं लतासद्मसु सानुरागाः ।
सङ्गीतविद्यारसिका रमन्ते
निर्वेशिनः कीचकनादभेदैः ॥ ४२॥
पञ्चानना यत्र शिवापरीता
गजारयो बद्धगुहाभिलाषाः ।
भीमाः शरन्नीरदगौरदेहाः
सटाभिरामाः सततं वसन्ति ॥ ४३॥
निकुञ्जलीने निबिडेऽन्धकारे
दर्पात्प्रतिद्वन्द्विधिया प्रपत्य ।
भल्लूकमल्लाः परिभग्नदंष्ट्राः
पलायमानाः प्रणदन्ति यत्र ॥ ४४॥
अधीयतेऽध्यायदिनेषु यत्र
शुकैः सह स्वाश्रमसीम्नि बालाः ।
शार्दूलसिंहर्क्षवराहशाबैः
क्रीडन्त्यनध्यायदिनेषु कामम् ॥ ४५॥
तां भक्तिकन्यामणिजन्मभूमिं
विद्यानटीविभ्रमरङ्गशालाम् ।
विमुक्तिवध्वाश्च विवाहवेदिं
तिल्वाटवीमेत्य तपः स तेपे ॥ ४६॥
चिरं चरन्नत्र तपस्तपस्वी
तटे तटाकस्य वसन्प्रसन्नम् ।
आमूलचूडं हरिचन्दनाद्यैः
श्रीमूलनाथं शिवमर्चति स्म ॥ ४७॥
बिल्वीदलैरेष बिसप्रसूनै-
र्जतीसरैश्चम्पकदामभिश्च ।
सम्पूजयन्साम्बशिवं व्यनैषी-
दनेहसं कञ्चिदखण्डभक्तिः ॥ ४८॥
आहर्तुकामः कुसुमं हिमानी-
करालिते कण्टकिते वनेऽसौ ।
निःशङ्कसञ्चारकृते निशासु
व्याघ्राङ्घ्रिभावं वरमाप शम्भोः ॥ ४९॥
सितेतरग्रीवमुमासहायं
त्रिलोचनं दिव्यतनुं युवानम् ।
स्मेराननं चन्द्रकलावतंसं
ध्यायन्नयं देववरं स धन्यः ॥ ५०॥
मौञ्जीधरोऽयं मृगचर्मवासाः
शुभ्रोपवीतः सुपलाशदण्डः ।
भालोल्लसद्भास्मनबिन्दुरासी-
न्मुनेः सुतो मूर्त इवाश्रमोऽग्र्यः ॥ ५१॥
तं व्याघ्रपादं तपसि प्रसक्तं
कृताम्बिकानाथनतिः कुमारम् ।
गुरुः कदाचित्कृपया समेत्य
हृष्टः प्रणम्रं हितमित्युवाच ॥ ५२॥
प्रतिष्ठितस्त्वं प्रथमाश्रमेऽस्मि-
न्नधीतवेदोऽस्यनृणो मुनीनाम् ।
इष्ट्या सुराणां प्रजया पितॄणा-
मानृण्यमाप्नुह्यधुना गृही सन् ॥ ५३॥
अन्याश्रमाः केवलमात्मनीना
विनाश्रमं विश्वजनीनमेनम् ।
उद्द्योतयान्यानुदितोऽर्कवत्त-
त्खद्योतभावं भज मा कदापि ॥ ५४॥
हितं पितुर्वाक्यमिदं गृहीत्वा
स व्याघ्रपादः स्वगुणानुरूपाम् ।
सतीं वसिष्ठस्य मुनेः स्वसार-
मुदुह्य धर्मानुचितान्व्यतानीत् ॥ ५५॥
सा व्याघ्रपादं समुपाश्रयन्ती
नगप्रकाण्डं नवमल्लिकेव ।
काले नवं गुच्छमिवाच्छकान्ति-
र्बभार गर्भं भुवनाभिनन्द्यम् ॥ ५६॥
कलेव चन्द्रस्य तदा कृशाङ्गी
कान्त्याः प्रपूरैर्ववृधेऽन्वहं च ।
वराहदंष्ट्रेव विपाण्डुवर्णा
वसुन्धरासक्तिमती च साभूत् ॥ ५७॥
हठात्स्वमाक्रान्तवतोरिदानीं
कार्ष्ण्यं मुखेऽभूत्कुचयोरतीव ।
आकर्ण्य मध्यं तदवेक्षितुं द्रा-
क्स्वयं बहिः प्रादुरभूत्सुकेश्याः ॥ ५८॥
पदे पदे ग्लायति बाहुवल्ली-
मंसे सखीनामबला निधत्ते ।
निरन्तरं निःश्वसितीति वार्ता
कर्णे सुधां तत्कमितुर्न्यषिञ्चत् ॥ ५९॥
विक्षोभ्यमाणेव पयोधिवेणी
निर्मथ्यमानेव निवारणी सा ।
कान्तामणिः कुन्धनखिद्यमाना
तेजोमयं दिव्यमसूत सूनुम् ॥ ६०॥
वसिष्ठमुख्या मुनयः समेत्य
वैयाघ्रपादं दिवसे शुभंयौ ।
आसन्नयज्ञान्वयमागमज्ञं
मोदादकुर्वन्नुपमन्युसंज्ञम् ॥ ६१॥
आजानशुद्धैः सुरभेः पयोभि-
र्मूर्तेः स्वयं सत्त्वगुणैरिवामुम् ।
कृतोदयं मातुलगेहसीम-
न्यरुन्धती वर्धयति स्म हर्षात् ॥ ६२॥
माध्यन्दिनिस्तदनु मातुलगेहमध्या-
द्वेदोक्तकर्मविहितातिशयं कुमारम् ।
वैतानपावकमिवाध्वरवेदिमध्या-
दादाय तिल्ववनमाप मुदा सदारः ॥ ६३॥
मुग्धं वन्याहारवैरस्ययोगा-
द्दुग्धं स्मारं स्मारमेनं रुदन्तम् ।
आरान्नीतं वीक्ष्य पित्रा हरोऽस्मै
क्षीराब्धिं द्रागानयद्दीनबन्धुः ॥ ६४॥
पुनरपि सह पत्न्या पुण्यकृद्व्याघ्रपादो
नटपरिबृढदिव्यानन्दनाट्यं दिदृक्षुः ।
अतनुत शिवपूजामादरादाप्तवाचा
परमसखपतञ्जल्यागमैकप्रतीक्षः ॥ ६५॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं द्वितीयं व्यधात् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये द्वितीयः सर्गः सम्पूर्णः ।
३. तृतीयः सर्गः
कैलासशैलमधिगत्य कदाचिदारा-
न्नारायणः सविनयं प्रणमञ्शिवेन ।
आलिङ्ग्य गाढमभिनन्द्य च भद्रपीठे
पार्श्वे विचित्रमणिभासिनि वेशितोऽभूत् ॥ १॥
तत्र क्षणं तरलवेत्रलताविलास-
व्याख्याततत्तदधिकारविशेषयोगः ।
प्रस्थापयन्दिगधिपान्प्रभवे निवेद्य
त्रैलोक्यभारभृददृश्यत तेन भृङ्गी ॥ २॥
रोमन्थलोलगलकम्बललम्बिघण्टं
कण्ठक्वणत्कनककिङ्किणिकाकलापम् ।
चन्द्रांशुगौरचलचामरचारुशृङ्गं
साक्षाच्चकार धुरि शाक्करराजमेषः ॥ ३॥
द्वैमातुरोदरफणाधरपारणोत्क-
षाण्मातुरीयरथसम्भृतवल्गितानि ।
आलोक्य किञ्चिदवलम्बितमन्दहासा-
मम्बामपश्यदपि सादरमम्बुजाक्षः ॥ ४॥
तावत्समुद्र इव शान्ततरङ्गघोषे
माशब्दिकस्तिमितमर्दलतालगीते ।
सर्वेशयोः सदसि संलपतोर्मुहूर्तं
चित्रार्पिता इव बभुः सनकादिसिद्धाः ॥ ५॥
प्रालेयशैलतनयापरिकर्मितस्व-
देहोक्तविश्वजननीजनकैकयोगः ।
भालेक्षणोऽब्जनयनेन मिथः प्रजल्प्य
प्रस्थाप्य संसदमनेन सह प्रतस्थे ॥ ६॥
विश्वातिशायिसुषमोदयवीक्षणीयौ
दाम्पत्यदर्शितमिथःप्रणयानुबन्धौ ।
आसेदतुः स्वयमनीश्वरवादिजुष्टं
तौ देवदारुवनमीप्सितदुष्टशिक्षौ ॥ ७॥
कन्दर्पकोटिकमनीयतनुः कपाली
मन्दस्मिताङ्कुरमनोहरगण्डभागः ।
कुन्दप्रसूनरदनः कुमुदाप्तचूडो
नन्दद्गणो वनमगाहत तन्नटेशः ॥ ८॥
भस्मानुलेपपरिधूसरपाण्डराङ्गो
विस्मापितामरपुरन्ध्रिविकीर्णपुष्पः ।
उक्षाधिभूगतिरुदारकुमारवेषो
भिक्षाटनाय सुरदारुवनं स भेजे ॥ ९॥
मञ्जीरचक्रमुखरं मणिपादुकाङ्कं
पुञ्जीभवन्नखरुचि प्रणिकुञ्च्य पादम् ।
उत्तानतानगतिरुद्धतमुग्धढक्क-
स्तत्तादृशं व्यतत ताण्डवमिन्दुमौलिः ॥ १०॥
तावत्तपस्वितरुणीपरिषत्तमेन-
मत्यद्भुताकृतिमवेक्षितुमादरेण ।
स्वस्वाश्रमान्निरजिहीत सुवर्णवर्णा
सौदामिनीततिरिवाम्बुदचक्रवालात् ॥ ११॥
एका विनिर्गतवती निजयज्ञवाटा-
त्पत्नी नितम्बपरिमण्डलबद्धयोक्त्रा ।
सन्नह्य पुष्पधनुषा सहसेव कृष्टा
हृष्टान्तिके चिरमतिष्ठत हन्त तस्मै ॥ १२॥
अन्या तदीयमुखमण्डलमादरेण
धन्या सुधाकरमिवाखिलदर्शनीयम् ।
इन्दीवरेण सरसीव निजेक्षणेन
मन्दीभवन्मुकुलनेन मुहुः सिषेवे ॥ १३॥
साकूतमन्दहसितेन शशाङ्कमौलेः
काकूदितेन च करम्बितपारवश्या ।
दुग्धान्नमित्युपहृतं नवनीतमेका
स्निग्धात्मकं स्वमिव चित्तमदादमुष्मै ॥ १४॥
मारप्रवीरविशिखैरिव मुच्यमानैः
केशप्रकीर्णकुसुमैरनुगम्यमाना ।
कामारिमेत्य लघु काप्यवदत्सुभक्ता
भक्तानुरक्त भगवन्नवलोकयेति ॥ १५॥
मत्तेभकुम्भतटमर्दनलब्धवर्णाः
पञ्चाननस्य नखरा इति नः प्रसिद्धम् ।
तन्मेऽद्य दर्शय वने दयया दिदृक्षोः
कुम्भस्तनी तमिति गूढमुवाच काचित् ॥ १६॥
प्रस्वेदवारिकणिकापरिशोभिभालं
श्वासातिरेकदरजल्पितचारुवक्त्रम् ।
नाट्यं झलञ्झलितनूपुरमुद्धतं त्वं
काल्या कृतं कुरु मयेति तमाह् काचित् ॥ १७॥
शश्वत्प्रतार्य सुदतीजनमर्जितं य-
त्पापं तदेव हि गलं परिवेष्टते ते ।
क्ष्वेलच्छलात्कृतमतः परवञ्चनेन
स्वामिन्दयस्व मयि साध्विति काचिदूचे ॥ १८॥
मुग्धा मुहूर्तमवलोक्य शिवं प्रमोदा-
त्काचित्परित्रुटितकञ्चुककङ्कणालिः ।
श्वश्रूभिया तमुपसृत्य सकङ्कणं मे
दत्त्वाशु कञ्चुकमितः प्रचलेत्यरौत्सीत् ॥ १९॥
आदाय कापि मणिदर्विकयान्नमुच्चैः
पात्रे समर्पयितुमुन्नमिताङ्गयष्टिः ।
तावत्समुच्छ्वसितनीविदुकूलमाशु
ह्रीणा करेण दधती हृषितावतस्थे ॥ २०॥
वाचालकिङ्किणिविजृम्भितहृद्यढक्का-
वाद्यध्वनिस्मितविकासिमुखेन्दुशम्भौ ।
वल्गत्युदारमिति वामदृशां तदीयं
मञ्जीरचक्रयुगलं निगलं हृदोऽभूत् ॥ २१॥
अत्रान्तरे सरयमाश्रमदेशमाप्ता
नारायणी नवनवोदितयौवनश्रीः ।
कादम्बिनीसविधकन्दलितेव शम्पा
पर्याकुलं परमहंसकुलं वितेने ॥ २२॥
ताटङ्करत्नतरलांशुनिचोलचक्र-
व्यानद्धगल्लमुकुरव्यतिरोचमाना ।
नालीकदीर्घनयनाञ्चलकज्जलश्री-
व्याख्यातमारविषदिग्धशरप्रकारा ॥ २३॥
धम्मिल्लमध्यगतचम्पकदामगन्ध-
मोमुह्यमानयुवमानसमत्तभृङ्गा ।
भालामृतांशुशकलोपरिभासमान-
कस्तूरिकातिलककन्दलिताङ्कशङ्का ॥ २४॥
नासाञ्चलाभरणमौक्तिकनामधेय-
नक्षत्रनित्यकृतचन्द्रजिदास्यदास्या ।
आपाटलाधरदलार्चिरुदारसन्ध्या-
रागानुबन्धिरदनावलिबालचन्द्रा ॥ २५॥
माणिक्यहेममयमङ्गलसूत्रलक्ष्मी-
सन्दर्शित स्मरहरिज्जयतोरणश्रीः ।
कामेशदर्शनकुतूहलियौवनद्रा-
गानीतपूर्णकलशाभकुचाभिरामा ॥ २६॥
कौसुम्भकञ्चुकविराजिकुचाग्ररिङ्ख-
त्काश्मीरजन्मरसकर्बुरतारहारा ।
सन्ध्यारुचिच्छुरितशैलतटान्तरुद्य-
त्तारावलीरुचिरदिक्तरुणीविलासा ॥ २७॥
नाभीगभीरसरसीसरसोज्जिहान-
नालाभरोमलतिकाग्रलसत्कुचाब्जा ।
चञ्चद्भुजायुगलचम्पकदामकोटि-
व्यालम्बिकोकनदविभ्रमकारिहस्ता ॥ २८॥
लावण्यसिन्धुलहरीपुलिनानुकारि-
श्रोणीविहारिविहगावलिचारुकाञ्चिः ।
अब्जोपरिस्फुरदधोमुखहेमरम्भा-
सम्भावनार्हचरणोज्ज्वलजङ्घिकोरुः ॥ २९॥
मञ्जीरमञ्जुरवसञ्जनितस्वशङ्का-
सम्प्राप्तहंसगलहस्तिकचारुयाना ।
आलोहिताम्बरसमुल्लसदङ्गवल्ली-
सम्भाविताभिनवचन्द्रकलाविलासा ॥ ३०॥
नीलोत्पलद्वितयनिर्गतमत्तभृङ्गी-
भङ्गीवहस्फुटकटाक्षपरम्पराभिः ।
निःशेषपीतनियतव्रतयोगवृन्द-
हृत्पङ्कजोदितविवेकमरन्दबिन्दुः ॥ ३१॥
किञ्चिच्च्युतं कुचदुकूलमुरस्युदारं
प्रत्यर्पयन्त्यनुकलं करपल्लवेन ।
आदाय घर्मकणिकामलिकात्किरन्ती
सौन्दर्यबिन्दुमिव शोणरुचा नखेन ॥ ३२॥
वामेन विश्लथतरां कबरीं करेण
काञ्चीं नितम्बगलितामितरेण धृत्वा ।
मूले क्वचिद्विटपिनो मुहुरध्वखेदा-
त्तिष्ठन्त्यमूमुहदशेषजगत्कृशाङ्गी ॥ ३३॥
लीलाविघूर्णितविलोचनकोणपातै-
र्हालाहलैरिव जनानतिमोहयन्ती ।
नीलालकान्तिकविलोलललन्तिकैका
बाला परिभ्रमति काननसीनि कैषा ॥ ३४॥
गाढानुरागकलशोदधिचन्द्रिका वा
शृङ्गारसौधशिखरार्पितदीपिका वा ।
मारैन्द्रजालिकविमोहनपिञ्छिका वा
लीलाभिरामरतिपञ्जरशारिका वा ॥ ३५॥
राकासुधा किरणमण्डलरम्यवक्त्रा
तारावलीसदृशतादृशतारहारा ।
शोणाधरार्चिरधरीकृतसान्ध्यरागा
श्यामा प्रपञ्चयति पञ्चशरप्रतापम् ॥ ३६॥
आः पश्यतामभिनवस्मितचन्द्रिकाभि-
र्हृत्वा बहिस्तिमिरमन्तरिवार्पयन्ती ।
जाज्वल्यमाननखशोणमयूखजालैः
पार्श्वद्रुमान्सपदि पल्लवितान्करोति ॥ ३७॥
मोघेतरा कदनकर्मणि मुष्टिमेय-
मध्येयमेव मकरध्वजचापयष्टिः ।
आद्यन्तयोर्यदरविन्दमथोत्पलं च
धत्ते पदेक्षणमिषेण तदीयमस्त्रम् ॥ ३८॥
आलानमुच्चलितमारुरुचे त्रिधोच्चै-
राकृष्यताद्रितटमायसशृङ्खला च ।
कामद्विपेन तदिदं कुचयोरधस्ता-
द्रोमावली त्रिवलिनाभिखनीति दृष्टम् ॥ ३९॥
पञ्चेषुमुक्तपटुबाणपरम्परोद्य-
च्छिद्राणि योगिनिवहैश्चिरमर्पितानि ।
चित्तान्युरोजयुगले सुगुणानि शुद्धा-
न्यस्या लुठन्ति नवहारमणिच्छलेन ॥ ४०॥
उद्यद्भुजद्वितयमुद्यतबाहुमूल-
मुत्तम्भितस्तनमुदारविलोलहारम् ।
उन्नम्रमध्यमुपवेल्लितपादमस्या
उज्जृम्भितं जयति हुङ्कृतयोगिधैर्यम् ॥ ४१॥
इत्थं विभाव्य धुरि योगिजनश्चिरं तां
मोहानिलव्यतिकरास्तविवेकदीपः ।
स्नानं जपं हवनमध्ययनं पुराणं
शास्त्रं व्रतं च सकलं विजहौ किमन्यत् ॥ ४२॥
पुङ्खानुपुङ्खशरवर्षुकपुष्पचापे
कोलाहलप्रवणकोकिलयूनि काले ।
अत्यद्भुताकृतिरसौ विपिने चरन्ती
हा हन्त हन्त जगदात्मवशीचकार ॥ ४३॥
तां सुन्दरीं प्रति तपस्विजनेऽनुरक्ते
तं सुन्दरं प्रति तदीयवधूजने च ।
जातक्रुधः कतिपये जरठास्तदानी-
मुद्दिश्य शम्भुमभिचारमुपाक्रमन्त ॥ ४४॥
तस्मादभूत्प्रथममुग्रतरस्तरक्षुः
सम्प्रेरितो मुनिभिरेत्य शिवं जिघांसुः ।
तच्छूलकोटिदलितस्वकठोरदेहः
प्राप त्वचा सपदि तत्परिधानभावम् ॥ ४५॥
भूयोऽपि ते भुजगमेकमुदीतमग्नेः
कालं करालगरलाग्निभरं किरन्तम् ।
प्राचोदयञ्जहि पिनाकिनमित्यथैनं
केयूरयन्भुजगमेव कृती स चक्रे ॥ ४६॥
भूतं पुनर्भुवनभीषणमेकमग्ने-
रुद्भूतमुत्तरललोचनमुग्रदंष्ट्रम् ।
शम्भोर्वधाय ससृजुर्मुनयस्तमीशो-
न्यञ्चन्निपात्य विदधे निजपादपीठम् ॥ ४७॥
अग्निं तमेव पुनराकुलकीलजालं
तेऽचोदयन्नथ तमप्युपनम्रमाशु ।
किञ्जल्कपिञ्जरितकोकनदाविशेषं
हस्ते वहन्व्यहरदद्भुतशक्तिरीशः ॥ ४८॥
मूर्तान्पुनर्जडधियो मुनयः समन्त्रा-
नाहूय हन्तुमददुः शिवमभ्यनुज्ञाम् ।
तानागतानपि तदा स विधाय शक्त्या
माणिक्यनूपुरमयानघृताङ्घ्रियुग्मे ॥ ४९॥
इत्थं हतोद्यममवेक्ष्य तपस्विसङ्घं
घोराट्टहासदलिताण्डकटाहकूटः ।
भीमाकृतिर्भ्रमितपिङ्गजटोऽथ कोपा-
दत्युग्रताण्डवपरोऽभवदष्टमूर्तिः ॥ ५०॥
तत्तादृशं तमवलोक्य महर्षिवृन्दं
निश्चेष्टितं भुवि निलीनमभूद्भयार्तम् ।
तादृक्षवेगधुतपक्षतिमक्षिकोणै-
रालक्ष्य तार्क्ष्यमहिवृन्दमिवान्तरिक्षे ॥ ५१॥
विश्वातिशायिनि जने विहितोऽभिचारो
न व्यर्थ एव ननु कर्तुरनर्थहेतुः ।
उद्दिश्य भानुमुपलः प्रहितः किलोर्ध्वं
क्षेप्तुः शिरो विदलयेत्क्षणतो निपत्य ॥ ५२॥
तद्देवदारुवनतापसवृन्दमेवं
मूर्च्छालमाकलयतो मदनान्तकस्य
वज्रारवव्यथितचातकमण्डलस्य
धारेव मङ्क्षु जलदस्य दयाविरासीत् ॥ ५३॥
कर्पूरगौरतनुरिन्दुकलावतंसः
स्मेराननः शिखरिराजसुतासमेतः ।
आलोलपिङ्गलजटापटलोऽथ तेषा-
मानन्दताण्डवमदर्शयदन्तकारिः ॥ ५४॥
आनन्दबाष्पभरितायतलोचनाना-
माविर्भवत्पुलकमेदुरिताङ्गकानाम् ।
आधूयमानशिरसां द्रुतमाविरासी-
दानन्दताण्डवरसानुभवो मुनीनाम् ॥ ५५॥
पश्चाज्जगत्पतिमिमं प्रतिबुध्य पश्चा-
त्तापात्प्रणम्य मुहुरेत्य शिवप्रसादम् ।
अन्तर्हिते सति सहाम्बुजलोचनेऽस्मि-
न्सर्वे तदादि समुपासत साम्बमेनम् ॥ ५६॥
आनन्दनाट्यमनुभूतमिदं कदाचि-
द्दुग्धोदधौ स्मृतवता दनुजान्तकेन ।
हर्षप्रकर्षभरितेन महाभरार्तः
पृच्छन्नभाणि फणिराट्किल भारहेतुम् ॥ ५७॥
पूर्वं मया यदनुभूतमभूत्पुरारे-
र्नृत्तं तदेतदनुसन्दधतोऽधुना मे ।
आनन्दसिन्धुलहरीमतिवेलमन्त-
रासेदुषो वहनतोऽजनि तेऽतिभारः ॥ ५८॥
तस्यैव जन्म सफलं भुवने स एव
श्लाघ्यः स एव तरति त्वरितं भवाब्धिम् ।
आनन्दताण्डवरसं हरिणाङ्कमौले-
र्धन्यः स्वयं पिबति यः किल दृक्पुटाभ्याम् ॥ ५९॥
आकर्ण्य मद्गिरमिमामहिराज तेऽक्षी-
ण्यानन्दबाष्पभरितान्यधुना भवन्तम् ।
शंसन्ति शम्भुनटनेक्षणसाभिलाषं
धन्योऽसि सेत्स्यति च तेऽभिमतं तदेतत् ॥ ६०॥
मामाश्रितस्य फणिनायक ते महान्तं
कालं मयाद्य कथितं परमं रहस्यम् ।
तद्गच्छ तावकसुतोऽस्तु मदीयतल्पं
त्वं द्रक्ष्यसि त्रिनयनं तपसे यतस्व ॥ ६१॥
सञ्चोदयन्तमिति चक्रधरं प्रणम्य
क्षीराम्बुधेः स निरगादुरगाधिराजः ।
कैलासभूधरमुपेत्य कृतान्तहन्तुः
प्रीत्यै तपश्चिरमतप्यत चाप्रमत्तः ॥ ६२॥
वाताशनत्वमनिशं वसतिर्गुहायां
शेषस्त्वचः सततसङ्कुचितिश्च भोगे ।
सर्पस्वभाव इति सर्वमिदं विहाय
पञ्चाग्निमध्यमभजत्फणिराडनश्नन् ॥ ६३॥
दर्वीकराधिपतिना तपसातिमात्रं
सम्प्रीणितस्तदनु चन्द्रकलावतंसः ।
आविर्बभूव तमभाषत चाथ वत्स
सम्पत्स्यते सपदि तेऽभिमतार्थसिद्धिः ॥ ६४॥
तिल्वाटवीं भज तपश्चर तत्र चाहं
श्रीमूलनाथसदनं समया विराजः ।
हृत्पुण्डरीककुहरे धरणी सुषुम्णा-
नाडीपदे सदसि दर्शयितास्मि नाट्यम् ॥ ६५॥
अत्रेः पुरा त्वमभवस्तनयोऽनसूया
त्वामञ्जलौ धृतमवेक्ष्य भुजङ्गरूपम् ।
त्रासादपातयदतोऽजनि ते पतञ्ज-
ल्याख्याधुनापि भव तादृशनामरूपः ॥ ६६॥
उपदिशति पिनाकिन्येवमुन्निद्ररोमा
विरचितनतिरन्तर्विस्तृतानन्दसिन्धुः ।
कृतनुतिरनुमत्या कुण्डलीशः पुरारे-
रभजत निजलोकं हर्षिताशेषलोकः ॥ ६७॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं तृतीयं व्यधात् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये तृतीयः सर्गः सम्पूर्णः ।
४. चतुर्थः सर्गः
अथ पतञ्जलिरन्तकहन्तरि
स्थिरमतिस्तपसे धृतनिश्चयः ।
अनुमतः स्वजनैरधिकं दया-
मृदुरगादुरगालयतो बहिः ॥ १॥
बिलमुखादुदितः स पिकारवै-
र्ह्वयदिव स्वमुदैक्षत काननम् ।
चलकराङ्गुलि चारुमरुल्लल-
त्तपनतापनतारुणपल्लवम् ॥ २॥
सकलभं कलभङ्गुरसंरट-
च्छुकपिकं कपिकम्पितभूरुहम् ।
वरसमीरसमीरितवल्लरी-
निकरमाकरमासददाशिषाम् ॥ ३॥
परिवृढः फणिनामथ पावने
महति तिल्ववनेऽत्र महात्मनः ।
प्रमुदितानकृत प्रणतः स्वयं
मुनिजनान्निजनाम्न उदीरणात् ॥ ४॥
क्वचन तत्र तरक्षुपदश्वर-
न्कुसुमपत्रकृते तमुदैक्षत ।
फणिपतिं बहुकालदिदृक्षितं
भसितभासितभावुकविग्रहम् ॥ ५॥
तमभिवाद्य मुनिः स तरक्षुपा-
दनयदाशु निजाश्रममादरात् ।
अपि च तस्य शिवेऽर्पितचेतसो
निजगृहे जगृहे चरणोदकम् ॥ ६॥
परिणतैरधुनाजनि मे चिरा-
त्पितृपितामहपुण्यभरैर्ध्रुवम् ।
सकलवाञ्छितसङ्घटनाय य-
त्प्रभवता भवतास्मि समागतः ॥ ७॥
रजनिषु द्विजराज उदित्वरः
स हरते बहिरेव तमः शनैः ।
अनिशामन्तरपीदमरं त्वया
शकलितं कलितं द्विजराज नः ॥ ८॥
भगवता सुकरं भुवि मादृशां
प्रणमतां दुरिताङ्कुरभञ्जनम् ।
प्रयतते खलु भद्रतराकृति-
र्वनकरी न करीरविपाटने ॥ ९॥
उपचरन्मुनिरेष तदादरा-
दुरगपुङ्गवमप्यमुना स्वयम् ।
समधिकं विनुतः सुखदुःखयो-
रुपचयापचयावुपसेदिवान् ॥ १०॥
इति परस्परमीरितवैभवा-
वुपचितप्रमदावुभकौ मुनी ।
गिरिशताण्डवदर्शनसत्वरा-
वभवतां भवतान्तहृदौ चिरात् ॥ ११॥
विधिवदर्चनया व्रतचर्यया
नुतिगिरा तपसा नतिकर्मणा ।
उपचचार मुनिद्वयमुच्चकै-
रिह वने हवनेन च शङ्करम् ॥ १२॥
अथ कदाचन नाट्यमुमापते-
रचिरभावि विचार्य किलाभवत् ।
उषसि रञ्जयितुं रविरुत्सुकः
किरणतोरणतो गगनाङ्गणम् ॥ १३॥
सुरतविह्बलिता सुचिरं वधू-
रुपपतेरुरसि स्वपती तदा ।
कलकलैः कृकवाकुगलोद्गतै-
र्हतरसा तरसा समबुध्यत ॥ १४॥
मुनिकुमारकृताध्ययनारवै-
र्मुखरितासु दिशासु विनिद्रितम् ।
विचरति स्म पयोजवने मिथः
सकलहं कलहंसकुलं तदा ॥ १५॥
अनुकृतः क्षणमम्बुजमेचको
हरिरहीश्वरतल्पशयोऽम्बुधौ ।
सरसि षट्चरणेन समुच्छ्वस-
त्कमलकोमलकोटरशायिना ॥ १६॥
भ्रमरडिम्भमुपात्तरवं प्रगे
मरुदुपाहृतमादृत पद्मिनी ।
प्रदिशती मकरन्दपयः स्वयं
निजपयोजपयोधरतः स्नुतम् ॥ १७॥
उदितमिन्दुकलाशतमीक्ष्यतां
क्षितिभृतीति सखीभिरुदीरिते ।
स्तनपटेन नखक्षतयोऽरुणा
रुरुधिरे रुधिरेण नवोढया ॥ १८॥
रविशताङ्गरथाङ्गजवोञ्चर-
त्प्रथमभूधरगैरिकपुञ्जवत् ।
फणिभुगग्रभुवः स्फुटमुद्ययौ
रुचिरमर्चिरमर्त्यपथे पुरः ॥ १९॥
अरुणरोचिरसृक्परिमुञ्चती
तिमिरदन्तिघटोषसि वायुना ।
प्रचलितानुदिशं पटलीभव-
द्भ्रमरतोमरतोदवशादिव ॥ २०॥
मघवदिङ्मुखमण्डनकुण्डल-
भ्रमकराकृति बिम्बमहर्पतेः ।
उदधिमध्यगविद्रुमवीरुधा-
मुदलसद्दलसच्छविगुच्छवत् ॥ २१॥
हर हरेति सतामरुणोदये
द्विरुपदेशवशेन किलान्तरम् ।
अहृत बाह्यमपि प्रसभं तमो
दिनकरो न करोति किमुद्यतः ॥ २२॥
तिमिरकौशिकतस्करजारिणी-
कुलमलीयत केवलमीदृशैः ।
उदितवत्युरुतेजास शक्यते
श्वसितुमासितुमालपितुं च किम् ॥ २३॥
यदद्भवद्विरहज्वरवत्पुरा
तदधुना परिरम्भसुधारसम् ।
उपनते सति भास्वति चक्रयो-
र्युगलमागलमापिबदुत्सुकम् ॥ २४॥
स्फटिकचक्रमिव स्फुटरश्मि य-
द्विलसति स्म पुरा विधुमण्डलम् ।
गलितकान्त्यधुना धुरि गोपते-
स्तदधिकं दधिखण्डमिवैक्ष्यत ॥ २५॥
अनघदुग्धमधिश्रितमाहृतं
विधिवदाहवनीयहुताशने ।
अजुहवुः शुचयोऽध्वरिणस्तदा
नवपयो वपयोपमितं रसे ॥ २६॥
स्फुरितदक्षिणबाहुदृशौ तु तौ
विहितकाल्यविधी मुनिपुङ्गवौ ।
मनसि देवमचिन्तयतां तदा
नियमतो यमतोदकपादुकम् ॥ २७॥
मिहिरमम्बरमध्यगतं क्रमा-
दुपचितोष्मभरः स्वकरोत्करम् ।
ददृशुरात्मविदो दधतं वपु-
र्हरमयं रमयन्तमुपासकान् ॥ २८॥
क्वचन धूमरुचो विलुलोकिरे
क्वचन निर्मलवज्रमणीरुचः ।
क्वचन नीरधिनीररुचो रवेः
क्वचन काञ्चनकान्तिधराः कराः ॥ २९॥
न पिबति स्म नितान्ततृषाकुलं
मृगकुलं तरुमूलमुपेत्य च ।
अनु विशङ्क्य बतात्मविलोचनैः
समकरं मकरन्दमयं हृदम् ॥ ३०॥
सुखमशेत युवा शिशिरे वधू-
कुचतटे कलहंस इवाम्बुजे ।
अपिबदध्वगबृन्दमपोंशुना
सह रवेर्हरवेश्मितवर्ष्मणः ॥ ३१॥
नवपतङ्गशिलानलदर्शन-
स्मृतहरालिकदृक्सतरक्षुपात् ।
उरगराडभिषेकमुमापते-
र्विहितवान्हितवाञ्छितदायिनः ॥ ३२॥
तदहरेव दयाब्धिसुधाझरी-
सहचरीभिरलं सुखयञ्जगत् ।
द्युतिभिराविरभूदिह धूर्जटि-
र्धुरि तयोरितयोरमलात्मताम् ॥ ३३॥
जयति तिल्ववनं जगतीतले
जयति तत्र पुरं च चिदम्बरम् ।
जयति तत्र सभा च पुरेत्यभू-
द्बहलकाहलकाकलितारवः ॥ ३४॥
ददृशतुः शिवमम्बिकया समं
चपलया शरदभ्रमिवाद्भुतम् ।
परिणतैः सुकृतैः प्रणयान्मिथः
समुदितौ मुदितौ मुनिपुङ्गवौ ॥ ३५॥
द्रुतमतर्कितदर्शनविस्मितौ
शिवमुभौ प्रणिपत्य जगत्पतिम् ।
सपदि तुष्टुवतुः सविधभ्रम-
द्दिविषदं विषदन्तुरकन्धरम् ॥ ३६॥
पदयुगं भवदीयमभूदिदं
नयनयोरयनं सुकृतेन नः ।
न ददृशे पुरुषेण पुरा चिरा-
दिह वराहवराकृतिनापि यत् ॥ ३७॥
स्वजनरक्षणतद्रिपुशिक्षण-
व्यसनिता विदिता ननु ते विभो ।
यदुदपादि मृकण्डुसुतापदां
प्रशमनं शमनं भवता घ्नता ॥ ३८॥
स्वजनमत्र चिराय समुत्सुकं
प्रमदनाट्यरसं वस पाययन् ।
सह तरक्षुपदा स पतञ्जलि-
र्मदनमर्दनमर्थितवानिति ॥ ३९॥
अथ ननर्त हरः सदसोऽन्तरे
दरनिकुञ्चितवामपदाम्बुजः ।
तदुपरि प्रहितस्फुरदङ्गद-
स्वभुजगं भुजगं परिनर्तयन् ॥ ४०॥
भृशमनर्ति पिनाकभृता घना-
घनगभीररवभ्रमकारिभिः ।
डमरुकध्वनिभिर्गुहवाहनं
कलयता लयतालसमक्रमम् ॥ ४१॥
अभयमुद्रितमेकतरं दध-
त्करमुमापतिरन्यमुदर्चिषम् ।
किमपि संसदि कोमलताण्डवं
व्यतनुतातनुतापहरं नृणाम् ॥ ४२॥
ध्वनिकृता नटनामृतवर्षिणा
तटिदुदारजटाततिशालिना ।
शमिततापशता मुनयोऽमुना
मुमुदिरे मुदिरेण नगा इव ॥ ४३॥
पशुपतेर्नटनं परिपश्यतां
न हि मनो विषयान्तरमृच्छति ।
कुलमपि स्वकृतेः पशुपक्षिणा-
मुपरतं परतन्त्रमभूद्यतः ॥ ४४॥
तदिदमद्भुतताण्डवमुत्सुकौ
समवलोक्य सदाशिवमूचतुः ।
यमिवरौ त्रसतो यमराण्महा-
भुजगतो जगतोऽस्य हितैषिणौ ॥ ४५॥
जय जयामितबोध सुखाम्बुधे
जय जयादृतदिव्यतराकृते ।
जय जयैच्छिकलोकजनिस्थिति-
प्रलय पालय पादनतं जनम् ॥ ४६॥
हरिविधिप्रमुखैरमरैः समं
वस चिरं रचयन्निह ताण्डवम् ।
इति मुनी विभुमात्मशिरः सतां
सुलभमालभमानमयाचताम् ॥ ४७॥
अथ तथेत्यभिधाय स ताण्डवं
विरचयन्निजभक्तवरप्रदः ।
अधिवसत्यधुनापि चिदम्बरं
सुरुचिरं रुचिरञ्जितदिक्तटम् ॥ ४८॥
इदमुदन्तमवेत्य रविः स्वयं
वरुणलोकजनाय सविस्मयः ।
गदितुकाम इवास्तगिरेस्तटं
द्रुततरस्ततरश्मिरगाहत ॥ ४९॥
चरमभूभृदशोकगुलुच्छव-
द्रविरहर्विरमेऽरुचदात्मनि ।
अवतरद्धरिकौस्तुभतेजसा
विहितरोहितरोचिरिव स्थितः ॥ ५०॥
प्रणयनक्षणपल्लवितानल-
ध्वजविलोकनतः शयितुं वनात् ।
अनघमाश्रममण्डलमादरा-
दुरुचमूरुचमूरुपशिश्रिये ॥ ५१॥
सहरथे चरमाचलशृङ्गतो
निपतति द्युमणौ नियतेर्बलात् ।
उचितमेव रथाङ्गयुगं हि य-
द्विजघटे जघटे च तमोजनिः ॥ ५२॥
ज्वलति सान्ध्यमरीचिमिषाद्बहि-
र्विरहिशोकशिखावति विश्वतः ।
उडुशतोदयकैतवतोऽस्फुट-
द्वियदहो यदहोभिरनीदृशम् ॥ ५३॥
अतिविविक्ततयानि यज्जग-
त्सकलमर्थसमूहमवैक्षत ।
निपतिते निजचक्षुषि नाशक-
त्सतमसं तमसन्तमिवेक्षितुम् ॥ ५४॥
उदजिहीत हुतोऽग्निरिवोदया-
चलतटान्मदनेन जयार्थिना
जलधिना जनकेन कटाक्षितो
हिमकरो मकरोत्थितिकैतवात् ॥ ५५॥
अकृत धूममिवाङ्कमसौ वह-
न्विरहिणीर्हरिणीरिव विह्वलाः ।
उदयशैलदवाग्निरिवोन्मिष-
त्तरुणिमारुणिमानमुदञ्चयन् ॥ ५६॥
अथ चकोरकुलैरतिचूषणा-
त्किल गतोऽर्जुनतां खमहोदधौ ।
मदनकेलिमराल इवाययौ
जनमनो न मनोचितदीधितिः ॥ ५७॥
अरमगस्त्य इवाम्बुधिमत्रिजे
पिबति सन्तमसं परिशेषिता ।
मुहुरदृश्यत मौक्तिकपङ्क्तिव-
द्भुवि ततो विततोडुततिर्दिवि ॥ ५८॥
उदितवत्युडुनेतरि मानिनी-
जनमनः शशिकान्तवदुद्द्रवम् ।
अजनि कान्तसमागमतो यथा
कुमुदमुन्मुदमुञ्चत च ज्वरम् ॥ ५९॥
प्रणयिनामनुरागवचः क्रमः
प्रणयिनीसविधे शुकहस्तया ।
अकथि दूतिकयार्धमतिर्हि त-
न्मुखगतः खगतः प्रकटः परः ॥ ६०॥
अखिलमन्यथयन्सुदृशोऽग्रतो
न हि शशाक विटोऽपि निगूहितुम् ।
कुलटया कलितं बत यद्रते-
ऽधरदलं रदलम्भितलक्ष्म तत् ॥ ६१॥
तदनु कोपनयापि तया हठा-
दतितरामपराधकृदप्ययम् ।
शशधरोदयतः स्मरतः सखी-
वचनतश्च नतः परिषस्वजे ॥ ६२॥
चषकमध्यगतादधिवासिता-
द्दलितबालरसालदलादिभिः ।
प्रणयिनो नवशीधुरभूद्भृशं
मदयिता दयितामुखवासितः ॥ ६३॥
प्रियतमेऽधरपानसमुत्सुके
विवलिताननवारिरुहः शुकी ।
कुचतटस्पृशि क्लृप्तचमत्कृते-
र्वरतनोरतनोदनुमोदनम् ॥ ६४॥
रहसि यातिरसादुपभुक्तव-
त्युपपतिं यदुपाहृतमङ्गना ।
सबहुमानमतोष्यत सा सखी
चिरतरं रतरञ्जितया तया ॥ ६५॥
प्रियतमेन बलादुपभुक्तया
रहसि बालिकयैश्नि सलज्जया ।
निजहृदुत्थितनव्यनखक्षता-
वलिकुचे लिकुचेन समे मुहुः ॥ ६६॥
परिजना इव जालकपद्यया
निभृतमेत्य निशान्तमकारयन् ।
शशिकराः सुदृशां सुरतश्रमा-
पनयनान्नयनाम्बुजमीलनम् ॥ ६७॥
कैशिकं न कमितुर्गणयन्त्या
साहसेन बहुमन्तुमनाहि ।
प्राग्ययाद्य पुनरस्य पुरोऽभू-
त्सा हसेन बहुमन्तुमना हि ॥ ६८॥
विततैः स्वकरैर्वियोगभाजां
विधुनानेन समन्ततो मनो भूः ।
उददीपि च माधवेन सख्या
विधुनानेन समं ततो मनोभूः ॥ ६९॥
पशुपतिनटनैः परिस्फुरद्दोः
शुचिभसितैरजनि प्रसाधिताशैः ।
हिमकरकिरणैश्च हर्षिता भूः
शुचिभसितै रजनिप्रसाधिताशैः ॥ ७०॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं चतुर्थं व्यधात् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये चतुर्थः सर्गः सम्पूर्णः ।
५. पञ्चमः सर्गः
तस्मिन्काले देवतासार्वभौमः
स्रष्टा यष्टुं सत्यलोकात्सदारः ।
निश्चक्रामानुद्रुतो नारदाद्यै-
र्दूरं गङ्गातीरमुद्दिश्य देवैः ॥ १॥
ध्यायं ध्यायं दिव्यगङ्गातरङ्गा-
नाधावन्तं राजहंसावतंसम् ।
आरूढोऽसावध्वरस्थापितोच्चै-
र्यूपं गङ्गानूपमापाभिरूपम् ॥ २॥
श्रीमानेष श्रीशपादाब्जमाध्वीं
नीलग्रीवप्ताहिनिर्मोकवल्लीम् ।
वीक्षांञ्चक्रे भूवधूहारयष्टिं
स्वार्निःश्रेणीं सागराणां च गङ्गाम् ॥ ३॥
कूलास्फालालोलकल्लोलजाल-
स्फायत्फेनश्वेतमानप्रवाहा ।
आकूपारादा हिमाद्रेश्च मूर्ता
दृष्टा कीर्त्तिर्या दिलीपात्मजस्य ॥ ४॥
बालेवालं प्रस्तरास्फालनोद्य-
त्पाथोबिन्दुप्रौढमुक्ताफलानि ।
उत्क्षिप्योत्क्षिप्याददानोर्मिहस्तैः
प्रालेयार्द्रेर्या परिक्रीडतेऽङ्के ॥ ५॥
दन्तादन्ति क्रीडतां दिग्गजानां
गण्डोड्डीनैः कीर्यमाणं द्विरेफैः ।
हन्त स्नानात्पूर्वमध्यात्तगन्धं
गन्धर्वीभिर्धूयते यत्र कैश्यम् ॥ ६॥
स्नातुं दारैः साकमेकत्र सङ्घ
सप्तर्षीणां सैकते सन्निधत्ते ।
क्वापि स्वर्गग्रामणीः सावरोधः
प्रातर्यत्रान्यत्र चार्याः सभार्याः ॥ ७॥
अम्भो यस्याः शम्बरं हस्तदेशे
मङ्क्तुः क्षीरं मूर्ध्नि कण्ठे विषं च ।
अङ्गेष्वन्येष्वाकलय्यामृतं च
प्राहुस्तत्तच्छब्दवाच्यं प्रवाचः ॥ ८॥
बुद्ध्वा यस्याः पातकध्वंसदीक्षा-
माशङ्क्यान्तः स्वाधिकारच्युतिं द्राक् ।
प्रेतेशः किं प्रेषयामास भीतः
सौहार्दाय स्वस्वसारं प्रयागे ॥ ९॥
चण्डीलक्ष्मीजन्मभूमी स्पृशन्ती-
माद्यं ताभ्यामादरात्तद्वयस्याम् ।
मत्वा नूनं मध्यदेशे मिलित्वा
सख्यायान्तर्यां सरस्वत्युपास्ते ॥ १०॥
स्नात्वोत्तिष्ठत्यत्र जन्तुस्त्रिवेण्यां
कण्ठे नीलः केशपाशे पिशङ्गः ।
गात्रे शुभ्रः सूर्यकन्यासरस्व-
त्यभ्रह्रादिन्यानुरूप्यं बिभर्ति ॥ ११॥
वाराणस्यां विश्वनाथोपकण्ठे
कायार्धं या केदयन्ती मुमुक्षोः ।
तापं पापं हन्ति यत्तन्न चित्रं
यस्या मोक्षः सोऽपि याथाकथाचः ॥ १२॥
कायव्यूहं प्राप्य कान्तेन साकं
कामं रन्तुं गाढमभ्युत्सुकेव ।
स्वीकुर्वाणा स्रोतसां या सहस्रं
खेलोदारं गाहते पार्श्वमब्धेः ॥ १३॥
न क्रोधो मे नाथ वर्वर्ति नित्यं
नागस्त्वय्यप्यस्ति नैतन्मृषेति ।
क्रुध्यन्त्यागस्कारिणं सिन्धुराजं
प्रत्याचष्टे या च्छलोक्तिप्रगल्भा ॥ १४॥
मौलौ शम्भोर्मालिकावद्विभाती
निर्गच्छन्ती या नखांशुच्छटेव ।
विष्णोः पादाद्व्याकरोत्येतदैक्यं
तन्मूलं हि स्नौति पूरो यदग्रे ॥ १५॥
पद्मानेतुः पादनिर्नेजनाम्भो
मत्वाचामन्किं मुनिर्जह्नुनामा ।
सद्यः स्मृत्वा शम्भुनिर्माल्यभावा-
च्चण्डेशार्हां श्रोत्रतो यामहासीत् ॥ १६॥
भूरि स्वैरं यत्पुरा भूतिजालं
स्रोतोलीढं शङ्करीये कपर्दे ।
चन्द्रस्निग्धं सैकतव्याजतस्त-
द्वारिप्रान्ते या वमन्तीव भाति ॥ १७॥
युक्ता वाचो युक्तिरस्यां सरस्व-
त्यन्तर्वाहिन्यास्त इत्याप्तवाचाम् ।
पायं पायं पामराश्चाम्बु यस्याः
सारं निष्ठीवन्ति सारस्वतं यत् ॥ १८॥
पाथोहस्तिग्राहपाठीनमीन-
व्यालीभेकीकर्कटीकच्छपीभिः ।
वीचीमध्यव्यञ्जितोद्ग्रीविकाभिः
सायाह्ने या दर्शनीया समिन्द्वे ॥ १९॥
तीरे यस्या देवदारूपगूढे
मध्याह्नार्कम्लानकर्णावतंसाम् ।
भिल्लः स्वैरं पाययन्नम्बु भिल्लीं
दत्ते नाकेऽनादरं देवयूनाम् ॥ २०॥
शाखाभेदश्लाघनीयाकृतीनां
तीरोपान्तस्थायिनां दिव्यधाम्नाम् ।
भूदेवानां भूरुहाणां च वृन्दैः
प्रातः प्रातर्यार्च्यते पुष्पवर्षैः ॥ २१॥
अन्तर्वेदीनाम्नि तत्तीरसीम्नि
स्रष्टा सृष्ट्वा यज्ञशालां यियक्षुः ।
ब्रह्माध्वर्यूद्गातृहोत्राद्युपेत-
स्तत्र प्रेम्णा दारयुक्तो दिदीक्षे ॥ २२॥
अभ्यक्तोऽङ्गेष्वेष हैयङ्गवीनै-
रष्टस्वक्षिष्वञ्जनोदञ्चितश्रीः ।
क्षौमं विभ्रचर्म चैणं विषाणं
मेने लोकैर्मूर्तिमानेष धर्मः ॥ २३॥
अग्नाविष्णू दक्षिणीयाख्ययेष्ट्या
धिन्वन्वेधा देवताः सम्प्रगृह्य ।
पश्चादिष्टिं प्रायणीयां वितत्य
क्रीते सोमेऽयष्ट चातिथ्ययेष्टया ॥ २४॥
प्रातः सायं च प्रवर्ग्योपसद्भ्या-
मह्नो रात्रेश्चापि मध्यं व्रतेन ।
शेषं कालं शास्त्रवादप्रवीणैः
सभ्यैर्निन्ये साकमम्भोजयोनिः ॥ २५॥
तत्र भ्रेजे घर्मतापाभियोगा-
दग्निज्वालामुद्वमन्नाननेन ।
द्वित्रैः पुम्भिर्वीज्यमानो धवित्रै-
र्मध्ये रुक्माङ्को महाराज एकः ॥ २६॥
सुब्रह्मण्ये सामभेदैस्तदानी-
मिन्द्रागच्छेत्याह्वयत्यप्यमन्दम् ।
तिल्वारण्ये देवराडिन्दुमौले-
र्नाट्यासक्तो नागमन्नित्यतृप्तः ॥ २७॥
देवैः साकं देवराजं विरिञ्च-
स्तत्तादृक्षं दिव्यदृष्टया विदित्वा ।
तैरानेतुं तं हविर्भागहेतोः
पुत्रं तावत्प्रेषयामास तूर्णम् ॥ २८॥
धीरस्तिल्वारण्यदेशं स गत्वा
नत्वा शम्भुं नारदस्तस्य पार्श्वे ।
साकं देवैः सन्ददर्शामरेशं
तृप्तं नित्यं ताण्डवालोकनेन ॥ २९॥
अन्तर्नाट्यानन्दपूरेऽभिवृद्धे
देवस्याग्रे तत्परीवाहकल्पम् ।
अक्ष्णां वृन्दैर्बिभ्रदानन्द बाष्पं
वज्री वीणायोगिना व्यालुलोके ॥ ३०॥
शम्भूत्तंस्यच्चन्द्रपादैः स्रवन्त्या
चन्द्रग्राव्णा क्लृप्तया शक्रमूर्त्या ।
आनन्दाश्रुव्याकुलाक्षोऽमुनाग्रे
साक्षादिन्द्रो वीक्ष्यते स्माविशेषम् ॥ ३१॥
नम्रो गत्वा नारदस्तं कथञ्चि-
त्पित्रादिष्टं प्रापयन्नर्थमेनम् ।
नित्यानन्दावाप्तितो निर्वृतेन
प्रत्यूचेऽथैनेन भावानुरूपम् ॥ ३२॥
यज्ञैर्दानैर्यं तपोभिश्च शुद्ध-
स्वान्ताः शान्ताः साधवः सद्गुरूक्त्या ।
बुद्ध्वाखण्डानन्दबोधात्मरूपं
तेरुः शोकं तं मुने पश्य देवम् ॥ ३३॥
अस्मिन्नर्कद्योतमध्ये नदीवो -
देति भ्रान्त्या खानिलाग्न्यम्बुभिर्भूः ।
अन्तर्धत्ते चात्र तत्त्वावबोधा-
त्स्रज्यध्यस्ता सर्पिकेव क्षणेन ॥ ३४॥
सारं वच्मि श्राव्यमा ब्रह्मलोका-
दाशावीचेः सञ्चरन्नेष जन्तुः ।
भूयो भूयः प्राप्नुवञ्जन्ममृत्यू
कर्माधीनः क्व क्षणं निर्वृणोतु ॥ ३५॥
क्षीणे पुण्ये मर्त्यलोकं विशन्ती-
त्येषा गीता यानभिप्रेत्य वृत्ता ।
शोच्यस्तेभ्यः कोऽन्य इत्यात्मनीनाः
कर्म त्यक्त्वा केचन प्रव्रजन्ति ॥ ३६॥
निष्ठाः केचिन्निर्विकल्पे समाधौ
बोधात्मानं पूर्णमन्तर्बहिश्च ।
शम्भुं सान्द्रानन्दमध्यक्षयन्तो
मन्यन्तेऽपि ब्रह्मलोकं तृणाय ॥ ३७॥
कामक्रोधौ यस्य यस्याशनायो-
दन्ये यस्यावश्यिकौ जन्ममृत्यू ।
चित्तं प्राणो देह इत्याहुरेत-
त्साक्ष्ये तस्याहं तु सच्चित्सुखात्मा ॥ ३८॥
शंसत्येवं स्वानुभूतिं सुपर्व-
ग्रामण्यामाकारणे कुण्ठिताशः ।
प्रत्यावृत्य ब्रह्मणे तं सुरर्षि-
र्हन्त व्याचष्टाशयं देवनेतुः ॥ ३९॥
आकर्ण्यदं नारदादात्मयोनिः
कल्यन्ते या कर्महानिर्भवित्री ।
सद्यः प्राप्तां शङ्कमानः स्वयं तां
तिल्वारण्यं देहभेदेन भेजे ॥ ४०॥
शुद्धः स्नात्वा शैवगङ्गेऽम्भसीह
प्रत्युद्यातो दैवतैः पद्मयोनिः ।
व्याहृत्यादौ व्याघ्रपादेन साकं
शम्भुं नत्वा साधु तुष्टाव पश्चात् ॥ ४१॥
यो देवानामादिभूतं पुरस्ता-
न्मामद्राक्षीज्जायमानं महर्षे ।
स त्वं पुत्रं शाधि सर्वाधिकैनं
साध्व्या बुद्ध्या चापि संयोजयस्व ॥ ४२॥
प्रायेणाहोरात्रिभेदादिशून्ये
काले मायाकर्बुरे केवलस्त्वम् ।
पर्यालोच्य प्राणिकर्मप्रभेदं
चित्रं विश्वं सृष्टवानस्युमेश ॥ ४३॥
ब्रह्मा विष्णू रुद्र इन्द्रस्तथान्ये
त्वत्तो जातास्त्वं तु सर्वस्य हेतुः ।
शम्भो सर्वस्येशिषे येन तस्मा-
द्योगिध्येयः शश्वदेकस्त्वमेव ॥ ४४॥
अज्ञात्वा त्वत्तत्त्वमादित्यवर्गः
पप्रच्छ त्वां को भवानित्यथास्मै ।
सर्वात्माहं सर्वकालानपायी
नान्यो मत्तोऽस्तीत्यवोचः स्वरूपम् ॥ ४५॥
स्तोतुं साकं चेतसा द्राक्प्रवृत्ताः
सर्वा वाचः शक्तिशून्या निवृत्ताः ।
अप्राप्य त्वामित्यहो वेदवादे-
ऽप्यज्ञः स्तोतुं हन्त सोऽहं प्रवृत्तः ॥ ४६॥
वेदस्त्वन्निःश्वासभूतस्त्वयादौ
क्लृप्तः कर्मब्रह्मकाण्डात्मको यः ।
तस्येदानीमङ्गतस्तावदास्ते
प्रामाण्याप्रामाण्ययोगः प्रसक्तः ॥ ४७॥
आज्ञाभूतं ते श्रुतिस्मृत्यशेषं
तस्य स्यादुल्लङ्घने दोषभूमा ।
अज्ञो जन्तुर्नन्वनीशोऽयमातः
सर्वज्ञे किं न्वस्ति विज्ञापनीयम् ॥ ४८॥
ब्रह्मण्यब्रह्मण्यमेवं ब्रुवाणे
सानुक्रोशः शम्भुरेनं जगाद ।
अद्यारभ्याटन्तु गामध्वराशा
अंशैः स्वैः स्वैरास्यतामत्र चेति ॥ ४९॥
शम्भोरेवंभावमम्भोजजन्मा
व्यक्तं बुद्ध्वा व्याघ्रपादानुयातः ।
ईशं नत्वा यज्ञदेशं यियासुः
प्राप्तानन्दः प्रार्थयामास सभ्यान् ॥ ५०॥
आर्याजानेराज्ञया व्याघ्रपादो
ये तत्रासन्यज्ञकर्मप्रवीणाः ।
सङ्ख्यावद्भिस्तैः सहस्रत्रयेण
ब्रह्माणं प्रातिष्ठिपद्भूसुरेन्द्रैः ॥ ५१॥
तिल्वारण्यादुत्थितस्तैः सहैव
व्योमाध्वानं व्योमयानेन तीर्त्वा ।
वेगादन्तर्वेदिमासाद्य सद्य-
स्तत्रत्यं स्वं देहमेष प्रविष्टः ॥ ५२॥
सभ्यैरेभिः साकमृत्विक्प्रवेकै-
स्तावद्यज्ञे ब्रह्मणस्तायमाने ।
अस्यागच्छन्हव्यमादातुकामा
देवास्तत्र द्योतमानैर्विमानैः ॥ ५३॥
स्वैरं भुक्त्वा षड्रसोपेतमन्नं
भूषावासोभूषितो दिव्यगन्धः ।
विद्वल्लोको वीटिकाभृत्सभायां
तुष्टः सङ्घीभूय तुष्टाव यज्ञम् ॥ ५४॥
प्राग्वंशात्प्राक्सोमवेद्यां सदोऽग्नी-
द्गेहोपेतायां हविर्धानवत्याम् ।
अग्निश्चिक्ये पुच्छपक्षात्मशीर्षै-
र्युक्तो यज्ञस्यैव वाहोऽवतीर्णः ॥ ५५॥
तस्मिन्नेव स्थण्डिलेऽग्निः प्रणिन्ये
बैल्वे यूपे पूर्वतः स्थापितस्य ।
अग्नीषोमीयः पशुश्चाबबन्धे
नेतुर्वाहस्तत्समीपे हि नाह्यः ॥ ५६॥
अन्यत्रास्ते यांहसो हेतुरार्या-
स्तां हिंसां तद्धवंसिनीं तत्र बुद्ध्वा ।
आजिघ्रन्तो होमगन्धं वपाया
आज्ञां शम्भोरद्भुतामभ्यनन्दन् ॥ ५७॥
अध्वर्युर्वसतीवरीरथ गृहीत्वापोऽर्धरात्रे हवि-
र्धाने साध्वभिषुत्य सोममभिसङ्गृह्य ग्रहेषु क्रमात् ।
हुत्वा सद एत्य शिष्टमिह सम्भक्ष्यानुमान्य स्तुतं
शस्त्रं च प्रतिगीर्य सोऽनुसवनं युक्तान्वितेने विधीन् ॥ ५८॥
उद्गातरि स्तुवति सामभिरात्तशस्त्रो
होता कथं तदुपरि क्रमतेऽथ तस्मै ।
अध्वर्युराः प्रतिगृणाति कथं कथं त-
द्ब्रह्मानुमन्यत इति प्रजगुः कवीन्द्राः ॥ ५९॥
विधिवदवभृथान्ते विस्तृतं दक्षिणाभिः
सुरसरिदुपकण्ठे सप्ततन्तुं समाप्य ।
वरमृषिगणमन्तर्वेदिदेशे निवेश्य
स्वयममरयुतोऽजः सत्यलोकं जगाहे ॥ ६०॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं व्यधात्पञ्चमम् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये पञ्चमः सर्गः सम्पूर्णः ।
६. षष्ठः सर्गः
गुणनिधिरिह तर्हि गौडनाथो
विपुलबलोऽजनि विक्रमाङ्कनामा ।
दशरथ इव यो द्वयोर्महिष्योः
शुभगुणयोस्तपसाभजत्सुतांस्त्रीन् ॥ १॥
शिवभजनकृदेषु सिंहवर्मा
तनयवरेषु दयालुरग्रजन्मा ।
पितुरनघगुणैः प्रियोऽतिमात्रं
समजनि राम इव श्रितानुकूलः ॥ २॥
प्रवयसि पितरि प्रचोदयत्य-
प्यवनिपरिब्रढिमानमजोऽपि ।
अयमनुमनुते स्म न त्वगार्त्या
लुलितमना भरताम्बयेव रामः ॥ ३॥
सितवपुरधिकं स सिंहवर्मा
शतभिषगाहितसत्क्रियोऽपि शश्वत् ।
विधुरिव हृदये वहन्कलङ्कं
कृशतनुराश्रितवान्गिरीशमेत्र ॥ ४॥
व्युदसितुमयमङ्गभूविकारं
बत बहिरन्तरिव प्रसह्य जातम् ।
अचकमत शिवार्चनेन शश्व-
त्स हि विदितः स्मरशत्रुरादिवैद्यः ॥ ५॥
शिवचरणसमर्पितान्तरः श्री-
शिखरिवटाटविकालहस्तिकाञ्चीः ।
नियतमतिरटन्निषादयूना
सममभजञ्च चिदम्बरं कदाचित् ॥ ६॥
अविकलहठयोगराजयोगा-
भ्यसनपरैः शुकशारिकार्भकैर्यत् ।
परिचितपदभाष्यफक्किकैश्च
प्रथितपतञ्जलिपुण्यपर्णशालम् ॥ ७॥
घनतरसुकृताद्रिकूटकल्पैः
शिवचरणाब्जसमर्पितापनीतैः
प्रथयति ननु बिल्वराशिभिर्य-
त्सुरभितरक्षुपदोटजं समन्तात् ॥ ८॥
परिचितभसितत्रिपुण्ड्रपञ्चा-
क्षरशतरुद्रजपाः सदा मुनीन्द्राः ।
पशुपतिपशुपाशबन्धमोक्षा-
द्यखिलपदार्थविदो यदावसन्ति ॥ ९॥
चिरतरसुकृतैश्चिदम्बरं त-
त्पुरमधिगम्य तरक्षुपादमत्र ।
शरणमुपजगाम सिंहवर्मा
रविमिव साम्बमुरुत्विषं रुजार्तः ॥ १०॥
स्फुटतरशिवभक्तचिह्नमेनं
विनयमिवाद्यतविग्रहं महर्षिः ।
अभिमुखमतिशीतलैरपाङ्गै-
रसुखयदिन्दुरिवांशुभिश्वकोरम् ॥ ११॥
ऋषिवरमवलोक्य राजपुत्रो
घनमिव तापकदर्थितः शिखीन्द्रः ।
हृषिततनुरुहोऽतिहृष्टचेताः
श्रुतिसुखदां गिरमाददे गभीराम् ॥ १२॥
सुकृतसुरमहीरुहैरिदानीं
फलिभिरभावि मदीयपूर्वपुंसाम् ।
चरणकमलसेवया यतस्ते
चिरमहमस्मि चराचरेषु धन्यः ॥ १३॥
जगति पतिमपामपादगस्त्यः
शयचुलुकेन पुरेत्यहं शृणोमि ।
दुरितजलधिशोषणक्षमं त्वां
पदरजसाद्य परं निशामयामि ॥ १४॥
कुरु मयि भगवन्कृपां क्षणं ते
मनसि निवेदितमस्तु मामकीनम् ।
तव सविधमुपागतस्त्वगार्त्या
धरणिपतेस्तनयोऽस्मि सिंहवर्मा ॥ १५॥
जगदुपकृतयेऽत्र जागरूकं
शरणमुपैमि भवन्तमीदृशोऽहम् ।
किमु जगति घनाघनं विनैकं
गतिरितरास्ति कृशस्य चातकस्य ॥ १६॥
अनुपधिकमनुग्रहं विधेहि
प्रबलगदाभिहते मयि प्रपन्ने ।
ननु जनपरितापनोदनाय
प्रभवति स द्विजराज एव पूर्णः ॥ १७॥
क्व नु मम जननं क तिल्वदेशः
क्व च बत मच्चरितं क्व दर्शनं ते ।
अघटित घटनापटीयसीभिः
शिवकरुणाभिरहो समुज्जजृम्भे ॥ १८॥
इति निगदति दीनमिङ्गितज्ञो
धरणिपतेस्तनये तरक्षुपादः ।
अविकलमकरोदनुग्रहं य-
त्सदयहृदः शरणागतेषु सन्तः ॥ १९॥
अलिकगतशुभाक्षराङ्कुरोत्थि-
त्यनुगुणदोहलभास्मनत्रिपुण्ड्रम् ।
स्नपयति पयसि स्म शैवगङ्गे
स तमुपवासकृशं कृशानुकल्पः ॥ २०॥
अमुमथ शिवगङ्गयाभिषिक्तं
कनकरुचिं विरचय्य कञ्चिदस्मै ।
मनुवरमुपदिष्टवान्महर्षि-
र्वितरति च स्म हिरण्यवर्मसंज्ञाम् ॥ २१॥
अवसदिह तदाद्यसौ प्रसक्तः
सततमनन्यमनाः शिवार्चनायाम् ।
उपनमति महत्युपप्लवेऽपि
क्वचन मृकण्डुकुमारवद्दृढात्मा ॥ २२॥
त्रिपुररिपुजपी त्रिकूटशैले
त्रिषवणमञ्जनकृत्त्रिपुण्ड्रधारी ।
त्रिकरणविमलस्त्रिलोकनेतु -
स्त्रिपुरभिदोऽकृत स त्रिकालपूजाम् ॥ २३॥
हिमकरमकुटं हिरण्यवर्मा
परिचरति स्म तथैव पार्वतीशम् ।
सततमपि यथा सभा मुनीना-
मभिनवमेनमगस्त्यमेव मेने ॥ २४॥
जनकमथ कदाचिदस्य जीर्णं
प्रतिनृपतिः प्रवसत्सुतं च बुद्ध्वा ।
त्रिदिवसममदः पदं जिघृक्षु-
र्द्रुतमभिषेणयति स्म दुर्विनीतः ॥ २५॥
रथगजहययोधराजिनिर्य-
त्तुमुलरजोभरधूसरान्तरालात् ।
अपटुकरणमम्बरात्पतन्तो
रथशिखरं परिरेभिरेऽस्य गृध्राः ॥ २६॥
अपि च रथशिरस्यसह्यपातं
सपदि निषद्य समं मुखानि गृध्राः ।
अनुपदमुदतेजयन्नबाधं
कठिनकलेवरकर्तनेच्छयेव ॥ २७॥
विपुलवलदकाण्डचण्डवात-
व्यतिकरनिर्दलितोऽस्य केतुदण्डः ।
अपतदधिबलं तदानुकुर्व-
ञ्शमनकरेरितकालदण्डरीतिम् ॥ २८॥
प्रबलपटहभेरिशङ्खनादैः
प्रलयघनाघनगर्जितप्रकाण्डैः ।
शिथिलितजगदण्डसन्धिबन्धै-
र्हरिदिभफीट्कृतिमांसलैरजृम्भि ॥ २९॥
सपदि वियति बभ्रमुः शकुन्ता-
स्तरुशिखराणि जनास्तदाध्यरोहन् ।
गृहमनु निवहो गवामधाव-
त्पटहरवे परितो विजृम्भमाणे ॥ ३०॥
घनमिममवकर्ण्य कर्णशूलं
पटहरवं भटवीरवादमिश्रम् ।
विपुलभुजबलोऽथ विक्रमाङ्को
निजनगरान्निरगान्नृपः ससैन्यः ॥ ३१॥
कतिचन करिकन्धराधिरूढाः
पुनरितरेऽश्ववरिष्ठपृष्ठनिष्ठाः ।
अधिरथमपरे कृताधिरोहा
बहिरगमन्नगरात्पदातयोऽन्ये ॥ ३२॥
करकलितकृपाणमात्तचापं
परुषतरस्तनितं प्रसह्य गौडः ।
अभिमुखमरिसैन्यमभ्यधाव-
च्चलतटिभ्रमिवाशु चण्डवायुः ॥ ३३॥
त्वरितमथ तुरङ्गिणा तुरङ्गी
समकृतहस्तिपकेन हस्तिपालः ।
रणभुवि रथिना रथी भटेन
प्रतिभट इत्युदभून्मिथः समीकम् ॥ ३४॥
रथिभटतुरगेभरक्तधारा-
प्लुतधरणीपतदुत्पतत्कबन्धम् ।
उभयबलजुषामुदायुधानां
सुरमुनिरैक्षत विस्मितः सुयुद्धम् ॥ ३५॥
सपदि रथिशिरांसि सारथीना-
मुपरि निपत्य समं तदुत्तमाङ्गैः ।
अथ हयमभिपत्य तच्छिरोभिः
सह युगपत्समरक्षितौ निपेतुः ॥ ३६॥
अरिभटरुधिरारुणैः शरैः खं
निबिडतरं नितरां बभार शोभाम् ।
भटसुरसुदृशां प्रवालदण्डै-
र्विधिविहितस्य विवाहमण्डपस्य ॥ ३७॥
अभिनवरुधिरारुणानि हृत्वा
करिवरकर्णदलानि काकगृधैः ।
अनुतरुशिखमर्पितानि रेजु-
र्ध्वजपटवत्त्रिदशीस्वयंवरस्य ॥ ३८॥
द्विपकरहृतदूरनुन्न एको
वियति तदा सुरवारसुन्दरीणाम् ।
वरवरणमरं विचार्य वक्तुं
तदिव पुनर्धरणीतले पपात ॥ ३९॥
स्ववदनमपरः स्वयं गृहीत्वा
गगनपथेऽतिजवेन गृध्रनीतम् ।
अहरत मणिकुण्डलान्यनर्घा-
ण्यमरपुरीगणिकादृतो विमाने ॥ ४०॥
असिविदलितहस्तिदन्तखण्डैः
सममदसीयशिरोविकीर्णमुक्ताः ।
शरशकलितचन्द्रतारकाभा
अधिसमराजिरमम्बरान्निपेतुः ॥ ४१॥
महति रुधिरमण्डले निपेतु-
र्मदगजमस्तकमौक्तिकप्रवेकाः ।
ज्वलन इव भटाग्रणीजयश्री-
परिणयमङ्गलविप्रकीर्णलाजाः ॥ ४२॥
समजनि विजयः पराजयो वा
समबलयोरुभयोर्न सम्प्रहारे ।
कतिपयदिवसैस्तु गौडनेतुः
क्षयमगमद्धनधान्यकोशजातम् ॥ ४३॥
स तु विमलमतिः समाहितात्मा
सचिवगिरा शिवसन्निधौ निषण्णः ।
अभयवरदमात्मबन्धुमेनं
चिरमनुचिन्तयति स्म शत्रुत्यै ॥ ४४॥
शरणमुपगतं सुतं मृकण्डो-
रतिलघु मृत्युमुखादमोचयद्यः ।
अपि दशमुखमर्थित प्रदाना-
दतनुत हृष्टममुष्य सोऽग्रतोऽभूत् ॥ ४५॥
मनुकुलमणिदीप मा स्म भैषी-
स्तव तपसा त्वदपत्यभक्तितश्च ।
त्वरितमरिकुलं तवापनोत्स्या-
म्यहमिति तं स वदन्नभूददृश्यः ॥ ४६॥
निरवधिकरुणानिधिर्महेशो
निटिलतटीनटदीक्षणः क्षणेन ।
निशि निशिततरत्रिशूलहस्तो
निखिलमरातिकुलं निरास्थदस्य ॥ ४७॥
पतिरपि वरणं प्रगे प्रजाना-
मिदमविदन्नधिरुह्य बाह्यदेशे ।
अरिकुलमखिलं हतं विलोक्य
प्रमुदितहृत्प्रशशंस पार्वतीशम् ॥ ४८॥
अथ नृपतिरसौ सुधीर मात्या-
न्सदसि तदात्महितान्सभाजयित्वा ।
शिवमिदमभवच्छिवाज्ञयातः
परमिह किं करणीयमित्यपृच्छत् ॥ ४९॥
प्रगुणतरपरस्परैकमत्य-
द्रढिमदलत्परराष्ट्रमन्त्रतन्त्राः ।
प्रतिजगदुरमी परावरज्ञाः
परिणतिचारु वचोऽस्य पथ्यमित्थम् ॥ ५०॥
त्वमिह नृप पिता त्वमेव माता
त्वमितरबन्धुरथ त्वमीश्वरश्च ।
इति जगति जना हितैषिणं त्वां
ननु कथयन्ति नयोन्नतं तदास्ताम् ॥ ५१॥
पलिततरशिरस्तया प्रजाना-
मवनविधाधुना भवानशक्तः ।
प्रभवति य इह प्रधानसूनु-
र्विधिवशतो भवतः स विप्रकृष्टः ॥ ५२॥
अहह जनपदेष्वराजकेषु
स्वगृहकलत्रसुताः स्युरव्यवस्थाः ।
अथ जगदखिलं मिथः प्रकुप्ये-
त्सपदि च मात्स्यनयः समुज्जिहीते ॥ ५३॥
विषयमिह विवर्जितं नियन्त्रा
निभृतमरिर्निविशेत लब्धरन्ध्रः ।
गृहपतिरहितं गृहं विशङ्को
विवृतकवाटमिवाशु विश्वकद्रुः ॥ ५४॥
उपकरणशतोपशोभमाना-
प्यधिगतवत्यपि वाहिनीशमग्र्यम् ।
परिबृढरहिता तु पार्थिवश्री-
र्न चलति नौरिव नष्टकर्णधारा ॥ ५५॥
नृपतिरिह पदान्निजादपेत-
स्तृणकणतूलतुषायतेऽतिशोच्यः ।
घनगिरिवरगह्वराच्च्युतश्चे-
दपि हि वृकैरभिभूयते तरक्षुः ॥ ५६॥
तदिह तनयमानयात्मजं तं
प्रभुमवनेः कुरु भद्रमस्तु राज्यम् ।
दृढतरमवलम्ब्य दारुधुर्यं
जगति हि तिष्ठति धाम दीर्घकालम् ॥ ५७॥
इति सचिववचो हितं निशम्य
प्रकृतिभिरप्यनुमोदितः प्रजेशः ।
परमशिवमुपास्त भक्तियुक्तो
निजतनयानयने निरूढभावः ॥ ५८॥
तदखिलमधिगम्य दिव्यदृष्ट्या
निजभगिनीपतये निवेद्य चैनम् ।
प्रहिणु नृपसुतं पुरं प्रतीति
न्यगददुपेत्य चिदम्बरं वसिष्ठः ॥ ५९॥
तदनु मुनिवचस्तरक्षुपादो
हृदि शिवकार्यहितं विचार्य सद्यः ।
नृपसुतमनुनीय नीतिवादै-
रवददिह स्थिरकीर्त्तिमस्य काङ्क्षन् ॥ ६०॥
त्वमसि शिवकटाक्षतो धुतार्ति-
र्जगदवनं भुजजन्मनां हि धर्मः ।
तदिह निजपुरं त्वरस्व पित्रा
परिचितमाप्नुहि भद्र भद्रपीठम् ॥ ६१॥
स्थित्वा कञ्चन कालमात्मनगरे कृत्वा प्रजारञ्जनं
प्रत्यागम्य चिदम्बरं पुनरिदं श्रीराजधानीं प्रभोः ।
निष्पाद्यात्र शिवस्य वेदविहितां नित्यां च नैमित्तिकी-
मन्तर्वेदिगतैर्वितानय महापूजां मुनीन्द्रैरिति ॥ ६२॥
स तथेति समेत्य गौडदेशे
निजराज्यं परिभुज्य शश्वदत्र ।
त्रिसहस्रयुगेत्य तिल्वदेशं
शिवकैङ्कर्यमिह स्वयं वितेने ॥ ६३॥
अष्टप्राकारजुष्टं हरिरुचिरचतुर्गोपुराग्र्यं सहस्र-
स्तम्भोत्तम्भाभिरामस्फटिकमयमहामण्डपं सत्तटाकम् ।
वीथीभिर्भासमानं विविधमणिगृहं पुण्डरीकाभिधानं
शिल्पिश्रेष्ठैर्विचित्रं व्यरचयत पुरं शाश्वतं हेमवर्मा ॥ ६४॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं तु षष्ठं व्यधात् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये षष्ठः सर्गः सम्पूर्णः ।
७. सप्तमः सर्गः
एकदा किल हिरण्यवर्मणा
क्लृप्तमन्त्र शिवकार्यमद्भुतम् ।
प्रेक्ष्य तुम्बुरुरितो गतो दिवं
पृष्ट एवमवदद्बृहस्पतिम् ॥ १॥
श्रीनटेश शिवकामसुन्दरी-
नित्यवासनिबिडीकृतोत्सवा ।
वेदशास्त्रविपणिर्विराजते
पुण्डरीकनगरीति भूतले ॥ २॥
यत्र हाटकसदस्यहर्निशं
नृत्यतो निटिलचक्षुषो मुदा ।
पूर्वसागरतरङ्गभाङ्कृति-
र्व्याकरोति घनवाद्यवैखरीम् ॥ ३॥
सौधगोपुरगृहैः सहैव या
प्रस्थितेव निलयं पतञ्जलेः ।
लक्ष्यतेऽधिशिवगङ्गमुल्लस-
न्त्यम्बुबिम्बनवशादधोमुखी ॥ ४॥
पूर्वतन्त्रपदभाष्यभाषिणौ
यत्र जैमिनिपतञ्जली उभौ ।
पूर्वमद्य तु परःशता बुधा-
स्तादृशाः प्रतिवसन्ति दुर्जयाः ॥ ५॥
सारहीरमणिसौधदीधिति-
व्यापनेन वितमस्यहर्निशम् ।
यत्र तर्ककृद्भावमर्चिषा-
मन्धकारपदवाच्यमास्थितः ॥ ६॥
यत्र यज्वगृहधूमधोरणी
ज्यां दिवोऽवतरतां हविर्भुजाम् ।
वालवायजशिलाविनिर्मिता
रोहणालिरिव लक्ष्यतेऽम्बरे ॥ ७॥
हर्म्यभूरगुरुधूमण्डली
कुर्वती नभसि कालिकाश्रियम् ।
यत्र शश्वदुपयाति निर्भरं
नीलकण्ठनटने निदानताम् ॥ ८॥
पद्मरागमणितोरणच्छटा
पाकशासनशरासनोज्ज्वले ।
नीलसौधनवनीरदान्तरे
यत्र भान्ति युवतिक्षणप्रभाः ॥ ९॥
चारु यत्सदनचन्द्रशालिका-
जालकान्तरचरो विधुर्ध्रुवम् ।
चुम्बितो युवजनैः प्रियास्यमि-
त्यङ्कवानजनि तद्रदक्षतैः ॥ १०॥
व्योमसिन्धुजलवीचिशीतल-
स्फीतकेतनपटाञ्चलानिलैः ।
यत्र सौधशिखरेषु यौवतं
सञ्चरत्सुरतखेदमुज्झति ॥ ११॥
क्वापि यत्र पटवासपांसुले
केलिसौधशिखरे कुमारिकाः ।
कुल्ययाभ्रसरितः कुतूहला-
त्पोषयन्ति नवपुष्पवाटिकाः ॥ १२॥
प्रोन्नतेषु किल पूर्वपश्चिम-
स्वर्णगोपुरशिरःसु सङ्गता
स्वर्णदीसितवितानसम्पदं
तन्वती वियति यत्र दृश्यते ॥ १३॥
यत्र वज्रमयगोपुरस्फुर-
च्छत्रमध्यचरमर्कमण्डलम् ।
वेदितुं दिवि विधुन्तुदो झटि-
त्यक्षमो गिलति हन्त जातुचित् ॥ १४॥
रत्नसालरुचिमण्डलं दिवि
व्याप्तमात्रपरिवेषविभ्रमम् ।
पुष्पवद्विरहितं प्रपद्यते
यत्र विष्णुपदहंसकश्रियम् ॥ १५॥
वीक्ष्य केलिवनसीम्नि सुभ्रुवां
यत्र चारुगतिमेतदीप्सया ।
स्नाति हंसमिथुनं मृणालभु-
ग्दीर्घिकासु सवनत्रयं शुचि ॥ १६॥
नालिकेरतरवो निजैः फलैः
शैवगाङ्गसलिलानि बिभ्रतः ।
स्वर्गसिन्धुपयसो निरीक्षितुं
स्वादिमानमिव यत्र सून्नताः ॥ १७॥
अग्रसीम्नि शिशिरात्ययेऽङ्कुर-
त्पल्लवं क्वचन बिल्वकानने ।
वीक्ष्य यत्र जनता विशङ्कते
व्याघ्रपादपचितावशेषितम् ॥ १८॥
भर्गयोग्यनवपुष्पवाटिका-
सौरभोच्चयहरं समीरणम् ।
प्साति यत्र फणिराट् भवद्रुहः
शिक्षणं हि शिवभक्तलक्षणम् ॥ १९॥
गन्धहस्तिकरटस्थलस्खल-
द्भृङ्गसङ्गतमदा यदब्जिनी ।
पीड्यते प्रतिगजेन मानिनो
मर्षयन्ति न हि गन्धमप्यरेः ॥ २०॥
यत्र सेवितुमुपेयुषां शिवं
भास्वतां रथहया इति प्रजाः ।
मन्वते मरकतोपलस्फुर-
न्मन्दुरोदरगतान्महाहयान् ॥ २१॥
कम्पते रविरवेक्ष्य खड्गिनो
यद्भटान्सततमीदृशः खलु ।
शत्रुशस्त्रदलितस्वविग्रहो
विग्रहं मम विदारयेदिति ॥ २२॥
अङ्गजो युवजनेष्वहर्निशं
सञ्चरन्स्वसदृशेषु रूपतः ।
साध्वसं त्यजति यत्र साहसी
सततं त्रिनयनेऽपि जाग्रति ॥ २३॥
जाग्रति त्रिनयनेऽपि चेष्टते
मन्मथः कथमिहेति विस्मिताः ।
वीक्ष्य यत्र तरुणं दिवौकसो
निर्णयन्ति मनुजं निमेषणात् ॥ २४॥
स्वस्य यत्र शुकशारिकार्भकैः
श्राविते सुरतचाटुनि प्रगे ।
कार्यमन्यदपदिश्य गच्छति
व्रीडया गुरुसमीपतो वधूः ॥ २५॥
केलिवेगगलितं नतभ्रुवां
मन्दिरेषु मणिमौक्तिकव्रजम् ।
प्रातरुत्करगतं प्रमार्जना-
द्वीक्ष्य यत्र धनदोऽपि लज्जते ॥ २६॥
वीक्ष्य यत्र मणिमौक्तिकावली-
र्विस्तृता विपणिषूपकण्ठगः ।
नूनमेष निखिलस्वलुण्टना-
त्क्रोशतीति कवयोऽब्धिमीरते ॥ २७॥
शीतदीधितिशिलोदयत्पयः-
पूरदूरितरजस्तृणां भृशम् ।
भासयत्युषसि यत्प्रतोलिकां
चन्द्रिकैव नवचेटिकायते ॥ २८॥
गोपुरे मरकतैः कृतां शुकीं
स्वप्रियेति समुपागतः शुकः ।
स्पर्शतः परमवैति तत्त्वतः
स्पन्दतः परममुं च यज्जनः ॥ २९॥
यत्र हेमशिबिकाधिरोहिणः
पार्श्वयोर्मुकुरभित्तिबिम्बितान् ।
स्वान्कृताञ्जलिपुटाः परान्विदु-
र्वीथिकासु विविधास्तथाविधान् ॥ ३०॥
यां किलेश्वरदिदृक्षया मुनौ
वैणिके विशति तं गवेषयन् ।
पर्वतः प्रतिगृहं भ्रमत्यधि-
स्त्रैणगीति महतीरिति भ्रमात् ॥ ३१॥
स्नातचोलयुवतिस्तनद्रव-
त्कुङ्कुमारुणकवेरजोर्मिभिः ।
कुर्वता परिचयं कृतार्थिताः
पावनेन पवनेन यज्जनाः ॥ ३२॥
मत्स्यमब्धिजलमध्यतो हृतं
प्रेक्ष्य यत्र गरुडेन भक्षितम् ।
स्वीयमन्तुशमनार्थमुद्धृतां
दृष्टिमर्पयति तत्पदे हरिः ॥ ३३॥
पूर्वसिन्धुलहरीपरम्परो-
त्कूलितः किल सहाब्धिकन्यया ।
विष्णुरध्युषितशेष एव गो-
विन्दराज इति यत्र विश्रुतः ॥ ३४॥
भोगवत्यपि सुधर्मवत्यपि
स्फीतचैत्ररथवत्यपि स्वयम् ।
न द्विजिह्वसहिता न सत्रभु-
क्सङ्कुला न सकुबेरका च या ॥ ३५॥
योगिनो दहरविद्ययोत्सुकाः
सर्वलोकचिदुपासनोचितम् ।
यां विराड्ढृदयपुण्डरीकमि-
त्याहुरत्र किल मानमागमः ॥ ३६॥
तत्र केचन वसन्ति दीक्षिता
वीक्षिताग्रिमपुराणविस्तराः ।
आस्तिकाः सततमाहिताग्नयः
साधवः शिवपदैकसंश्रयाः ॥ ३७॥
ते हि तिल्वमुनयः शिवं चिरा-
दर्चयन्ति कृतकेतरोक्तिभिः ।
दर्शयन्त इह देवताद्यभि-
व्यक्तिरर्चकतपोबलादिति ॥ ३८॥
राजराष्ट्रकुशलं रथोत्सवैः
कारयाम इति बद्धकङ्कणाः ।
एकदा नटपतेरिमे मुदा
मार्गशीर्षिकमहोद्यमं व्यधुः ॥ ३९॥
भेरिभाङ्कृतिभरण निर्दल-
न्नूनमद्य निपतेत्खमित्यमी ।
पुङ्गवाञ्चितपटाञ्चलध्वजो-
त्तम्भितं विदधिरे तदादितः ॥ ४०॥
पालिकासु यदि पञ्चसु प्रति-
ष्ठापिता दिगधिपास्तदार्चकैः ।
अद्भुतं किमिह हन्त यैर्विभुः
पञ्चभिश्चुलुकितः परोऽक्षरैः ॥ ४१॥
अध्वरेषु विधिवन्मुदा यदा-
ह्वानतः क्रतुभुजोऽभजन्हविः ।
तद्ध्वनिश्रवणमात्रतस्तदा
सत्वरं सपरिवारमापतन् ॥ ४२॥
हस्तिमेषमहिषाशराग्रणी-
नक्रऋश्यनरनन्दिवाहनाः ।
आपतन्हरिदधीश्वराः पुर-
स्कृत्य खे गरुडहंसवाहनौ ॥ ४३॥
मण्डितानि मणितोरणालिभि-
र्गोपुराणि गगने चकाशिरे ।
द्योरिवावतरतां दिवौकसां
व्योमयानवलयानि विश्वतः ॥ ४४॥
शैवयागविधिना समर्पितं
हव्यजातमुपगृह्य हव्यवाट् ।
अर्पयन्करतलेऽम्बिकापते-
रास्त इत्यगणि तावदागतैः ॥ ४५॥
चन्द्रहंसहरिभूतसैन्धव-
क्ष्माधरद्विरदनन्दिचक्रिभिः ।
वाहनैर्मणिवरोज्ज्वलैः शिवं
तेऽनुवीथि समचारयन्द्विजाः ॥ ४६॥
तालमर्दलततोरुकाहली-
भेरिशङ्खपटहारवैर्भृशम् ।
बाधिरी नयनयोः पतञ्जले-
स्तावदाविरभवत्तदद्भुतम् ॥ ४७॥
अभ्यभूयत जनारवस्तदा
वाद्यवर्गनिनदेन वल्गुना ।
सोऽपि कीर्तनभरेण शूलिनो
वेदघोषविभवेन सोऽपि च ॥ ४८॥
चन्द्रमण्डलमुपेयुषि स्वयं
वाहनायितमुमापतौ मुदा ।
तारकाभिरपि तत्क्षणं महा-
दीपिकात्मभिरभावि सर्वतः ॥ ४९॥
साम्प्रतं हि शिवकामसुन्दरी-
मन्दयानमहिमाभिलाषिणः ।
स्कन्धसीम्नि कलहंसिकापते-
रम्बिकार्धवपुषोऽधिरोहणम् ॥ ५०॥
कोपविस्तृतकरालदंष्ट्रकं
सिंहमिन्दुमकुटेऽधितिष्ठति ।
सादरं शरभमूर्त्यपासकाः
साधु साध्विति शिरांस्यकम्पयन् ॥ ५१॥
दर्शयन्निव पतञ्जलौ दयां
नागराजमवलम्ब्य निर्गतः ।
मञ्जुतत्फणमणिश्रियारुणं
सन्ध्ययेव शशिनं वहञ्शिवः ॥ ५२॥
भूतनाथमनुभाव्य निःसर-
द्भीमनेत्रपुटमुत्थितोदरम् ।
मेनिरेऽखिलभृतो महाभरा-
द्धूर्जटेरुदितदुर्दशं जनाः ॥ ५३॥
अश्वरत्नमधिरुह्य निर्गते
सादिवेषजुषि शङ्करे पुरः ।
मङ्क्षु जातमणिमल्लमर्दन-
प्रत्यभिज्ञमभवत्प्रजामनः ॥ ५४॥
रावणांसगतरूप्यभूधरा-
रूढमद्रिसुतयान्वितं शिवम् ।
वीक्ष्य राक्षसविमानिताः पुरा
सन्निधातुममराः शशङ्किरे ॥ ५५॥
एकमूर्तिभरणेऽपि यस्य दि-
ग्दन्तिनो दधति खेदमेकदा ।
अष्टमूर्तिममुमद्भुतं गजो
वाहनाकृतिरुवाह विभ्रमात् ॥ ५६॥
विश्वतो वृषभवाहनोत्सवे
सम्पतन्सुरनरौघवारिधिः ।
रोधसी रचयति स्म खावनी
रोदसी इति तु लेखकभ्रमः ॥ ५७॥
शृङ्गसङ्गिचलचारुचामरं
रत्नपल्ययनरञ्जितं वृषम् ।
श्वेतशैलमिव जङ्गमं शिवः
साम्बमूर्तिरधिरुह्य निर्ययौ ॥ ५८॥
पाण्डरे वृषभवाहने पुर-
श्चन्द्रमण्डल इवोदिते सति ।
पाणिपल्लवपुटानि पश्यतां
पद्मवन्मुकुलतां प्रपेदिरे ॥ ५९॥
वारयौवतविलासलास्यतो
विस्मितो वलभिदप्सरोगणैः ।
शाक्करोत्सवमवेक्ष्य सादरं
चक्षुषां दशशतीमधन्ययत् ॥ ६०॥
दिव्यमङ्गलतनुद्युतिच्छटा-
दूरितान्धतमसो नटेश्वरः ।
आरुरोह रथमार्यया सह
च्छाययेव सवितोदयाचलम् ॥ ६१॥
मेरुकूटमुत मेघमण्डलं
विद्युदुद्द्युति विमानमेव वा ।
इत्यतर्कि रथशृङ्गमुल्लस-
च्छत्रकेतनशतं हिरण्मयम् ॥ ६२॥
इन्द्रपूर्वकविमानमीश्वर-
श्चन्द्रकोटिशतशीतलाकृतिः ।
मन्द्रगीतमधिरुह्य मञ्जुनि-
स्तन्द्रसेवककुलं सदोऽसदत् ॥ ६३॥
चारुचामरवितानतोरणे
चन्दनागुरुसुजातसौरभे ।
रत्नहेमरचिते महामणि-
स्तम्भराजिरुचिराजितोदरे ॥ ६४॥
लोलपुष्पसरलोलसम्पत-
द्भृङ्गडिम्भपटलेन वीप्सिताम् ।
इन्द्रनीलमणितोरणावलिं
सन्ततं दधति चित्सभान्तरे ॥ ६५॥
तैलदुग्धदधिसर्पिरैक्षव-
क्षौद्रकेरसलिलाम्बुसम्प्लुतम् ।
शुद्धशङ्खसलिलाभिषेचन-
स्वच्छदिव्यतनुमुज्ज्वलांशुकम् ॥ ६६॥
गन्धसारघनसारकुङ्कुम-
क्षोदशोभिमृगनाभिचर्चितम् ।
हेमकुण्डलकिरीटमुद्रिका-
हारसारसकहंसकोज्ज्वलम् ॥ ६७॥
मल्लिकावकुलबिल्वमालती-
चम्पकाब्जसरचारुसौरभम् ।
स्वानुरूपशिवकामसुन्दरी-
नित्यशोभिनिजवामपार्श्वकम् ॥ ६८॥
व्याघ्रचर्मपरिधानवेष्टन-
व्यालदष्टमणिमुण्डमालिकम् ।
किञ्चिदुन्नमितकिङ्किणीकन-
त्सव्यपादधृतदिव्यनूपुरम् ॥ ६९॥
अज्ञतां यवनिकात्मिकां नृणा-
मादितस्त्रिरपसार्य दीक्षिताः ।
ब्रह्मरूपमुषसि प्रदर्शया-
मासुरौपनिषदं महेश्वरम् ॥ ७०॥
श्रवणमननध्यानैः शश्वत्समाहितचेतसः
परमशिवमध्यक्षीकुर्वन्ति यं परमर्षयः ।
तमिह दयया तिल्वारण्यद्विजव्रजदर्शितं
ददृशुरखिला लोका दिव्याकृतिं सुकृतोच्चयैः ॥ ७१॥
भव हर शिव शम्भो पार्वतीश त्रिनेत्र
प्रमथनुत नटेश प्रार्थितं नः प्रदेहि ।
पटुतरमिति शब्द प्राणिनां रत्नसालाः
प्रतिरवमिषतो नु प्राहुरप्राणिनोऽपि ॥ ७२॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं व्यधात्सप्तमम् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये सप्तमः सर्गः सम्पूर्णः ।
८. अष्टमः सर्गः
सरसी शिवकामसुन्दरी-
करुणेवात्र पुरे गरीयसी ।
जयति प्रथिता जगत्त्रये
शिवगङ्गेति शिवप्रदा नृणाम् ॥ १॥
नवषट्पदनीलवेणिका
दलदिन्दीवरदीर्घलोचना ।
धृतचक्रकुचावतिष्ठते
धुरि देव्याः परिचारिकेव या ॥ २॥
परिगृह्य तरङ्गबाहुभिः
शिवनिर्माल्यदलानि सादरम् ।
स्वयमर्पयतीव सन्ततं
लसदावर्तविलोचनेषु या ॥ ३॥
जनिमृत्युदुरध्वजाङ्घिक-
क्लमविच्छेदकलापटीयसा ।
यमदूतततिर्यदूर्मिका-
पवमानेन बलान्निरस्यते ॥ ४॥
पुरुहूतपुरातिशायिनो
नगरस्यास्य पुनर्निरीक्षितुम् ।
मणिदर्पणमण्डलीव या
निहिताधिक्षिति भाति निर्मला ॥ ५॥
महतस्तटवृक्षमण्डला-
न्मधुधारामिषतो विनिःसृता ।
अमलामवगाहतेऽन्वहं
द्युनदी यां द्रुतमात्मशुद्धये ॥ ६॥
धृतपातकभङ्गदीक्षया
श्रितकल्याणसमर्पणोत्कया ।
यमभीषिकया यया सदा
निजमूर्त्यैव निवेश्यते शिवः ॥ ७॥
निजलोकगतो विराट् परा-
त्सर ऐरम्मदमेत्य साधकः ।
निजवासनया निमज्जने
ननु यस्यास्तनुते नमस्क्रियाम् ॥ ८॥
जलकेलिषु यत्र बालिका-
चलहारच्युतरत्नमालिका ।
बलिसद्मनिवासिभिर्ध्रुवं
भ्रियते मूर्धसु भोगिनां वरैः ॥ ९॥
कलशीतनयेन चूषितं
बडबाहव्यवहेन दूषितम् ।
रघुवीरशरेण शोषितं
धुरि यस्या जलधिं कथं स्तुमः ॥ १०॥
यदि जातु यदृच्छया मना-
गपि यस्यां मनुजो निमज्जति ।
निखिलो निरयार्णवात्तदा
द्रुतमुन्मज्जति तत्कुलोद्भवः ॥ ११॥
इदमद्भुतमग्रतोऽपि यो
भवसिन्धौ किल यत्र मज्जति ।
तमवेक्ष्य बुधा वदन्त्ययं
भवसिन्धौ न निमज्जतीति यत् ॥ १२॥
सकृदप्यवगाहनान्नृणां
सहसा पङ्कहरे यदम्भसि ।
अवमज्ज्य जनोऽस्तु निर्मलः
कथमास्ते धृतकालिमा गले ॥ १३॥
शिवशब्दमुदीरितं नृभिः
स्वयमभ्यस्य यदम्बुगाहिभिः ।
दिशि दिश्यनुवादिनः शुका
दलयन्त्यर्कजकिङ्करोद्धतिम् ॥ १४॥
परिमज्ज्य यदम्बुनि प्रगे
परितः पद्मपरागपिञ्जरम् ।
पतिमागतमीक्ष्य भामिनी
परनारीपरिरब्धमूहते ॥ १५॥
परमेश्वरभावनोन्मुखै-
र्भसितालङ्कृतभालसीमभिः ।
यदुपान्तिकमण्डपालयै-
र्यतिभिर्ब्रह्मपुरं न गण्यते ॥ १६॥
दलिते सति यत्तटीजुषां
दहरोपासनया हृदम्बुजे ।
अवतीर्ण इवालिमण्डलो
हृदि रुद्राक्षसरो विराजते ॥ १७॥
धृतगोपुरदीपसञ्चय-
प्रतिबिम्बं निशि वीक्ष्य यत्पयः ।
तटसुप्तसमुत्थितो नभः
स्फुटतारं मनुतेऽपि दुर्दिने ॥ १८॥
रविगोपुररत्नकुम्भयो-
रनुबिम्बावले यदम्बुनि ।
अवलोक्य मुहूर्तमन्यत-
श्चलनादेव जनोऽध्यवस्यति ॥ १९॥
क्वचनालिकुलान्धकारिते
बत देशेऽतिबिभेति कुत्रचित् ।
नवकोकनदारुणीकृते
रमते यत्र रथाङ्गयोर्युगम् ॥ २०॥
अघमर्षणसूक्तशंसिना-
मनिशं यत्सलिलावगाहिनाम् ।
मणिमण्डपभित्तिमानव-
प्रतिमाश्छात्रयति प्रतिध्वनिः ॥ २१॥
कलहंसकुलाकुलीकृतैः
कमलैः कीर्णपरागकेसरैः ।
कृतकामुककौतुकाः प्रगे
कमलिन्यो विलसन्ति यद्गताः ॥ २२॥
कमले कमले कृताटनो
मधु विन्दन्मधुपः स्वनच्छलात् ।
फलमस्त्यटतामसंशयं
पुरुषाणामिति यत्र शंसति ॥ २३॥
नटराजरथोत्सवे तदा
ननु तस्या नवपाथसस्तटे ।
मणिमण्डितमण्डपेऽभव-
न्महति ब्राह्मणभोजनक्रमः ॥ २४॥
पुरुषोऽधिकृतः पुरोधसा
प्रवणेनाक्षतपात्रपाणिना ।
अनुगेहमन्महीसुरा-
न्निभृतात्मा न्यममन्त्रताशितुम् ॥ २५॥
शुचयोऽथ जनाः शुभौदनं
विविधव्यञ्जनसूपपूपकम् ।
अपचन्नतिमात्रसौरभ-
प्रसभामन्त्रितभूसुरव्रजम् ॥ २६॥
पुरुषः स तदा पदे पदे
कुसुमाकल्पनकोमलेऽमले ।
सलिलोक्षणशीतले तले
हसतोऽवेशयदुद्विजाद्विजान् ॥ २७॥
विबुधान्विहिताङ्घ्रिशोधना-
न्मणिपीठेषु निवेश्य मञ्जुषु ।
कुशलान्परिवेषणक्रमे
स्वजनानादिशदेष सत्वरम् ॥ २८॥
दृढवेष्टितदिव्यवासस-
श्चलचामीकरचारुकुण्डलाः ।
परितस्तरिरे प्रियं नृणां
कलयन्तः कदलीदलानि ते ॥ २९॥
अभिघार्य सलीलमादितो
नवमुक्तामणिजालनिर्मलम् ।
अदिशन्नधिपात्रमोदनं
मृदुमन्योन्यमसक्तमूष्मलम् ॥ ३०॥
अपि सूपमपारसौरभं
कनकप्रार्थितकामनीयकम् ।
शशिबिम्बसमीपवर्तिभू-
सुतसच्छायमदुस्तदन्तिके ॥ ३१॥
कुचहेमघटद्वयद्रव-
द्धनकस्तूरिकया कयाचन ।
लवणं प्रददानया नृणां
ललितं तत्क्षणमाददे मनः ॥ ३२॥
कुचकुट्मलकान्तिचौर्यतो
दलितं पश्यत दिव्यजम्भलम् ।
इति तद्ब्रुवतीव हेलया
निदधे काचन नीलकुन्तला ॥ ३३॥
गलितं सुदतीकराञ्चला-
त्किमु गारुत्मतमङ्गुलीयकम् ।
इति खण्डितकारवल्लिका-
दलमुत्प्रैक्ष्यत भर्जितं जनैः ॥ ३४॥
परिकर्मविशेषयोगतः
स्पृहणीयामतिकोमलाकृतिम् ।
बृहतीं स्वतनूमिवावरा
प्रथयन्त्यैक्ष्यत भोक्तुमुत्सुकैः ॥ ३५॥
स्ववशं विदधे न केवलं
स्वदनीयैः कदलीशलाटुभिः ।
अपि चाटुभिरुल्लसद्रसै-
र्मनुजानां हृदयं मृगेक्षणा ॥ ३६॥
हितमारिचहिङ्गुजीरकं
सह सामुद्रनिशाम्यसर्षपम् ।
अहरद्द्रुतमाज्यसम्प्लुतं
जनचित्तानि पदार्थजालकम् ॥ ३७॥
स्तनसीम्नि च दत्तदृष्टिभि
र्युवभिः काचन हेमविग्रहा ।
बहुलं परिवेषयन्त्यपि
प्रतिषिद्धा न भृशं बुभुक्षुभिः ॥ ३८॥
पनसाम्रकपित्थगोस्तनी-
कदलीजाम्बवनालिकेरदाः ।
अपि तेऽधरबिम्बवञ्चना-
त्तरुणीर्वीक्ष्य तदा निशश्वसुः ॥ ३९॥
मणिपत्रपुटे मनोहरे
घृतधारा कनकालुकामुखात् ।
तपनादिव कान्तिधोरणी
पतिता बालरसालपल्लवे ॥ ४०॥
चषकेऽधिकचारुणि व्यभा-
न्मधुराक्ष्या मधु दत्तमुत्तमम् ।
अरविन्द इवातिसुन्दरे
महनीयं मकरन्दजालकम् ॥ ४१॥
अकरोदधिपात्रमोदनो
विविधव्यञ्जनजालसेवितः ।
बहुकोशपरीतपङ्कज-
च्छदनिद्राणसितच्छदभ्रमम् ॥ ४२॥
अथ पात्रमपूरि पर्पटै-
र्वटकैर्लड्डुकमोदकोत्तरैः ।
अतिमात्ररसैरपूपकै-
र्मृदुगोधूममयैश्च मण्डकैः ॥ ४३॥
परितः परिषिच्य भाजनं
मृदुहस्ताब्जमरन्दितोदकान् ।
अवलोक्य जनान्स हर्षतो
हृदि दध्यावधिकार्युमापतिम् ॥ ४४॥
अधिकारिगिराद्भुतं मना-
गथ सर्वत्र सुभोज्यमस्त्विति ।
उपरि स्फुरदुत्तरोत्तरं
व्यरमच्छास्त्रविदां मिथो वचः ॥ ४५॥
न बहिर्निजपात्रतो रसाः
षडिति प्रत्ययसाधका इव ।
मणिपात्रगतं महाजना
घृतमग्रे स्वकरेण पस्पृशुः ॥ ४६॥
प्रचलत्तरुणीपदद्वयी-
चलमञ्जीरघणात्कृतिर्जनान् ।
प्रतिपङ्क्ति पदे पदेऽधिका-
र्युपचारोक्तिवदुत्सुकान्व्यधात् ॥ ४७॥
अमृतं धुरि हेमभाजने
कलयन्ती विदधे करे नरान् ।
कनदिन्दुकलेव कामिनी
निजसन्दर्शनमात्रनिस्तृषान् ॥ ४८॥
तरलीकृततालवृन्तया
गुरुलक्ष्यस्तनदर्शनीयया ।
बहिरेव कयापि कामिनां
नुनुदेऽन्तस्तु न हन्त सञ्ज्वरः ॥ ४९॥
रसलेह्यपयोरसायनैः
परमान्नैरपि भूरिशर्करैः ।
परिपूरितभाजना जनै-
रबला कल्पलतामसस्मरत् ॥ ५०॥
परिवेषयती पयः स्वयं
नवपीयूषनिबद्धसौहृदम् ।
नितरां निजरूपसम्पदा
विबुधान्कापि वधूरमोहयत् ॥ ५१॥
मसृणं शरदिन्दुमण्डल-
प्रतिमल्लं वरवर्णिनी परा ।
धुरि मूर्तमिवात्मनः स्मितं
दधिखण्डं दिशति स्म माहिषम् ॥ ५२॥
परिपक्वकपित्थसौरभं
पटुजम्बीररसार्द्रकाञ्चितम् ।
परिपीय च तक्रमन्ततः
प्रशशंसुः सुहिताः प्रभुं जनाः ॥ ५३॥
अधिविप्रमुखं यथार्पितै-
र्गिरिशोऽभ्येति मुदं घृतौदनैः ।
न तथाग्निमुखे निपातितैः
पशुसोमाज्यपयश्चरुव्रजैः ॥ ५४॥
परिशोधितपाणिपल्लवा
वरचित्रासनवेदिकास्थिताः ।
प्रणमन्तमधिक्षिति प्रभुं
परमाशीर्भिरवर्धयन्बुधाः ॥ ५५॥
क्रमुकैरथ खण्डितैर्नवैः
सितताम्बूलदलैः सुगन्धिभिः ।
कुसुमैर्घनसारचन्दनै-
रपि विप्रानधिकार्यपूजयत् ॥ ५६॥
विबुधास्तु विशेषतोऽचिता
मणिहेमाम्बरमञ्जुभूषणैः ।
भुवनेऽखिलभुक्तिमुक्तिदं
प्रशशंसुः परमेश्वरोत्सवम् ॥ ५७॥
इत्थं महोत्सवपरम्परयैधमाने
रम्ये चिदम्बरपुरे रचिताग्निहोत्राः ।
सन्तः सभाधिपतिदर्शनशान्ततापाः
साम्राज्यशर्म दधति श्रुतिशास्त्रपाठैः ॥ ५८॥
द्वैतप्रन्थग्रहिलदुरहङ्कारधिक्कारदक्षै-
र्वाचां गुम्भैर्वलदुपनिषत्सौरभैर्व्याघ्रपुर्याम् ।
पाराशर्यग्रथितमनघं ब्रह्मसूत्रं यतीन्द्रा
व्याकुर्वन्ति त्रिमुनिकणभुग्भट्टविद्यानिषद्याः ॥ ५९॥
अहमिदमवलोक्यात्यद्भुतं तिल्वदेशे
शिवचरितमुपागां शीघ्रमाख्यातुकामः ।
त्रिदिवमिति वदन्तं तुम्बुरं हृष्टचेता
गुरुरथ बहुमेने गीर्भिराशीर्मयीभिः ॥ ६०॥
त्रिदशालय एव देवलोक-
स्त्रिसहस्रालय एष तिल्वदेशः ।
अनयोः क्व तुलाप्सरःसु रम्भा
दिवि सैकात्र तु ताः परःसहस्रम् ॥ ६१॥
मरणाज्जननाच्च मुक्तिरुक्ता
स्मरणादप्यपरत्र सा हि गौणी ।
इह दर्शनतः किलेरिता सा
सकलश्रुत्यविरोधिनीति मुख्या ॥ ६२॥
दृष्ट्वा रथोत्सवदिनेषु दिशामधीशा-
नष्टौ समागतवतो ध्रुवमानुपूर्व्यात् ।
प्रापुः पुरीं स्वयमपि प्रमदाय शम्भोः
स्वस्वोचितां षडृतवो दधतः समृद्धिम् ॥ ६३॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्क्रमशो नटेशविजये सर्गं चकाराष्टमम् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये अष्टमः सर्गः सम्पूर्णः ।
९. नवमः सर्गः
चन्दनाचलपटीरकुटीर-
स्पन्दमानपवमानगभीरैः ।
अध्वनीनजनमानधनैका-
गारिकैरजनि कैश्चिदहोभिः ॥ १॥
पञ्चमेन निनदेन दिशन्ती
पञ्चतां पथिकलोकवधूनाम् ।
पञ्चसायकयशांसि पठन्ती
सञ्चचार पिकसन्ततिरुच्चैः ॥ २॥
मन्मथोपनिषदां महनीयं
कोकिलेषु कथयत्सु रहस्यम् ।
स्थाण्डिलैरपि जनैस्तरुणीनां
केवलं विलुलुठे कुचसीम्नि ॥ ३॥
पल्लवानि परिदश्य लतानां
कोमलं नदति कोकिलयूनि ।
भावविद्युवजनः प्रमदानां
पर्यकूजदधरान्परिचुम्ब्य ॥ ४॥
पुष्पमास इति भूरुहवाटी-
त्यङ्गजोत्सव इति ह्रदिनीति ।
कुञ्जगेह इति कोकिलवाणी-
त्युत्तरोत्तरमभूद्युवभाग्यम् ॥ ५॥
मारवीरसमधिष्ठितमाद्य-
द्गन्धवाहगजराट्पदलग्ना ।
शृङ्खलेव दिवि षट्पदमाला
चञ्चलान्वगतिचारु शिशिञ्जे ॥ ६॥
षट्पदाक्षवलयं सविरावं
पल्लवाङ्गुलितलैः परिचिन्वन् ।
मोहनाय जगतां मधुयोगी
पुष्परेणुभरभस्म चकार ॥ ७॥
चञ्चरीककुलझङ्कृतिमन्त्रै-
र्मोचयन् झडिति मानपिशाचम् ।
कालमान्त्रिकवरः खलु कान्तै-
र्यौवतानि सह योजयति स्म ॥ ८॥
मारुतो भुवनमारणविद्यां
प्रेतनायकपुरे समधीत्य ।
आगतः प्रयुयुजेऽध्वगवृन्दे
प्रागहो बत परीक्षितुमेनाम् ॥ ९॥
पाण्ड्ययौवतपयोधरभार-
स्फारहारपटलीषु विलुठ्य ।
मारुतोऽजनि हिमो मलयाद्रौ
लेलिहानरसनेन कदुष्णः ॥ १०॥
फुल्लहल्लकपरागसरागे
वाति शीतलतरे वनवाते ।
पादपाः सपदि पर्यचकम्प-
न्साधु साध्विति किल स्वशिरांसि ॥ ११॥
वन्यवातशिशुना व्रततीनां
गृह्णता किसलयाङ्गुलिजालम् ।
चक्रमे मुखरषट्पदमाला-
किङ्किणीतिभृता गहनान्ते ॥ १२॥
स्नानमब्जमधुवारिषु वल्ली-
मण्डपेषु जपकर्म वनेषु ।
पत्रपुष्पहरणं पथिकाङ्गे-
ध्वनिकार्यमनिलेन वितेने ॥ १३॥
अम्बरोत्थितपरागमनङ्ग-
स्यन्दने चलति चन्दनशैलात् ।
पाटलध्वजपटाञ्चललक्ष्मीः
प्रत्यपादि नवपल्लवजालैः ॥ १४॥
सौधजालकमुखे सुरतार्तं
दर्शनीयविवृतस्तनभारम् ।
गन्धसारगिरिगन्धवहोऽहो
सस्वजे युवतिवृन्दममन्दम् ॥ १५॥
चारुपल्लवचयैः शयनीयं
पुष्परेणुपटलैः पटवासम् ।
कुर्वती रहसि कुञ्जलताभू-
त्केलिषु प्रियसखी कुलटानाम् ॥ १६॥
बालचूततरुमूलतलेषु
स्यन्दमानमकरन्दहिमेषु ।
कामकेलिरभसोदितखेदाः
शेरते स्म हरिणा हरिणीभिः ॥ १७॥
कम्पितानि सहकारतरूणां
दाक्षिणात्यपवनेन दलानि ।
कृत्तपान्थगलशोणितदिग्धा-
न्याङ्गजान्यसिदलान्यनुचक्रुः ॥ १८॥
मञ्जरीषु कृतमालतरूणां
पुञ्जरीतिमधिगम्य परागैः ।
पिञ्जरीकृततनुभ्रमरालिः
कुञ्जरीरमणगण्डमदेऽस्नात् ॥ १९॥
वन्यसीमनि वसन्ततरक्षो-
रध्वनीनदलनादसृगार्द्राः ।
विस्तृता इव नखा विरराजुः
किंशुकस्य मुकुलाः कुटिलाग्राः ॥ २०॥
मान्मथी मरतकोपलकोशा-
म्लानमुष्टिरुचिरा च्छुरिकेति ।
कापि चञ्चुगतकिंशुकपुष्पा
भीतमैक्ष्यत शुकी पथिकेन ॥ २१॥
मानिनीदुरभिमानशिलानां
भेदनाय किमयं प्रसवेषोः ।
स्वर्णटङ्क इति संशयदात्रं
चम्पकस्य मुकुलेन चकाशे ॥ २२॥
प्राप्तया वनभुवि प्रथमर्तुं
सङ्गमं झटिति चम्पकवल्ल्या ।
प्राप्तवान्बत कथं पवमानो
मुक्तवानथ कथं मधुपो वा ॥ २३॥
माधवीमुकुलवान्तमधूली-
सेकयोगसुलभाङ्कुरजालम् ।
व्यत्यषिक्त मधुभिर्वकुलस्तां
युज्यते ह्युपकृतावुपकारः ॥ २४॥
अङ्गनाचरणताडनलीला-
माप्नुवन्सबहुमानमशोकः ।
प्रेक्षितुं तदिव भागमुपेतैः
पल्लवैरभिनवैः परिवव्रे ॥ २५॥
मङ्क्ष्वकल्प्यत मधूकतरूणां
मण्डलेषु मधुदुर्दिनितेषु ।
कोरकौघकरकोत्करवर्षि-
ष्वध्वगैः पिकरुतेऽशनिबुद्धिः ॥ २६॥
कर्णिकारकुसुमं मरुताभ्रे
कृष्यमाणमलिकीर्णमलासीत् ।
ग्रस्तमध्वगकुलक्षयहेतो
राहुणेव रविबिम्बमकाले ॥ २७॥
दर्शनीयतिलकोऽपि विपुण्ड्रः
श्राव्यनव्यकलकण्ठरवोऽपि ।
अङ्कुरत्कुरवकोऽयमनेहा
मद्यपोऽप्यजनि मध्वनुकूलः ॥ २८॥
पक्कदाडिमफलं परिदीर्णं
पाटलत्वगनुबन्धि बबन्ध ।
पट्टकञ्चुकितमारपुरन्ध्री-
पद्मरागमणिकञ्चुकबुद्धिम् ॥ २९॥
नालिकेरकुलीनवधूली ।
धोरणी भ्रमरधूमलिताग्रे ।
उद्यदम्बुदधियोद्गतकण्ठं
नीलकण्ठनिवहेन निरौक्षि ॥ ३०॥
घातुके रति कोकिलयूनि
द्रोहिणि ध्वनति दुर्मदभृङ्गे ।
वाति पातकिनि वात किशोरे
जातु पान्थजगदाश्वसितु क्व ॥ ३१॥
भृङ्गकीरपिकसारसऋत्वि-
ग्भूषितेऽधिमधु भूरुहषण्डे ।
पान्थलोकपशुसंज्ञपनार्थं
धीमता मनसिजेन दिदीक्षे ॥ ३२॥
सत्यमेव परपुष्टसमूहः
कालकूटविषकल्पितदेहः ।
अन्यथा कथमदःकृतमोहः
पान्थको भुवि पतेद्विगतेहः ॥ ३३॥
उन्मिषत्कुचयुगां कुसुमार्थं
निष्कुटेषु नितरां वलमानाम् ।
कुञ्जगेहमनु कोरकिताशो
नायको नववधूं विचकर्ष ॥ ३४॥
पाटलैः किसलयैः पवमानैः
शीतलैः सुरभिभिः सुमनोभिः ।
कोकिलैः कलरवैर्मधुभिश्च
स्वादुभिः सुहितमिन्द्रियजालम् ॥ ३५॥
मन्मथोत्सवविधौ मणिडोला-
रोहणे सुमनसां लवने च ।
उत्सुको युवतिभिर्युवलोको
व्यत्यलङ्घत सुखेन वसन्तम् ॥ ३६॥
वासराधिपशताङ्गपराञ्च-
त्कासरारिकुलगात्ररुहाभाः ।
धूसराः स्वरजसाथ सुमानां
केसरा ददृशिरेऽधिशिरीषम् ॥ ३७॥
कोकिलं क्वचन सम्भृतमौनं
वीक्ष्य हन्त मुकुलैर्विकसद्भिः ।
मल्लिका परिजहास महान-
प्याद्रियेत किमनेहसि याते ॥ ३८॥
फेनखण्डपतितोऽधिपयोधि
क्ष्वेलबिन्दुरिव षट्पदडिम्भः ।
मल्लिकामुकुलभाग्वनमध्ये
मोहकृद्विरहिभिर्मुहुरैक्षि ॥ ३९॥
मारयुद्धगलितं निशि कैश्या-
न्मल्लिकाकुसुमदाम विभाते ।
कुञ्जधाम्नि कुलटा किमुदीक्ष्य
व्यालकञ्चुकभिया व्यगलद्दाक् ॥ ४०॥
मारमत्तगजमस्तकभाग-
स्यन्दमानमदशीकरशङ्काम् ।
कुर्वतीभिरबलाकुचकुम्भे
घर्मवारिकणिकाभिरजृम्भि ॥ ४१॥
काञ्चनाद्रिमपि धर्ममहिम्ना
सम्भृतद्रवमवेत्य समन्तात् ।
युक्तमेव कुचसीम्नि युवत्या
स्वेदजन्म बुबुधे बुधसङ्घः ॥ ४२॥
सुभ्रुवामतनुत श्रमतोयै-
र्दूषितस्तिलकितो मृगनाभिः ।
नासिकाग्रनवमौक्तिकलग्न-
श्चम्पकभ्रमरसङ्गतिशङ्काम् ॥ ४३॥
उन्नमय्य वदनं युवतीना-
मुत्सुकास्तिलकनेन युवानः ।
घर्मशीकरकदकर्थितयत्नाः
प्रावृतन्नधरपानकपाने ॥ ४४॥
मल्लिकामुकुलजालविमोक-
प्रेमशालिनि पृथग्युवयुग्मे ।
मध्यभाजि मदनोत्सव आसी-
त्प्रौढगाढपरिरम्भणशेषः ॥ ४५॥
भूरितापभरितं मणिमञ्चे
पर्यशेत मिथुनं पृथगेव ।
हारयष्टिभिरवेष्टि यथेष्टं
कूलमुद्रुजकुचद्वयसीम्नि ॥ ४६॥
तालवृन्तशतदुर्विनिवारं
तापमाशु तरुणस्य तरुण्याः ।
आचचाम हरिचन्दनधूली-
धूसरः कुचदुकूलसमीरः ॥ ४७॥
हस्तवर्ति हरिचन्दनसिक्तं
तालवृन्तमलसत्तरुणीनाम् ।
भिक्षितुं वदनबिम्बविलासं
चन्द्रमण्डलमिव स्वयमेतम् ॥ ४८॥
स्वर्णवर्णसुभगं सुदृगङ्गं
स्विन्नमुन्नतकुचं कृतिना द्राक् ।
हन्त चेट्युपहृतेन जलार्दा
वायुनोपजुगुहे धुरि भर्तुः ॥ ४९॥
स्नानतो मृगदृशः स्तनकुम्भ-
स्तत्क्षणं विरलतोयकणाङ्कः ।
कामुकेन कचधूननकाले
प्रेमगाढमुरसा परिरेभे ॥ ५०॥
शीतमंशुकशिखाञ्चितमग्रे
बिभ्रती नवपयोधरकुम्भम् ।
शालिका न तु परं सलिलानां
पालिकाप्यहृत पान्थमनांसि ॥ ५१॥
तृष्णयाधरधृताञ्जलिरूर्ध्वं
दत्तदृक्कुचतटे धुतमौलिः ।
पानतः प्रथममेव युतत्या
पर्यहासि पथिकोऽम्बु ददत्या ॥ ५२॥
चण्डभानुकरचण्डिमभ्रूम्ना
दीपितेऽध्वगजनो दिनमध्ये ।
वृक्षमूलकृतवेदिषु वृन्दं
वृन्दमास्त परिपीय पयांसि ॥ ५३॥
पक्षिणो गिरिनदीषु पयांसि
ग्रीष्मभानुकिरणक्वथितानि ।
पातुमक्षमतया प्रतिवृक्षं
दीनदीनमकुवन्त तृषार्ताः ॥ ५४॥
नानटन्नवकृशानुशिखानि
स्वैरमर्यमशिलाफलकानि ।
आवहन्पुरहरालिकपट्ट-
प्रक्रियां प्रतिदिनं विपिनेषु ॥ ५५॥
प्रौढदावदलनस्फुटिताद्रि-
ग्रावखण्डहतिविह्वलगात्राः ।
मन्दमन्दमचलन्मिहिराश्वा
दिव्यतः किल दिनेऽजनि दैर्घ्यम् ॥ ५६॥
पद्मबान्धवकरैः परिभूतो
लोहितेक्षणपुटोऽद्रिलुलायः ।
तूर्णमाविलयति स्म तदीयैः
सेवितं समवगाह्यं तटाकम् ॥ ५७॥
वारि भूरि परिपीय वसूनां
नायको निजकरैरतिमात्रम् ।
तद्वमन्निव तदा मृगतृष्णा-
व्याजतः प्रतिदिशं विलुलोके ॥ ५८॥
सर्वथैव पवनाशनसङ्घ-
क्षामयोगसमये समुदीते ।
पिप्पलेषु विबुधा भुवि रूढ्या
जज्ञिरे चलदलव्यवहारम् ॥ ५९॥
क्वापि वारणगणस्तरुमूले
हस्तशीकरकिरोऽधिकपोलम् ।
शङ्क्यते स्म दवथुं लघु हन्तुं
मेघसङ्घ इव मन्त्रयमाणः ॥ ६०॥
शुद्धया च सुमनोगणमध्ये
श्लाघ्यया च सुरभिः शुभजात्या ।
आपगासु शुचिराचमनेऽपां
व्यापृतो यदि किमत्र विचित्रम् ॥ ६१॥
अम्बु शीतमजनिष्ट तदानीं
काञ्चनादपि कथञ्चन मृग्यम् ।
नीरदानमत एव निदाघे
स्वर्णदानशतसम्मितमाहुः ॥ ६२॥
उष्णभास्युदयगे सति याभिः
पर्यदीप्यत पतङ्गशिलाभिः ।
अस्तगे पुनरभूयत ताभि-
र्धूमनिःश्वसितधूसरिताभिः ॥ ६३॥
चत्वरे न न चतुष्पथदेशे
वेदिकासु न न वा विशिखासु ।
सङ्घशस्तु समदृश्यत धारा
यत्र गेहसविधे युवलोकः ॥ ६४॥
भाललोचनसुदर्शनपाण्यो-
र्नैव चेच्छ्वशुरगेहनिवासः ।
गाढतापबहुलः कथमेष
ग्रीष्मवासरगणः क्रमणीयः ॥ ६५॥
वासराणि कदलीवनवीथ्या-
मत्यगाद्युवजनोऽम्बुविहारैः ।
चन्द्रकान्तभुवि चन्द्रमयूखैः
शर्वरीश्च समुदञ्चति तापे ॥ ६६॥
प्रमदवनसमीरः पाटलीगन्धलिप्सा-
परिमिलदलिवृन्दामन्दझङ्कारभेदैः ।
कनकसदसि नृत्यं कुर्वतश्चन्द्रमौले-
रनुगुणमपराह्णे स्वैरमारब्धं गीतम् ॥ ६७॥
आषाढे किल मासि तत्र नगरे हृष्टाः पुनर्मल्लिका-
गन्धान्धभ्रमरावलीकृतहरिद्ग्रावस्फुरत्तोरणे ।
सिञ्चन्तो नटनायकस्य पुरतः श्रीगन्धसारोदकं
सोत्साहं त्रिसहस्रदीक्षितवराश्चक्रुः शताङ्गोत्सवम् ॥ ६८॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्नवमं नटेशविजये सर्गं चकाराद्भुतम् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये नवमः सर्गः सम्पूर्णः ।
१०. दशमः सर्गः
ग्रीष्मकाननकृशानुशिखोत्थैः
कज्जलैर्मलिनितं खमभूत्किम् ।
संशयं विदधतीति समेषां
प्रावृडाविरभवद्भ्रमदभ्रा ॥ १॥
प्राक्कदम्बसुरभिः पवमानः
पाकशासनधनुर्ननु पश्चात् ।
दक्षिणाभिनवतोयधरश्री-
रुत्तरा च तटिदुन्मिषति स्म ॥ २॥
मारदिग्विजयमङ्गलयात्रा-
कालिकैः किल गभीरगभीरम् ।
शैलवारणशिरोभिरुदूढै-
र्दध्वने जलददुन्दुभिवृन्दैः ॥ ३॥
वारिदस्मरभटा वलमाना
दिक्षु धूनिततटिद्गुणवेत्राः ।
प्रोषितान्निजगृहं प्रति यूनो
द्रावयन्त इव धीरमगर्जन् ॥ ४॥
नीलसौधशिखराण्यनु पश्य-
न्त्यात्मनः सरणिमध्वगयूना ।
कौतुकादुपवने कनकाङ्गी
केकिनेव ददृशे घनविद्युत् ॥ ५॥
वीचिभिर्जलनिधौ विपुलाभि-
र्दूरदर्शिततिरोहितरूपा ।
चारुविद्रुमलतेव चकाशे
चञ्चला जलदसङ्कुलितेऽभ्रे ॥ ६॥
कालिकामभि कृतारभटीका-
मन्तरेऽभ्रसदसोऽधिकहर्षात् ।
नीलकण्ठमवलोक्य नटन्तं
प्रह्वभावमभजत्फणिराजः ॥ ७॥
कालमेघनिनदैः सनिनादं
वारिबन्धमधिगम्य वलद्भिः ।
मेदुरा मदकणा इव मुक्ताः
प्राप्नुवन्प्रथमबिन्दव ऊर्वीम् ॥ ८॥
सम्पतत्तृषितचातकपोत-
त्रोटिकोटिदलचूषितशेषाः ।
शीकराः प्रथमतः किल चेल-
क्नापमापुरवनीं घनमुक्ताः ॥ ९॥
वारिवाहनिवहे वलहन्तु-
श्चापयष्टिरचिरेण चकाशे ।
इन्द्रनीलशिखरीन्द्रनितम्बे
गैरिकद्रवझरीव गलन्ती ॥ १०॥
अस्फुटद्बहिरजाण्डकटाहो-
द्धट्टने मणिमयं कटकार्धम् ।
विक्रमेषु किमु विष्णुपदे य-
द्दृष्टमिन्द्रधनुरित्यवशिष्टम् ॥ ११॥
ग्रीष्मसोष्मघनगोमयपङ्कैः
प्रावृषा पदमलिप्यत विष्णोः ।
रङ्गवल्लिरपि रत्नरजोभि-
स्तन्यते स्म धनुराकृतिरत्र ॥ १२॥
मेघमण्डलमहोदधिमध्ये
तन्वता मणिधनुर्मयसेतुम् ।
कालदाशरथिनावधि काण्डै-
रुष्णपङ्किवदनो हतशीतः ॥ १३॥
कर्षणस्यदघनक्षुभितासृ-
क्पाटलाहिपतिभोगपरीतम् ।
आशु मन्दरमसस्मरदब्धौ
खे धनुर्वलयितो घनसङ्घः ॥ १४॥
धार्तराष्ट्रभयदायिनि कृष्णे
सिंहनादिनि घने सति सद्यः ।
अर्जुने गृहशिखण्डिनि चारा-
द्भीष्म उष्ण उदभिद्यत काण्डैः ॥ १५॥
मर्दनं बत शुचेर्मलिनात्मा
काल एष कृतवानिति मत्वा ।
मानसं प्रति नु मङ्क्षु पलायां-
चक्रिरेऽतिशुचयः कलहंसाः ॥ १६॥
आहतासु पयसाम्बुजवाटी-
ष्वाततासु सरणिष्वतिपङ्कैः ।
आवृतासु च हरित्सु घनौघै
राजहंसगतयो न रराजुः ॥ १७॥
हंससन्ततिरलक्षि वलर्क्षी
क्रौञ्चशैलकुहरं प्रविशन्ती ।
निर्गलद्विमलनिर्झरिणीभि-
र्निर्विशेषमटवीषु निषादैः ॥ १८॥
दीनचातकशिशौ दयनीये
क्रन्दति स्नुतपयःकणजालः ।
प्रावृषो धृतपयोधरनामा
तावदभ्रनिवहस्तनति स्म ॥ १९॥
प्रावृषि प्रथममेव हि वर्षा-
द्विष्टपे विरहिणीबहुलेऽस्मिन् ।
अञ्जनद्रवमयी सरिदग्रे
पान्थलोकमरुधत्प्रवहन्ती ॥ २०॥
सुभ्रुवां प्रियसमागमवार्ता-
न्वेषणव्यसनिना हृदयेन ।
साकमुन्नततटं सरिदोघः
पातयन्बत पथः प्ररुरोध ॥ २१॥
मारदिग्जयमहोत्सवहेतो-
र्नीरवाहकुलनीलविताने ।
विस्तृते वियति तत्र विरेजुः
स्थूलमौक्तिकसरा इव धाराः ॥ २२॥
कालमेघकुलकज्जलिताभ्रे
भेकभाङ्कृतिभयङ्करदिक्के ।
अर्धरात्रिसमयेऽभिसरन्त्याः
साहसं हि भुवि षड्गुणमाहुः ॥ २३॥
वातविस्तृतघनाघनवर्षा-
कामिनीकचभरे परिफुल्ला ।
मल्लिकास्रगिव मञ्जुबलाका-
मालिकातिमहती विलुलोके ॥ २४॥
जृम्भिते सति जलोदयकाले
यत्र पूर्वमुदलासि मरालैः ।
तारकाभिरपि तत्र बकौघै-
र्ज्योतिरिङ्गणगणैश्च चकाशे ॥ २५॥
अम्बरे सति पयोधरभारे-
णावृते तव पयोधरभारः ।
अम्बरेण कथमावृत इत्या-
कर्षिं यौवतकुचांशुकमिष्टैः ॥ २६॥
चातकेषु भुवनं स्वनिषेवि-
ष्वर्पयन्वितरणित्वमगाद्यः ।
केतकीद्रुभिरसेवि घनोऽसौ
कुट्मलच्छलकृताञ्जलिबन्धैः ॥ २७॥
अभ्रनिर्गलदनारतधारा-
वर्तनावनितलाम्बुविहारी ।
उत्पतन्नुरुतपा इव मत्स्यः
स्वर्गसिन्धुसलिलं विजगाहे ॥ २८॥
वानरेषु घनवर्षहतेषु
व्याप्नुवत्सु विटपाद्विटपाग्रम् ।
प्रत्यबोधि पतनोत्पतनाभ्यां
पक्वजम्ब्वलिपरस्परभेदः ॥ २९॥
काकघूककलविङ्ककुलाय-
प्रायचैत्यतरुषु प्रतिपत्य ।
आशुनाशिभिरहो करकौघैः
पातकं भुवि परं समचायि ॥ ३०॥
गन्धवाहयुवघट्टनदीर्य-
च्छक्रचापशुभकञ्चुलिखण्डाः ।
प्रावृषः किल पयोधरभारा-
दिन्द्रगोपनिकरा इति पेतुः ॥ ३१॥
उद्यते जगदुपेन्द्रकुमारे
जेतुमस्य जयसाधनमिन्द्रः ।
वाहनं वरधनुश्च ददत्स्वं
हन्त कोपमपि मूर्तममुञ्चत् ॥ ३२॥
चञ्चलायतकशे जलवाहा-
ध्यापके नदति धीरमुदारम् ।
शैलसीम्नि शिखिमाणवकानां
शुश्रुवे कलकलः श्रवणीयः ॥ ३३॥
नीलमेघनिवहेन दशाना-
मावृतेऽपि हरितामवकाशे ।
उल्ललास तरणेरुडुपस्या-
प्यप्सु मण्डलमहो तटिनीनाम् ॥ ३४॥
अस्तमेति सवितास्य तटाकाः
कुर्वतेऽस्य कमलाञ्जलिबन्धम् ।
श्रोत्रियैरिति घनस्थगितेऽभ्रे
सायकर्मसमयो निरणायि ॥ ३५॥
कामिनीकलितनिर्दयकण्ठा-
श्लेषसञ्जनितशर्मविशेषैः ।
रारटज्जलधरो लघुवर्षा-
वासरः सुकृतिभिर्विललङ्घे ॥ ३६॥
अम्बरं परिदधत्यवदातं
हंसपङ्क्तिभिरलङ्कृतपार्श्वम ।
आययौ शरददभ्रसिताभ्रा
लालिताभ्युदितराजकरेण ॥ ३७॥
विष्टपं शरदृतोर्वशयन्द्रा-
गङ्गजप्रभुरदत्त किमस्मै ।
लक्ष्मकैतवलसन्निजमुद्रं
चन्द्रबिम्बमिषशासनपत्रम् ॥ ३८॥
चारुभिर्विरहिताश्चपलाभिः
पाण्डुतामिव घनाः प्रतिपद्य ।
दिक्षु तूललघवो वलमाना-
श्चिक्षियुर्बत चिरं विधुरत्वात् ॥ ३९॥
शम्पया कनकशृङ्खलदाम-
च्छद्मया परिवृतो जलदः खे ।
निःस्पृहः शरदि नीलमहोक्ष-
व्याजतोऽधिगु वलन्नदति स्म ॥ ४०॥
सप्तपर्णकुसुमेषु समीरः
सन्निपत्य मधुगन्धिषु सद्यः ।
निष्पतन्गिरिगुहासु निषण्णै-
रभ्यधाव्यत रुषा हरिडिम्भैः ॥ ४१॥
गन्धसिन्धुरकपोलतलस्पृ-
क्पुण्डरीकमुखपर्यटनोत्कः ।
बाणकोटिषु पतन्नपि नालि-
र्विव्यथे विरहिदुर्विधिपाकात् ॥ ४२॥
षट्पदालिररुणाम्बुजषण्डे
मेदुरा युवमनोमृगहत्यै ।
दारुणस्मरकिरातततायो-
वागुरेव दवसीम्नि विरेजे ॥ ४३॥
सिन्धवः स्वपतिचूषणशीले
स्फीततेजसि मुनौ सति भीताः ।
अम्बुजाञ्जलिमकुर्वत कार्श्या-
द्राजसप्रकृतितां रहयन्तः ॥ ४४॥
प्राग्रजस्वलतया बहुरात्रं
प्राप या न तटिनी प्रतिकर्म ।
निर्मला शरदि सा निजकेशा-
ञ्छैवलान्पयसि शोधयति स्म ॥ ४५॥
पुण्डरीककुलभूरिविलासा-
वासनीलवनराजिसमेता ।
तावदद्रिषु तटी तटिनी च
द्वे परस्परतुलामलभेताम् ॥ ४६॥
दन्तिदन्तशकलैरिव दीप्रैः
कैरवैरुडुगणैरपि कीर्णम् ।
शारदं मनसिकृत्य स नूनं
कं च खं च कविराह सवर्णम् ॥ ४७॥
कामकुण्डलितकार्मुकचक्र-
क्रेङ्कृतिभ्रमकरं गहनान्ते ।
कूजितं मदकलं कुररीणा-
माततान पथिकानधिकार्तान् ॥ ४८॥
दैविकी मम तिरस्कृतिरासी-
त्कुप्यमात्रगुणिनीति तुलास्थे ।
प्रत्ययार्थमिव भास्वति पद्मि-
न्युन्नमय्य मुखमुच्छ्वसिति स्म ॥ ४९॥
प्रावृषेण्यदिवसे प्रतिपेदे
सम्मदं स किल षण्मुखवाहः ।
शारदेऽह्नि तु चतुर्मुखवाहः
कस्यचिद्भवति कश्चन कालः ॥ ५०॥
भूषणानि पथि शिञ्जितभीत्या
द्राग्विमुच्य तटिनीं निशि यान्त्या ।
हंसके नदति हन्त सशङ्कं
स्वाङ्घ्रियुग्ममभिसारिकयैक्षि ॥ ५१॥
राजहंस इति पाथसि राका-
चन्द्रबिम्बमभिसृत्य सरागम् ।
वञ्चिताथ वरटा निजनाथे
न स्म विश्वसिति जातु यथार्थे ॥ ५२॥
वाजपेयविहितावभृथानां
यज्वनामुपरि हंसयुवानः ।
आतपत्रमवलोक्य गृहीतं
हंस इत्यनुनदं दिवि नेदुः ॥ ५३॥
बह्वमन्यत शुचिर्द्विजवृन्दे
शुद्धमानसगतिः सुनदीष्णः ।
शीतवातसहनोऽपि च हंसो
वर्णसङ्करवशात्तु शिखी न ॥ ५४॥
वासवोपलमयीव वितर्दि-
श्चन्द्रकान्तमणिपीठसमेता ।
शिश्रिये शितिजला सरिदाविः-
सैकता च सुगिरा द्विजपङ्क्त्या ॥ ५५॥
स्पर्धितं विरुरुधे हि मिथस्त-
त्खञ्जरीटमिथुनं घटमानम् ।
येन सर्वयुवमोहनदात्रा
सूचिकाजनि निधेः शरदुर्व्याम् ॥ ५६॥
कन्दलत्कुमुदकाननखेल-
द्राजहंसरमणीचरणानि ।
दुग्धसिन्धुसरसोदरवल्ग-
द्विद्रुमाङ्कुरविलासमपुष्णन् ॥ ५७॥
शारदेषु दिवसेषु समानं
पुण्डरीकपटलेन पयोधौ ।
उन्मिमेष दृगुभय्यपि विष्णोः
पुण्डरीकनयनो हि स कालः ॥ ५८॥
सप्तपर्णमभिसृत्य सकामं
मञ्जरी परिवहन्मदगन्धम् ।
स्कन्धदेशविनिवेशितशुण्डा-
काण्डया चिरमवर्ति करिण्या ॥ ५९॥
सञ्चरत्सरसि सन्ततखेल-
त्कामिनीकुचतटीघुसृणाक्ते ।
मल्लिकाक्षमिथुनं चरणास्ये
राजहंसयुगरीतिमधत्त ॥ ६०॥
रक्तवारिरुहरङ्गरजोभि-
र्धूसरा धुरि मिथो घटमानाः ।
मारदेवमहिता इव मल्ल्याः
षट्पदाः सनिनदं दिशि चेरुः ॥ ६१॥
शुद्धराजतघटं पुलिनान्ते
न्यस्य कल्पितनदीजलकेल्या ।
मुग्धया हृद उदीक्ष्य मरालं
चुक्रुशे निजघटः स्रवतीति ॥ ६२॥
पुण्ड्रपर्वगलितस्फुटमुक्ता-
वारशर्करिलया वनगोप्यः ।
इक्षुशाकटजनस्य सरण्या
कालमीनमभजन्त कथञ्चित् ॥ ६३॥
अध्वगः कलमपालिकयाग्रे
दर्शितेऽपि पथि तद्गतचेताः ।
स्पृष्टवानिव पदौषधिभेदं
बम्भ्रमीति बत तां परितः स्म ॥ ६४॥
चाखलीषि न च शक्ष्यसि गन्तु-
मस्ति सिद्धिरिति कापि भुजङ्गम् ।
लोलदृष्टिमरुणल्लघुभोगि-
ग्राहिणीव पथिकं यवगोप्त्री ॥ ६५॥
प्रस्थितस्य परितः क्रममाणा
दिग्जयाय मदनस्य तुरङ्गाः ।
श्यामलाः कलमसीम्नि समेता
जृम्भिता वनशुका अवतेरुः ॥ ६६॥
घोषितैः कलमकाननगोप्याः
प्रस्थितान्बत शुकान्समगृह्णन् ।
पल्लवैश्च कुसुमैः प्रहियन्त्र-
स्थाणवस्तदुपगीतिसमुत्थैः ॥ ६७॥
प्रोच्य मासमवधिं प्रसवर्तो-
र्योषिति प्रचलितः पथि वन्ये ।
गोपिकाध्वनिषु कोकिलबुद्ध्या
हा वसन्त इति कश्चिदमुह्यत् ॥ ६८॥
तत्र तत्र नवदर्भसमूहाः
पुष्पितास्त्रिभुवनं विजिगीषोः ।
रेजिरे रजतकेसरपङ्क्त्या
राजिता रतिपतेरिव कुन्ताः ॥ ६९॥
दिग्जयाय चरतामिह राज्ञां
हस्तिभिर्हरितपट्टपताकाः ।
दीर्घशैलकदलीदलपाली-
विभ्रमं विदधिरे भ्रियमाणाः ॥ ७०॥
राजहंसरजनीकरकाश-
स्तोमकैरवकुलच्छलतः स्वाम् ।
अङ्गजे किरति कीर्तिमगच्छ-
त्सा शरच्छरदयोगिषु भूत्वा ॥ ७१॥
वायुवह्निजलखानि वसन्त-
ग्रीष्मवार्दिनशरत्सु किमृद्धिम् ।
प्रापुरित्यृतुयुगे परिशिष्टे
भूरजांसि परिवृद्धिमगच्छन् ॥ ७२॥
अम्बरे विधिरपां परमाणू-
न्व्यस्तृतातपते हिमदम्भात् ।
अप्सिसृक्षुरत एव बुधानां
भाविवर्षपरिकॢप्तिरिदानीम् ॥ ७३॥
हैमनेषु दिवसेषु यतोऽभू-
द्द्यौश्चिराय धृतजीवनगर्भा ।
विप्रकीर्णहिमघर्मकणौघा
पाण्डिमानमत एव बभार ॥ ७४॥
दिव्यहंसनिवहेऽभ्रतटिन्यां
शारदेषु दिवसेषु विहृत्य ।
क्लिन्नपक्षकुलकम्पिनि पेतुः
शीकरा हिममिषेण समन्तात् ॥ ७५॥
दिङ्मुखानि कुशकाशगुलुच्छै-
रूर्ध्वपुण्ड्रलसितान्यथ तानि ।
हैमनेन दिवसेन हिमानी-
भूतिलेपभरितानि कृतानि ॥ ७६॥
अच्छमिन्दुमणिमम्बरशाणे
कर्षति ग्रथितरश्मि कृतान्ते ।
तस्य चूर्णपटलीव तदानी-
माविरास महतीति हिमानी ॥ ७७॥
हारदाग्नि सलिले च हिमत्वं
प्रायशो मिहिकया प्रथयन्त्या ।
पद्मपालिषु वियोगिषु च प्रा-
लेयता प्रकटिता बत लोके ॥ ७८॥
यामिनीषु यदभूदतिदैर्घ्यं
यच्च ह्रस्वमजनिष्ट तदाहः ।
प्रोदितोऽजनि चिराय तदेत-
त्पांसुलाकुलतपःपरिपाकः ॥ ७९॥
जारदष्टमधरं पिदधाना
कापि नव्यकुलटा कुलटाभिः ।
पृच्छते स्वपतये व्रणहेतुं
शीलिता हिम इतीति वदस्व ॥ ८०॥
इत्वरी बत निशासु हिमानी-
दुर्निरीक्षगमनापि विभाते ।
शाद्वलेषु समसूच्यनुरागैः
प्रस्नुतैरिव बहिः पदयावैः ॥ ८१॥
हास्तिकं दिनमुखे बहिरेष्य-
त्सन्ततं स्थपुटिते हिमपिण्डैः ।
प्राङ्गणेऽपि पदमेकमनीशं
कर्तुमुद्धृतकरं रटति स्म ॥ ८२॥
वालिनेव शिशिरेण विदूरं
द्रावितो रवितनूज इवोष्मा ।
ऋश्यमूकमिव सोऽपि तदानीं
प्राप यौवतपयोधरदुर्गम् ॥ ८३॥
वीटिकाद्विपटिकाप्रतिसीरा-
गर्भगेहमृगनाभिहसन्तीः ।
सन्निधाप्य सुदतीकुचदुर्गं
संश्रितैर्विमुमुचे शिशिराद्भीः ॥ ८४॥
सायमातपदवाग्निशिखाभि-
र्व्याहता निशि हिमैर्वनराजिः ।
कुन्दपुष्पकपटेन विभाते
बाष्पबिन्दुपटलं विससर्ज ॥ ८५॥
इत्थं दुरन्तहिमवर्षिणि जृम्भमाणे
काले वियोगिजनजीववियोगकाले ।
कान्ताकुचोष्मकबलीकृतशीतगर्वा
निद्रासुखान्यनुभवन्ति निशि स्म धन्याः ॥ ८६॥
तरुकुलमुरुशाखाशेषमात्रं तदानीं
प्रतिदिशमवलोक्य प्राणभृद्व्याघ्रपुर्याम् ।
अमनुत शिवरात्रावर्चितुं भूसुरेन्दै-
रखिलमपि विलूनं पत्रपुष्पाङ्कुरौघम् ॥ ८७॥
जननमरणभीतो जैमिनिर्व्यासवाचा
विदितदहरविद्यासम्प्रदायो विमुक्त्यै ।
विमलमतिरुपास्ते वेदपादस्तवाद्यै-
र्वर इह नटराजं पुण्डरीकाभिधाने ॥ ८८॥
श्रीमद्वैदिकमार्गखेलनकलाशुद्धान्तरङ्गः सुधी-
रद्वैतामृतलाभनिर्भरनिजानन्दानुभूतिः सताम् ।
गोप्ता मेटकरीकुलैकतिलको गोपालभूपालकः
काव्येऽस्मिन्दशमं नटेशविजये सर्गं चकाराद्भुतम् ॥
इति श्रीमद्वाधूलकुलतिलकस्य वेङ्कटकृष्णदीक्षितस्य कृतौ नटेशविजयाख्ये महाकाव्ये दशमः सर्गः सम्पूर्णः ।
इति नटेशविजयं सम्पूर्णम् ॥
Proofread by Ruma Dewan