प्रमोदकृतं शिवस्तोत्रम्
प्रमोद उवाच ।
प्रायः प्रपन्नार्तिहरोऽसि नाथ प्रपन्नसर्वेन्द्रियवृत्तिभाजाम् ।
अमुक्तसान्निध्यकरो बुधानां अतस्त्वदन्यं शरणं न पश्ये ॥ ११४॥
प्रवातशीलः प्रहतेषु नित्यं प्रसिद्धमेतद्ववचनं त्रयीषु ।
अनर्चतो मे कृपणस्य शम्भो कृपाकरोऽयं तदहो विचित्रम् ॥ ११५॥
उपेयुषामेव तनोति कामं सुरद्रुमश्रोत्र कथं न दृष्टम् ।
पादारविन्दोऽनुस्मरणोऽनुतापी दूरे ममानुग्रहकृद्विचित्रम् ॥ ११६॥
पवित्रितं जन्म जगत्त्रयो यत्त्वया कृपालोचनपातितस्य ।
ममाधुना मङ्गलपुण्यपूर्णा स्वयं समानन्दसुसम्पदो यत् ॥ ११७॥
नमः शिवाय च शुभहेतुहेतवे सुधांशुचूडामणये नमो नमः ।
नगात्मजाऽऽलिङ्गितचारुमूर्तये सहस्रकृत्वः प्रणतोऽस्मि नित्यम् ॥ ११८॥
गिरीश विश्वेशाधुना पुनीहि पुण्येन कृपाक्षिवर्चसा च ।
पुरत्रयध्वंसनपुञ्जितश्रीः किमद्भुतं भूरुहमात्रतक्षणम् ॥ ११९॥
वृषाङ्क विश्वाधिक भर्ग ते पादाम्बुजाराधानभाग्यदायिना ।
विलोकनेनाशु विलोकयाधुना प्रपन्नमेनं जनमार्तिभञ्जन ॥ १२०॥
शम्भो तवालं जनितानिलभागधेयमन्ते विचिन्तयति विश्वमिदं समस्तम् ।
त्वय्यद्भुतामधुना तरुमात्रदाहलीलाविलासकोपभराद्दयालो ॥ १२१॥
प्रसीद मयि सन्ततं प्रमथनाथगाथेतर
प्रवाह करुणाम्बुधे प्रणतिभाति पापाहन् ।
अकालविलयागमव्यसनशङ्कुशङ्कावता-
मपाकुरु भयामयं स्वपदसेविनां मा चिरम् ॥ १२२॥
इति ताम्रपर्णीमाहात्म्ये एकोनत्रिंशाध्यायान्तर्गतं
प्रमोदकृतं शिवस्तोत्रं
ताम्रपर्णीमाहात्म्य । अध्याय २९/११४-१२२॥
tAmraparNImAhAtmya . adhyAya 29/114-122..
Proofread by PSA Easwaran