फाल्गुनमासकृते शिवशताष्टनामस्तोत्रम् मास १२
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ॐ नमः शिवाय शान्ताय सहमानाय शम्भवे ॥ २५॥
भवाय शिवरूपाय शतावर्ताय वेधसे ।
दुन्दुभ्याय वरेण्याय शरण्याय पिनाकिने ॥ २६॥
योगिने ध्यानगम्याय रम्याय गुरवे नमः ।
अवसान्याय वन्याय आहनन्याय ते नमः ॥ २७॥
कामनाशाय वासाय हरणाय विसारिणे ।
नमोऽस्तु ते महेशाय नमः शान्तमुमापते ॥ २८॥
प्रधानपुरुषेशाय योगाधिपतये नमः ।
नमस्त्रिकाग्निकालाय त्र्यम्बकाय पिनाकिने ॥ २९॥
नमः कालाय रुद्राय महासत्राय शूलिने ।
नमो धूर्जटये तुभ्यं जटिलाय कृशाय च ॥ ३०॥
ब्रह्माधिपतये तुभ्यं ब्रह्मविद्याधिपाय च ।
विष्णोश्च जनकायाथ कामकायान्तकाय च ॥ ३१॥
नमो वेदरहस्याय हर्षतर्षाय ते नमः ।
वेदवेदान्तसाराय सुपाराय नमो नमः ॥ ३२॥
अतीतानागतज्ञाय वर्तमानाय बृंहते ।
मेरुकोदण्डहस्ताय गङ्गामस्ताय दारिणे ॥ ३३॥
नमो बुद्धाय शुद्धाय मेध्याय परमात्मने ।
भूतनाथाय भव्याय हव्यकव्यभुजे नमः ॥ ३४॥
नमो दिग्वाससे तुभ्यं दण्डिने मुण्डिने नमः ।
अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥ ३५॥
प्रधानपरमाण्वादिमूर्तयेऽनन्तशक्तये ।
विचित्रमहिमाधारस्वरूपाय नमोनमः ॥ ३६॥
भूम्ने सीम्ने वेदधाम्ने व्योमसाम्ने नमोनमः ।
नमस्ताराय तीर्थाय सर्गादिपरमाय च ॥ ३७॥
नमः पार्याय वार्याय शर्वाय प्रतिमाय च ।
कुक्कुराय विशेषाय मध्यान्तरहिताय च ॥ ३८॥
प्रसन्नाय परायाथ कामाङ्गाय सुरेतसे ।
गर्जते तर्जते चैव मार्जते ब्रह्मरूपिणे ॥ ३९॥
ऊर्जाय कालनेत्राय दुर्गगम्याय भास्वते ।
ताम्राय तरुणायाथ कारणाय नमोनमः ॥ ४०॥
नमो धर्मादिगम्याय विरागाय सुरागिणे ।
नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः ॥ ४१॥
ब्रह्मणे विश्वरूपाय सनातनाय मन्यवे ।
पत्तीनां पतये चैव कारणानां च कारिणे ॥ ४२॥
नमः पारदवीर्याय दुर्गार्तिशमनाय च ।
- -
देव्येभिर्नामभिर्देवं सम्पूज्य कुसुमैः शुभैः ॥ ४३॥
स्तवमेतत्प्रयुञ्जीत शर्वप्रीतिकरं मम ॥ ४४॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं फाल्गुनमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २५ फाल्गुनमासार्चनम् । २५.२-४४॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 25 phAlgunamAsArchanam . 25.2-44..
Notes:
Śiva शिव delivers to Devī देवी; Phālgunamāsakṛte ŚivaŚatāṣṭanāmaStotram फाल्गुनमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Phālguna māsa फाल्गुन मास.
The corresponding Phālgunamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ फाल्गुनमासकृते शिवशताष्टनामावलिः derived from the Phālgunamāsakṛte ŚivaŚatāṣṭanāmaStotram फाल्गुनमासकृते शिवशताष्टनामस्तोत्रम्, and a Phālgunamāsakṛte ŚivaStutiḥ फाल्गुनमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 25 are presented on this page.
Proofread by Ruma Dewan