याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनम्
सायङ्काले त्वया दृष्टं शिवलिङ्गं समर्चितम् ।
तेन पुण्यप्रभावेन ज्ञानमेवमभूत् तव ॥ १४॥
तदिदं पुण्यमुत्कृष्टं तत्प्रभावात्तवेदृशी ।
मतिर्युक्ता न सन्देहः तत्पुण्यं तादृशं यतः ॥ १५॥
शङ्करानुग्रहेणैव तत्पुण्यमभवत् तव ।
अन्यथा तादृशं पुण्यं देवानामपि दुर्लभम् ॥ १६॥
शिवलिङ्गार्चनं दृष्ट्वा सायङ्काले विशेषतः ।
स्वयं नृत्यति सन्तुष्टो दिव्यदेवगणैः सह ॥ १७॥
प्रदोषसमये दृष्टं शिवलिङ्गं समर्चितम् ।
सर्वकामदमित्याहुः तत्सत्यमभवत् खलु ॥ १८॥
सन्दिहानः शिवाचारे पापिष्ठो न प्रवर्तते ।
एतादृशं महाभाग्यमधुना दृष्टमद्भुतम् ॥ १९॥
तव स्वरूपं विज्ञातं त्वयापि न शिवार्चनम् ।
कृतं पापेन नीतानि दिनानि खलु सर्वदा ॥ २०॥
दुष्प्रतिग्रहलोलस्त्वं दुराचाररतः सदा ।
न स्नानकर्मनिरतो वैदिकं ज्ञायतेऽपि वा ॥ २१॥
नीचान्नभक्षणेनैव वयो नीतं त्वया खलु ।
मद्यपाङ्गनया साकं बहुकालमवस्थितम् ॥ २२॥
तस्मादुत्पादिताः पुत्राः कन्यकाश्च दुरात्मना ।
त्रिपुण्ड्रधारणं तावन्न कृतं श्रुतिचोदितम् ॥ २३॥
रुद्राक्षाणां च धरणं कदाचिन्न कृतं त्वया ।
बिल्वपत्रं न निक्षिप्तं जलं वा लिङ्गमस्तके ॥ २४॥
न दीपवर्तिका दत्ता त्वया शङ्करमन्दिरे ।
दीपप्रदानवार्ता तु दूरतस्तव सर्वथा ॥ २५॥
न सोमवासरे भुक्तं नियमान्निशि सादरम् ।
शाम्भवैः सह संलापो न त्वया कृत एव हि ॥ २६॥
पुण्याः शिवकथालापाः सर्वथा न श्रुतास्त्वया ।
रुद्राध्यायो न जप्तो हि मन्त्ररत्नसमाश्रयः ॥ २७॥
एतादृशेन दुष्टेन प्रदोषे दैवयोगतः ।
शिवलिङ्गं त्वया दृष्टं कृतकृत्योऽसि तावता ॥ २८॥
शिवलिङ्गं न दृष्टं चेत् सायङ्काले त्वया तदा ।
आकल्पं नरकात् घोरात् प्रच्यवस्ते कथं भवेत् ॥ २९॥
शिवाचारविहीनानां नरकात् निर्गमाकथम् ।
पुत्रादिभिः सहावासो नरकेष्वेव कोटिशः ॥ ३०॥
जन्मोत्तरं वा सततं शिवमर्चय सादरम् ।
जातिस्मरत्वं सम्प्राप्य तेन पुण्येन सत्वरम् ॥ ३१॥
तत्वज्ञानस्य धर्माणां यागानामपि यत्फलम् ।
तत्फलं केवलं मन्ये श्रीमहादेवपूजनम् ॥ ३२॥
शिवार्चनेन सर्वेषां कामानां सिद्धिरित्यतः ।
प्रयत्नैर्बहुभिर्नित्यं कुरु शङ्करपूजनम् ॥ ३३॥
॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४ - प्रदोषपूजादर्शनफलवर्णनम् । १४-३३॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 4 - pradoShapUjAdarshanaphalavarNanam . 14-33..
Proofread by Ruma Dewan