पितामहकृतं २ शिवस्तोत्रम्
श्रीपितामह उवाच ।
प्रसीद देवदेवेश प्रसीद परमेश्वर ।
प्रसीद जगतां नाथ प्रसीदानन्ददाव्यय ॥ १२२॥
पञ्चास्य रुद्ररुद्राय पञ्चाशत्कोटिमूर्तये ।
आत्मत्रयोपविष्टाय विद्यातत्त्वाय ते नमः ॥ १२३॥
शिवाय शिवतत्त्वाय अघोराय नमो नमः ।
अघोराष्टकतत्त्वाय द्वादशात्मस्वरूपिणे ॥ १२४॥
विद्युत्कोटिप्रतीकाशमष्टकाशं सुशोभनम् ।
रूपमास्थाय लोकेऽस्मिन् संस्थिताय शिवात्मने ॥ १२५॥
अग्निवर्णाय रौद्राय अम्बिकार्धशरीरिणे ।
धवलश्यामरक्तानां मुक्तिदायामराय च ॥ १२६॥
ज्येष्ठाय रुद्ररूपाय सोमाय वरदाय च ।
त्रिलोकाय त्रिदेवाय वषट्काराय वै नमः ॥ १२७॥
मध्ये गगनरूपाय गगनस्थाय ते नमः ।
अष्टक्षेत्राष्टरूपाय अष्टतत्त्वाय ते नमः ॥ १२८॥
चतुर्धा च चतुर्धा च चतुर्धा संस्थिताय च ।
पञ्चधा पञ्चधा चैव पञ्चमन्त्रशरीरिणे ॥ १२९॥
चतुःषष्टिप्रकाराय अकाराय नमो नमः ।
द्वात्रिंशत्तत्त्वरूपाय उकाराय नमो नमः ॥ १३०॥
षोडशात्मस्वरूपाय मकाराय नमो नमः ।
अष्टधाऽऽत्मस्वरूपाय अर्धमात्राऽऽत्मने नमः ॥ १३१॥
ॐ काराय नमस्तुभ्यं चतुर्धा संस्थिताय च ।
गगनेशाय सहस्रशिरसे स्वर्गेशाय नमो नमः ॥ १३२॥
सप्तलोकाय पातालनरकेशाय वै नमः ।
अष्टक्षेत्राष्टरूपाय परात्परतराय च ॥ १३३॥
सहस्रशिरसे तुभ्यं सहस्राय च ते नमः ।
सहस्रपादयुक्ताय शर्वाय परमेष्ठिने ॥ १३४॥
नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये ।
पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये ॥ १३५॥
चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते ।
गुणाष्टकवृतायैव गुणिने निर्गुणाय ते ॥ १३६॥
मूलस्ताय नमस्तुभ्यं शास्वतस्थानवासिने ।
नाभिमण्डलसंस्थाय हृदि निस्स्वनकारिणे ॥ १३७॥
कन्धरे च स्थितायैव तालुरन्ध्रस्थिताय च ।
भ्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च ॥ १३८॥
चन्द्रबिम्बस्थितायैव शिवाय शिवरूपिणे ।
वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे ॥ १३९॥
त्रिधा संवृत्य लोकान्वै प्रसुप्तभुजगात्मने ।
त्रिप्रकारं स्तितायैव त्रेताग्निमयरूपिणे ॥ १४०॥
सदाशिवाय शान्ताय महेशाय पिनाकिने ।
सर्वज्ञाय शरण्याय सद्योजाताय वै नमः ॥ १४१॥
अघोराय नमस्तुभ्यं वामदेवाय ते नमः ।
तत्पुरुषाय नमोऽस्तु ईशानाय नमो नमः ॥ १४२॥
नमस्त्रिंशत्प्रकाशाय शान्तातीताय वै नमः ।
अनन्तेशाय सूक्ष्माय उत्तमाय नमोऽस्तु ते ॥ १४३॥
एकाक्षाय नमस्तुभ्यमेकरुद्राय ते नमः ।
नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने ॥ १४४॥
अनन्तासनसंस्थाय अनन्तायान्तकारिणे ।
विमलाय विशालाय विमलाङ्गाय ते नमः ॥ १४५॥
विमलासनसंस्थाय विमलार्थार्थरूपिणे ।
योगपीठान्तरस्थाय योगिने योगदायिने ॥ १४६॥
योगिनां हृदि संस्थाय सदा नीवारशूकवत् ।
प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते ॥ १४७॥
प्रत्याहाररतानां च प्रतिस्थानस्थिताय च ।
धारणायै नमस्तुभ्यं धारणाभिरताय ते ॥ १४८॥
धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च ।
ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः ॥ १४९॥
ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः ।
ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते ॥ १५०॥
समाधानाभिगम्याय समाधानाय ते नमः ।
समाधानरतानां तु निर्विकल्पार्थरूपिणे ॥ १५१॥
दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरुत्रयं हि ।
कस्तोतुमिच्छेत्कथमीदृशं त्वां स्तोष्येह तुष्टाय शिवाय तुभ्यम् ॥ १५२॥
भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव ।
एते गणाः सिद्धगणैः प्रणामं कुर्वन्ति देवेश गणेश तुभ्यम् ॥ १५३॥
निरीक्षणादेव विभोऽसि दग्धुं पुरत्रयं चैव जगत्त्रयं च ।
लीलालसेनाम्बिकया क्षणेन दग्धं किलेषुश्च तदाथ मुक्तः ॥ १५४॥
कृतो रथश्चैषुवरश्च शुभ्रं शरासनं ते त्रिपुरक्षयाय ।
अनेकयत्नैश्च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसङ्घैः ॥ १५५॥
रथो रथी देववरो हरिश्च रुद्रः स्वयं शक्रपितामहौ च ।
त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्यतोष्यं प्रणिपत्य मूर्ध्ना ॥ १५६॥
अनन्तपादस्त्वमनन्तबाहुरनन्तमूर्धान्तकरः शिवश्च ।
अनन्तमूर्तिः कथमीदृशं त्वां तेष्ये ह्यतोष्यं कथमीदृशं त्वाम् ॥ १५७॥
नमो नमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम् ।
स्तूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्मसूक्ष्माय सूक्ष्मार्थविदे विधात्रे ॥ १५८॥
स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे ।
नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे ॥ १५९॥
वेदान्तवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय ।
वेदात्मरूपाय भवाय तुभ्यमन्ताय मध्याय सुमध्यमाय ॥ १६०॥
आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिङ्गिने च ।
अलिङ्गिने लिङ्गमयाय तुभ्यं लिङ्गाय वेदादिमयाय साक्षात् ॥ १६१॥
रुद्राय मूर्धाननिकृन्तनाय ममादिदेवस्य च यज्ञमूर्तेः ।
विध्वान्तभङ्गं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या ॥ १६२॥
अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश ।
देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्त्व ॥ १६३॥
एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं मूर्तामूर्तं मूर्तमेकं ह्यमूर्तम् ।
एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते ॥ १६४॥
स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि ।
मूर्तिर्नो वै देवमीशान देवैर्लक्ष्या यत्नैरप्यलक्ष्यं कथं तु ॥ १६५॥
दिव्यः क्व देवेश भवत्प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश्च ।
तथापि भक्त्या विलपन्तमीश पितामहं मां भगवन्क्षमस्व ॥ १६६॥
सूत उवाच ।
य इमं शृणुयाद्द्विजोत्तमा भुवि देवं प्रणिपत्य वा पठेत् ।
स च मुञ्चति पापबन्धनं भवभक्त्या पुरशासितुः स्तवम् ॥ १६७॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे द्विसप्ततितमाध्यायान्तर्गतं
पितामहकृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ७२/१२२-१६७॥
lingapurANa . pUrvabhAga . adhyAya 72/122-167..
Proofread by PSA Easwaran