यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनम्

यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनम्

प्रदोषे लिङ्गपूजायां दृष्टायां पापसङ्क्षयः । अक्षया मोक्षलक्ष्मीश्च भविष्यत्यधमस्य च ॥ ५०॥ जन्म तस्यैव सफलं येन सम्यक् समर्चितम् । सायं सुकृदयत्नेन आलस्याद्वा प्रयत्नतः ॥ ५१॥ आयासमात्रफलकैः धर्माभासैः कुतः फलम् । स्मार्तैर्वा वैदिकैर्वाऽपि शिवलिङ्गार्चनं विना ॥ ५२॥ स्मार्तवैदिकधर्माणां अनुष्ठानेऽपि कोटिशः । लिङ्गार्चनेन यत् प्राप्यं तत् प्राप्यं तैर्न सर्वथा ॥ ५३॥ धर्मान्तराणां करणं धननाशाय केवलम् । शिवार्चनं परो धर्मः परमानन्दसाधनम् ॥ ५४॥ पापराशिविनाशाय शिवलिङ्गावलोकनम् । कल्पितं गिरिशेनेति न जानात्येव नारकी ॥ ५५॥ लोकोपकारकं सृष्टं शिवलिङ्गावलोकनम् । तन्न कुर्वन्ति पापिष्ठाः पतन्ति नरकेष्वहो ॥ ५६॥ अनाथनाथं श्रीनाथनयनार्चितपादुकम् । न जानन्ति महादेवं नरकेषु पतन्त्यहो ॥ ५७॥ श्रीमहादेवमहिमा दुर्ज्ञेयो दुर्जनैरतः । पतन्ति नरके घोरे पितृभिः सह सर्वथा ॥ ५८॥ पितापितामहादीनां यः शम्भुर्यो भवः प्रभुः । तं न जानन्ति दुर्वृत्ताः पतन्ति नरकेष्वहो ॥ ५९॥ शिवधर्मेष्वविश्वासादन्यधर्मरता नराः । पतन्ति नरके क्रूरा नराः शङ्करनिन्दकाः ॥ ६०॥ तदर्थं नरकाः सृष्टाः सर्वथा दुःखहेतवः । यैर्महादेवलिङ्गार्चाफलं न ज्ञातमादरात् ॥ ६१॥ न जानाति महादेवलिङ्गपूजाफलानि यः । स सूकरः खरो यद्वा शुनकः काक एव वा ॥ ६२॥ दुर्भगा एव ते सर्वे भर्गार्चनपराङ्मुखाः । तन्मुखानि प्रदग्धानि शिवद्वेषाग्निकोटिभिः ॥ ६३॥ सुलभं न विजानन्ति महादेवार्चनं जनाः । शुद्धदूर्वाङ्कुरेणापि लिङ्गपूजा विमुक्तिदा ॥ ६४॥ क्षीरं वा नीरमुत्सृज्य भक्त्या लिङ्गे शिवात्मके । विधूतपातका एव प्रयान्ति शिवमव्ययम् ॥ ६५॥ शुष्केण बिल्वपत्रेण तच्चूर्णेनापि यः शिवम् । पूजयिष्यति तस्यापि मुक्तिकान्ता न दुर्लभा ॥ ६६॥ व्यासङ्गेनापि यः शाङ्गं लिङ्गं मङ्गलदायकम् । सायं पश्यति पुण्यात्मा नमस्तस्मै नमो नमः ॥ ६७॥ अनाराध्य महादेवमनायासेन पापिनः । प्रयान्ति दुर्गमं घोरं नरकालयमन्वहम् ॥ ६८॥ बने वनानि रम्याणि वनजान्यपि तैः शिवः । नाराध्यते दुर्भागेन नरकावासमिच्छता ॥ ६९॥ अनिच्छयाप्युमाकान्तं लिङ्गं पश्यति यो नरः । सायं स दोषनिर्मुक्तो मुक्तो भवति नान्यथा ॥ ७०॥ तृणैरपि शिवं मूर्खाः कथं नाराधयन्त्यहो । महादेवं महामोहो महानरकसाधनम् ॥ ७१॥ शिवलिङ्गार्चकाङ्गानि दृष्ट्वाऽपि रजनीमुखे । प्रयान्ति ब्रह्मसदनं तल्लीलाऽत्यन्तमद्भुता ॥ ७२॥ सुभगत्वेन विज्ञातं शाङ्गाङ्गस्य विलोकनम् । तदभाग्याग्निदग्धानां अतिदुर्लभमेव हि ॥ ७३॥ लिङ्गार्चनेन किं पुण्यमित्युपेक्षापि चेत् क्षणम् । तद्वंशक्षय एव स्यात् पक्षपातेन नोच्यते ॥ ७४॥ अहो महदिदं भाग्यं शिवलिङ्गार्चने मतिः । तदेव हि महद्भाग्यं महाभाग्यमिति श्रुतम् ॥ ७५॥ लोके दुराचाररताः शिवार्चां विहाय तिष्ठन्त्यतिविष्ठया ते । लिप्ता भविष्यन्ति न संशयोऽत्र शिवापदाम्भोजयुगे शपामि ॥ ७६॥ यः कर्मणा वा मनसाऽपि वाग्मी नित्यं त्रिभिर्वा त्रिपुरान्तकार्चाम् । करोति तत्पादरजःप्रसादं वाञ्छ्त्युपेन्द्रोऽपि चतुर्मुखोऽपि ॥ ७७॥ किं वक्तव्यमुमासहायचरणाम्भोजार्चकाराधका- पारैश्वर्यपरं हरिः प्रतिदिनं तत्सेवकाराधकः । श्रीवाणीरमणादयोऽपि मुनयः सिद्धाः सुमुग्धास्ततो गन्धर्वा अपि किन्नरा अपि तथा शेषादयः सेवकाः ॥ ७८॥ शम्भुस्सर्वजगत्प्रभुर्विभुरिति ज्ञात्वा परं शाम्भवाः तत्पूजानिरताः परात् परतरं तेजः परं शाम्भवम् । प्राप्यान्ते परमोत्सवादृतनिजव्यापारपारङ्गताः पारावारविहारपूजितपदाम्भोजाः प्रसन्नाः सदा ॥ ७९॥ कस्तूरीमृगराजराजसहितः कर्पूरगन्धो यथा न ज्ञातः शुनकैस्तथा शिवशिवाचारव्रतानादरैः । न ज्ञातं शिवलिङ्गपूजनफलं तत्कालकालार्चकैः ज्ञेयं केवलमित्यलौकिकमिदं ज्ञेयं कथं पामरैः ॥ ८०॥ किमन्यद्वक्तव्यं स्मरहरकथासङ्गसरसो न विज्ञातो लोकरमितमहिमा तेन सहसा । न बुद्धिर्मन्दानां शिवचरणसेवानुकरणे क्षणं वा न क्षीणं यदि मरणकालेऽप्यघकुलम् ॥ ८१॥ बलादेते लोकाः खलजनरता एव नितरां न जानन्त्येवालं बत बत न कालान्तकमतं अतोऽन्ते सन्तप्ताः प्रतिपदमहाघोरनरके- ष्वसन्तोषे दोषप्रलयनविषादेति स विषम् ॥ ८२॥ अहो मोहः कोवा जगति न महादेवभजने मतिर्भक्तिः श्रद्धा कथमपि न तत्पूजनरतिः । न तद्भक्तालापेप्यभिरुचिरतो यान्ति नरके- ष्वघोरेषु भ्रष्टाः शिवरुचिरमार्गादिति शठाः ॥ ८३॥ ललाटे किञ्चिद्वा सितभसितमालिप्य शिरसा मुहुर्नत्वा यद्वा सकृदपि सुरुद्राक्षवपुषा । शिवं दृष्ट्वा सायं जलमपि विनिक्षिप्य विमलं कलौ लिङ्गेश शिवपदसरोजे प्रविशति ॥ ८४॥ ॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३ - यमसदस्यसंवादे प्रदोषकालदीपदर्शनपूजामहिमवर्णनम् । ५०-७५॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 3 - yamasadasyasaMvAde pradoShakAladIpadarshanapUjAmahimavarNanam . 50-75.. Proofread by Ruma Dewan
% Text title            : Yamaproktam Pradoshakalelingapujamahimavarnanam
% File name             : pradoShakAlelingapUjAmahimavarNanam.itx
% itxtitle              : liNgapUjAmahimavarNanam pradoShakAle (shivarahasyAntargatam)
% engtitle              : pradoShakAle lingapUjAmahimavarNanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 3 | 50-75 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org