प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनम्
- प्रलयानलकूर्मसंवादे -
कूर्मः -
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥ १०५॥
एतादृशं महादेवं ज्ञात्वा यः पूजयेत् सदा ।
स तरत्येव संसारपातकं सागराकरम् ॥ १२६॥
संसारप्रलयानलेन सहसा तप्ताः परं शङ्करं
पुनः पुनर्जनिजरानाशान् प्रयान्त्येव ते ।
तेषां शाङ्करपूजने न रतिरित्यज्ञानगर्ते परं
मना एव भवन्ति मग्नननसो भग्नाश्च संसारतः ॥ १०७॥
अहो न जानाति महेशशक्तिं संसारबन्धमलयप्रवृत्ताम् ।
सा शक्तिरीशस्य परं समग्रा ज्ञातुं न शक्ता विषयेन वाचाम् ॥ १०८॥
यथाकथञ्चित् गिरिशार्चनेन कालोऽपि नेयः खलु सावधानम् ।
विना न तेनारित च जीवनं च तदेव तावत्खलु जीवनं च ॥ १०९॥
अस्माभिः शिवलिङ्गपूजनविधिः ज्ञातो न सर्वात्मना
ब्रह्माद्यैरपि केवलं श्रुतिमता भूतिर्ललाटे परम् ।
काचिद्भात्यतिभाग्यतः ससलिलं बिल्वीदलं दीयते
लिङ्गे मङ्गलदायके शिवशिवेत्युक्त्वा नमोन्तं मनुम् ॥ ११०॥
अस्माभिर्मत एव तावदधुना लिङ्गे प्रदेयं मुदा
तेनैवादरतो महेश्वरपदाम्भोजार्चनं सिद्ध्यति ।
सिद्ध्यन्त्येव फलानि तावदसकृत् रम्याण्यपाराण्यतः
चित्तं स्वस्थमिदं भविष्यति परा मुक्तिर्भवित्री ततः ॥ १११॥
महेशलिङ्गार्चनरूपमेकं लब्धं निधानं निधयोऽपि तेन ।
नवापि तावत् प्रभवन्ति सत्यं ते किं पुनः सापि न तेन मुक्तिः ॥ ११२॥
लिङ्गात्मकं साधनमेकमेव दृष्टं महेशेन विशेषतस्तु ।
तन्मुक्तिबीजं सुखबीजमेकं सर्वार्थसम्पत्करमेकमेव ॥ ११३॥
किं किं पुरा पुण्यमपारमादौ कृतं शिवाराधनबुद्धिहेतुः ।
इदं परं जीवनमेव पुण्यं धन्यं शिवाराधनसाधनं मे ॥ ११४॥
ते साधवस्ते कृतपुण्यरूपाः ते पुण्यमूलैस्तु परं प्रवृद्धाः ।
ते शाङ्गलिङ्गार्चनधूतपापाः पूताः प्रहृष्टाश्च तथापि तुष्टाः ॥ ११५॥
लोके दुर्लभ एव साधुरिति मे बुद्धिः स साधुः परं
शङ्गाराधनतत्परः सितलसद्भूतित्रिपुण्ड्राङ्कितः ।
तेनैवेन्दुकलावतंसभजनानन्दः प्रवृद्धो भवेत्
प्रीतिर्बुद्धिमुपैति तेन सह मे सङ्गः सदा वाञ्छितः ॥ ११६॥
शिवार्चकालोकनमेव लोके संसारदावानलजालरूपम् ।
मन्ये ततस्तेन सहास्तु सङ्गः स मङ्गलानायकलीलया स्यात् ॥ ११७॥
अस्माभिरर्धेन्दुकलावतंसप्रभावविज्ञानविशेषशून्यैः ।
शाङ्गाङ्गसङ्गेन विनेय एव कालः कथञ्चित् कलिनाशहेतुः ॥ ११८॥
अभूतपूर्व फलमेकमेव यच्छाङ्गलिङ्गार्चनलक्षणं मे ।
अनेन तावत्प्रभवन्ति लोकाः कीलालमात्रार्पणतोऽपि स स्यात् ॥ ११९॥
कीलालेनापि येनापि कालकालः समर्चितः ।
ददाति भुक्तिं मुक्तिं च किं पुनः कुसुमार्चितः ॥ १२०॥
जीवनेनार्चितो जीवान् जीवयत्येव शङ्करः ।
अतो जीवनमात्रेणाप्यर्चनीयः सदाशिवः ॥ १२१॥
यदि स्याज्जीवनापेक्षा जीवानां जातु जीवनैः ।
पूजनीयः सकृद्वापि जीवने सति शङ्करः ॥ १२२॥
करोति कौतुकं लोके स गौरीकामुकः खलु ।
छिन्नपत्रार्पणेनापि तुष्टो मुक्तिं प्रयच्छति ॥ १२३॥
कैवल्यकान्तारमणं करोति करोति भूमण्डलनायकं च ।
सकृत् स्मृतो वा प्रणतोऽपि भक्त्या समर्चितो वा गिरिजासहायः ॥ १२४॥
एतादृशोऽयं गिरिजासहायः कृपाम्बुराशिः सुकृतातिपुण्यैः ।
नित्यं समाराधित एव तेभ्यो ददाति भुक्तिं प्रददाति मुक्तिम् ॥ १२५॥
अज्ञाः परं शङ्करपादपद्मप्रणामपूजानिरता न नूनम् ।
तेषां कृतान्तालयपूरणाय निर्माणमित्येव मतिर्ममाभूत् ॥ १२६॥
लोके कोऽपि न शङ्करार्चनपरो दुःखालयो जायते
संसारानभिभूत एव स परान् भुक्त्वापि भोगान् बहून् ।
मुक्तः शङ्करकिङ्करैः सह सदा कुर्वन् शिवाराधनं
कैलासाचलमन्दिरान्तरमहोद्याने परं क्रीडति ॥ १२७॥
उन्मादेन विना शिवार्चनपरो भूतित्रिपुण्ड्राङ्कितो
रुद्राक्षाभरणो रमापतिलसन्नेत्रारविन्दार्चितम् ।
स्मृत्वा शङ्करपादपद्यमनिशं बिल्वीदलैरर्चयन्
लिङ्गे शङ्करमिन्दुमौलिभजनासक्तः कृतार्थो भुवि ॥ १२८॥
॥ इति शिवरहस्यान्तर्गते प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३५ -
प्रलयानल प्रति कूर्मेण शिवधर्मनिरूपणम् । १०५-१२८॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 35 -
pralayAnala prati kUrmeNa shivadharmanirUpaNam . 105-128..
Proofread by Ruma Dewan