पुण्यनिधिप्रोक्तं काशीक्षेत्रमाहात्म्यम्

पुण्यनिधिप्रोक्तं काशीक्षेत्रमाहात्म्यम्

(शिवरहस्यान्तर्गते उग्राख्ये) पुण्यनिधिरुवाच काशीत्यस्ति महाक्षेत्रं (महत्स्थलं) श्रुतिशिरोरत्नस्यतत्वं मया न ज्ञात मुनिभिः सुरैरपि परिज्ञातं मुकुन्दादिभिः । न ज्ञात श्रुतिभिश्च नैव विदितं सिद्धैश्च वेदेश्वरः तत्त्वं तच्छिवतत्ववित्तदितरैर्ज्ञेयं कथं तद्भवेत् ॥ ५५४॥ या काशी हृदि यस्य दीपकलिकेवाभाति तस्यैव सा विज्ञेया भवति स्फुटं तदितरैर्नज्ञायते सर्वथा । सा भात्येवा तथा महेश हृदये या ज्ञायते सा तत- स्तेनेशेन परात्परेण विभुना विश्वाधिकेन ध्रुवम् ॥ ५५५॥ यस्यामन्तकभीतिलेशरहिताः कार्तान्तवार्ता विना निःशङ्कं निवसन्ति सन्ततमुमाकान्तार्चकाः शाङ्कराः । सेयं पाशुपतस्थले मुनिवरैराराधिता संस्तुता वेदान्तैः शिवरूपिणीति सततं काशीति काशीति च ॥ ५५६॥ यस्यां देहविसर्जने सति महादेवः परं तारकं व्याचष्टे शिवतत्पराय विलुठत्संसार विच्छित्तये । तद्रूपं भगवान्नवेति भगवान्रुद्रस्तदन्यो न वा यो वै रुद्र इति श्रुतिस्तदितरन्नैवाभिवक्तिध्रुवम् ॥ ५६१॥ विश्वेशाभिधलिङ्गमेकममलं धृत्वा विमुक्तं सदा शैवांस्तारयितुं महाघ निचयात्संसारतोऽपीश्वरः । मायाजालविशोधनाय सततं साम्बोऽम्बया संस्थितः काशीतत्वविदुत्तमः शिवतमः सर्वोत्तमः शङ्करः ॥ ५६२॥ काशी नाम सुधानिधिः सुरगणैः संसेवितः सादरं जाबालादिसमस्तवेदनिकरैः सम्यक् श्रुतः सन्ततम् । नानातीर्थसमन्वितः श्रुतिमतैर्लिङ्गैरनेकैर्वृतः दृष्टो हन्ति समस्तपातकगणान्ध्यातस्तु निर्वाणदः ॥ ५६३॥ काशीत्येव महामनुः श्रुतिपथं प्राप्तोऽखिलांहोगु(ग)णा न्दूरीकृत्यनिराकरोति विमलां मुक्ति ददाति स्वतः । वेदान्तै रखिलैः स्तुतः स तु मनुः शैवस्ततस्तं मनुं वेदोवेद शिवोऽथवा तदितरो नो वेद सन्त्यं ध्रुवम ॥ ५६४॥ काशीवीथिषु सञ्चरन्प्रतिपदं यागायुतानां फलं सम्प्राप्नोति नराधमोऽपि किमुत स्वस्थः शिवाराधकः । ?? ... ... ... ... ... ... ... ... ... (words missing in source text) तस्मादादरतोऽनिशं शिवपरैः सेव्यो मृडानीपतिः ॥ ५६५॥ सेव्यः सन्ततमन्तकान्तकमहादेवेति संवादिभिः संसाराद्भुतसागरेषु पतिताः क्लिश्यन्ति ये सन्ततम् । ते काशीं तनिमाशु शाम्भवकृपां सम्प्राप्य तीर्त्वैव तान् यातायातपरिश्रमैर्बहुतरैर्दुस्तार संसारजैः ॥ ५६५॥ निर्मुक्ताः शिवमेवसाम्बमनघं सम्प्राप्नुवन्ति ध्रुवं बद्धस्तावदनेकदुष्कृतचयैः संसार पाशैर्नरः । नानादुःखयुतैरनुक्षणमभेद्यापत्समूहैरपि यावन्नाप महेशसान्द्रकृपया काशीं महेशाश्रयाम् ॥ ५६६॥ काशीं प्राप्य तु मुच्यते दृढतरैः संसारपाशैर्नरः मर्त्यास्तावदिह भ्रमन्ति सततं संसारघोरह्रदे । पापावर्तसमन्विते दुरितभूरिस्वस्तरङ्गावृतै (जनिमृतिद्वन्द्वेतरङ्गाकुले) यावद्विश्वपतिप्रिया सुरनता काशीं न सम्प्राप्यते ॥ ५६७॥ (काशीम्प्राप्य तु नो भ्रमन्ति मनुजाः संसारघोरह्रदे ।) तावद्भ्रान्तधियो भ्रमन्ति मनुजाः ससारघोरह्रदे ॥ ?? काशीं प्राप्य कुयोनिचक्रकुहरं न प्राप्नुवन्ति ध्रुवम् सत्यं सत्यमिहोच्यते भुजयुगं सम्यक्समुद्धृत्य च । वेदास्तत्र तु साक्षिणः श्रुतिशिरोवेद्योऽथसाक्षी शिवः विष्णुब्रह्मपुरोगमाः सुरगणा ये चात्र ते साक्षिणः ॥ ५६८॥ काशीमाशु समाश्रितः शिवमनाद्यन्तं भवेद्यः सदा सानन्दं च समस्तदुःखनिकरं संहत्यशुद्धः शिवम् । सम्प्राप्नोति न संशयः श्रुतिरियं काशी समाश्रीयताम् विश्वेशः समुपास्यतां इति यतो डिण्डीरवो वैदिकाः ॥ ५६९॥ घोरा यद्यपि शाम्भवैः श्रुतिमता काशीपुरी राधिता न त्याज्या त्रिपुरारिराजनगरी काशी यतो मुक्तिदा । त्यक्ता सा यदि मोहतः श्रुतिमता काशी तदा दुर्लभा मुक्तिः सत्यमिति श्रुतिः श्रुतिरियं मान्या सदा वैदिकैः ॥ ५७०॥ श्रीविश्वेश्वरमप्रमेयममलं वेदान्तवेद्यं प्रभुं लिङ्गाकारमुमाश्रितं श्रुतिमतं काश्यां सदा संस्थितम् । यः सन्त्यज्य दिगन्तरं प्रति नरो मोहात्समुक्त्यङ्गना- पादाग्रेण हतः पतत्यनुदिनं संसार कूपेध्रुवम् ॥ ५७१॥ तं मन्ये पुरुषाधमं नरखरं संसारदुःखाश्रयं निर्भाग्यं रतिदानदुःखनिरतं पापौघमोहाश्रयम् । यः काशीं न निषेवते शिवमुमाकान्तं न संसेवते संसारार्णवतारकं प्रभुमनाद्यन्तं भवानीपतिम् ॥ ५७२॥ तं मन्ये पुरुषोत्तमं शिवमतं निर्मूलिताघद्रुमं वेदान्तार्थविचारपारगहितं सौभाग्यवन्तं सदा । यः काशीं समुपैति(त्य)तं शिवमनाद्यन्तं भजेत्सन्ततं भस्मोद्धूलित विग्रहः शिवमहादेवेति मन्त्रञ्जपन् ॥ ५७३॥ काश्येका जगतीतले श्रुतिमता मुक्तिप्रतिश्रुता गौरीशङ्कर सम्मता मुनिवरैर्वेदश्च नित्यं स्तुता । काशीतोऽधिकमन्यतीर्थमभितो वेदेषु न श्रूयते तीर्थानामधिदेवतेयमनघा काशी महेशप्रिया ॥ ५७४॥ काश्यां वर्णयिता शिवः परतं पञ्चाक्षरं तारकं तच्छैवं प्रणवान्वितं श्रुतिशिरो रत्नं तदित्यादरात् । दुर्वासादिसमस्तमौनिनिकरैः काशीसमाराधिता सेयं शम्भुसमाश्रिता शिवपुरी मुक्त्यङ्गनासंश्रया ॥ ५७५॥ काशी वीथिषु मुक्तिरूपवनिता विश्वेश्वरप्रेरिता सञ्चारं समुदङ्करोति परितः स वीक्ष्य शैवोत्तमान् । एते मामभियान्तु सत्वरमिह प्रध्वस्त दुःखाधयः श्रो विश्वेशकृपावशादिति सदा वेदान्तवाक्यस्तुता ॥ ५७६॥ एतद्वेदरहस्यमाहुरभितो वेदान्तवाक्यैर्यतः निश्चित्योक्तमनेकमेव हृदयं प्रागेवमेवोदितम् । देवीषण्मुखनन्दिभृङ्गिरिटिभिः संसेवितेनादरात् आराध्येन महेश्वरेण जगतामीशेन सत्यं ध्रुवम ॥ ५७७॥ ॥ इति शिवरहस्यान्तर्गते पुण्यनिधिप्रोक्तं काशीक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ५५४-५७७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 554-577.. Proofread by Ruma Dewan
% Text title            : Punyanidhiproktam Kashikshetramahatmyam
% File name             : puNyanidhiproktaMkAshIkShetramAhAtmyam.itx
% itxtitle              : kAshIkShetramAhAtmyam puNyanidhiproktaM (shivarahasyAntargatam)
% engtitle              : puNyanidhiproktaM kAshIkShetramAhAtmyam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | 554-577||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org