सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनम्
सत्यव्रतः -
सन्ति धर्माः श्रुतिप्रोक्ताः पुराणोक्ताश्च कोटिशः ।
तेषु धर्मेषु सर्वेषु धर्माः पञ्च मनोहराः ॥ ७२॥
विभूतिधारणं धर्मः तथा रुद्राक्षधारणम् ।
रुद्राध्यायजपो लिङ्गे बिल्वैः शाङ्करपूजनम् ॥ ७३॥
पञ्चमं शिवनैवेद्यभोजनं तैः परं नरः ।
कृतैर्मुक्तो भवत्येव महापातककोटिभिः ॥ ७४॥
नारीणां च नराणां च धर्मोऽयं तुल्य इत्यतः ।
अविशेषेण कर्तव्यः सर्वेषामपि सर्वथा ॥ ७५॥
रुद्राध्यायजपे शक्तिः स्त्रीणां यदि न सर्वथा ।
तदा पञ्चाक्षरो जप्यः वेदसारतया स्मृतः ॥ ७६॥
दधिमन्थनसम्प्राप्तनवनीतनिभं विदुः ।
पञ्चाक्षरमहामन्त्रं वेदराशिविनिर्गतम् ॥ ७७॥
अयं मन्त्रः परो मन्त्रः सर्वमन्त्रोत्तमोत्तमः ।
मन्त्रराजाधिराजोऽयं मन्त्ररत्नमिति स्मृतः ॥ ७८॥
वेदैः परमयं मन्त्रो जप्तः पञ्चाक्षरः परः ।
महेश्वरेण जप्तोऽयं जप्तोऽप्यम्बिकया मुदा ॥ ७९॥
कुमारेणापि जप्तोऽयं गणेशेनापि सादरम् ।
श्रीकालभैरवेणापि जप्तः पञ्चाक्षरः परम् ॥ ८०॥
वीरभद्रेण जप्तोऽयं नन्दिकेशेन सादरम् ।
सभृङ्गिप्रमुखैः सर्वैः गणैर्जप्तः स किन्नरैः ॥ ८१॥
गन्धर्वैः परिजप्तोऽयं सकलत्रैश्च पन्नगः ।
नारायणेन जप्तोऽयं जप्तोऽयं रमया मुदा ॥ ८२॥
ब्रह्मणापि सरस्वत्या जप्तोऽयं परमो मनुः ।
इन्द्रेण जप्तः शच्या च चन्द्रेणापि प्रयत्नतः ॥ ८३॥
अग्निनापि प्रजप्तोऽयं स्वाहयापि प्रयत्नतः ।
वायुनापि प्रजप्तोऽयं भूम्या जप्तो विशेषतः ॥ ८४॥
यमेनापि प्रजप्तोऽयमन्यैश्चापि सुरैस्तथा ।
दधीचिप्रमुखैः सर्वैः जप्तोऽयं मुनिभिः सदा ॥ ८५॥
अयमेव परो मन्त्रः सर्वेषां मोक्षदायकः ।
सूर्येण वायुना जप्तश्चन्द्रेणापि प्रयत्नतः ॥ ८६॥
पञ्चाक्षरकारसुधासमुद्रं कृत्वा महारुद्रमिवापरं तम् ।
को वा न तन्मन्त्रजपानुरक्तः त्यक्त्वा पशुघ्नं कृतपापराशिम् ॥ ८७॥
इतोऽधिकः कोऽपि न वेदमध्ये मन्त्रोऽस्ति मन्त्राधिप एव सोऽयम् ।
अयं स्मृतश्चेन्मरणावसाने मुक्तिः परं किं न करप्रपन्ना ॥ ८८॥
मन्त्रेष्वयं शाम्भवमन्त्रराजराजाधिराजः खलु शैवमन्त्रः ।
अतः स एवामितपुण्यहेतुः स एव मोक्षाय विनिर्मितोऽपि ॥ ८९॥
॥ इति शिवरहस्यान्तर्गते सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३९। ७२-८९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 39. 72-89 ..
Proofread by Ruma Dewan