परनाथकवचम्

परनाथकवचम्

अथ पञ्चाशीतितमः पटलः । श्रीआनन्दभैरव उवाच वरानने वरारोहे सर्वज्ञाननिदानदे । आनन्दहृदयोल्लासे परमानन्दवर्धिनि ॥ ८५-१॥ कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम् । न चोक्तं ज्ञानगम्यं तु महाजालनिसेवितम् ॥ ८५-२॥ परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम् । इदानीं वद मे यत्नादानन्दकुलभैरवी ॥ ८५-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां योगिनीनाथ योगविद्यापते प्रभो । परनाथस्य कवचं ज्ञानगम्यं पुरातनम् ॥ ८५-४॥ अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम् । इदानीं नाथ यत्नेन कथयामि परं पदम् ॥ ८५-५॥ अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता ह्सौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः । ॐङ्कारं वेदबीजं मे सदा पातु शिरोधनम् । ह्सौः महाप्रेतराजः कपालं पातु सर्वदा ॥ ८५-६॥ हाकिनीशः सहायाख्यः कामकेशगुणानि मे । वाराणसीपुरः पातु भ्रूमध्यपरदेवता ॥ ८५-७॥ षं रं शं वं सदा पातु हं क्षं पातु भ्रुवोर्दलम् । बाणलिङ्गं सदा पातु भ्रूपद्मयुवती मम ॥ ८५-८॥ कालानलः सदा पातु द्विदलस्थं परात्परम् । भ्रूगह्वरं सदानन्दं पातु त्रिपुरभैरवः ॥ ८५-९॥ अनाथलिङ्गः सर्वेशः पातु मे लोचनत्रयम् । अभयो मङ्गलः पातु ध्रुवाख्ये लोलजिह्विकाम् ॥ ८५-१०॥ पञ्चाननः सदा पातु वदनं कामसुन्दरः । उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु ॥ ८५-११॥ हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः । महादेवः सदा पातु महाकाशः श्रुती मम ॥ ८५-१२॥ विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम् । प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत् ॥ ८५-१३॥ अपराजितः शुक्लवर्णः सदा पातु महामला । गलदेशं महाकाशं त्रिपुरा परमेश्वरी ॥ ८५-१४॥ मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु । स्वरानीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु ॥ ८५-१५॥ वामदेवः सदा पातु हृदयं परमेश्वरः । ईश्वरः सर्वदा पातु परदेवः सदाशिवः ॥ ८५-१६॥ अट्टहासः सदा पातु योगिनीकोटिभिः सह । अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ ॥ ८५-१७॥ महाकालः सदा पातु भेरुण्डापतिरीश्वरः । पार्श्वदेशं सदा पातु काकिनीपरवल्लभः ॥ ८५-१८॥ अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम । अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः ॥ ८५-१९॥ तपिनीपतिरीशानो वीरभद्रो यतीश्वरः । नाभिमण्डलमापातु ममोदरमुमापतिः ॥ ८५-२०॥ घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् । जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् ॥ ८५-२१॥ नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् । स्वाधिष्ठानं सदा पातु षड्दलान्तः प्रकाशकः ॥ ८५-२२॥ अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् । तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम् ॥ ८५-२३॥ गुदरन्ध्रं सदा पातु पार्वतीप्रियवल्लभः । यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् ॥ ८५-२४॥ जङ्घायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः । महाकालः पातु पादतलयुग्मं महीश्वरः ॥ ८५-२५॥ सर्वाङ्गं वरदः पातु वटुकः श्रीसदाशिवः । महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् ॥ ८५-२६॥ रणे द्यूते विवादे च शून्यागारे महाभये । पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः ॥ ८५-२७॥ घण्टेश्वरः शङ्खनादो मुरारीशः प्रपातु माम् । परमानन्ददः पातु हितार्थी पथि पातु माम् ॥ ८५-२८॥ महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् । पुत्रं मित्रं कलत्रं मे बन्धुं स्वजनमेव च ॥ ८५-२९॥ सर्वाधारः सदा पातु लिङ्गरूपी महेश्वरः । परमात्मा सदा पातु गुह्यदेशस्थदेवताम् ॥ ८५-३०॥ परिवारान्वितः पातु महाचन्द्रः सदाऽवतु । मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः ॥ ८५-३१॥ मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः । परनाथो गुरुः पातु पारिजातवनाश्रयः ॥ ८५-३२॥ सर्वभुक् कालरुद्रो मे सर्वत्र परिपातु माम् । इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् ॥ ८५-३३॥ परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् । कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् ॥ ८५-३४॥ यामले देवदेवेश प्रकाशितमहर्निशम् । यः पठेदेकवारं तु स रुद्रो नात्र संशयः ॥ ८५-३५॥ कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् । अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः ॥ ८५-३६॥ भवेत् कामक्रोधजेता मृत्युजेता महाकविः । तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥ ८५-३७॥ यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् । रक्तेन चन्दनेनापि कुङ्कुमेनापि वा लिखेत् ॥ ८५-३८॥ स भवेद् वीरपुत्रश्च महापातककोटिहा । अनायासेन देवेश योगसिद्धिमवाप्नुयात् ॥ ८५-३९॥ शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् ॥ ८५-४०॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चाशीतितमः पटलः ॥ ८५॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Paranatha Kavacham
% File name             : paranAthakavacham.itx
% itxtitle              : paranAthakavacham (rudrayAmalAntargatam)
% engtitle              : paranAthakavacham
% Category              : shiva, kavacha
% Location              : doc_shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 2 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org