भृशुण्डिकृता नग्नभैरवस्तुतिः

भृशुण्डिकृता नग्नभैरवस्तुतिः

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । सर्वमायाविहीनाय सर्वमायाप्रचालक । सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥ ३५॥ मयूरेशपरायैव मयूरपुरपालक । धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥ ३६॥ अधर्मनिरतांश्चैव बहिःकाराय देवप । सदा स्वानन्दनिष्ठाय नग्नभैरव ते नमः ॥ ३७॥ संस्कारयुक्तभावेन पापकर्मपरात्मनाम् । मयूरे दण्डकर्त्रे वै नग्नभैरव ते नमः ॥ ३८॥ महाबलधरायैव ब्रह्मादीनां प्रचालक । अमेयशक्तये देव नग्नभैरव ते नमः ॥ ३९॥ भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन । गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥ ४०॥ प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक । शूलप्रोतमहाण्डाय नग्नभैरव ते नमः ॥ ४१॥ अट्टहासेन देवेन्द्रांस्तथा सन्त्रास्य चासुरान् । नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥ ४२॥ विश्वं ततं सर्वमिदं त्वयेश आद्यन्तमध्येषु महानुभाव । संरक्ष देवेश मयूरसंस्थानस्मान् कुरुष्व त्वमनन्यभावान् ॥ ४३॥ शूलिन्नमस्तेऽखिलकारणाय त्वद्भीतिभावेन जगत्प्रवृत्तिः । व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यं प्रकरोति चात्मन् ॥ ४४॥ अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व । गणेशक्षेत्रं त्वदधीनगं तुं गणेशसंस्थं कुरु ते नमो वै ॥ ४५॥ (फलश्रुतिः) इदं स्तोत्रं महेशाना नग्नभैरवकस्य च । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥ ४६॥ धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् । लभेदनेन देवेशास्तुविध्वं नग्नभैरवम् ॥ ४७॥ मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् । स्तोत्रेण स्तुवतां नित्यं न किञ्चिद् दुर्लभं भवेत् ॥ ४८॥ इति भृशुण्डिकृता नग्नभैरवस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः २८ । ६.२८ ३५-४८॥ - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 28 . 6.28 35-48.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Nagnabhairava Stuti Bhrishundikrita
% File name             : nagnabhairavastutiHbhRRishuNDikRRitA.itx
% itxtitle              : nagnabhairavastutiH bhRishuNDikRitA (mudgalapurANAntargatA)
% engtitle              : nagnabhairavastutiH bhRRishuNDikRRitA
% Category              : shiva, mudgalapurANa, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 28 | 6.28 35-48||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org