शाङ्करैः प्रोक्ता शिवस्तुतिः
(शिवरहस्यान्तर्गते भीमाख्ये)
शाङ्कराः उचुः
हे गौरीरमणारुणाचलपते तूर्णं ममाभ्यर्णगं
मृत्युं वारय तारयाशु दुरितात्सम्पूर्णदृक्सङ्गतः ।
घोरापारभवार्णवाज्जनिजरारोगानुतापैरपि
शम्भो मे मरणक्षणेऽपि शरणं ते पङ्कजाभं पदम् ॥ ९॥
हे गौरीकुचचारुशैलशिखरापारादरस्वान्तर
मारोद्दामसुदर्पसर्पकुहारापारव्यथासंहर ।
हे काकोदरभूष भूतिद महीधृग्धुर्यबाणासन
मथ्यत्सागरसम्भवोत्तमगर श्रीनीलकण्ठ प्रभो ॥ १०॥
पाहीशान दयानिधान भगवन्कारुण्यसिन्धो सदा ॥ ११॥
हे चन्द्रद्युतिकोटिरञ्जितजटा कोटीर जूटीलस-
द्देव श्रीतटिनीतटोत्तम पटीभूतेभचर्माम्बर ।
हे कालप्रभुवर्य घोटकमहावेदोरुहेषास्तुत
त्रुट्यद्दिक्तट सम्भ्रमोरुनटन पाटीरपङ्काङ्कित ॥ १२॥
हे शूलोद्यतहस्त मस्तकलसच्चन्द्रोरुगङ्गाधर
स्वामिन् देवकिरीटकोटिविलसत्पादाम्बुजावाद्य माम् ।
मुस्ताशस्तसमस्तभीतिदमहाकोलोरुदंष्ट्राधर-
वित्रस्ताखिललोकरक्षकमहाशास्तः पितः पाहि माम् ॥ १३॥
हे गङ्गाम्बुतरङ्गसङ्गसुमहादित्योत्तमाङ्ग प्रभो
मां दुर्बोधमनर्घभूतिविलसत्सर्वाङ्गरागावतात् ।
दिव्योत्तुङ्गभुजङ्गसङ्ग सुमहानन्दाङ्गलिङ्गान्तरं
अग्नीषोमपतङ्गनेत्र करुणादृक्सङ्गतः पाहिमाम् ॥ १४॥
हे भालाक्ष महेश रक्ष करुणामूर्तेऽध्वराध्यक्ष मां
वीक्षाशिक्षितमन्मथाङ्ग सुमहादक्षोरुशिक्षाकर ।
तत्पक्षान्तरदेववृन्दकदन ध्वंसीकृताधोक्षज
पाह्यक्षेशवराश्रय त्रिभुवनाध्यक्ष प्रभो पाहिमाम् ॥ १५॥
त्र्यक्षापातदयाघनान्तरदृशा संवीक्ष्य सर्वदा
हे शम्भोऽनुपमोरुसुन्दर जटाभ्राजच्छशाङ्क प्रभो ।
प्राज्याज्याप्लुतवह्निवक्त्रहवनप्राचुर्यराज्यप्रद
भैषज्योत्तम देव देव सुमहापापान्विते मय्यति-
हृत्तापेन दिवानिशं प्रदहिते शम्भोऽनुकम्पां कुरु ॥ १६॥
हे कालान्तक शान्तिदान्तिनिरतस्वान्तान्तरङ्गस्थित
मत्तानन्तजगत्सरान्तरसुहृत्संसारतान्तं हि माम् ।
भ्रान्तं भीतमशान्तबुद्धिमनिशं कामान्तरङ्गं सदा
मां रक्षाशु दयानिधे हर उमाकान्त प्रभो शङ्कर ॥ १७॥
हे शङ्कर स्मरहरान्धककालत्रो
संसाररोग हरवैद्य सुरोत्तमाद्य
पाह्यद्वय श्रुतिशिरस्स्तुतपाद गद्य-
पद्यस्तुति प्रकटितप्रमथाधिनाथ ॥ १८॥
विद्युत्सुचञ्चलललनरदेहमेतँ-
ल्लब्ध्वापि ते पदयुगं न भजामि मुग्धः ।
हे व्यालमाल गरशोभितकण्ठमूल
दिव्यत्रिशूलकर कालगलातिलील ॥ १९॥
कोलाहलध्वनिकरोत्तमभालमूल-
ज्वालानलायितपुरत्रयतूल शम्भो ।
पाहीन्दुधाम सुललाम जटोत्तमाङ्ग
मालायिताब्जजकपाल तलातलस्थ ॥ २०॥
विश्वाधिक विश्वबन्धरचितामेय यमध्वंसक
कायापायमपाकुरुष्व भगवन् मायान्धकारं हर ।
मेयं ते पदपङ्कजं प्रतिभवेऽप्येवं मुहुःसिध्यतां
हेया मे विषया भवन्तु नियतं हेयं न ते पूजनम् ॥ २१॥
मीनध्वजाद्रिषु परं परिखिन्नचित्तं
हृत्तापयुक्तमथ वित्तगणार्जनेन ।
पित्तोल्बणेन सततं भ्रमदन्तरङ्गं
आशाशमाय करुणां कुरु पाहि दीनम् ॥ २२॥
हे स्वर्णवर्णसदृशोत्तमकर्णिकार-
मन्दारकुन्दकरवीरसदम्बुजार्च्य ।
बिल्वोत्तमाङ्ग सुकदम्बक चम्पकादि-
दूर्वार्च्य शङ्कर विभो परिपाहि दीनम् ॥ २३॥
हे विश्वनाथ मथितान्तकमन्मथाङ्ग
गौरीसनाथ मम नाथ सुरप्रमाथ ।
मां रक्ष शङ्कर अनाथजनप्रमाथ
नाथाधुनाऽध्वनिकृते वरमद्रिनाथ ॥ २४॥
॥ इति शिवरहस्यान्तर्गते शाङ्करैः कृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १५ । ९-२४॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 15 . 9-24..
Notes:
Śāṅkarāḥ शाङ्कराः eulogize Śiva शिव.
Proofread by Ruma Dewan