रुद्रार्थविवरणम्

रुद्रार्थविवरणम्

(शिवरहस्यान्तर्गते ईशाख्ये) (स्कन्दप्रोक्तम्) अथ रुद्रार्थविवरणम् । पूर्णानन्दचिदात्मकोऽप्यपहतः स्वाविद्यया हृद्यया तल्लीलादिविलासमोहितमना विस्मृत्य रूपं निजम् । जीवत्वं समुपेत्य नित्यमनया वृत्या तया प्रेरितः यः शश्वन्नृवदश्ववच्च गजवद्गोवच्च नानाविधान् ॥ १॥ वेषानाकलयन् विधाय बहुधा कर्माणि तत्साधना- न्यत्यन्तोन्नतनीचमार्गगमनश्रान्तः पुरेष्वावसन् । कामिन्या कमनीययातिकमनः स्वाविद्यया संसरन् पुण्यापुण्यवशाच्चिरेण परमां विद्यां प्रियामाप्य च ॥ २॥ श्रीरुद्राय नमः समस्तजगदुत्पत्तिस्थितिध्वंसित- क्रीडेच्छासमुपात्तदिव्यवपुषे धातुर्विधात्रे हरेः । रक्षित्रे नितरां हरस्य च पराहन्ताकृतेःसाकृते- भर्त्रे भक्तजनस्य वञ्छितसमस्ताभीष्टदात्रे सदा ॥ ३॥ एकः सन्नपि कार्यकारणचिदाकारैस्त्रिभिर्योऽष्टधा त्रेधाकेवलमेकधा च निखिलं विश्वं चरं चाचरम् । स्वातन्त्र्येण बिभर्ति तस्य कुरुते जन्मादि तं भासय- न्नन्तर्व्याप्य बहिश्च देव भवते साम्बाय तुभ्यं नमः ॥ ४॥ दुर्विज्ञेयनरश्चतुर्मुखमुखानामप्यनेकाकृतिः सर्वेश स्वयमेवमादिचरितैर्यः सर्वतः सर्वदा । सर्वं विश्वमवन् शिवः स्फुटतपाः सर्वात्मना दृश्यते व्यक्ताव्यक्तततराय ते भव नमस्तस्मै च विश्वात्मने ॥ ५॥ उग्र त्वां नमसा प्रसाद्य जगतां ते निग्रहानुग्रह- व्यग्रस्योग्रतमाः तथा शिवतमा घोरा अघोरातनूः । देवस्तौमि नमस्करोम्यभयमप्यद्यैव याचे विभो त्वत्तः कः शरणार्थिनां शरणदः श्रीरुद्र शम्भो विभो ॥ ६॥ वागादि स्वयमेव बोधयति यः सर्वं च वाग्रूपया प्रीत्या साधुजनं च वेदयति यः श्रुत्या च धर्मादिकम् । भक्तानां किल योगिनां नयति यो मन्त्रेण तारात्मना योऽसौ द्रावयति स्वयं द्रवति वा नादान्त एव प्रभुः ॥ ७॥ कल्पान्ते भुवनानि रोदयति यः सर्वारुतं यस्य तां सर्वान् द्रावयति स्वयं द्रवति च रोरूयमाणो नरान् । शब्दब्रह्ममयीं करोति च रुतिं यः सर्ववेदान्तिकां धात्रे यश्च रुतिं ददाति भगवान् रुद्रप्रभो तस्य ते ॥ ८॥ मन्युः कोप इति प्रपञ्चहरणे शक्तिः प्रसिद्धास्ति या तस्यै वेद नमोऽस्तु तां प्रशमयन् त्रायस्व नः सन्नतान् । सोमं शल्यमनीकमग्निरभवद्विष्णुः स्वयं तेजनं पर्णान्यप्पतिरास यस्य निगमाः ख्यातस्य तस्मै नमः ॥ ९॥ ते देवैः सुमहेषवेऽपि च फणीन्द्रज्यं सुमेर्वात्मकं यद्धन्व प्रणवात्मकं त्रिपदया सज्यं मदं यद्धनुः । तस्मै चास्तु नमस्तवापि च धनुर्बाणोद्यतास्तां नमो बाहुभ्यामथवाऽखिलेभ्य उतते बाहुभ्यां एते नमः ॥ १०॥ भक्तानां सुगमं महाघहरणं लोकाधिपत्यप्रदं राज्ञां चानमतां प्रसादसुमुखं श्रीकाश्यपाराधितम् । योधाकारमुमासहायमचिरात् आकर्णकृष्टे शरं चापे भास्वति सन्दधानमनिशं रुद्रं युवानं भजे ॥ ११॥ भक्तानां सुखदायिनी भवति या ख्याता तवेषुस्तया यच्चातीव शिवङ्करं तव धनुस्तेनापि याचे सदा । चक्राद्यायुधसंहतिस्तव सदा दिव्येषुधिर्वा तया चास्मान् देव दयावशेन सुखय श्रीरुद्र शम्भो प्रभो ॥ १२॥ आत्रेयर्चितमन्नदं प्रणमतां दुर्भिक्षदोषापहं शम्भुं स्यन्दनसंस्थमीशमुमया सार्धं ज्वलन्तं श्रिया । शूराकारमतीव सस्मितमुखं संस्तूयमानं सुरैः इष्वासेन करं प्रसन्नहृदयं भक्तेष्टदं भावये ॥ १३॥ योऽसौ शं तनुते दयामयतनुः प्राणिभ्य एवं गिरै कैलासे गिरिशात्मना जलधरैः पर्जन्यरूपेण च । वैखर्यामयि वाचि वाच्यविधये ॐकारमय्यां गिरे(रि) ध्येयत्वेन च संस्थितः स्वयमहोऽखण्डाम्बुधारानिधिः ॥ १४॥ तस्यां क्रूरतया समस्तजगतां दुःखातिविध्वंसिनी या ते रुद्र शिवातनोरिह तया चानन्दचिद्रूपया । स्मर्तॄणामधिकं सदा मुखतया युक्तस्त्वमस्मान् मुहुः पश्यानुक्षणवीक्षणैरभिमुखं श्रीरुद्रशम्भो प्रभो ॥ १५॥ एवं गोधनवर्धनं प्रणमतां श्रीकाश्यपाराधितं शम्भुं समेरमुखाम्बुजं त्रिणयनं बालेन्दुगङ्गाधरम् । श्रीशैलेन्द्रसुतासहायममलं भस्मोरमालङ्कृतं सर्वेषामधिनाथमीशमनिशं ध्यायेत्पशूनां पतिम् ॥ १६॥ देवानां शरणार्थिनां प्रणमतां सम्प्रार्थनानन्तरं हन्तव्यास्त्रिपुरासुरा प्रति युधि क्षेप्या गृहीत्वा इषुम् । हस्ते यां गिरिशन्त सम्यगपि या हर्तुं बिभर्षि स्वयं हस्तेन त्रिपुराख्यतूलदहन क्रीडां विधाय क्षणात् ॥ १७॥ देवत्रायक नित्यमध्वरगिरा अभ्रस्य चैवं गिरेः कैलासस्य च नाथतां कुरु भवद्भक्तान् प्रति क्षेमदाम् । हस्ते ह्याभिमुखे च किञ्च कृपया त्रायस्व पापैश्च मां मा हिंसीः पुरुषाग्रगण्यमनिशं त्वत्पादसंसेवनात् ॥ १८॥ सर्वं गोमहिषाश्वदास कुलमप्येवंविधेत्यदरा- न्नीरोगं निरुपद्रवं च सततं श्रीरुद्रसाम्ब प्रभो । श्रीकैलासनिवास सर्वनिगमाधीश प्रभो सर्वतः सर्वं नः सुतदारबान्धवजनक्षेत्रादिकं स्याद्यथा ॥ १९॥ नीरोगं सुमनस्कमेव च तथा त्वां सर्वदुःखापहं सर्वैश्वर्यविवर्धनं प्रणमतां सर्वाधिकं सर्वदा । सर्वैश्वर्यगुणाकरं शिवकरं कल्याणलीलामृत- स्तोत्राकारतया शिवेन च सदा नित्यं स्तुमः सन्निधौ ॥ २०॥ लोकानामपमृत्युदोषहरणं देवोपघातापहं रुद्रं गौतमनायकेन मुनिना गोमायुना चार्चितम् । हासक्लिष्ट(ध्वस्त)पुरत्रयं गिरिधनुष्पाणिं रथाधिष्ठितं सङ्ग्रामोचितदिव्यवेषमनिशं ध्यायेत्पुरारिप्रभुम् ॥ २१॥ कार्योपाधिवशेन सन्नपि निराकारोऽपि जीवात्मको यस्यांशः स्वयमीदृशं वपुरभेदेनानुगृह्णासि यत् । जन्मव्याधिजरादिदुःखदमहासंसारकष्टज्वर- प्लुष्टानां वितराशु दुर्लभमपि त्वद्भक्तिमात्रौषधम् ॥ २२॥ भीतानामभयार्थिनां अभयदेष्वग्रेसरोऽयं भिषक् सर्वेषां भिषजां किलेति निगमा यं संस्तुवन्त्यादरात् । दुर्ज्ञेयोऽपि परात्परोऽपि जगतां त्राणाय मोहाय वा देवेष्वेकतमोऽहमस्मि इति यः प्रादुर्भवन् क्रीडति ॥ २३॥ क्रीडायां सुखरूप एव विजिगीषायां जयात्मा स्वयं भक्त्यात्मा व्यवहारके भवति च द्युत्यात्मको द्योतते । नित्यं स्तोत्रमयः स्तुतावपि गतौ गन्तव्यरूपोऽथवा वाय्वात्मा बहुधा विभाति हि बहुष्वेतेषु चैकोऽपि यः ॥ २४॥ देवानामपि यः स्वयं मुखमभूत् ब्रह्मादिकानां प्रभुः दिव्यज्ञानवतां प्रधानपुरुषः सर्वस्य लोकस्य यः । स्रष्टासन् निखिलं जगच्च सृजसि विष्णुर्जगत्पालने यः सर्वाणि जगन्ति संहरति चाप्यैश्वर्ययोगान्मुहुः ॥ २५॥ स्वातन्त्र्याधिकवाग्भिरेवममरानाज्ञाप्य चैवं विधान् यः स्वाभाविकशक्तिमानतितरां अर्हः समर्थः प्रभुः । अस्मद्धिंसनतत्परानरिगणान् जातीस्तथा रक्षसां सर्वानाशु विनाशयन् मम पुरः प्रत्यक्षमाविर्भवन् ॥ २६॥ देवः सोऽयमधिब्रवीतु कृपया मा भैष्ट युष्मानहं भीतिभ्यस्त्वितिपालयाम्यथ भवाच्चेत्येवमस्मान् प्रभुः । शम्भुं दुःसहगर्भरोगहरणं रक्षाकरं सर्वथा रक्षोभूतभयापहं प्रणमतां दीर्घायुरर्थप्रदम् ॥ २७॥ कण्वाराधितमिन्दुमौलिमनिशं व्यालोलवीतोज्ज्वलं प्रोद्यत्पावकवर्चसं त्रिणयनं कालारिमीशं भजे । यः पूर्वाचलहेमरत्न शिखरप्रस्थोपलोपत्यका- कान्तिव्याप्तिवशाद्रसातलतमः सम्पर्कतो वान्वहम् ॥ २८॥ उद्यन् कुङ्कुमपङ्कताम्र उदितः सिन्दूरपूरारुण- स्तप्तस्वर्णसुकान्तिरूर्ध्वमधसंसर्पन्(?)क्रमाद्दृश्यते । कल्याणैकनिधिः स्वयं स्वयमसावादित्यरूपः शिवो ये तुल्याकृतिहेतिभूतिविभवा रुद्रेण रुद्राः परे ॥ २८॥ देवस्यानुचराः समस्तजगतां कर्मानुरूपं फलं दातुं दिक्षु सहस्रशः क्षितिमिमामध्यासते चाभितः । कृत्यस्याऽकरणात्(अकृत्यकरणात्) आलस्य तः कामतः तस्मात्पापमजस्रमार्जितमभूदस्माभिरज्ञैस्ततः ॥ २९॥ तेषां तस्य महेश्वरस्य विभोर्योऽस्मान्विहारादरः क्रोधश्चास्ति तमीदृशस्तुतिनमस्कारैरपाकुर्महे । क्ष्वेलश्यामलकन्धरस्फुरदुरुज्वालाग्निवर्णः शिवः तेजोमण्डलमध्यवर्तिविलसन्मार्ताण्डमध्यं वसन् ॥ ३०॥ सायं किञ्चिदुदञ्चिताङ्कुरतमःसामर्थ्यलीनां निशा- क्रान्ते ध्वान्तमुपानयच्च परितःपङ्कप्रदेशान्तरे । भूयिष्ठं ग्रसनक्षणं घृणिगणः कालाभ्रनीलानिलो ? बिभ्राणोऽस्तमयन् विलोहितनिभःप्रातस्तथैवोदयन् ॥ ३१॥ योऽसौतिर्यगधश्च सर्पति जगद्यात्रां सदा निर्वहन् दुर्ज्ञेयोऽपि तपः क्रियाभिरखिलैर्वेदैःश्रुते मेधया । येनेयं भगवन्तमस्तमचिरात् यान्तं वनान्ताद्गवां ग्रामप्राप्तिनिमित्तमेकमनसः पश्यन्ति गोपा अपि ॥ ३२॥ अस्तं यास्यति भानुरन्धतमसं दृष्टिं पिधास्यत्यहो स्वामिन् चेदिह कुत्सयिष्यति मृगान्तो भर्त्सयिष्यत्यपि । अम्भः कुम्भमिदं कदा निजगृहं नेष्याम इत्याकुलाः स्वेदाम्भः कणसिक्तकञ्चुकसमालक्ष्योच्चलच्चूचुकाः ॥ ३३॥ भ्रश्यद्भूषणजालमाकुलकचं व्यालोलहारं तथा धावन्त्यः परिचारिकाश्च वनिता अङ्गैरपाङ्गैर्मुहुः । सन्ध्याख्योद्धरणाग्निहोत्रसमये कर्मेक चित्ता द्विजा- श्चावासाभिमुखानि पक्षिपशुकीटान्युग्रभूतान्यपि ॥ ३४॥ सोऽयं नः सुखयत्वहर्निशमुपस्थानानि कालार्थिभिः दृष्टोऽस्माभिरपि प्रभुः प्रशमयन्नेनः कृपाम्भोनिधिः । यं ध्यायन्निह वेदपारगकुले जातिस्मरो जायते रुद्रं तं वरदं सुवृष्टिफलदं श्रीकश्यपराधितम् ॥ ३५॥ भास्वन्मण्डलगं हिरण्मयतनुं चन्द्रप्रभामण्डलं साम्बं स्मेरमुखाम्बुजं मुनिगणैरासेव्यमानं भजे । नीलात्युज्ज्वलकन्धराय च सहस्राख्यात्मने वृष्टिभिः पर्जन्यात्मतया भुवं च परितः सेक्त्रे तथा योनिषु ॥ ३६॥ गर्भणां पुरुषात्मनां च विविधैर्बीजैर्विधात्रे नमो रुद्रायास्तु नमस्करोम्यथभटा येचास्य तेभ्यो नमः । सन्तानैकफलार्थिनां प्रणमतां सन्तानरूपं प्रभुं स्वात्मानं हृदि भावयन्तमनिशं शम्भुं कृपाम्भोनिधिम् ॥ ३७॥ कान्तं शारदचन्द्रकान्तिसुभगं शान्तं शिवं शीतलं साम्बं दिव्यवपुर्दधानममलं सिह्मासनस्थं भजे । संरम्भस्त्रिपुरेषु दुःसहतरो यः पूर्वमासीद्ध्रुवं स्यादस्यापि स एव सेवकजनेष्वस्मासु दीनेष्वपि ॥ ३८॥ विद्यैश्वर्ययशःश्रियां च निलयस्य ज्ञानवैराग्ययोः दाक्षिण्यैकतनोर्दयामयतनोः पाल्येष्वयुक्तो हि सः । तस्माज्ज्यामितरां प्रमुच्य धनुषः कोट्योर्द्वयोर्यौऽचिरं वद्धायाश्चतवे(?) . . . . . वस्तिष्ठन्ति ताः प्राणिनाम् ॥ ३९॥ संहर्त्रीरुपसंहरन्नभिमुखीकुर्वन्ति नास्मान् यया तूणीरेषु तिरोहितान् कुरु तथा देवेश तुभ्यं नमः । देवानेकशतेषुधिर्व्रज सहस्राक्षः स्वमेवं धनुः कृत्वा वीक्ष्यमिदं मुखानि निखिलानां चैवशीर्णानि ते ॥ ४०॥ निःशेषं नितरां विधाय कृपयाऽस्माकं प्रसादार्थिनां सद्यः शान्तमनाः शिवो भव सहस्वाद्यापराधान् बहून् । सुप्रीतस्य कपर्दिनोऽस्त्विह पिनाकाख्यं धनुः सज्यम- प्यद्यास्मत्कुशलाय वीज्यमिषुधिश्चायं पुरोयत्पुरा ॥ ४०॥ बाणैः पूर्णतरोऽपि वीतविशिखोभूयात्तदीयाश्च याः । देवस्यैव वरेषवोऽप्यपहतास्ताः सन्तु लीनाः क्रमात् तीक्ष्णारोऽपि महासिरद्य भजतां भक्तेषु मन्दारतां कोशःखड्गसहायवानपि विनाभूतोऽस्तु तेनाधुना ॥ ४२॥ एवं शान्तमनाः प्रशान्तविविधानेकायुधाः सन्ततं भक्तान् नः शरणागतान् करुणया पायादपायाच्छिवः । युद्धे वैरिभयापहं प्रणमतां श्रीरुद्रमाराधितं दैवं नारदनामकेन मुनिना नानायुधालङ्कृतम् ॥ ४३॥ उद्यद्भास्करकोटिदीधितितनुर्दीप्तोत्तमाङ्गोज्ज्वल- त्कान्तिं भीषण भोगिभूषणमहं ध्यायेत मीढुष्टमम् । रुद्रो हेतिधरोऽधुना . . . . . हस्ते तवास्तेऽधुना ॥ ४४॥ words are missing in the source text अस्मान् पुत्रकलत्रपुत्रसहितान् सर्वान् प्रसन्नान् सदा सर्वास्माद्दुरिताच्च रक्ष भगवन् दीनान् दयाम्भोनिधे । स्वामिन् रुद्र नमोऽस्तु देवधनुषे चानाततज्याय ते उद्युक्ताय शराय चोद्यतगदाचक्रादिसङ्घाय च ॥ ४५॥ दुष्टान् धर्षयते दृढाय विविधायैवंविघायायुध- स्तोमायाद्य नमोऽस्तु तेऽद्य भगवन् याभ्यां रिपून् विध्यसि । बाहुभ्यां बिभिमो वयं तव धनुर्बाणोद्यताभ्यां तत स्वस्वन्येषु महाभुजेष्वपि मुहुस्ताभ्यामुमाभ्यां नमः ॥ ४६॥ यद्वा दक्षिणवामबाहुनिवहाभ्यां ते नमः कृत्स्नशः तस्मैचोत्तमसायकाय धनुषे तस्मै नमः कुर्महे । स्वामिन्नद्य वयं पुनः पुनरिदं चाशास्यमाशास्महे यः पार्श्वेऽस्ति तवेषुधिस्त इषवो यास्ताश्च दूरे पुनः ॥ ४७॥ व्यूहैर्वैरिजनस्य पातय तथा हिंस्रोऽपि धन्वन- स्तत्रैवास्त्विह पुत्रपौत्रसहितान् पुष्णातु नः सर्वतः । तुभ्यं देव सदा नमोऽस्तु भगवन् विश्वेश्वरायस्फुर- द्वह्नयर्केन्दुदृशे पुरत्रयभिदे कालाग्निरुद्राय च ॥ ४८॥ क्ष्वेलश्यामलकन्धराय महतां(ते)देवाय सर्वेश्वरा- येशायास्तु सदाशिवाय महते देवाय शश्वन्नमः । स्वात्मानं हृदि भावयन्तमनिशं रुद्रं मुहुर्ध्यायतां युद्धे सर्वरिपुप्रणाशनमरिस्थानैकविध्वंसिनम् ॥ ४९॥ नम्राशेषसुरेन्द्रमौलिविलसत्पादाम्बुजं कारणं सर्वेषां जगतां पिनाकिनमहं ध्यायामि साम्बं प्रभुम् । चन्द्रोत्तंसमचिन्त्यमक्षरमजं संसारदुःखापहं मध्येशुद्धसुधाब्धि चिन्तितमणिद्वीपे शयानं भजे ॥ ५०॥ चारुस्मेरमुखं सुमौक्तिकनिभं मध्ये सुधामण्डल- स्यासीनं जगदेकरक्षणपरं ध्यायामि साम्बं सदा ॥ ५१॥ स्वामी त्वं स्वमिदं जगत्तदधुना शक्तोऽपि सन्मन्युना संहर्तुं कृपया विभूतिविभवैर्व्याप्यासि शान्तात्मना । कुर्वन्निग्रहमप्यनुग्रहमशेषं शङ्कर त्वं प्रभो तस्मै तेऽस्तु नमो हिरण्यपतये शम्भो हिरण्यात्मने ॥ ५२॥ अङ्गं यस्य हिरण्यभूषणगणोद्दीप्तं हिरण्यप्रभं बाहू हृद्यतमौ हि तौ च रमणीयौ भक्तिभाजां सताम् । पुण्यापुण्यविमिश्रकर्मफलभोक्तॄणां सुरणां नॄणां रक्षोयक्षपिशाचकिन्नरफणीन्द्राणां पितॄणामपि ॥ ५३॥ सङ्घातान् विविधान् विधाय बहुधा सेनःस्वकीयाःस्वयं स्वामित्वेन च संस्थितो नयति ता बह्वीर्गतीर्यः सदा । यश्चेन्द्रादिगिरीश्वरात्मकतया सर्वां दिशं पालयन् आदित्यात्मतयोदयास्तमथ सञ्चारैर्दिशः कल्पयन् ॥ ५४॥ प्रत्यक्षः सदुपास्यमूर्तिरिह यत्तेजोनिधिर्दृश्यते तस्मैतेऽस्तु नमो नमः क्षितितले रुद्रास्तदंशाःपरे । ये वृक्षाकृतयो वसन्ति विविधा वृक्षेषु वा संस्थिता ये ब्रह्मादिपिपीलिकान्तनिखिलप्राण्यात्मकाश्चेतनाः ॥ ५५॥ ब्रह्माण्डाख्यमहाक्षितावतितरां रूढाश्च भालाक्षिणा भोगान्ते निजकर्मणां च पुनरप्यावर्तमाना मुहुः । ये रुद्रा हरिताभकेशनिवहास्तेभ्योऽपि योऽसौ पतिः ब्रह्मादीनपि पाति तैश्च रमते तेषां प्रधानः पतिः ॥ ५६॥ तस्मै विश्वभुजे नमो नम इदं प्रत्यक्षमाविस्फुर श्रेणीपिञ्जरमूर्तयेऽतिविमलज्योतिर्मयाङ्गाय ते । चिद्रूपाय चिदात्मनेस्वयमभिव्यक्ताय ये लौकिका मार्गा येऽपि च वैदिका बहुविधा धूमार्चिराद्या अपि ॥ ५७॥ तादृङ्मार्गविदश्च ये क्रतुषु ये त्वां द्रष्टुभावंगता तेषां ते पतये नमोनम इदं बभ्रुत्विषे सर्वदा । रक्षित्रेवृषभस्य दिव्यवृषभारूढाय पापात्मनो क्षुत्तृष्णऽपचयामयैश्चविविधैराविध्यसे यानि च ॥ ५८॥ रक्षांस्यध्वरभक्षकानि सततं तेषां च होत्रे मुहुः सोमायौषधि सम्भवैरविफलैः सञ्जीवयित्रे नृणाम् । अन्नानां पतये नमो नम इदं ते नित्ययूने सदा नीलात्युज्ज्वलमूर्धजाय विलसद्यज्ञोपवीताय ते ॥ ५९॥ पुष्टानां च सतां शमादि सुगुणैर्नाथाय वाचो धियः कायस्येन्द्रियसञ्चयस्य च गृहक्षेत्रादिकानां तथा । ग्रामाणां धनधान्ययोरपि पशुन्यूहस्य सत्सन्तते- धर्मस्येति च पुष्टयो दशविधा याःस्युर्दशानामपि ॥ ६०॥ एतासां पतये नमो नम इदं संसारवृक्षच्छिदे हेत्यै संसृतिजन्यदुःसहमहाहिंसास्वरूपाय ते । लोकानां पतयेऽति दुःसहमहासंसारखिन्नान् जनान् कृत्वा तानथ रक्षते करुणया श्रीपञ्चवक्त्रात्मने ॥ ६१॥ देवेशाय नमो नमो भगवते रुद्राय सज्यं धनुः शश्वद्धारयते समस्तमवते तेनैव विश्वं सदा । हृद्येशो निवसन्नवन्वपुरिदं क्षेत्रं स्वमायामयं मायायन्त्रसमास्थितानिव सदा जीवान् मुहुर्भ्रामयन् ॥ ६२॥ क्षेत्रज्ञः स्वयमेव पश्यति श्रृणोत्यास्वादयत्यास्पृश-(?) आनाद्यं सकलं च वेत्ति सुखदं यत्साधनं केवलम् । आविर्भूय भुवि स्वयंवसति यः क्षेत्रेषु लिङ्गात्मना क्षेत्राणि स्वयमेव रक्षति सदा यः क्षेत्रपालात्मना ॥ ६३॥ क्षेत्राणां पतये महेश अवते तस्मै नमस्ते नमः सूतायास्य महारथस्य जगदाधारस्य सूतात्मना । कल्पादौ च महामुनीन् प्रतिपुरणानां प्रवक्त्रेऽध्वरे सोमायाभियुतस्य केवलमहङ्कारे निरूढाय च ॥ ६४॥ भूतं भावि च वर्तमानमहमित्याकारिकायां परा- ऽहन्ता तत्र भवाय केवलमहन्तव्याय सत्यात्मने । सर्वेषां वनदेवतात्मकतया गोप्त्रे वनानां नमः तुभ्यं देव नमोऽस्तु लोहितनिभायाशेषवागात्मनाम् ॥ ६५॥ शब्दानां प्रथमप्रवर्तकतया लोके हितायाभितः स्थित्वा पालयते निषादपतये शक्त्रे बृहद्बाहवे । वृक्षाणां पतये नमो नम इदं मन्त्रैरुपास्याय ते ऽवेद्यायोपनिषद्रहस्यवचने लीनाय चिद्रूपिणे ॥ ६६॥ साक्षित्वेन च कर्मणापिपरिच्छेत्रे वणिवतृणां (साक्षित्वेन च कर्मणापि परिच्छेत्रेऽपरिच्छेद्याय ते) वाण्या वाच्यतया पुनः पुनरभिव्यक्ताय च स्वामिने । कक्षाणां गिरिगुल्मगह्वरनदीकुण्डात्मकानां सदा गोप्त्रे तेषु च सर्वतो निवसतां नानाविधप्राणिनाम् ॥ ६७॥ अध्यक्षाय वनस्य धर्मगहनत्रात्रे नमस्ते नमो यस्मिन्विश्वमिदं स्थितं भवति चाप्यन्ते तथा लीयते । यः शक्त्या भुवमातनोति विजयी कर्ता धनस्यापि वा पात्रायार्जयतां धनस्य कृतिनां दत्त्वोत्तमानां धनम् ॥ ६८॥ यस्त्राता वरिवस्कृतां करुणया येनैव विश्वात्मना वारीशात्मतया च वारिणि सदा वासः कृतो येन च । भूमात्मा स्वयमोषधीः प्रजनयन् ग्राम्यास्तथारण्यकाः ताः सोमात्मतया च पाति सततं तस्मै नमस्ते नमः ॥ ६९॥ उच्चैर्घोषवते महार्णव महामेघादिरूपाय ते शम्भो पाहि शिवेति भक्तनिवहैरुद्धुष्यमाणाय च । यश्चाक्रन्दयते रणोद्यमसभाकोणे भटानां मुहुः यः शक्तोऽपि जगन्ति जेतुमखिलान्येकः स्वयं लीलया ॥ ७०॥ पत्तीनां च पतिः पदानि शतकोटीनां च नेता स्वयं तस्मै देव नमो नमोऽस्तु भवते कल्पान्तकाले जगत् । कृत्स्नं वीतमभूच्च येन हरता कल्पान्तरात्रिर्यया योऽसौ केवल एक एव हि शिवः कृत्स्नात्मकः शिष्यते ॥ ७१॥ भक्तं शोधयति प्रसीदति पुनस्तस्मै च शीघ्रं सदा । वत्सं गौरिव चानुधावति परित्रातुं स्वभक्तं जनम् । नेत्रे ब्रह्मविदामनेकविधिसत्वानां च तस्मै नमः ॥ ७२॥ मेधाराज्यवशीकृपा वरवधू शत्रुक्षयाद्यं फलं भक्तानां प्रदिशन्तमीशमृषिणा मण्डूकनाम्नाचिरम् । ध्यातं रुद्रमहं भजे सुरतरोर्मूले निषण्णं सदा गौर्या मौक्तिकभूषणाङ्गममलं बालेन्दुगङ्गाधरम् ॥ ७३॥ हर्तुं भर्तुमकर्तुमाशु च जगत्कर्तुं कृतं चान्यथा- कर्तुं दुर्घटमेव सङ्घटयितुं शक्तस्त्वमेकःप्रभुः । तस्मात्ते सततं नमोऽस्तु विजयाशक्त्याभिभूतञ्जग- त्सर्वं स्वात्मनि कुर्वते च सहमानायापराधान् सताम् ॥ ७४॥ साधून् पालयितुं खलांश्च नितरामाविध्य तान् हन्त्यलं यः सेना अभितः परानभिमुखान् तासां च नेत्रे नमः । देवेशाय नमो महावृषककुद्भागाधिरूढाय ते प्रोद्यत्खड्गमहाप्रहारकटवे चौर्याय लीलात्मनाम् ॥ ७५॥ चोराणामपि भक्तवत्सलतया संरक्षकायाथवा तेषां श्रेष्ठतमाय सर्वहरणादन्ते नमस्ते नमः । उद्यत्खड्गवते जनेषु नितरां भक्तेषु सक्ताय वा तूणीरोत्तमधारिणेऽपहरतां साक्षान्महारण्यके ॥ ७६॥ व्याधानां पतये नमो नम इदं ते वञ्चनां कुर्वते यः कुर्वन्नपि विप्रलम्भमभितो व्याहन्यते नापरैः । तस्मै ते परितः सदा विचरते हर्तुं परेषां धनं नित्यं कृत्रिमसाधुवेषमयतां नानाविधछद्मनाम् ॥ ७७॥ स्तायूनां पतये नमो नम इदं सम्भारशीलाय ते दाढ्यार्थं नितरां वनेषु सततं त्रातुं जनानाश्रितान् । सुव्यक्तं परितः सदैव चरिते स्वामिन्नरण्येऽनिशं दस्यूनां वसतां नमोऽस्तु पतये तेभ्योऽपि नित्यं नमः ॥ ७८॥ ये रुद्राः सदृशास्त्वया धृतमहावज्राद्यनेकायुधाः तेषां चानुचरा वरायुधधराःस्तोमावितारोऽथवा । मर्त्येष्वप्यथ हिंसकाश्च धनधान्यादीन्यलं मुष्णतां व्याधीनां पतये नमोऽस्तु भवते तेभ्योऽपि नित्यं नमः ॥ ७९॥ उत्कोशासिधरेभ्य आशु नगरे नक्तं चरद्भ्यः सदा चौर्यायै च हरन्ति ये निशि धनं हत्वैव तेषामपि नाथायास्तु नमो नमोऽद्य तमहोष्णीषाय तुभ्यं नमः ॥ ८०॥ व्याधैःसञ्चरते हरन्ति पृथिवीं ये वा प्रकृन्ता बला- त्क्षुद्रारण्यगिरिप्रदेशपतयः क्षुद्रक्रियशिक्षिता हन्तारः कुललुञ्छकाश्च (?) पतयस्तेषां नमस्ते नमः । हस्तेनैकतमेन सम्प्रतिदधानेभ्यो महेषुं धनुः सज्यं चान्यतमेन वा पथि करेणात्तं महद्भ्यो नमः ॥ ८१॥ अस्यद्भ्यश्च नमोऽथ कुर्वथ इमे युद्धाय सज्जान्यलं सज्जे दिव्यधनुष्यमोघशरसन्धानं मुहुर्वेगतः । कुर्वद्भिश्च नमो नमः शरवरान् सन्धाय चापे समा- कर्षद्भ्यो विसृजद्भ्य एव च नमो भूयो नमः सायकान् ॥ ८२॥ ज्यामुक्तान् परितः परान् अभिमुखान् सम्प्रापयद्भिः शरैः तैः शत्रून् प्रहरद्भिरेव परितः शश्वन्नमो वो नमः । आसीनेभ्य इतस्ततो भुवि शयानेभ्यो गुहाभ्यन्तरे- ऽप्यायासेन च वो नमो नम इदं तेषु स्वपद्भ्यः सुखम् ॥ ८३॥ जाग्रद्भ्यश्च नमो नमः क्वचिदधस्तिष्ठद्भ्य एव क्वचित् धावद्भ्यश्च नमो नमश्च समुपाविष्टेभ्य एव क्वचित् । स्वामिभ्यः सदसां नमो नम इदं चाश्वेभ्य एवापि वा येषां श्वस्तनवित्तमात्रमपि वा नैवस्ति तेभ्योऽपि वा ॥ ८४॥ अश्वाध्यक्षतयेव उज्ज्वलमहास्त्रेभ्यो नमः श्रीमतो देवस्यानुचराः किरातवपुषः श्रीरुद्रसङ्घाः परे । लीलासम्भृतविग्रहा भगवतः तस्यांशभूताः सदा ये चान्ये परितश्चरन्ति बहवस्तेभ्योऽपि नित्यं नमः ॥ ८५॥ स्वात्मानं हृदि भावयन्तमनिशं रुद्रं रिपुघ्नं सतां राजामात्यसमस्तराष्ट्र पुरहस्त्यश्वादि रोगापहम् । बर्होत्तंसधरं किरातवपुषं देवं युवानं श्वभि- र्भूतैश्चावृतमग्रतो मुनिजनैर्ध्येयं सदाभ्यर्चितम् ॥ ८६॥ योऽत्रानुवाकत्रयमेतदद्भुतं योऽर्थं तथा ध्यानमिदं सदा मुदा । सन्धाय मन्त्रांश्च शिवस्य भावयेत् परां च मुक्तिं समवाप्य मुक्तधीः ॥ ८७॥ सर्वाभ्यश्च नमोऽस्तु या भगवतः सेनाः समस्ताखिला- नाविध्यन्ति जगद्धिताय विविधं यास्ताडयन्त्युद्धतान् । या उत्कृष्टगणैश्च पत्तिनिवहैः पूर्णाश्च या हिंसिनः व्यापारान् परिगूहयन्ति कुशलप्रज्ञाविशेषाश्च ये ॥ ८८॥ तेषां ये पतयश्च ये त्वनियतं मृत्युं मुहुः संश्रिता नानाजातिसमुद्भवा बहुविधक्षुद्रक्रिया जीविनाम् । ये भूतानथ यानवन्त्यपि च ये ये भूतरक्षोगणा रुद्राः पारिषदास्तथाधिपतयस्तेषां च ये ये परे ॥ ८९॥ ये वा मुण्डितमस्तकातिविविधाकाराश्च ये स्वेच्छया सिह्मव्याघ्रगजाश्वसैरिभवृषाद्याकारभाजश्च ये ज्ञानाकारगुणप्रभावविभवैर्नित्यं महान्तश्च ये क्षुद्रज्ञानगुणप्रधानविभवा ये वा रथाधिष्ठिताः ॥ ९०॥ ये योधेषु(युद्धेषु) रथान्वितेषु चरणैर्धावन्ति शत्रून् मुहुः ये चन्द्रार्कमहीमुखाःसुरगणाः प्राप्ता रथत्वं विभोः । ये रक्षन्ति रथान् वहन् स्वयमनारुह्यैव शक्त्या स्वया ये रुद्राः परितः शिवस्य पुरतः सेनात्वमध्यासते ॥ ९१॥ एतासामपि नायकाः सुरवराः ये सूतरूपाः सुराः ये गृह्णन्ति रथेषु रश्मिनिवहान् सूताज्ञया किङ्कराः । ये स्युर्वर्धनिजातिजा अपि च ये दक्षा रथानां कृतौ ये जाताश्च कुलालजातिषु तथा ये लोहकाराश्च ये ॥ ९२॥ नानापक्षिसमूहबोधनविधौ दक्षाश्च ये वै जनाः मत्स्यादिप्रतिधातका अपि च ये कुर्वन्ति तीक्ष्णानिषून् । ये वा धन्वकृतश्च ये वनमृगव्याधाःसदा ये नराः नेतारश्च शुनां च वृत्तिनिरता ये वा शुनामाकृतिम् ॥ ९३॥ बिभ्राणा अथ ये शुनां च पतयः शम्भोरथांशांशकाः सर्वे मर्त्यजगद्गताः कुमनुजा विश्वेश्वरांशाश्च ये । ये भूमौ दिवि सूर्यचन्द्रधरणीब्रह्माग्निविष्ण्वादयो ये रुद्राश्च जगन्ति पान्ति परितः पूर्णाः शिवस्यांशतः ॥ ९४॥ ये सन्ति प्रमदा(था)दिरूपचरिताः सर्वेभ्य एवाधुना तेभ्यः सम्प्रति पूरुषं स्तुतिनुतिं कृत्वा नमस्कुर्महे । शम्भुं दुःसहदुष्टकुष्ठविविधव्याधिज्वरापस्मरो- द्धर्तारन्तंस्मरहं हरं पुरहरं दुर्वासनाम्नार्चितम् ॥ ९५॥ भस्मोद्धूलितविग्रहं त्रिणयनं भास्वज्जटामण्डलं स्वासीनं वृषभे गणैः परिवृतं साम्बं सदा भावये ॥ ९६॥ - - श्रीरुद्रं यजुषां च मध्यममहाकाण्डे चतुर्थै स्थितं संसारामय भेषजं प्रजपतां विश्वेशभक्तिप्रदम् । तस्मिन्नर्थयुतो विभासति हृदा मन्त्रानुवाकान् मुदा चातुर्थः सकलात्मनां भगवतो वक्तुं प्रवृत्तो मुने ॥ - - विश्वं यः सततं बिभर्ति समधिष्ठायैव मूर्त्यष्टकं यस्ताभिस्तनुभिः शिवाभिरनुगृह्णातीह तस्मै नमः । यः सर्वत्र सुपूर्ण एव भवति स्वस्मिन् विलीनं जगत् भूयो भवति स्थितं भवति तद्यस्मिंश्च यो भाव्यते ॥ ९७॥ योगीन्द्रैर्भगवान् अपां स्वयमधिष्ठाता च योऽसौ रुजां नित्यं द्रावयतां सतां स्वयमधिष्ठाता च सूर्यस्य यः । तस्मै नित्यमिदं नमोऽस्तु युगपत्कल्पान्तकाले जगत् सृष्ट्वैवाशु विहिंसते हि यमधिष्ठाता तथाग्नेरपि ॥ ९८॥ आज्ञादण्डधरप्रहारित महामायोरुपाशः पशून् ब्रह्मादीनवतीह भूतनिवहाधिष्ठानरूपश्च यः । तस्मै सर्वसुराधिकाय जगतामीशाय तुभ्यं नमो नीलग्रीवकलेवराय शितिकण्ठायास्तु तुभ्यं नमः ॥ ९९॥ योगीशाय कपर्दिनेऽखिलमहायागेषु दीक्षाभृते तुभ्यं व्युप्तशिरोरुहाय यजमानाकारभाजे नमः । देवेशाय सहस्रलोचनभृते शक्रात्मने ते शता- न्यत्यन्तोत्तमधन्वबाणविविधानेकायुधानां युधि ॥ १००॥ बिभ्राणाय नमो गिरीश्वरकृतावासाय दिग्वाससे रश्मिव्रातवृतार्कमण्डलसमाविष्टाय सूर्यात्मने । सर्वप्राणिहृदम्बुजेषु वसते तुभ्यं नमो रेतसः सेक्त्रे दिव्यहिरण्मयस्य च हरेर्गर्भे विधात्रे विधेः ॥ १०१॥ शूरायात्तमहेषवे नम इदं स्वल्पप्रमाणाय च स्वेच्छासङ्कुचिताङ्गकाय च नमस्तस्मै बृहद्रूपिणे । ज्ञानाकारवयस्तपोभिरभिवृद्धायस्तु तस्मै नमो वृद्धायाधिकदीर्घकालवयसां स्तोत्रैः प्रवृद्धाय च ॥ १०२॥ सम्यग्वर्धयते स्वभक्तनिवहान् देवाय तस्मै नमः विश्वाग्र्याय तथा प्रधानपुरुषायेदं नमोऽस्त्वाशवे । शीघ्रानेकगतिप्रभेदकुशलायेदं नमः शम्भवे स्वाविर्भाववते च तासु विविधाकारप्रवाहासु च ॥ १०३॥ नित्यं सन्निहिताय ते नम इदं स्थाने महोर्मिष्वपां निष्कम्पा विगतस्वनाः पुनरपां वीचिस्वनाश्चापि या । आपस्तासु च सर्वदा निवसते तस्मै नमः स्रोतसां मध्ये सन्निहिताय किञ्च वसते द्वीपेषु पुण्येषु च ॥ १०४॥ तुभ्यं देव नमः पितामहहरीन्द्रेभ्यः प्रशस्ताय च ज्येष्ठायातिमनोज्ञनित्यतरुणाकाराय नित्यं नमः । विश्वस्मादपि पूर्वमेव वसते स्थात्रे च तस्मात्परं जन्मान्तादिविवर्जिताय च नमो मध्ये प्रसिद्धाय च ॥ १०५॥ लीलार्थे शवधारिणे नम इदं तुभ्यं जघन्याय च स्थित्यन्तादिमतामशेषजगतां मूलाय तुभ्यं नमः । गान्धर्वे नगरे तथैव नगरेष्वन्नेषु सर्वेषु च स्थात्रेऽधीशतया प्रतीपसरणे दक्षाय तुभ्यं नमः ॥ १०६॥ प्राणिप्राणसमूहसंयमनमप्यन्ते स्वयं कुर्वते नित्यं संवसते यमस्य च पुरे कालान्तकाद्यात्मना । विश्वक्षेमविधायिने नम इदं सौरात्मना चोर्वराः स्वाविर्भावसमस्तसस्यनिवहस्यावर्धयित्रे सदा ॥ १०७॥ धान्याद्यात्मतया खलेषु वसते तुभ्यं नमः सर्वदा लोके वाच्यतया स्थिताय सततं देवैः सह क्रीडते । कल्पान्तेऽप्यविनाशिने श्रुतिशिरोवेद्याय तुभ्यं नमः स्वारण्याय च रक्षकाय च नमः शुश्रूषमाणाय च ॥ १०८॥ वर्णध्वन्युभयात्मना श्रुतिपुराणादौ प्रसिद्धाय च प्रत्युप्तप्रतिशब्दरूपिण इदं तुभ्यं नमः शीघ्रगाम् । सेनां पालयतेऽति शीघ्रगरथायेदं नमस्ते नमः शूरश्रेष्ठतमाय दुष्टनिवहान् सम्भिन्दते ते नमः ॥ १०९॥ वर्णश्रेष्ठभृते विशिष्ट विलसद्देहाय तुभ्यं नमः दिव्योपायनभस्मभाजन शिरस्त्राणादिकं बिभ्रते । आगुल्फस्थललम्बिकञ्चुकभृते नित्यं नमोऽस्तुश्रुति- ख्याताय श्रुतिविश्रुतायुधभृते विख्यातसेनाय च ॥ ११०॥ शम्भुं शत्रुभयापहं जयमहासाम्रज्यसत्पुत्रदं गोरीपाणिसरोरुहार्पितमहाहेमाद्रिबाणासनम् । बाणालङ्कृतपाणिमेणविलद्बालेन्दुगङ्गाधरं शान्तं सुन्दररूपिणं वृषवरारूढं भजे सर्वदा ॥ १११॥ - - रुद्रार्थविश्रुतपदार्थसुबोधसार- वाक्यार्थवैभवमिदं प्रकटानुवादम् । पञ्चास्यश्रान्तश्रुतिविश्रुति पञ्चवाक- वैदानुवाकमिदमेव महार्थसारम् ॥ - - देवीशाय नमोऽस्तु दुन्दुभिमहानिध्वानरूपाय च प्रौढात्युन्नतवैभवाय वसते देवैश्च सार्धं सदा । भेरीवादनदण्डरूपिण इदं तुभ्यं नमः सर्वदा दुष्टान् धर्षयते विमर्शकुशलायाशेषविद्यासु च ॥ ११२॥ नित्यं भक्तजने प्रकृष्टकरुणाशीलाय तस्मै नमो दौत्यं कर्म च कुर्वते सुमनसां प्राणाय वह्न्यात्मने । भक्तेभ्यः कृपया प्रकृष्टधनदायेदं नमो बिभ्रते खड्गं चेषुधिमुत्तमं नम इदं तीक्ष्णेषुहस्ताय च ॥ ११३॥ तीक्ष्णानेकशरायुधाय च नमः सौम्याय च स्वोचिता- मोघानेकमहायुधाय शुभसत्कोदण्डहस्ताय च । तुभ्यं देव नमोऽस्त्वनेकविविधक्षुद्रार्थसञ्चारिणे प्रख्याताय चरायचाचरमहालिङ्गेषु पूज्याय च ॥ ११४॥ निर्मग्नाम्भसि भूतले सदुदके देशेषु चाकर्दमे विख्यतेषु सरस्सु विश्रुतनदी श्रेष्ठासु नादेऽपि च । देवाद्यर्थनिवेशितेषु निवहकूपेषु गर्तेषु च सद्वर्षाम्भसि चापि मेघनिवहे विद्युत्सुतप्ताम्भसि ॥ ११५॥ दीप्ताभ्रे स्फुरदातपेषु च महावाते चरिष्यन्महा- भूतव्रातयुगान्तदुःसहशिलावर्षोग्रसंवर्तके । ग्रीष्मे वातसमुत्थपांसुनिवहे वात्यासु वाऽन्यत्र वा या सत्तास्ति तदात्मना जगदिदं व्याप्य स्थितायानिशम् ॥ ११६॥ यः सर्वाणि सदैव पाति परितो वस्तूनि वास्तोष्पति- स्तस्मै चास्तु नमोऽस्तु सर्वभुवनव्याप्ताय सर्वात्मने । रुद्रं भीमकनामकेन मुनिना श्रीहेमकोशेन च ध्यातं वश्यसुरूपवटिसुतसत्सम्पत्तिमेधायुषाम् ॥ ११७॥ विद्याऽऽरोग्यसुधेनुपट्टसुमहासाम्राज्यमोक्षश्रियाम् । दातारं द्विपचर्मलम्बितजटासर्पादिचिह्नं भजे ॥ ११८॥ - - रुद्रार्थसारपदमन्त्रपदार्थसार- पुण्यानुवाकविशदःखलु षष्ठसप्तः । विश्वाधिकप्रणतिबोधकसर्वभाव- युक्तो हि भक्तवरमुक्तिकशक्तिदायी ॥ - - लोकानुग्रहकाम्ययाऽखिलसतां ध्येयश्च यः सर्वदा धत्ते यः शिवशम्भुशङ्करमुखानेकाभिधानानि च । तस्मै देव नमोऽस्तु यः करुणया प्रादुर्भवन्नग्रतो भक्तान् पाति सहोमया प्रतिदिनं देवान् पितॄन् मानवान् ॥ ११९॥ अन्यानप्यमृतेन तर्पयति यः सोमात्मना शङ्करः सर्वानभ्युदयेन तर्पयति यः सोमादियागात्मना । पश्चाद्द्रावयति स्वयं प्रणमतां नित्यं रुजं प्राणिनां तस्मै देव नमोऽस्तु नित्यमुदयत्काश्मीरताम्राय च ॥ १२०॥ सिन्दूरारुणमूर्तये तदनु ते सूर्यात्मनेदं जगत् (सिन्दूरारुणमूर्तये दिनकराकाराय सर्वंजगत्) द्युत्या द्योतयते च शं गमयते प्रापय्य भक्तं जनम् । सर्वाण्यालयते पशून् विधिमुखान् चोरारितापात्यय- व्याधिभ्यः कृपयाऽवते नम इदं ते दुष्प्रधर्षाय च ॥ १२१॥ दुःखाद्यैर्यजमानमूर्तय इदं येभ्यः समस्तं जगत् जन्मव्याधिजराविपत्तिमरणादिभ्यो बिभेतीदृशा । यस्माद्बिभ्यति तेऽपि ते भगवते तस्मै वियन्मूर्तये तुभ्यं देव नमो यदा खलजनाः साधून् जिघांसन्ति ये ॥ १२२॥ आविर्भूय यदग्रतः प्रथमतस्तेषां निहन्त्रे च ये दूरे त्वामपहाय सर्वजगदाराध्यं कुमार्गे स्थिताः । तेषामेव दुरात्मनां चिरतरे काले निहन्त्रे नमो हन्त्रे हन्ति बलेन येन महता हन्तव्यमाशु क्षणात् ॥ १२३॥ तद्रूपाय पशून् कृताविव महासंहारकाले बलात्- यात्यन्तातिशयेन हन्त्यपि हरिब्रह्मेन्द्रमुख्यादरात् । आतार्यस्य चराचरस्य जगतस्तस्मै नमोऽस्तु प्रभो रुद्राः पान्ति जगन्ति ये च परितो वृक्षादि रूपाः परे ॥ १२४॥ ये रुद्राहरिताभकेशनिवहास्तेभ्योऽपि नित्यं नमः संसारार्णवमाशु तारयति यस्तारात्मकः सर्वथा । ब्रह्म ब्रह्मविदां चिरादुपदिशंस्तस्मै नमस्तेऽस्तु यद्- दुःखापायमयं सुखं यदि तदाभाग्यं परत्रेह च ॥ १२५॥ साक्षित्वेन तयोः शमित्यपि मयश्चेतीह विख्यातयोः द्रुष्टुं नित्यसुखात्मने नम इदं श्रीशङ्कराख्याय च । सर्वस्मै जगते करोति कृपया यः शंमयश्चानिशं तस्मे तेऽस्तु नमःशिवाय च गुणातीताय शुद्धाय च ॥ १२६॥ इच्छाशक्त्यवियुक्तचिद्घनशरीरायाव्ययायात्मने पूर्णानन्दतराय पूर्णसुखदायाजस्रपूर्णाय च । लोकानामविपर्ययेण कुरुतेऽत्यन्तं शिवं यः सदा तस्मै चास्तु नमः प्रयागबदरीकेदारकाश्यादिषु ॥ १२७॥ तीर्थ्यो यो हि मरुद्वृधादिसरितां कूलं च गोदावरी- कृष्णा सिन्धुसरस्वतीमुखसरित्पारं तदर्वाक्तटम् । नित्यं सन्निहिताय तेषु जगतां त्राणाय तुभ्यं नमः प्राप्यैवोत्तमयोनिजन्मगुणमुत्कर्षक्रमात्प्राणिनाम् ॥ १२८॥ मग्नानां भवसागरे करुणया चोन्मज्जयित्रे भवा- दूर्ध्वं चोद्धरते नमः क्रमवशात्पारं भवाम्भोनिधेः । प्राप्तान्कर्मवशेन जन्तुनिवहानावर्तमानान्पुनः कर्तुं प्रेरयते धियस्तदनु तान्मध्ये भवाब्धेश्चिरम् ॥ १२९॥ सर्वान्भ्रामयते नमोऽस्तु भवते पुण्येषु दर्भादिषु क्षुद्रप्राणिकुलेषु बालतृणवत् स्वल्पप्रामाणेषु च । फेन्यः फेनवदल्पकालमथवा यावत्सु जन्तुष्वपि एवं तत्सिकतासु तद्वदधिकं क्षुद्रेषु नीरेष्वपि ॥ १३०॥ नानापुण्यनदीप्रवाहनिवहे तत्तुल्यभूतिष्वपि श्रेष्ठप्राणिषु चेरिणेषु च तथा नित्यक्रियामानिषु । प्रख्याते पथि च प्रकृष्टतरसन्मार्गानुवर्तिष्वपि क्षुद्रानेकशिलातिकर्कशतरे देशे कुशीले जने ॥ १३१॥ वस्तव्ये विजने जनेष्वति(पि) तथा योग्येषु चैतेषु यः सर्वेष्वेवमनुग्रहाय जगतां आस्ते विभुः सर्वतः । तस्मै तेऽस्तु नमः कपर्दिन इदं सत्कुण्डलायानिशं भक्तानां पुरतः स्थिताय च नमो गोष्ठे गृहाभ्यान्तरे ॥ १३२॥ तल्पेऽनल्पतरे तवातिविविधप्रासादमध्ये तथा काटे पर्वतगह्वरे ह्रदवरे नीहारवारिष्वपि । सत्पांसौ विषमे रजस्यपि तथा शुष्केऽपि चार्द्रेऽपि च देशे लुप्ततृणादिके च परितः पूर्णे तृणाद्यैः स्थले ॥ १३३॥ उर्व्यामध्यबिलाकृतिप्रतिकृतौ पर्णेषु पर्णव्रजे- शूरेष्वस्ति शिवोऽयमेवमभितः सच्चित्सुखांशैः स्वयम् । भूतं भावि च वर्तमानमनु सङ्गृह्णाति बुध्या सतां भक्त्या भावयतां स एव सुलभस्तस्मै नमः कुर्महे ॥ १३४॥ प्रारब्धाखिलकर्मबन्धविनिवृत्त्यर्थं च पापात्मनां आधिव्याधिजरारितस्करमहासर्पादिनक्रादिभिः । क्षिण्वद्भ्यो विविधं नमस्तनुभृतां कर्मानुरूपं फलं दातुं दुष्कृतिनस्त्विमे सुकृतिनश्चेमे किलेत्यन्वहम् ॥ १३५॥ लोकानुग्रहकाम्ययापि च विचिन्वद्द्भ्यो नमो वो नमो मर्यादा च सुनिश्चिता च नियमेनायुः क्षयः प्राणिनाम् । हन्तृभ्यश्च नमः कथञ्चिदपि सर्पेयुः क्वचित्प्राणिनः प्रायेणेति हि शासितुं तनुभृतः सर्वान् समस्तान् सदा ॥ १३६॥ नीरन्ध्रं सुविजृम्भितं जगदिदं व्याप्य स्थितेभ्यो नमः । श्रीरुद्रानुचराश्च गुप्तमपरे ये सन्ति तेभ्यो नमः ॥ १३७॥ व्यक्ताव्यक्ततया चराचरामयं विश्वं सदान्तर्बहि- र्व्याप्ता विश्वभवाभवस्थितिकृतो विश्वात्मका विश्वपाः । विश्वस्मादधिकाश्च विश्वपतयस्तन्निग्रहानुग्रह- व्यग्रात्युग्रसुशान्तविग्रहकृतो रुद्रास्त्वदंशाश्च ये ॥ १३८॥ तद्रूपेण वयं नतिस्तुतिशतैस्त्वां प्रीणयन्तोऽधुना सुप्रीतं वरदं कृपालुमभयं सम्प्रार्थयामः शिवम् । बिभ्राणः कवचं विभाति भगवान् यः पापिनां दुर्गतेः प्रत्येदं खलु दुःखदुःसहमहासंसारदारिद्र्ययोः ॥ १३९॥ योऽसौ प्रापयिता समस्तभुवनं ध्वंसात्मिकाया गतेः शश्वत्तारयिता च योऽखिलजगन्नाथोऽन्नदोऽपि स्वयम् । विश्वस्यैकगतिः स एव निखिलालक्ष्यस्वरूपः सदै- वास्ते तस्य दरिद्रवज्जगदिदं यन्नामरूपात्मकम् ॥ १४०॥ सर्वस्थूलशरीरमेव यदिदं यस्य स्वहृद्येशतो यः सम्भूय च नीललोहित इति ख्यातः शिरःपञ्चमम् । उद्वर्तस्य विभोर्विधातुरगजाविष्णोश्च वामंवपु- र्यो दत्वा सविलासलोहित तनुर्निर्दोषरूपश्च यः ॥ १४१॥ कण्ठे नीलमतीवलोहितनिभं चान्यत्रगात्रं शिवं धत्ते यः सततं दयामयतनो सत्वं प्रसन्नोऽधुना । एतान्पुत्रकलत्रमित्रपरिवारादीनिमान् गोमहि- ष्यादींश्चापि पशनहन् प्रणमतां भीतान् क्रुधा मा कृथाः ॥ १४२॥ दुःखाद्यैश्च कदापि मा गमय तानार्तिं प्रसादात्तव स्वामिन् किञ्चिदपि ज्वरादिकमिमान् मा बाधतां क्वापि च । प्रध्यातं पुलहेन रुद्रमनिशं भूताभिचारादिक- द्रोहारिष्टभयापहं धनमहासिध्यादिकं ध्यायताम् ॥ १४३॥ आगुल्फं सितकञ्चुकं डमरुकोद्युक्तोल्लसत्कुण्डलं ध्यायेत्तुन्दिलपुत्रपुंसतिलकं सन्नूपुरं भैरवम् । तुङ्गोत्तुङ्गतुरङ्गसंवृतमहामातङ्गमध्यस्फुर- द्धावत्प्रौढरथायुतावृतलसज्जाम्बूनदस्यन्दनम् ॥ १४४॥ अध्यास्तो भवतीह यः क्षितिरथे माणिक्यसिह्मासनं ब्रह्मा जातु निजाश्रितानपि जनान्त्सम्पूजयन् मानवः । इन्द्रब्रह्मपदं च सम्यमफलं साक्षाच्च मोक्षश्रियां सालोक्यादिचतुर्विधं च भजतां तद्भोग्यसाम्यं फलम् ॥ १४५॥ या ते तत्पुरुषस्य रुद्र शिवदापूर्वा तनुर्योगिनां सर्वं यच्छति या च दक्षिणतनुः संसाररुग्भेषजी । प्रक्षीणाखिलकर्मभिन्न हृदयग्रन्थिप्रणष्टाखिला- ज्ञानं छिन्नसमस्तसंशयमपास्तद्वैतमस्तारिकम् ॥ १४६॥ ज्ञानं प्रत्यगभिन्न चिन्मयपरब्रह्मैकलक्ष्यं परं सर्वान् बोधयतः सदा मुनिजनान् चिन्मुद्रया भद्रया । रुद्रस्यादिगुरोः सतां शिवमयी या स्यात्तनूरूर्ध्वगा तस्य ज्ञानघनात्मिका तव गुणातीता शिवाख्याऽमला ॥ १४७॥ नित्याऽऽत्यन्तिकबन्धमुक्तिफलदा चेशानमूर्तेः सदा ताभिस्ते तिसृभिस्तनूभिरभितस्त्वं सज्जनैकार्थिना । यावन्मानुषभोगलाभजनितानन्देन दीर्घायुषं त्वामाराधयितुं शिवं सुखय नः शम्भो दयाम्भोनिधे ॥ १४८॥ ज्ञानैश्वर्ययशोदयादि सुगुणैः सर्वैरनन्तैर्बलैः संवृद्धः कृपया सकृत्प्रणमतामप्येकभक्त्या सताम् । यः संवर्धयिता य एव निखिल ब्रह्माण्डविध्वंसना- ऽऽविर्भावोद्वहनैकधृष्णु परमं धत्ते फलं केवलम् ॥ १४९॥ योऽसौ दिव्यकपर्दभृद्यमभितस्ते वीरभद्रादयो धीराश्चाधिवसन्ति यस्य महता वीर्येण धीरोद्धताः । क्षीयन्ते निखिलाः खला भगवते रुद्राय तत्ते प्रियां नित्यं तां बिभृमो वयं मितिमयीं या मानसार्चामयी ॥ १५०॥ स्वर्गोत्कृष्टफलार्थिभिर्मुनिजनैः सर्वेश्वरः सर्वथा ध्यातव्यः शिव एव किञ्च बहुधा यष्टव्य एवानिशम् । स्तोतव्यः परिकीर्तनीय इति च चाविच्छेदनीया मतिः तां लब्ध्वा शिवमेव सर्वमितरत्सन्त्यज्य सर्वात्मना ॥ १५१॥ ध्यायन्तः सततं भजाम इहनः श्रीशङ्करस्य प्रभोः तस्यैतत्कृपया यथा स्वपरिवाराणां च किञ्चाधुना । ग्रामेऽस्मिन्निवसत्यशेषमपि यद्यत्प्राणिजातं च त- त्पुष्टं तुष्टमनातुरं च सुखितं भूयात्तथोपास्महे ॥ १५२॥ स्वामिन् रुद्र नमस्क्रियाभिरनिशं स्तोत्रैर्हविर्भिःक्षय- द्वारि त्वां वयमादरात्परिचरेमास्मासु कुर्वन् कृपाम् । दारापत्यधनादिभिस्तु सुखितानस्मान्कुरुष्वापि च ब्रह्मानन्दमयं च यत्तदपि नः श्रेयः कृपाम्भोनिधे ॥ १५३॥ यद्वा प्रार्थनया प्रयच्छ भगवन् त्वय्येव भक्तिं स्थिरां वाञ्छातीतफलप्रदा भवतुनः सर्वात्मना सात्विकी । संसारज्वर दुःसहार्ति हरण स्वामिंस्तवानुग्रहः पूर्णो नः किमसाध्यमस्ति भजतां तस्मात्वमस्मत्पिता ॥ १५४॥ सष्टृत्वेन नियोजितः स भगवान् लोकेश्वरः स्वस्य य- त्प्राप्तानागतदुःसहार्तिशमनं वाञ्छन् तदाज्ञाक्रमम् । नातिक्रामति तच्च दुर्लभ मपि प्राप्स्यामहे तत्तथा ॥ १५५॥ देवं गोधनवर्द्धनं प्रणमतां हस्त्यश्वरक्षाकरं माण्डव्येन महर्षिणार्चितमुमाकान्तं प्रसन्नाननम् । चन्द्रोद्भासितशेखरं मुनिजनैः संस्तूयमानं प्रभुं ध्यायेद्रुद्रमभीष्टदं प्रणमतां सिह्मासनाधिष्ठितम् ॥ १५६॥ स्वामिन् रुद्रमदीय वंशमखिलं वृद्धं युवानं शिशुं गर्भस्थं पितरं स्वमातरमिहास्माकं रुषा मा वधीः । मा हिंसीश्च प्रिया तनूर्बहुविधा व्याध्यादि वातातपैः शस्त्रास्त्राग्नि महाहि वृश्चिकवृक व्याघ्रोग्रसिह्मादिभिः ॥ १५७॥ सर्वाभीष्टफलप्रदं प्रणमतां देवं दयाशेवधिं देवेशं हृदि देवरातमुनिना ध्यातं गणेशावृतम् । तं नन्दीश्वरवन्दितं सुविमलं बालेन्दुचूडामणिं बालादित्य समानकान्तिमनिशं श्रीरुद्रमेकं भजे ॥ १५८॥ स्वामिन् रुद्र वपाहविश्चपुरोडाशाज्ययागैर्मुहुः प्रीतिं ते नमसा च सम्प्रति वयं सम्पादयन्तोऽधिकाम् । देव त्वां करुणानिधिं परिचरेमास्मासु कुर्वन् कृपां भक्तानामपराधिनामपि च मः पुत्रेषु पौत्रेषु च ॥ १५९॥ गोऽजाश्वादिषु चास्मदादिषु रुषा हिंसां विभो मा कृथाः किञ्चास्मत्कुलवर्धनान्निहरणे दाने च धर्मे धने । बालांस्तन्यपरांस्तथौरसगणान् मा नो वधीः किं तु तान् वर्धिष्णून् चिरजीविनश्च कुरु तान्नः प्रार्थनेयं विभो ॥ १६०॥ स्वात्मानं हृदि भावयन्तमनिशं रुद्रं चिरायुर्महा- मार्गक्षेमसुतुष्टि पुत्र कनक श्रीकन्यकादिप्रदम् । त्वामेकादशधा विभक्तवपुषं तेजोनिधिं शूलिनं चन्द्रालङ्कृतमौलिमिन्दुधवलं शान्ताकृतिं भावये ॥ १६७॥ आश्रान्तान् पुरुषांश्च गाश्च नितरां त्वां निघ्नतः सर्वदा प्रीतिर्हिंसनगोचराय . . . . . दरूपं च दूरेऽस्तुतत् । विश्वत्राणपरायणस्य जगतां मास्मासु भूतस्य या चण्डीशाद्यवनेऽस्ति सास्तु मयि सा प्रीतिः सदास्मास्विह ॥ १६८॥ भक्तानां शिवदं सदाशिव शिवं रूपं च यत्तच्छिवा- यास्माकं पुरतः परिस्फुरतु ते किञ्चाधुनास्मान् विभो । भृत्यान् रक्ष सपक्षपातमधिकं दाक्षिण्यपूर्णं वचः क्षेमं योगमहं वहामि भवतामित्यादराद्ब्रूहि नः ॥ १६९॥ श्रीरुद्रार्थक शर्म यच्छ भगवन् आमुष्मिकं चैहिकम् । कस्तादृक्सुखवर्धनः प्रणमतां देवस्त्वदन्यः प्रभो ॥ १७०॥ आयुः श्रीसुखवर्धनं मुनिवरेणाराधितं चात्रिणा देवोत्तंसहिरण्यसन्निभलसन्मूर्तिं प्रसन्नाननम् । बिभ्राणं ज्वलनं ज्वलन्तममलं कुर्वाणमग्रे स्वयं देव्यास्ताण्डवमादरात्सुरगणैरासेव्यमानं भजे ॥ १७१॥ मार्ताण्डस्य च मण्डले त्रिभुवनव्याप्तप्रभामण्डले नित्यं व्योम्नि परेतभूमिषु च यः प्रादुर्भवंस्तिष्ठति । यः सर्वश्रुतिषु श्रुतेषु निखिलश्रुत्यन्तसारेषु चा- त्यन्तं विश्रुतदिव्यकीर्तिगुणचारित्रायुतो यः सदा ॥ १७२॥ सिह्मव्याघ्रमुखातिघोरमृगवद्भीमाकृतिर्दुर्हृदां यो वध्यानखिलानजस्रमुपसंहर्तुं खलानुद्यतः । यश्चान्यानभिभूतशक्तिरसकृच्चोग्राकृतिं मृत्युव- द्बिभ्रद्धन्ति खलांश्च यस्तमनिशं देवं महेशं स्तुहि ॥ १७३॥ इत्यात्मानमहं प्रमादविमुखं त्वां प्रेरयामि स्वयं भक्त्या स्तौमि च भक्तभीतिहरणं हे रुद्र तुष्टो भव । स्तोतव्योऽपि सुरेश्वरैर्हरिविरिञ्चाद्यैः प्रपन्नःकिला- ऽऽपन्नोऽयं जन इत्यनन्यशरणं मामप्यतीवाल्पकम् ॥ १७४॥ स्तोतारं सुखय प्रसादसुमुखः किञ्चास्तिकिञ्चित्परं भूतप्रेतपिशाचराक्षसमुखा घोरा भवत्सैनिकाः । मास्मांश्चैव अधिक्षिपन्तु सततं रक्षन्तु नः सर्वदा सर्वस्माद्दुरिताद्भयाच्च भगवन् नित्यं प्रसादात्तव ॥ १७५॥ दुर्ज्ञेया विधयो विभिन्नमतिभिर्नीता अभिन्नार्थतां छन्नछन्नविभिन्न विस्मृतमहाशाखासहस्रायुताः । वेदास्तद्विहितास्तथाबहुविधास्ते द्रव्यकालक्रिया- मन्त्राः स्वल्पतरं च जीवनमतीवाल्पा च शक्तिर्मतिः ॥ १७६॥ दुर्विज्ञेयतरं सुदुष्करमतः कर्माखिलं तद्भवेत् भक्त्या नः सफलं भवेदिति यथाप्रज्ञं यथासम्भवम् । यज्ञात्माऽखिलयज्ञभुक् त्वमिति च त्वां देव यक्ष्यामहे यज्ञैरेव वपाहविश्चरुपुरोडाशाज्यवन्तो वयम् ॥ १७७॥ डम्भाहङ्कृतिदर्पपूर्णहृदया देवान्यजन्ते परान् एतेषामधमिच्छतस्तव मुहुर्दातुं प्रदीप्ताकृते । उग्रा निग्रहरूपिणी स्थिरतरा या दुर्मतिर्माकृथा- स्तामस्मासु कदाप्यतो मृति(मति)रियं हेतिश्च रुद्रस्य ते ॥ १७८॥ भक्तान् दूरत एव देव परितः सा वर्जयत्वद्य नः सर्वान् किञ्च विमुच्य चापमधुना आबद्धमस्मत्कृते । सृष्ट्वा विश्वमिदं महेश्वर तदेवानुप्रविश्य प्रजा- श्चाविच्छिन्नतया समस्तजगतः स्रष्टुं स्त्रियां योनिषु ॥ १७९॥ वीर्यं सिञ्चसि यत्प्रजापतिरतो मीढ्वा पिता त्वं हितः त्वं पुत्रानिह पौत्रकांश्च सुरसश्रीरुद्रशम्भो प्रभो । वंशोद्धारकशक्तिभक्तिसुगुणश्रीकीर्तिमत्पुत्रदं ध्यायंस्तं भगवन्तमन्तरनिशं स्वात्मानमेव स्वयम् ॥ १८०॥ नानाप्रस्फुरदायुधं नतमहापापौघदुःखापहं देवेशं गजचर्मसंवृततनुं श्रीकृत्तिवासं भजे । नाथो यः प्रकृतेः परश्च पुरुषः सर्वान्तरात्मा जपा- लौहित्यं स्फटिकादिकेष्विव हि यः पुंभावसम्भावितः ॥ १८१॥ पुंभावः पुरुषेषु भाति जगति स्वांशप्रधानेषु यः स्त्रीष्वेव प्रकृतिप्रधानतनुषु स्वं वीर्यमासिञ्चति । योऽत्यन्तं शिवदः समस्तजगतां स त्वं प्रसादार्थिनां अस्माकं च शिवो भवाद्य सुमना हानिर्न तत्तावता ॥ १८२॥ धन्याः स्याम वयं च किं च परमे वृक्षे क्वचिद्दूरतो निक्षप्यायुधजालमेतदखिलं पापात्मनां भीषणम् । सौम्यं बाहुविभूषणं करतले बिभ्रत्पिनाकं धनुः शान्तं कान्तमुपेत्य तारकवपुः कृत्तिं वसानः शुभाम् ॥ १८३॥ वैयाघ्रं वनमध्यतः करुणयाभ्यागच्छ पाहि स्वकान् रक्षन्नः पुरतश्चराचरहितं श्रीरुद्र शम्भो प्रभो । अर्थप्राण विपत्ति संशयभयक्लेशारि चोर व्यथा- भीतिघ्नं हृदि भावयन्तमनिशं शम्भुं स्वरूपं स्वयम् ॥ १८४॥ अग्र्यं यान्तमतीव सुन्दरतनुं सन्मङ्गलैकालयं सानन्दं च पिनाकिनं वनचराकारं युवानं भजे । लौहित्येन विवर्जितं गिरिजया यस्याङ्गमर्धं सदा यं वेदान्तगिरो वदन्ति सततासङ्गोह्ययं पूरुषः ॥ १८५॥ कालुष्येण विवर्जितः शिव इति ख्यातश्च यः पूजितः सद्भिः सद्विविधामयार्तिभयहृत्संसारघोरापदाम् । यस्त्वं खण्डयितासि काण्डनिवहान् चण्डान् प्रकीर्याभितः दण्ड्यान् दण्डयसि स्वयं च हरसि स्वैर्भीषणैरायुधैः ॥ १८६॥ ज्ञानैश्वर्ययशः सुवीर्यकरुणावैराग्यभाग्यामित- श्रीभिः पूर्णतरोऽस्ति यो हि भगवानस्मै नमस्तेऽधुना । यास्ते सन्तु सहस्रमाशुगतयस्ता हेतयो यायिनः शास्तुं किञ्चिदधिक्षिपन्त्वघवतां मद्ये मदन्यं तथा ॥ १८७॥ भक्ता एव वयं भवाम भवतः सर्वात्मना सागराः त्वद्ध्यानैकपरायणाः सुमनसो नित्यं समाशास्महे । तिर्यग्जन्तु महाजलूकजनतापक्ष्यादि सिद्धिप्रदं देवं सर्वजयप्रदं च भजतां शम्भुं पुलस्त्यार्चितम् ॥ १८८॥ सस्कन्दं जगदम्बयायुततनुं देवादिरुद्रैः स्तुतं साम्बं क्लृप्तविवाहमङ्गलविधिं स्मेराननं भावये । प्रत्येकं च सहस्रधा बहुसहस्राणां सहस्राणि यः सन्त्यत्युत्तमहेतयस्तव शिवासङ्ख्येयबाहुष्विह ॥ १८९॥ तत्सङ्क्षेपणतत्समुद्भवमहाहिंसाविधानादिके- ष्वीशानो भगवन् विभासि यदि तच्चित्रं किमत्र प्रभो । पुण्यापुण्यकृतां परस्परमपि संज्ञानलक्ष्यं क्षणात् लक्षीकृत्य तु पुण्यपापवशतस्तन्निग्रहानुग्रहे ॥ १९०॥ हर्तुं भर्तुमशेषलोकमपि यस्त्वं भाविकीमीशतां धत्सेऽतः करुणावशाच्छरणगांस्त्रातुं सदाऽस्मान् प्रति । हेतीनां तु मुखानि चानभिमुखान्यस्माकमस्मद्द्विषां नित्यं चाभिमुखानि देव कुरु नः सौख्यप्रदानि प्रभो ॥ १९१॥ देवोपद्रवराजपीडनमहाकान्तारचोरव्यथा- भीतिघ्नं हृदि नारदेन मुनिना ध्यातं सतां सर्वदा । रुद्रं सर्वमनोज्ञभूषणधरं सर्वायुधालङ्कृतं सर्वाघौघहरं च सर्वजगतामीशं महेशं भजे ॥ १९२॥ कल्पादौ विधिनाऽर्थितेन कृपया रुद्रेण ये निर्मिता- स्तुत्तुल्याकृतयस्तदायुधधरास्ततुल्यभूषास्तथा । लोकानुग्रहनिग्रहैकनिपुणाः कर्मानुरूपं फलं यच्छन्तो निवसन्ति ये च परितः सूर्यानिलाग्न्यंशजाः ॥ १९३॥ विश्वेदेवगणाः प्रसिद्धसुगुणास्तेजोमरुत्पार्थिवा- श्चारा ये च महेश्वरस्य बहुधा नित्यं विभक्ताकृतेः । भक्तानुग्रहतत्परस्य बहवः सानुग्रहानिग्रहा ये भक्ताः शिवभावनामधिगता रुद्राः सुरूपा हि ते ॥ १९४॥ वैयाघ्राजिनभोगिभूषणभृतो बालेन्दुगङ्गाजटा- चूडालङ्कृतमस्तकास्त्रिणयनाः साम्बाः स नन्दीश्वराः । ये देवानुचराश्च देवसदृशो देवा गणाधीश्वराः सर्वेऽमी भजतां शिवात्मकतया संसाररुग्द्रावकाः ॥ १९५॥ प्रत्येकं तु सहस्रशो बहुसहस्राणां सहस्राणि ये रुद्राश्चाधिवसन्त्यधीश्वर तथा भूम्यन्तरिक्षे दिवि । ये सर्वत्रभवा भवेन सदृशा अस्मिन्महत्यर्णवे वृष्टिर्नः परिपूर्णमेघनिवहैः पूर्णेऽन्तरिक्षेऽपि च ॥ १९६॥ ये हालाहलनीलकण्ठ वपुषः शर्वाः क्षमायामधः पाताले प्रचरन्ति येऽपि च दिवि रुद्राः सदोपाश्रिताः । तानेवं स्तुभिः सदैव नतिभिश्चाराधयन्तो वयं तेषामद्य सहस्रयोजनमिते दूरे स्थितानामपि ॥ १९७॥ अर्वाक्तत्परतः पुरश्च परितः सज्जानि धन्वान्यलं विज्यान्यातनुमः सुखाय सततं क्षेमाय योगाय च । राज्ञां शत्रुविनाशनं प्रणमतां घोराभिचारक्रिया- सम्भूताधनिवारणं च मुनिना दुर्वाससाराधितम् ॥ १९८॥ बिभ्राणं त्रिशिखं प्रदीप्तवपुषं रुद्रं ज्वलन्मूर्धजं भोगीन्द्राभरणं भजे भयहरं दंष्ट्राकरालाननम् ॥ १९९॥ - - अयमनुवाकचतुष्टयस्य रुद्र- प्रियायोगस्य उपासनाविशेषः । अथवा चाष्टतनोस्तथाष्टहृष्टो नवमोऽयं दशमः शतान्वितानाम् ॥ - - ये वृक्षेष्विह कालकर्मवशतश्चावृश्च्यमानेष्विमां क्ष्मामावृत्य चराचरात्मरतया तिष्ठन्ति जावेषु ये । अन्तव्याप्तजगन्ति येऽखिलजगत्पीडाकराणां सदा (? ) हन्तारोऽसितकन्धरा बहुविधा ये नित्यनिष्कल्मषाः ॥ २००॥ भूतानां पृथिवीजलाग्निमरुदाकाशात्मनां ये धिया स्थित्वा तेषु जगन्ति पान्ति परितस्तत्कार्यभूतैः फलैः । नानाभूतगणाधिपाश्च विविधा ज्वालाज्वलन्मूर्तयः ये वा वीतशिखा विचित्रविशिखा ये वा कपर्दोज्ज्वलाः ॥ २०१॥ येऽन्नेषु चतुर्विधेषु च तदा ये ये पुरान्नादना व्यापारार्हविचित्ररूपचषका मार्गादिके संस्थिताः । पापिष्ठान् फलतोलनेन विविधं पापानुरूपं जनान् न्यूनाधिक्यविचित्रधातुगतिभिर्विध्यन्ति च व्याधिभिः ॥ २०२॥ तेषामद्य सहस्रयोजनमिते दूरे स्थितानां वयं विज्यान्यातनुमो धनूंषि सततं क्षेमाय योगाय च । राज्ञां शत्रुनृपादिमारणमहासिद्धिप्रदं तादृशां भक्तानामखिलाघसङ्घहरणं श्रीदेवलाराधितम् ॥ २०३॥ रुद्रं भीषणभोगिभूषणधरं दंष्ट्राकरालाननं बिभ्राणं त्रिशिखं प्रदीप्तवपुषं ध्यायेज्ज्वलन्मूर्धजम् । येऽमी लौकिकवैदिकादिविधया नानाविधानां पथां सर्वेषामपि रक्षका बहुविधाः कर्मानुरूपेण ये ॥ २०४॥ ये धर्मं च तथोऽथ देव पथिभिश्चोर्ध्वं च तिर्यग्गति- श्चाधस्ताच्च नयन्ति ये सुकृतिनां भक्त्या परं ध्यायताम् । कर्तृत्वादिमतिप्रसक्तविविधव्यापारशूरस्थिर- ध्यानापास्तसमस्तकल्मषमनः साक्षात्कृतब्रह्मणाम् ॥ २०५॥ ईशन्यस्तसमस्तदुर्भरमहासंसारभारात्मनां अन्नं दातुमरं त्वनं करुणया हस्ते दधानाः सदा । ये युध्वा युवभिः खलैरतिबलैः सम्पीड्यमानान् सदा संरक्षन्ति हरन्ति कर्मवशतश्चायुः परेषामपि ॥ २०६॥ ये तीर्थानि चरन्ति तीर्थफलदास्तीर्थद्विषःसन्ततं हन्तुं बाणकृपाणकार्मुकसृकावन्तो निषङ्गोद्यताः । तेषामद्य सहस्रयोजनमिते दूरे स्थितानां वयं विज्यान्यातनुमो धनूंषि सततं क्षेमाय योगाय च ॥ २०७॥ विद्वद्वल्लभसर्वशक्तवरसत्पुत्रप्रदं ध्यायतां सौमुख्येन समस्ततीर्थफलदं श्रीदेवलाराधितम् । रुद्रं भीषणभोगिभूषणधरं दंष्ट्राकराला नं बिभ्राणं त्रिशिखं प्रदीप्तवपुषं ध्यायेज्ज्वलन्मूर्धजम् ॥ २०८॥ एतावद्भिरिहोदितैर्दशमहामन्त्रैः प्रकाशीकृता- श्चैतावद्भिरियत्तयाऽपरिमिता भूम्यन्तरिक्षे स्थिताः । ये त्रैलोक्यमतीत्य सर्वभुवनव्याप्ताश्च सर्वात्मकाः भूयांसश्च वसन्ति ये दशदिशो रुद्राः समाक्रम्य च ॥ २०९॥ तेषामेव सहस्रयोजनमिते दूरे स्थितानां वयं विज्यान्यातनुमो धनूंषि सततं क्षेमाय योगाय च । विद्यापुत्रपुराङ्गनाप्तिसुमहामातङ्गतुङ्गाश्वदं दिव्यस्यन्दनदिव्यसस्यसुमहीभोगादिहेमार्थदम् ॥ २१०॥ रुद्रं भस्मविभूषणं फणिगणाभूषं ज्वलत्कन्धरं चन्द्रोद्भासिशिखं प्रदीप्तवपुषं ध्यायेत् त्रिशूलीकरम् । श्रीरुद्रेभ्य इदं नमः प्रथमतो वा चैव वाग्भूतये कर्मण्यप्यथ ये वसन्ति च पृथक् भूम्यन्तरिक्षाद्वयुः ॥ २११॥ दत्वान्नं बहुभक्षणादिषु रतास्त्वां कार्यशौर्यादिभिः पापिष्ठा गठबन्धनादिजनितक्लेशाकुलान् कुर्वताम् । अल्पाल्पैरधिकाधिकैर्मुहुरकालोत्थैर्मरुद्वर्षणैः येषां पीडयतां जगत्यधिकृतां अन्नं च वासस्तथा ॥ २१२॥ वर्षन्त्येषु समूहवत्त्रिणयमप्येतज्जगज्जीवनं हिंसासाधनमास दुष्कृतकृतां क्षेमाय नित्यं समाम् । तेभ्यो नः पुरतो वयं त्विह दश प्राचीःप्रतीचीर्दिशो- र्ध्वारोग्याय शिवाय कायिकनमस्कारात्मिकाः सर्वतः ॥ २१३॥ कृत्वा चिन्तितसिद्धयेऽथ मनसा तेभ्यो नमस्कुर्महे हे रुद्राः सुखयन्तु नः प्रणमतस्तेऽमी भजन्तो वयम् । निष्पापाः स्तुतिपूर्णकानतिशतैर्युष्मत्कृपाभाजनाः तस्मादस्मदरिं तु पापपुरुषं हेतुं स यत्नाच्चिरात् ॥ २१४॥ यं द्विष्मः परिपीडयन्ननुदिनं दारिद्र्यरोगादिभिः योऽस्मान् द्वेष्टि तमेव दन्तनिवहैः कालात्मनावा दधा- म्येतांस्तान् सुखितान् सदा कुरु जनान्पूर्णान्सदा रक्ष नः ॥ २१५॥ कालज्ञानदमन्नदं प्रणमतां जातिस्मरत्वप्रदं सर्वाभीष्टदमात्मनात्मनि निजात्मानं भजन्तं सदा । रुद्रं देवमनन्तरुद्रसहितं विश्वेश्वरं विश्वत- श्चक्षुः श्रोत्रकराङ्घ्रिमूर्जितमहाकालत्मकं चिन्तये ॥ २१६॥ ॥ इति श्रीशिवरहस्यान्तर्गते स्कन्दप्रोक्तं रुद्रार्थविवरणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । द्वादशांशः । अध्यायः २६-३३ रुद्रार्थविवरणम् । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . dvAdashAMshaH . adhyAyaH 26-33 rudrArthavivaraNam . vAvRRittashlokAH .. Notes: Skanda स्कन्द delivers an exposition on Rudrārthaḥ रुद्रार्थः - that is meant to capture the deeper meanings of the respective Anuvāka-s अनुवाकाः of ŚrīRudram श्रीरुद्रम् of the Yajurvedaḥ यजुर्वेदः. Most of the Śloka-s are composed in ŚardūlavikrīditaCandaḥ शार्दूलविक्रीडितछन्दः Selected Śloka-s from the Chapters 26-33 are collated on this page and renumbered for seamless reading. Proofread by Ruma Dewan
% Text title            : Rudrarthavivaranam
% File name             : rudrArthavivaraNam.itx
% itxtitle              : rudrArthavivaraNam (shivarahasyAntargatam)
% engtitle              : rudrArthavivaraNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | dvAdashAMshaH | adhyAyaH 26-33 rudrArthavivaraNam | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org