राज्ञा कृतं शिवस्तोत्रम्
राजोवाच ।
ॐ तद्वाच्यं द्योतमानं महान्तं ज्योतिर्नित्यं सत्समाधेयरूपम् ।
मान्यं मोहापायहेतुं प्रपद्ये प्रायः श्रेयः प्राप्तुमैशं महिम्ना ॥ ५८॥
यातायातश्रान्तिसन्तारहेतोः हातुं मायाजालिकाबन्धनानि ।
सन्धातुं वै जीवलेखां महिम्ना साक्षादीशं संश्रये तत्त्वरूपम् ॥ ५९॥
कर्माकारं तत्फलाकाररूपं कर्तृत्वे च व्यक्तिमभ्येषि वासम् ।
इज्याकारं देवताकारमन्तः शैवं भावं यातुमीहे महान्तम् ॥ ६०॥
तीर्थाकारो यः परित्रातुमेतन्मन्त्रार्णात्मा नैगमान्तर्विलासी ।
साक्षी दाता कर्मणासौ फलानां देवो भूयादुग्रतो नः पुराणः ॥ ६१॥
यन्नामर्णान् वाचि कुर्वन् प्रमादादभ्यर्थाद्वा पापतो मुक्तिमेति ।
तं त्वामन्तश्चन्द्रचूडं प्रपद्ये नीलग्रीव त्राहि नः कर्मबन्धात् ॥ ६२॥
अन्तःकरणा नेडमूकाक(?)नाथाः यत्ते किञ्चिद्वृत्तमुल्लास्य शम्भुम् ।
पापान्मुक्ता यान्ति तज्ज्योतिरैशं पाशापायं नौमि नाथं पशूनाम् ॥ ६३॥
हेतुस्साक्षी तन्नियन्तापहन्ता जन्तोरन्तर्जीवरूपो च भूयः ।
येऽस्पृश्यात्मा कथ्यते ब्रह्मविद्भिः सोऽयं शम्भुः पातु नः कर्मबन्धात् ॥ ६४॥
विश्वात्मा यो विश्वरूपो नियन्ता काले काले योजयित्वा स्ववृत्या ।
कालक्षेपं कल्पयत्येष नित्यं तस्मै धाम्ने कल्पये चित्तमद्धा ॥ ६५॥
युक्त्या मन्त्रैर्वेदतत्त्वार्थदृष्टैः बुद्ध्या शुद्ध्या वाग्विलासाद्गुरूणाम् ।
अन्वेषन्ते योगिनो यत्पदाब्जं तस्मिन्नाशा भूयसी मेऽस्तु नित्यम् ॥ ६६॥
नित्यं शुद्धं निर्विकल्पं पुराणं सत्यं सूक्ष्मं सर्वसङ्कल्पहीनम् ।
श्रद्धामात्रं शम्भुमाद्यं विनोदात्सालङ्कारं कारयेन्नीलकण्ठम् ॥ ६७॥
देव प्रसीद परमेश्वर चन्द्रमौले लीलाविशेषपरिकल्पितपञ्चकृत्य ।
पश्यन् त्रिकालभवभूतपते दयालो मां पाहि मोहकुहराद्गहनात्प्रपन्नम् ॥ ६८॥
इति ताम्रपर्णीमाहात्म्ये ५१-अध्यायान्तर्गतं
राज्ञा कृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ५१/५८-६८॥
tAmraparNImAhAtmya . adhyAya 51/58-68..
Proofread by PSA Easwaran