सामवेदप्रोक्ता शिवस्तुतिः

सामवेदप्रोक्ता शिवस्तुतिः

(शिवरहस्यान्तर्गते उग्राख्ये) सामवेद उवाच नमो भवाय रुद्राय मोहनाय नमो नमः । मार्गीहिमाय शुद्धाय धुन्वते च नमो नमः ॥ ८८॥ नमो नमस्तापसाय तापसेशाय वै नमः । नमो नमो विशालाय श्रीपुनर्वसवे नमः ॥ ८९॥ नमः शिवाय पाराय सुपाराय नमो नमः । महापाराय पार्याय पारदाय नमो नमः ॥ ९०॥ धुन्वते पारविन्दाय पुरुषाय नमो नमः । नमः सुपुरुषार्थाय श्रीमहापुरुषाय च ॥ ९१॥ नमोऽन्नायान्नपतये एकाक्षायामितेक्षिणे । नमः प्रतिपदायापि नमः प्रतरिणे सदा ॥ ९२॥ नमस्त्रियम्बकायापि नमस्तस्मै कपर्दिने । नमो ब्रह्माधिपतये श्रीविष्णुपतये नमः ॥ ९३॥ नमोऽखिलाधिपतये विरूपाक्षाय सुन्वते । एक एव महारुद्रः सर्वदेवोत्तमो नमः ॥ ९४॥ न तस्मादधिकः कोऽपि सत्यमेवोच्यते मया । न यस्मादधिको देवो देवदेवान्महेश्वरात् ॥ ९५॥ स एव सर्वदा सेव्यः श्रीरुद्रो विश्वशासकः । विष्णुमुख्याः सुराः सर्वे शङ्करस्यैव किङ्कराः ॥ ९६॥ इन्द्रोपेन्द्रप्रभृतयः सर्व शङ्करकिङ्कराः । शिवमेवाधिक मन्ये देवदेवोत्तमं प्रभुम् ॥ ९७॥ देवोत्तमान्महादेवात्कोऽपि नास्त्यधिकः सुराः । देवोत्तमो महादेवः सर्वदेवनमस्कृतः ॥ ९८॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । शिवः कल्याणनिलयः सर्वदेवशिखामणिः ॥ ९९॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । शिव एव सदा पूज्यो भुक्तिमुक्तिफलेप्सुभिः ॥ १००॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । सृष्टिस्थितिविनाशानां शिव एव हि कारणम् ॥ १०१॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । तस्मै मया नमस्काराः कृताः पूर्वमघापहाः ॥ १०२॥ सर्वव्यापीति यो ज्ञेयः सोऽनन्त इति मन्महे । योऽनन्त इति विज्ञेयस्स तार इति मन्महे ॥ १०३॥ यत्तारमिति विज्ञेयं तत्सूक्ष्ममिति गीयते । यत्सूक्ष्ममिति विज्ञेयं तच्छुक्लमिति मन्यताम् ॥ १०४॥ यच्छुक्लमिति विज्ञेयं तद्धि वैद्युतमेव हि । यद्वैद्युतं तदेवैकं परब्रह्मेति मन्यताम् ॥ १०५॥ स एकः सर्वभूतात्मा स एको रुद्र उच्यते । स ईशानः स भगवान्स महेश्वर उच्यते ॥ १०६॥ स महादेव एवेशः स सदाशिव ईर्यते । अद्वितीयो विभुः श्रेष्ठः स एको रुद्र उच्यते ॥ १०७॥ रुद्रस्त्रियम्बको नान्यो रुद्र इत्यभिधीयते । सर्वव्यापी त्रिणयनस्तस्मादीशान उच्यते ॥ १०८॥ स पश्यत्यखिलाण्डानि स्वात्मसृष्टानि सर्वशः । सृष्टानि चाखिलाण्डानि स्वयमेषोऽवति प्रभुः ॥ १०९॥ लोकान्सङ्क्षपयते सर्वान्कल्पान्ते स्वेच्छया शिवः । शिवोऽयं विश्वतश्चक्षुः शिवोऽयं विश्वतोमुखः ॥ ११०॥ शिवोऽयं विश्वतोबाहुर्विश्वतस्मान्महेश्वरः । ततः सर्वं परित्यज्य पूजयन्तु महेश्वरम् ॥ १११॥ ॥ इति शिवरहस्यान्तर्गते सामवेदप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। ८८-१११॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 88-111.. Proofread by Ruma Dewan
% Text title            : Samavedaprokta Shiva Stuti
% File name             : sAmavedaproktAshivastutiH.itx
% itxtitle              : shivastutiH sAmavedaproktA (shivarahasyAntargatA)
% engtitle              : sAmavedaproktA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 22| 88-111||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org