सदाशिवप्रोक्तं शिवलिङ्गदानविध्योपदेशम्

सदाशिवप्रोक्तं शिवलिङ्गदानविध्योपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) (शिवपार्वतीसंवदे) पार्वती उवाच देव देव महादेव लिङ्गदानविधिं वद । लिङ्गदानफलं चापि वद मह्यं कृपानिधे ॥ ६९१॥ श्रीसदाशिवः (उवाच) काश्मीरकाञ्चनादीनि लिङ्गानि विविधान्यपि । देयान्यनन्तयत्नेन मत्प्रीत्यर्थं मुमुक्षुभिः ॥ ६९२॥ शैवेभ्य एव देयानि सर्वदानानि सर्वदा । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ६९३॥ अत्यल्पमपि दत्तं यद्यस्मिन्नक्षय्यमम्बिके । तादृशः शैव एवातो दानं शैवाय दीयते ॥ ६९४॥ शिवरात्रौ सोमवारे ग्रहणे चन्द्रसूर्ययोः । सङ्क्रान्तिष्वपि कर्तव्यं लिङ्गदानं मुमुक्षुभिः ॥ ६९८॥ उपोष्य पूर्वदिवसे शैवान्सम्पूज्य सादरम् । प्रार्थनीयास्तदा शैवा लिङ्गदानार्थमादरात् ॥ ६९६॥ ततो लिङ्गामि देयानि क्षीराज्यैर्विधिपूर्वकम् । अभिषिच्यार्चनीयानि बिल्वपत्रादिभिः शिवे ॥ ६९७॥ सौवर्णे राजते वापि ताम्रे वा भाजने नवे । नववस्त्रसमास्तीर्णे शिवलिङ्गं निवेदयेत् ॥ ६९८॥ ततः पुनः प्रयत्नेन भस्मबिल्वदलादिभिः । सम्पूज्य क्षीरपक्वान्नैर्नैवेद्यानि समर्पयेत् ॥ ६९९॥ रात्रौ जागरणं कार्यं भक्तिश्रद्धापुरःसरम् । कथा मदीया श्रोतव्या मूर्तिध्यानपुरःसरम् ॥ ७००॥ प्रदक्षिणापि कर्तव्या सपुष्पाञ्जलि शङ्करि । नैवेद्यं देयममलं मह्यं यामचतुष्टये ॥ ७०१॥ ततः प्रातः समुत्थाय कृत्वा स्नानादिकं ततः । शैवानां पूजनं कार्यं मधुपर्कपुरःसरम् ॥ ७०२॥ ततः सुवर्णसहितं वस्त्रयुग्मसमन्वितम् । ग्राह्यं सपात्रं हस्तेन शिवलिङ्गं मदात्मकम् ॥ ७०३॥ ततः परमयं मन्त्रो मन्मूर्तिध्यानपूर्वकम् । देशकालादि सङ्कीर्त्य पठनीयो मनीषिभिः ॥ ७०४॥ शिवलिङ्गे शिवाकारे भुवनानि चतुर्दश । तस्मादस्य प्रदानेन प्रीयतां भगवाञ्छिवः ॥ ७०५॥ इति मन्त्रं समुच्चार्य शिवलिङ्गं मदात्मकम् । मद्भक्ताय प्रदातव्यं जलदानपुरःसरम् ॥ ७०६॥ देवस्य त्वेति राजात्वेत्येति मन्त्रास्ततःपरम् । प्रतिगृहीत्वा(प्रतिगृह्य प्र)यत्नेन पठनीया यथाक्रमम् ॥ ७०७॥ दक्षिणा तावती देया तृप्तिर्भवति यावता । सुवर्णानां सहस्रं वा यद्वा देया स्वशक्तितः ॥ ७०८॥ दशदानानि कार्याणि ततः शक्त्यनुसारतः । ततः कार्यं कृतं कर्म शिवे सर्वं मदर्पणम् ॥ ७०९॥ एवं यः कुरुते भक्त्या लिङ्गदानं यथाविधि । स महापापसङ्घेभ्यः सद्य एव प्रमुच्यते ॥ ७१०॥ यं यमर्थं समुद्दिश्य लिङ्गदानं करोति यः । स तं तमर्थमाप्नोति मत्प्रसादान्मनोरमे ॥ ७११॥ लिङ्गदानसमं दानं नास्ति कुत्रापि शैलजे । लिङ्गदानं महादानं सर्वदानोत्तमोत्तमम् ॥ ७१२॥ लिङ्गदानं महादानं मदनुग्रहकारणम् । यः करोति विधानेन स ममातिप्रियः शिवे ॥ ७१३॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवदे सदाशिवप्रोक्तं शिवलिङ्गदानविध्योपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ६९१-७१३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 691-713.. Notes: Śiva शिव tells Pārvatī पार्वती about the Śivaliṅgadānavidhi शिवलिङ्गदानविधि and that such Śivaliṅga शिवलिङ्ग may be composed of various materials like Kāśmīra काश्मीर, Kāñcana काञ्चन etc. He mentions that the procedure can be conducted especially during Śivaṛatri शिवरात्रि, Somavāra सोमवार, Sūrya Grahaṇa सूर्य ग्रहण, Candra grahaNa चन्द्र ग्रहण and Saṅkrānti सङ्क्रान्ति. Proofread by Ruma Dewan
% Text title            : Sadashivaproktam Shivalingadanavidhyopadesham
% File name             : sadAshivaproktaMshivalingadAnavidhyopadesham.itx
% itxtitle              : shivaliNgadAnavidhyopadesham sadAshivaproktaM (shivarahasyAntargatam)
% engtitle              : sadAshivaproktaM shivalingadAnavidhyopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 691-713||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org