नागार्जुनकृता परमार्चनत्रिंशिका

नागार्जुनकृता परमार्चनत्रिंशिका

अथ परमार्चनत्रिंशिका नागार्जुनकृता । स्नानपूजनसमाधिभिः क्रमा- द्यन्महात्मभिरवाप्यते पदम् । कैश्चिदक्रमत एव यन्मया तत्समर्चनमिषेण कथ्यते ॥ १॥ बालिकारचितवस्त्रपुत्रिका- क्रीडनेन सदृशं तदर्चनम् । यत्र शाम्यति मनो न निर्मलं (न पूजने) स्फीतचिज्जलधि मध्यमाश्रितम् ॥ २॥ किं तदर्चनमनल्प कल्पना- जालशम्बरनिपातितात्मकम् । (निपातितात्मनाम्) यत्र नास्ति सविकल्पनोज्झितः (स्वविकल्पनोज्ज्ञितः) स्फीतसौख्यशिवसङ्गमोत्सवः ॥ ३॥ (स्फीतमौख्य) अप्रयत्नमनिकेतनं पदं दिव्यमाप्य मनसैव वृत्तयः । (दिव्यमाप्यतरसैववृत्तयः) यत्र यान्ति विलयं न सर्वतः किं तदर्चनमसौ पराभवः ॥ ४॥ यत्र वर्षति न खेचरी स्थिति- (ना) श्चित्सुधारस भरौघनिर्झरम् । देहचित्तपरिपीडनावहं (दहं) किं तदर्चनमसौ पराभवः ॥ ५॥ खेचरीप्रभृतिपञ्चकात्मना व्याप्तिमम्बरगतां निभालयन् । हृद्विकाससुभगं भवापदो (हृद्विकाससुलभां) यत्र मुञ्चति न किं तदर्चनम् ॥ ६॥ यत्र साहससमाधिसंश्रयः प्रस्फुरद्विमलबोधनिर्भरः । स्फीतसंविदुदयं न विन्दते सर्ववृत्तिषु किमेतदर्चनम् ॥ ७॥ विश्वसंहृतिरसैकतत्परो- लेलिहानरसनाकुलोयमः । यत्र चिच्छिखिशिखा सुहूयते लीलयैव न किमेतदर्चनम् ॥ ८॥ स्तब्धमन्थरमनोहरेक्षणः प्रोल्लसत्पुलकचुम्बिताननः । (प्रोल्लसत्पुलकलम्बिताननः) मध्यमां भुवमनल्प सम्पदं यत्र नाश्रयति किं तदर्चनम् ॥ ९॥ मानमेयमिति कल्पनोज्झितो निर्विकारमनिकेतनः शिवः । गाढगाढमवगाह्यते क्षणा- न्नैव यत्र ननु किं तदर्चनम् ॥ १०॥ व्योमकल्पममितं निजं वपु- र्वीक्ष्य चित्पर सुधार सञ्चितम् । स्वात्मनात्मनि निरस्तकल्पनो यत्र हृष्यति न किं तदर्चनम् ॥ ११॥ (यत्र सुहृति) निर्निकेतनिरुपाधि निर्मलं स्फारचिद्रविमरीचिसञ्चयैः । विश्वमारचितमीक्ष्य विस्मयं (विश्वमारचितंवीक्ष्य) यत्र नाश्रयति किं तदर्चनम् ॥ १२॥ यत्र नित्यपरहर्षनिर्भर- श्चित्सुधार सनिपात घूर्णितः । (सनिपान) ध्यानयोग कलनासु लज्जते नीरसासु न किमेतदर्चनम् ॥ १३॥ शक्तिविस्तर विमर्श विस्फुरत्- (विमर्शा) कन्द युग्मयुग पद्विगाहनात् । भैरवं वपुरुदारचेष्टितं यत्र न स्फुरति किं तदर्चनम् ॥ १४॥ इन्द्रियेषु विषयानुवर्तिषु प्राणवर्त्म॑नि निजप्रवाहके । कापि निर्वृतिमयी चिदूर्जिता यत्र नोल्लसति किं तदर्चनम् ॥ १५॥ दिव्य खेचरदृशा निरीहया नादबिन्दु मयभाव सञ्चयम् । यत्र शुष्कमिव पावकस्तृणं (?पावंकस्तृणं) न क्षयं नयति किं तदर्चनम् ॥ १६॥ शान्तिमेति न विकल्पविप्लव- श्चिच्चमत्कृतिरसो न वर्धते । लुप्यते न घनवासनावनं कापि तृप्तिरसमा न जायते ॥ १७॥ मन्यते न कृतकृत्यतां मनो द्वैतमेघतिमिरं न भिद्यते । यत्र दोषशत सङ्कुलं मनो न प्रसीदति किमेतदर्चनम् ॥ १८॥ चिन्नभस्सरसि सारसीं परां शक्तिमच्छविभवां प्रबोधयन् । मन्त्रवीर्यममितं निसर्गतो (?विसर्गतो) यत्र नाश्रयति किं तदर्चनम् ॥ १९॥ निर्विकारमजरं निरामयं (निर्विकारजडं निरामलं) निर्विकल्पममितं निजं वपुः । (निर्विकल्पममजरं) वीक्ष्य जन्ममरणोदितं भयं (जन्ममरणोद्यितं) यत्र मुञ्चति न किं तदर्चनम् ॥ २०॥ शान्तवीचिचयसिन्धुसन्निभां सर्वसंविदुदयावनिं पराम् । सृष्टिसंस्थितिलय प्रशक्तिभि- र्विश्व सुन्दर विवर्तवर्तिनीम् ॥ २१॥ शक्तिचक्र परमाधिदेवता- मम्बरप्रथम भूमिकामजाम् । मङ्गलाम सममन्त्रमातरं (समन्त्रमातरं) यत्र पश्यति न किं तदर्चनम् ॥ २२॥ सोमसूर्यदहनेन्धनोद्यत (दहन्नोद्धत) स्फीतचिज्ज्वलन दीप्तिभास्वरः । दुर्निरीक्ष्यगतिरक्रमः शिवो (गतिरिद्वततेजसा) भाति यत्र न किमेतदर्चनम् ॥ २३॥ आत्मनात्मनि न जानते विधिं निस्तरङ्गपरबोधभास्वरः । यत्पदस्थितिजुषो महाजनः (महजना) मुक्ति संसृति समान बुद्धयः ॥ २४॥ यद्यदा पतति वेद्यता भुवं तेन तेन ननु यद्विवर्जितम् । नित्य निर्मल समाधिभूमयो यत्पदे विमति बालकल्पनाः ॥ २५॥ (बालकल्पना) यद्विश‍ृङ्खलमहोदयोल्लसत् शक्तिपातवशतो विजृम्भते । तत्पदं यदि गुरुप्रसादतो (तत्पदं गुरुप्रसादतो मया) लब्धमुत्तम मथार्चितः शिवः ॥ २६॥ भावसञ्चय विमुक्तविग्रहा विश्वमय्यपि परप्रथात्मिका । कापि संविदमलाम्बरप्रभा जृम्भते यदि तदार्चितः शिवः ॥ २७॥ किञ्चनापि न विमुच्यते क्वचित्- किञ्चनापि न च गृह्यते क्वचित् । (किञ्चिनापि) स्वं वपुर्विमल बोध निर्भरं (बोध निर्मलं) दृश्यते यदि तदार्चितः शिवः ॥ २८॥ भैरवा विविध कल्पनात्मकाः प्रोल्लसन्ति बहवो ततोम्बिकाः । (यतोअम्बिका) सा यतः स्फुरति तत्परं पदं भाति चेद्गुरुदृशा शिवोर्चितः ॥ २९॥ आसादितं गुरुमुखादिदमप्रयत्न (प्रयत्नं) सिद्धं शिवार्चनमपाप्मधियामवाप्यम् । यत्तन्मया निगदितं तदनल्पवाञ्छा सम्बोधनाय सुधियां शिवभक्तिभाजाम् ॥ ३०॥ अनवच्छिन्न चिद्व्योम परमामृतबृंहितः । नागभिधोव्यधादेतां परमार्चनत्रिंशिकाम् ॥ इति श्रीमहामाहेश्वरनागविपश्चिद्विरचिता परमार्चनत्रिंशिका समाप्ता । In some prints, the 21st shloka is found at no. 29, and the verse numbers are shifted then. Encoded by Girdhari Lal Koul Proofread by Girdhari Lal Koul, Ruma Dewan
% Text title            : paramArchanatriMshikA
% File name             : paramArchanatriMshikA.itx
% itxtitle              : paramArchanatriMshikA (nAgArjunavirachitA)
% engtitle              : paramArchanatriMshikA
% Category              : shiva, triMshikA
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Nagarjuna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Girdhari Lal Koul glkoul.18 at gmail.com
% Proofread by          : Girdhari Lal Koul, Ruma Dewan
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : July 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org