सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनम्

सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनम्

सत्यव्रतः - सन्ति धर्माः श्रुतिप्रोक्ताः पुराणोक्ताश्च कोटिशः । तेषु धर्मेषु सर्वेषु धर्माः पञ्च मनोहराः ॥ ७२॥ विभूतिधारणं धर्मः तथा रुद्राक्षधारणम् । रुद्राध्यायजपो लिङ्गे बिल्वैः शाङ्करपूजनम् ॥ ७३॥ पञ्चमं शिवनैवेद्यभोजनं तैः परं नरः । कृतैर्मुक्तो भवत्येव महापातककोटिभिः ॥ ७४॥ नारीणां च नराणां च धर्मोऽयं तुल्य इत्यतः । अविशेषेण कर्तव्यः सर्वेषामपि सर्वथा ॥ ७५॥ रुद्राध्यायजपे शक्तिः स्त्रीणां यदि न सर्वथा । तदा पञ्चाक्षरो जप्यः वेदसारतया स्मृतः ॥ ७६॥ दधिमन्थनसम्प्राप्तनवनीतनिभं विदुः । पञ्चाक्षरमहामन्त्रं वेदराशिविनिर्गतम् ॥ ७७॥ अयं मन्त्रः परो मन्त्रः सर्वमन्त्रोत्तमोत्तमः । मन्त्रराजाधिराजोऽयं मन्त्ररत्नमिति स्मृतः ॥ ७८॥ वेदैः परमयं मन्त्रो जप्तः पञ्चाक्षरः परः । महेश्वरेण जप्तोऽयं जप्तोऽप्यम्बिकया मुदा ॥ ७९॥ कुमारेणापि जप्तोऽयं गणेशेनापि सादरम् । श्रीकालभैरवेणापि जप्तः पञ्चाक्षरः परम् ॥ ८०॥ वीरभद्रेण जप्तोऽयं नन्दिकेशेन सादरम् । सभृङ्गिप्रमुखैः सर्वैः गणैर्जप्तः स किन्नरैः ॥ ८१॥ गन्धर्वैः परिजप्तोऽयं सकलत्रैश्च पन्नगः । नारायणेन जप्तोऽयं जप्तोऽयं रमया मुदा ॥ ८२॥ ब्रह्मणापि सरस्वत्या जप्तोऽयं परमो मनुः । इन्द्रेण जप्तः शच्या च चन्द्रेणापि प्रयत्नतः ॥ ८३॥ अग्निनापि प्रजप्तोऽयं स्वाहयापि प्रयत्नतः । वायुनापि प्रजप्तोऽयं भूम्या जप्तो विशेषतः ॥ ८४॥ यमेनापि प्रजप्तोऽयमन्यैश्चापि सुरैस्तथा । दधीचिप्रमुखैः सर्वैः जप्तोऽयं मुनिभिः सदा ॥ ८५॥ अयमेव परो मन्त्रः सर्वेषां मोक्षदायकः । सूर्येण वायुना जप्तश्चन्द्रेणापि प्रयत्नतः ॥ ८६॥ पञ्चाक्षरकारसुधासमुद्रं कृत्वा महारुद्रमिवापरं तम् । को वा न तन्मन्त्रजपानुरक्तः त्यक्त्वा पशुघ्नं कृतपापराशिम् ॥ ८७॥ इतोऽधिकः कोऽपि न वेदमध्ये मन्त्रोऽस्ति मन्त्राधिप एव सोऽयम् । अयं स्मृतश्चेन्मरणावसाने मुक्तिः परं किं न करप्रपन्ना ॥ ८८॥ मन्त्रेष्वयं शाम्भवमन्त्रराजराजाधिराजः खलु शैवमन्त्रः । अतः स एवामितपुण्यहेतुः स एव मोक्षाय विनिर्मितोऽपि ॥ ८९॥ ॥ इति शिवरहस्यान्तर्गते सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३९। ७२-८९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 39. 72-89 .. Proofread by Ruma Dewan
% Text title            : Satyavrataproktam Rudramantravyakhyavarnanam
% File name             : rudramantravyAkhyAvarNanam.itx
% itxtitle              : rudramantravyAkhyAvarNanam (shivarahasyAntargatam)
% engtitle              : rudramantravyAkhyAvarNanam
% Category              : shiva, shivarahasya, mantra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 39 | 72-89 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org