फाल्गुनमासकृते शिवस्तुतिः मास १२
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
देवादिदेव गिरिजायुतवामभाग
भोगिप्रियाभरणकारण तारणेश
व्योमादि संवरण सत्प्रणवानुमेय
मायाविनेऽद्य भगवन् सततं नमस्ते ॥ ४५॥
हे भर्ग शङ्कर महेश पिनाकपाणे
गङ्गाधरान्तक हरामरधीरवीर ।
हारीकृताहीन विभो समान-
मानादि मेयरहितामल पाहि दीनम् ॥ ४६॥
त्वय्येव सृष्टमखिलं त्वयि लीनमेत-
त्सङ्कल्पशिल्पमखिलं भवजालमीश ।
भूतं भवज्जननसंस्थिति नाशमान-
मेततत्तवोदरगतं परिपाहि शम्भो ॥ ४७॥
- -
स्तवमेतं प्रयुञ्जीत फालगुने मासि सत्तमे ।
हृत्तमोनाशकं देवि पुण्यमायुष्यवर्धनम् ॥ ४८॥
एकवारं त्रिवारं वा पूजयेदिन्दुशेखरम् ।
सर्वेष्वपि च मासेषु दद्याद्गोमिथुनं सितम् ॥ ४९॥
सदक्षिणं सवत्सं च सताम्बूलमुमापतेः ।
प्रीतये शैववर्येभ्यो दापयेच्छिवपूजकः ॥ ५०॥
मासि तस्मिन् शिवे पूर्णपर्वण्येव समाहितः ।
मधुकम्बलमीशाय कृत्वा पापैः प्रमुच्यते ॥ ५१॥
घृतकम्बलम्माघेन वैशाखे दधिकम्बलम् ।
कृत्वा पापैः प्रमुच्येत शिवस्यतिप्रियो भवेत् ॥ ५२॥
मधुकम्बलकं कुर्यात् फाल्गुने पापहारि तत् । ५३.१
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं फाल्गुनमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २५ फाल्गुनमासार्चनम् । ४५-५३.१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 25 phAlgunamAsArchanam . 45-53.1..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Phālguna māsa फाल्गुन मास. He mentions about offering of Madhukambalam मधुकम्बलम् during the Phālgunamāsa फाल्गुनमास.
The Phālgunamāsakṛte ŚivaŚatāṣṭanāmaStotram फाल्गुनमासकृते शिवशताष्टनामस्तोत्रम् and the Phālgunamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ फाल्गुनमासकृते शिवशताष्टनामावलिः comprising of 108 Names १०८ नामानि of Śiva शिव, derived from the same can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 25 are presented on this page.
Proofread by Ruma Dewan