राजाकृता शङ्करस्तुतिः
(शिवरहस्यान्तर्गते उग्राख्ये)
राजोवाच
कृतार्थोऽस्मि महादेव कृतार्थोऽस्मि महेश्वर ।
कृतार्थोऽस्मि हरानन्त कृतार्थोऽस्मि शिवापते ॥ २८३॥
नमस्ते देवदेवाय नमस्ते शङ्करप्रभो ।
नमस्ते पार्वतीनाथ नमस्ते करुणाकर ॥ २८४॥
नमस्ते मुक्तिमन्दार नमस्ते भक्तवत्सल ।
नमस्ते शर्व सर्वेश नमस्ते पुरसूदन ॥ २८५॥
नमस्ते नीलकण्ठाय नमस्ते नीललोहित ।
नमस्ते भगवञ्छम्भो नमस्ते वृषभध्वज ॥ २८६॥
नमस्ते निर्गुणामेय नमस्ते सगुण प्रभो ।
नमस्ते निष्कल श्रीमन् नमस्ते शशिशेखर ॥ २८७॥
नमस्ते चन्द्रचूडाय नमस्ते भूतिभूषण ।
नमस्ते सर्पभूषाय नमस्ते शूलपाणये ॥ २८८॥
नमस्ते विश्वरूपाय नमस्ते विश्वचक्षुषे ।
नमस्ते विश्वगर्भाय नमस्ते विश्वबाहवे ॥ २८९॥
नमोऽनन्तगुणाधार नमो विश्वम्भराय ते ।
नमःखट्वाङ्गहस्ताय नमस्ते परमात्मने ॥ २९०॥
नमस्ते भूरिरूपाय नमस्ते भूरितेजसे ।
नमो विष्ण्वादिवन्द्याय नमस्ते सुरपूजित ॥ २९१॥
नमस्ते देवदेवेश नमस्ते सुरसत्तम ।
नमस्ते अस्तु भगवन्नमो विश्वेश्वराय ते ॥ २९२॥
महादेव नमस्तेऽस्तु त्रियम्बक नमोऽस्तु ते ।
नमस्त्रिकाग्निकालाय नमस्ते त्रिपुरान्तक ॥ २९३॥
नमः कालाग्निरुद्राय महारुद्राय ते नमः ।
नमस्ते कालरुद्राय नमः सर्वेश्वराय ते ॥ २९४॥
नमः परमरूपाय सदाशिव नमोनमः ।
नमः श्रीविश्वनाथाय विष्णुनेत्रार्चिताय ते ॥ २९५॥
नमो वन्द्याय विश्वाय शाश्वताय नमोनमः ।
नमो वेदान्तवेद्याय निर्मलायामितात्मने ॥ २९६॥
नमस्त्रिशूलहस्ताय कन्दर्पदलनाय ते ।
नमो डमरुहस्ताय विराड्रूपाय ते नमः ॥ २९७॥
विदारितनृसिह्माय सन्दग्धमदनाय ते ।
हृतब्रह्मोत्तमाङ्गाय शम्भवे प्रभवे नमः ॥ २९८॥
विश्वाकाराय विश्वाय नमस्ते विश्वतस्त्विषे ।
विश्वभर्त्रे नमस्तुभ्यं नमस्ते विश्वमूर्तये ॥ २९९॥
अनन्तविभव श्रीमन् अप्रमेयगुणार्णव ।
अपराधान्क्षमस्वेश करुणासागर प्रभो ॥ ३००॥
॥ इति शिवरहस्यान्तर्गते राजाकृता शङ्करस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। २८३-३००॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 283-300..
Proofread by Ruma Dewan