परात्रिंशिका अथवा परात्रीशिका
॥ ॐ तत्सत्स्वप्रकाशानन्दवपुषे शिवाय नमः ॥
॥ ॐ अभिनवचमत्कारात्मने शिवाय नमः ॥
(अनुत्तरसूत्र, त्रिकसूत्र, त्रिकागम)
श्री देवी उवाच ।
अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् ।
येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥ १॥
एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो ।
हृदयस्था तु या शक्तिः कौलिकी कुलनायिका ।
तां मे कथय देवेश येन तृप्तिं लभाम्यहम् ॥ २॥
श्रीभैरव उवाच ।
शृणु देवि महाभगे उत्तरस्याप्यनुत्तरम् ॥ ३॥
कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्य्वस्थितः ।
कथयामि सुरेशानि सद्यः कौलिकसिद्धिदम् ॥४॥
अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानगाः । (सर्वाः)
तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ ५॥
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ।
क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ ६॥
वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ।
तदूर्ध्वं शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ॥ ७॥ (तदूर्ध्वे)
अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुर्दाहृता ।
सर्वेषामेव मन्त्राणां विद्यानाञ्च यशस्विनि ॥ ८॥ (सर्वेषां चैव)
इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ।
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् ॥ ९॥
तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः ।
एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् ॥१०॥
हृदयं देवदेवस्य सद्यो योगविमुक्तिदम् । (योगविमोक्षदम्)
अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् ॥ ११॥
सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् ।
मुहूर्तं स्मरते यस्तु चुम्बकेनाभिमुद्रितः ॥ १२॥ (मन्त्रितः)
स बध्नाति तदा सर्वं देहं मन्त्रमुद्रागणं नरः । (*बघ्नानि)
(संबध्नाति तदा सर्वं मन्त्रमुद्रागणं नरः ।)
अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि ॥ १३॥ (*प्टष्टोऽसौ)
प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् ।
सक्षात्पश्यत्यसन्दिग्धमाकृष्टं रुद्रशक्तिभिः ॥ १४॥
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् ।
त्रयेण मातरः सर्वा योगीश्वर्यो महाबलाः ॥ १५॥ (योगेश्वर्यो)
वीरा वीरेश्वराः सिद्धा बलवाञ्छाकिनीगणः ।
आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः ॥ १६॥ (लब्ध्वा)
यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् ।
अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः ॥ १७॥
यत्किञ्चिद्भैरवे तन्त्रे सर्वमस्मात्प्रसिद्ध्यति ।
अदृष्टमण्डलोऽप्येवं ............. ॥ १८॥ (यः कश्चिद्वेत्ति तत्त्वतः)
(मन्त्रवीर्यसमावेशप्रभावान्न नियन्त्रणा ॥ १८॥)
(मन्त्रवीर्यसमावेशे न कदाचिन्नियन्त्रणा ॥ १८॥)
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः । / ॥ १८॥
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षीतः ॥ १८ / १९॥
अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः ।
शाकिनीकुलसामान्यो भवेद्योगं विनापि हि ॥ १९ / २०॥
अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥२०॥ / ॥ २१॥
कालाग्निमादितः कृत्वा मायान्तम्ब्रह्मदेहगम् ।
शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् ॥ २१ / २२॥
तदन्तर्वर्ति यत्किञ्चिच्छुद्धमार्गे व्यवस्थितम् ।
अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्नुते ॥ २२ / २३॥
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः । (शिवोऽज्ञेयः)
सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः ॥ २३ / २४॥
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥ २४ / २५॥
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
दीक्षा भवत्य्सन्दिग्धा तिलाज्याहुतिवर्जिता ॥ २५ / २६॥
मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च ।
न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् ॥ २६ / २७॥
एकैकं तु दिशां बन्धं दशानामपि योजयेत् । (एकैकेन दिशां) (कारयेत्)
तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये ॥ २७ / २८॥
शिखासङ्ख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः ।
पुष्पादिकं क्रमात्सर्वं लिङ्गे वा स्थण्डिलेऽथवा ॥ २८ / २९॥ (स्थण्डिलञ्च वा)
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना ।
तत्र सृष्टिं यजेद्वीरः पुनरेवासनं ततः ॥ २९ / ३०॥ (ततः)
सृष्टिं तु सम्पुटीकृत्य पश्चाद्यजनमारभेत् ।(पुनर्यजनमारभेत्)
सर्वतत्त्वसुसम्पूर्णां सर्वाभरणभूषिताम् ॥ ३० / ३१॥ (सर्वावयवशोभिताम्)
यजेद्देवीं महेशानीं सप्तविंशतिमन्त्रिताम् । (महाभागां)
ततः सुगन्धिपुष्पैस्तु यथाशक्त्या समर्चयेत् ॥ ३१ / ३२॥ (सुगन्धिपुष्पैश्च)
पूजयेत्परया भक्त्या आत्मानं च निवेदयेत् । (स्वात्मनं)
एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः ॥ ३२ / ३३॥
कृतपूजाविधिः सम्यक्स्मरन्बीजं प्रसिद्ध्यति ॥ ३४॥
आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् ।
हृत्पद्मान्तर्गतं ध्यायेत् सोमांशं नित्यमभ्यस्येत् ॥ ३३ / ३५॥ (सोमांशु)
यान्यान्कामयते कामांस्तान्ताञ्च्छीघ्रमवाप्नुयात् ।
अस्मात्प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः ॥ ३४ / ३६॥ (अज्ञः प्रत्यक्षतामेति)
एवं मन्त्रफलावाप्तिरित्येतद्रुद्रयामलम् ।
एतदभ्यासतः सिद्धिः सर्वज्ञत्वमवाप्यते ॥ ३५ / ३७॥ (सर्वज्ञत्वमवाप्नुयात्)
॥ इति शम् ॥
The referenced books include the Commentaries (laghu-vRRitti
and vivRRiti) by Acharya Abhinavagupta on the concluding
verses of the Rudrayamala Tantra that comprise the text of
the parAtrIshikA / parAtriMshikA.
The referenced books have minor variations in the numbering
and line clubbing of the verses, some of which have been
captured above. Word variations are found between these texts
(including those between vRRitti and vivRRiti) and have been
incorporated for the benefit of the reader.
Two words that have been marked ``*'' appear to be print errors.
Encoded and proofread by Ruma Dewan