श्रीकण्ठचरिते परमेश्वरदेवसमागमवर्णनम्

श्रीकण्ठचरिते परमेश्वरदेवसमागमवर्णनम्

गल्वर्कक्षितितलबिम्बतार्कबिम्बप्रत्युप्तप्रतिनवरत्नपादपीठाम् । चूडेन्दुप्रविसृमराच्छरश्मिजालैरुनन्मीलसद्धवलवितानपौनरुक्त्याम् ॥ १॥ आस्थानीमचरमसान्ध्यकर्मसिद्धेः सासूयं गिरिसुतया विलोक्यमानः । देवोऽथ त्रिपुरपुरन्ध्रिलोकलीलावाह्लीकस्तवकमलिम्लुचो विवेश ॥ २॥ नैर्मल्यप्रविशदहस्करांशुकाण्डैरुच्चण्डद्विगुणितहेमवेत्रदण्डाम् । बंहिष्ठैरपिहितबन्दिवृन्दनादामुद्गर्जन्मुकुटसरित्तरङ्घोषैः ॥ ३॥ भ्रश्यद्भिर्नमदमरेन्द्रमौलीरत्नौर्निर्यत्नप्रकटितनूतनोपकाराम् । वेल्लद्भिर्गुहशिखिनः शिखण्डखण्दडैरारब्धप्रवितततालवृन्तवृत्ताम् ॥ ४॥ बिभ्राणो वपुरहिमालि लुप्ततापं प्रत्युप्तामखिलगणैर्दिवादिसाराम् । आश्चर्यं चरितमुदञ्चयन्नपूर्वां शर्वाणीदयिततमः सभामवापत् ॥ ५॥ सस्फारस्फटिकविरङ्ककुट्टिमान्तःसङ्क्रान्ताखिलतनुभिर्गणानाम् । पातालस्थटलधिरुह्य मूर्ध्नि भक्तेरुत्सेकात्सततमिवोह्यमानपादः ॥ ६॥ नेत्राग्निज्वलनविरीयमानचूडाखण्डेन्दुस्रवदमृतोपजातजीवान् । भूयोऽपि प्रमुपितसम्पदो नृमुण्डन्कुर्वाणः श्वसितविषेण कङ्कणाहेः ॥ ७॥ चिन्वानो दृढतरमह्युपोढभारं पादाब्जद्वितयमिवोच्चजूटबन्धम् । ग्रीवाया वलयमिवान्वहं दधानो दोर्दण्डं श्रितविषमांसलस्वरूपम् ॥ ८॥ व्यग्राणां चटुघटनासु वीक्षमाणो नेत्रान्तैर्वदनममर्त्यमागधानाम् । नाथोऽथ प्रमथसभां प्रपद्य तस्थावासीनः शिरसि विलासविष्टरस्य ॥ ९॥ मारारैर्मरकतविष्टरप्रभाणामभ्यङ्गादनुसृतनीलिमोद्गमानि । सर्वाङ्गाण्यभिनवभूतिमूषणान्यप्यासेदुः सहचरतां गलस्थलस्य ॥ १०॥ मिथ्यैव व्यधिषत तस्य पादपीठं सोत्कण्ठाः परिचरितुं पुरो भुजिष्याः । नम्राणां चिकुरभरा हि निर्जराणां तत्कृत्यग्रहणमनुक्रमेण चक्रुः ॥ ११॥ सावेगं कथमपि तस्य नोपशल्ये किङ्कर्यो विदुधुवुरग्रचामराणि । चूडेन्दुग्लनकृतो विशाङ्क्य पात्रं लालाटज्वलनमकाण्डताण्डवस्य ॥ १२॥ हेरम्बो निजपितुराप्य जूटकूदेणाङ्कं विनिदधदन्यदन्तधाम्नि । अभ्यङ्गादथ पृथुतत्करच्छटानां त्रुट्यन्तं प्रकृतमपि व्यधत्त दन्तम् ॥ १३॥ प्राविक्षन्नथ शनकैरकैतवेन व्यञ्जन्तो विनयाविनम्रतां शिरोभिः । सर्वेऽपि त्रिदिवसदो निवेद्ययमानाः सावज्ञं किमपि शिलादनन्दनेन ॥ १४॥ दूरात्ते तदनु सुधान्धसो विवब्रुः संहत्य प्रणतिमयुग्मलोचनाय । तत्पादौ विरचयतां हि मौलिभूमौ स्वान्मौलीञ्जगदपि पादुकीकरोति ॥ १६॥ चण्डांशुज्वलनतुषारधाममय्योऽप्यव्याजं पुररिपुणा विकीर्यमाणाः । दृग्लेखा बत वपुषोऽखिलामराणां सन्तापं जडिमपरिग्रहं च जह्रुः ॥ १६॥ औचित्यान्निजनिनमासनं भजन्तस्ते पृष्टाः कुशलमथेन्दुशेखरेण । इत्यूचुर्नमुचिभिदादयः सुधायाः सम्बन्धादिव मधुरोद्गमैर्वचोभिः ॥ १७॥ विश्वेषां पुरि पुरि यत्सदैव शेषे विद्वद्भिः पुरूष इति प्रतीयसे तत् । किं धामत्रितयमयानपायदृष्टेस्तस्मात्ते जगति परोक्षमस्ति वस्तु ॥ १८॥ नन्वेवं किमपि विनिर्मलं प्रकृत्या त्वद्रूपं सुरसरिदम्बुवत्पुनीते । स्रोतोभिस्त्रिभिरथ कारणात्मभिस्तद्विश्वात्मन्कृतकमपि व्यनक्ति भेदम् ॥ १९॥ धिङ्मूढा वितथमुदासनस्वभावं भाषन्ते पुरुष तव त्रिलोकभर्तुः । कर्त्री चेत्प्रकृतिरियं करोतु किङ्चित्कैवल्यं भवदधिरोहमन्तरेण ॥ २०॥ किं मिथ्या हर महदादिषु प्रयुङ्क्ते लोकोऽयं विकृतिमयेषु तत्त्वशब्दम् । एकस्त्वं निरुपधिरूपभृद्धि तथ्यं तत्तत्त्वं पुरुष बिभर्षि पञ्चविंशः ॥ २१॥ किं कर्तुं तव पुरतोऽथ किं नु वक्तुं शक्ष्यामः क्षितिधरराजमूर्धशायिन् । त्वं खण्डं क्वचिदपि नो पदं व्यनक्षि त्रैलोक्यं ध्वनिवपुषश्च ते विवर्तः ॥ २२॥ कुत्रापि प्रतिहतिमेति नान्तारिक्षं शब्दस्तद्गुणपदवीं न चातिशेते । तन्मूर्तिस्त्वमसि च तद्विभो जगन्ति व्याप्नोषीत्यमुपपत्तिसम्प्रदायः ॥ २३॥ नो किञ्चिद्बहिरूपपत्तिमेति वस्तु ज्ञानात्तत्प्रसरति किं तु चित्रवृत्ति । ज्ञानात्मा प्रभुरिति विश्वकर्तृभावो नो बौद्धैरपि भवतो बत व्यपास्तः ॥ २४॥ शून्यं तैरकथि न तुच्छमेव रूपं मादृक्षानधिगमनीयवृत्ति किं तु । तादृक्षं तव च वपुस्तथा च बौद्धास्त्वामेव क्व न परमार्थतो गृणन्ति ॥ २५॥ बोधात्मन्यनवधितां त्वयीह जानन्त्यन्यानि त्रिनयन सन्तु दर्शनानि । आत्मा त्वं तव च वपुस्त्रयोऽपिलोकास्तन्मानं त्वमिति च नार्हतोऽस्ति गर्हा ॥ २६॥ त्रैलोक्यं विभजति यो विचित्रतन्त्रं यस्माच्च प्रसरति सर्वजीवलोकः । चार्वाकास्तमिह वदन्ति यत्स्वभावं तर्भङ्ग्या त्वमसि शिवोररीकृतस्तैः ॥ २७॥ यं माया क्वचिदनिरुद्ध्यमानरूपा न स्प्रष्टुं प्रभवति नेति नेति सन्तः । यस्मिंश्च व्यवहृतिमाचरन्ति तं त्वां तात्पर्यदुपनिषदो विभो गृणन्ति ॥ २८॥ एकस्त्वं त्रिनयन दृश्यसेऽधिकर्तुं ज्ञातुं च त्रिमुवनमीश्वरः प्रकाशः । तादात्म्यं विवृतवती विमर्शशक्तिर्द्वैधेऽपि प्रथयति ते न भेददोषम् ॥ २९॥ इच्छद्भिः शशिमुकुट क्रियैकरूपं वैवश्याप्रणयविधायिनं वियोगम् । निर्व्यूढश्रुतिकविकृत्य विश्वकर्ता त्वं ह हर्ताभ्युपगत एव वेदविद्भिः ॥ ३०॥ यच्छायाष्टषदभिषेकतोऽपि सर्वे तात्पर्यादवसितजाड्यतां भजन्ते । तस्यात्मंस्तव जडतामुदीरयन्तः काणादा बत न कथञ्चन त्रपन्ते ॥ ३१॥ क्वावत्स्यत्कथमजनिष्यत प्रकाशं प्राणिष्यत्कथमथवैष जीवलोकः । आ सर्गादखिलजगद्गरिष्ठ नो चेत्कारुण्यात्प्रभुरभविष्यदष्टमूर्तिः ॥ ३२॥ वक्त्रेऽभूत्तव मुरजित्प्रतिग्रहीता त्वं ग्रीवां सरसिजजन्मनो व्यलावीः । इत्थं ते हिमकरशेखर प्रसादः कोपो वा क्वचिदजनिष्ट नो महत्सु ॥ ३३॥ इत्यादिस्तुतिमुखरेषु निर्जरेषु प्रत्यग्रप्रसृतकृपारसाततिरेकः । तानित्थं कथयितुमिन्दुखण्डनचूडः प्रारेभे रभसवशंवदैर्वचोभिः ॥ ३४॥ प्राप्तानां मम सविधं विधूतधैर्या चर्यासौ विपुलमुप्लवं व्यनक्ति । विश्लिष्यन्निजमहसां मुखानि यद्वः प्रातस्त्यं रजनिपतिं विडम्बयन्ति ॥ ३५॥ विश्वापद्गदभिषजोऽपि किं भवन्तो वैक्लव्यव्यसनविसंस्थुलाननाः स्थ । प्रत्यर्थिप्रधनरसा विलङ्घ्य दैन्यं तेजो वस्तुलयति वाडवं हि धाम ॥ ३६॥ ध्यानेन स्तिमिततमत्वमब्जयोनेरासीद्यत्प्रणिहितदीक्षमीक्षणेषु । चिन्तायाः परिचयने तदेव सद्यः साधिक्यक्रममपि नाधिकं धिनोति ॥ ३७॥ सावेगं युधि वलतां द्विषां शिरोभिर्यस्याग्रे समजनि मृत्युभाण्डभङ्गिः । तच्चक्रं क्रशिमवशंवदाग्रिमार्चिःसञ्चारं किमिति मुरद्विषोऽधिशेते ॥ ३८॥ यत्र श्रीरनिशविनिद्रदृक्सहस्रे विश्रम्य सरति न पङ्कजाकरस्य । सोऽकाण्डे किमिति बिडौजसोऽस्य देहः सन्देहं मुहुरिव कस्य न व्यनक्ति ॥ ३९॥ चित्रोद्यत्क्रशिमविरोषववद्भिरङ्गैर्वैक्लव्यं विवृतवतां समीरणानाम् । किं त्वेषां पुनरपि जायते महद्भिर्निःश्वासैरनलसमांसलत्वयोगः ॥ ४०॥ पाण्डिम्ना परिचितमुज्झितप्रतापप्रावारं किमिति तथा वपुः खरांशोः । शुभ्रांशुभ्रमघटनाद्विना त्रियामामातङ्कं सृजति यथा रथाङ्गनाम्नाम् ॥ ४१॥ निःशेषत्रिभुवनघस्मरश्रितत्वात्तद्वह्नेः सहजमपह्नुतं क्व तेजः । युष्माकं सपदि विलोक्यतेऽस्य हा धिक् शोकोष्णश्वसिततरङ्गमात्रशेषः ॥ ४२॥ क्रान्ताभिः प्रतिदिवसास्तशैलसीदच्चण्डांशुद्युतिभिरिवेश्वरः प्रतीच्याः । यस्तेजो दुरभिभवं बभार सद्यः स्वां शक्ति दृशि विधृताम्भसि व्यनक्ति ॥ ४३॥ अन्येषां सवनलिहामपि प्रयातः स प्राच्यः क्व नु निजतेजसोऽतिरेकः । नीरन्ध्रप्रविसृमराननानिलौघैः किं लीढः कथमपि दीपवच्छमेन ॥ ४४॥ ईदृग्भिः स्मरमकरैकमान्त्रिकस्य व्याहारैरपहृतकल्पचित्तपीडाः । निर्वेदादभिमुखलोचनं कथञ्चित्प्रोत्क्षिप्य क्षणमवतस्थिरे मुखानि ॥ ४५॥ देवोऽथ श्रुतिकविता पयोदनादप्रत्यर्थिस्वनरचनाञ्चितैर्वचोभिः । हंसानां रथपथवर्तिनां मुहूर्तं तन्वानो भयमिति सादर जगाद ॥ ४६॥ सन्तापं किमपि विवृण्वते न केपां ये पादा इव दिविषन्मनोज्वरस्य । सन्त्यत्र त्रिनयन दुःसहप्रमेया दैतेयास्त्रिभुवनशत्रवस्त्रयस्ते ॥ ४७॥ प्रागुद्यद्यमानियमादिमांसलाभिश्चेष्टाभिस्त्रिदिवमुनीन्विलङ्घयन्तः । संहत्य स्थिरतरनिश्चयेन ते मामाराद्धुं निरवधि तेपिरे तपांसि ॥ ४८॥ त्रैलोक्यं तपसि विशङ्कमेव तेषां कल्पान्तज्वलननयेन बाधमाने । निर्व्याजक्रममथ दर्शनं पुरस्तात्तेभ्योऽहं व्यतरमनुत्तरातनुरोधः ॥ ४९॥ सन्तप्ते वपुषि तपोभरेण कुर्वन्निर्वाणं वहनपत्त्रिपत्त्रवातैः । सावेगं पटु घटिताञ्जलीन्पुरस्तात्तानाविष्कृतनिजमूर्तिरित्यवोचम् ॥ ५०॥ सन्तुष्टं निशिततपोविशेषमय्या वास्या वः सकलमपीह गात्रतन्त्रम् । युष्मभ्यं वरमहमीप्सितं प्रदास्ये भो वत्सा खलु विरचय्य तद्व्रतानि ॥ ५१॥ ईदृक्षप्रतततपःपणमयुक्त्या यं प्राप्तुं विवृतदुरोदरक्रियाः स्थ । अर्थं तं कथयत तत्र कापि मा भूदाशङ्का दितिकुलमौलिमण्डना वः ॥ ५२॥ इत्यस्मद्गिरमधिरोप्य कर्णवीथीं नेदीयः प्रमदरसोक्षितेक्षणास्ते । मामेवं विनयमपाक्षरान्तरङ्गप्रोन्मीलत्पदमगदन्विनम्रकण्ठम् ॥ ५३॥ अन्यैः किं वरद वरान्तरैरवाप्तैरप्राप्तैरथ च न कोऽपि यैर्विशेषः । त्वद्वक्त्रप्रसृतवचोमृतौघलाभादस्माकं भवतु विभो झगित्यमृत्युः ॥ ५४॥ नैवेदं वितरितुमीश्वरोऽस्ति कश्चिन्निश्चित्य द्रुतमितरं वरं वृणीध्वम् । इत्यस्मद्वचनमथोच्चुलुम्प्य तेऽत्र श्रोत्राभ्यां पुनरिदमादरादवोचन् ॥ ५९॥ नेवं चेत्प्रतिश‍ृणुते भवानकस्मादस्मभ्यं दृढतपसापि निःसहेभ्यः । तह्येर्को युधि रिपुणा शरोऽर्प्यमाणः सर्वेषां भवतु सदैव मृत्यवे नः ॥ ५६॥ मत्तस्तं वरमिति दीप्तमाप्तवन्तस्ते युक्त्या मतिमतिवर्तितुं यमस्य । त्रींल्लोकानथ च पृथक्पृथङ्निरोद्धुं सन्नद्धा व्यधिषत नूत्नयत्नसिद्धिम् ॥ ५७॥ तत्त्वमान्तरमवेत्य ततः सुवर्णदुर्वर्णलोघटनाविकटैः प्रकारैः । तेभ्यः पृथक्त्रिषु जगत्सु पुरीरनल्पशिल्पाविकल्पसमयः स मयश्चकार ॥ ५८॥ अरूणमणिगरीयोगो पुरप्रोज्जिहान- द्युतिनिवहनवीनोट्टङ्किताग्नेयवप्रम् । पुरवरमथ हैमं दैत्यनारीकटाक्षैः कुवलयितगवाक्षं तारकाक्षोऽध्यरुक्षत् ॥ ५९॥ धवलभवनयोगादाप्तपर्याप्तसाम्य- श्रिणि नभसि हसन्त्यामुल्लसद्भिमयूखैः । पुरि परिकरमाधाद्राजतोल्लासबन्धौ स्वक इव कमलाक्षः प्रक्रमो विक्रमस्य ॥ ६०॥ भरत्रुट्यत्क्षोणीतलविसृतपातालतिमिर- स्थिरासङ्गेनेव स्फुरदसितनिःशेषवपुषम् । नृणां के कालायसमयमयात्नाज्जनपदं ततो विद्युन्मालीत्यसिसलिलधाराभिरसिचत् ॥ ६१॥ ते प्राप्य त्रिपुरप्रथामथ पृथग्लोकान्रुजन्तः स्थिता दिव्यान्यब्दशतायुतान्युपनमद्विश्वापमृत्युश्रियः । यन्नाम्नाप्याधिरोहता श्रुतिपदं गीर्वाणवामभ्रुवां गाहन्ते तनवोऽतिवेलपवनोद्वेल्लल्लतासौहृदम् ॥ ६२॥ तापं रुचिक्षतिमथो विविधाश्च पीडा विश्वस्य धातव इवोत्कुपितास्रयस्ते । आतन्वते सपदि दुःसहसन्निपाते तस्मिन्भिषक्तु यादे भर्ग भवत्प्रसादः ॥ ६३॥ याः क्रीडद्विबुधावरोधनपरिष्कारार्ककान्तानल- ज्वालातापलवावलेहमपि नो मध्येदिनं सेहिरे । ताः सन्तानकवीरुधो विधुनितास्तत्सैनिकैः साम्प्रतं दावाग्निर्यदि नाम रक्षति ततो नीचावमानज्वरात् ॥ ६४॥ पाशैर्बद्धशिरोधराः फणिमयैरुत्खातनाकिद्रुम- स्कन्धाछानतलेषु दानसलिलावग्राहिणो दिग्द्विपाः । नीतास्तैरजिरेषु यामगजतां स्रस्तेऽपि विश्वम्भरा- भारे व्रीडनिपीडनेन दधते दूरावनम्र शिरः ॥ ६५॥ किं वान्यत्ते तथाद्य त्रिनयन विनयातिक्रमाक्रान्तविश्वा निःश्वासौघेन दीर्घीकृतचमरमरुड्डम्बराः स्वर्वधूभिः । सर्वं निर्वीरमुर्वीतलमथ निलयं नाकिनां मन्यमानाः कर्तारो नूनमस्मत्परिकरमचिरान्नाममात्रावशेषम् ॥ ६६॥ इत्थं प्रस्तावनायै विवृतवति वचः पद्मभूसूत्रधारे तूर्णं वक्त्रप्रसादप्रस्रजवनिकामग्रतोऽपास्य दूरम् । क्रोधाख्यः पर्षदानां विदधदधिमनोरङ्गपीठप्रवेशं शैलूषो दृष्टहस्ताद्यसमविकृतिभिः सङ्गमङ्गीचकार ॥ ६७॥ ॥ इति श्रीमङ्खकस्य कृतौ श्रीकण्ठचरिते महाकाव्ये परमेश्वरदेवसमागमवर्णनम् ॥ ॥ श्रीमङ्खककविविरचितं श्रीकण्ठचरितम् । सप्तदशः सर्गः ॥ .. shrImankhakakavivirachitaM shrIkaNThacharitam . saptadashaH sargaH .. Notes: Śrīkaṇṭhacaritam श्रीकण्ठचरितम् is a Saṃskṛta Mahākāvya संस्कृत महाकाव्य composed by Mahākavi Maṅkhaka महाकवि मङ्खक - a 12th century poet from Kashmir. The 25 sections of the Mahākāvya महाकाव्य describe the incidence of Tripuradāha त्रिपुरदाह and the annihilation of Tripurāsura त्रिपुरासुर by Śrīkaṇṭha श्रीकण्ठ (Śiva शिव). Sarga 17 सर्ग १७ describes the meeting of the deva-s देवाः with Śrīkaṇṭha श्रीकण्ठ (Śiva शिव) at Kailāsa कैलास, wherebey they eulogise and apprise Him about the menace created by Tripurāsura त्रिपुरासुर. Encoded and proofread by Ruma Dewan
% Text title            : Parameshvaradevasamagamavarnanam from Shrikanthacharita
% File name             : parameshvaradevasamAgamavarNanam.itx
% itxtitle              : parameshvaradevasamAgamavarNanam (shrIkaNThacharitAntargatam maNkhakakavikRitaM)
% engtitle              : parameshvaradevasamAgamavarNanam from shrIkaNThacharitam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrImaNkhakakavikRitaM shrIkaNThacharitam | saptadashaH sargaH ||
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : Ocober 7, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org