शान्तिविलासः

शान्तिविलासः

॥ श्रीः ॥ वंशे कस्मिन्नजनिषि कयोः पुत्नतामग्रहीषं कत्यौषं तदपि कतिधा तच्च सद्भयः कतिभ्यः । किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं नोपारंसीत्तदपि हृदयं कीदृशो मे विपाकः ॥ १॥ पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं वागप्यास्ते निभृतमनृतान्येव वक्तुं वचांसि । मीमांसन्ते मम च मतयो दोषदृष्टौ परेषां पाङ्गुर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥ २॥ यामाराद्धुं न गणितमिदं जीवितं वा धनं वा यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि । सैवेदानीं वयसि चलिते सम्प्रहीणे च वित्ते तूलायापि त्रिपुरहर मां मन्यते नैव भार्या ॥ ३॥ कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये निद्राहारावपि विजहता शिक्षिता ये कलासु । प्रादुर्भूताः स्वयमिव हि ते प्राक्तनादृष्टलब्ध- प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥ ४॥ दाराः पुत्राः परमसुहृदो बान्धवाः किङ्करा वा स्वप्नावस्थास्वपि च विरहं ये मया ने क्षमन्ते । अत्यासन्ने तपनतनयस्याज्ञया दूतवर्गे तेष्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ॥ ५॥ राज्ञो भृत्या यदि परिचिता देशिकस्यैष लाभो राजद्वारे यदि खलु गतं नैमिशे तत्प्रविष्टम् । राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृतं त- त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्गः ॥ ६॥ यत्तीर्थानामटनमथ यत्पूजनं देवताना- मिष्टापूर्तव्यसनमपि यद्यच्च दाक्ष्यं कलासु । अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां त- त्ते चाप्यर्था धरणिशरणा भूमिभृत्सात्कृता वा ॥ ७॥ आ कौमाराद्गुरुचरणशुश्रूषया ब्रह्मविद्या- स्वास्थायास्थामहह महतीमर्जितं कौशलं यत् । निद्राहेतोनिशि निशि कथाः श‍ृण्वतां पार्थिवानां कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥ ८॥ छाया तोयं वसनमशनं वाहनं दीपिका वा केतुं यस्मिन्किल न सुलभं किञ्चिदप्येषु मर्त्यैः । तस्मिन्दूरे पथि तनुभृतां सर्वथैवाभिगम्ये प्रस्थानार्हं कमपि तु विधिं घस्मरा न स्मरामः ॥ ९॥ आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं हसति निहितः कालपाशोऽपि कण्ठे । आपृच्छ्यन्ते कृतजिगमिषासम्भ्रमाः प्राणवाता नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥ १०॥ चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे । दूतैरेतैर्दिनकरभुवः शश्वदुद्बोध्यमाना- स्वातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥ ११॥ शान्तो वह्निर्जठरपिठरे संस्थिता कामवार्ता धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः । एवं दैवादुपरममगादेष मे वैरिवर्ग- श्चेतस्त्वेकं न वशमयते किं करोमि क्व यामि ॥ १२॥ नानोपायैर्दिशि दिशि धनान्यर्जयित्वा व्ययित्वा सम्यक्सम्पादितमिदमहो स्थौल्यमेकं शरीरे । श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥ १३॥ केक्षन्ते मां क्वचन शयितं किङ्करा दण्डपाणे- रीक्षन्तां वा तदपि मयि किं कुर्युरुद्दामवृत्ते । कुर्युः किञ्चित्प्रसभमपि वा घातयिष्यामि राज्ञे- ऽत्यन्तर्धैर्यं परमिह वहन्नन्तकं न स्मरामि ॥ १४॥ वेदा वा स्युर्वितथवचना विस्मरेदीश्वरो वा धर्माधर्मस्थितिविरचनामन्तको वा मृषा स्यात् । नित्यो वा स्यामहमिति बहूनुल्लिखन्तः समाधी- न्मेदोवृद्धया मुदितमनसः सर्वतो निर्वृताः स्मः ॥ १५॥ यामे यामे गलति वपुषः स्रंसते सन्धिबन्धः श्वासे श्वासेऽपि च विचलति क्षीयते दीर्घमायुः । भुक्ते भुक्तेऽपि च सुखलवे लुप्यते पुण्यराशिः कृत्ये कृत्ये निरवधि पुनर्वर्धते पातकं नः ॥ १६॥ गन्तव्योऽध्वा सकलदुरवस्थानसम्पातभूमि- र्गत्वा दृश्यस्त्रिभुवनजनायुष्कलान्तः कृतान्तः । दृष्ट्वा लभ्या निरयजनिता यातना नैकभेदा विस्मृत्येदं निखिलमपि तु व्यर्थमायुर्नयामः ॥ १७॥ काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु । पुष्णन्ति स्वान्न किमु पृथुकान्स्त्रीषु किं नो रमन्ते कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥ १८॥ कृच्छ्राल्लब्धं धनमपि शतांशाधिकप्राप्तिलोभा- त्पत्रे किञ्चिल्लिखितमुपलभ्यैव सर्वं त्यजामः । शास्त्रैः सिद्धे बहुशतगुणाधिक्यलाभे परत्र व्यर्थाशङ्काकलुषमनसो नोत्सृजामोऽर्थलेशम् ॥ १९॥ जीर्णे रुग्णे विकलकरणे शत्रुभिर्वा गृहीते स्वस्मिन्कोऽर्थो भवति सुखदः कश्च कामप्रसङ्गः । मा भूदेतत्सकलमथवा स्वायुषः किं प्रमाणं निश्चित्यैवं दुरितनिचयश्चीयते निर्विशङ्कैः ॥ २०॥ आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीम् । कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥ ३१॥ जातं जातं गतमपि गतं बाल्यतो लौल्यतो वा नेतःस्थेयं क्षणमपि गृहे मुञ्चतः को मुहूर्तः । इत्यत्यन्तव्यवसितधियो निःसरन्तोऽपि गेहा- दावर्तन्ते झटिति रुदतां सान्त्वहेतोः शिशूनाम् ॥ २२॥ नैव ब्रूमो वयमतिथयोऽभ्यागता बन्धुवर्गा दीनानाथाः सुहृद इति ये तेषु कार्या दयेति । यं त्वं पोष्यं मनसि कुरुषे नित्यमात्मानमेकं जन्मन्यस्मिन्निव बिभृहि तं सर्वदेत्युल्लपामः ॥ २३॥ को नु व्यासः क इव स मनुः को न्वसौ याज्ञवल्क्यो यैरुद्धुष्टं हितमसकृदस्मासु पित्रेव पुत्रे । पश्यामस्तान्निरुपधिकृपासागराँल्लोकबन्धू- न्पश्यामोऽस्मान्निरवधितमःक्ष्माधरान्ब्रह्मबन्धून् ॥ २४॥ यत्तामिस्र नरककुहरे यद्बहिश्चक्रवाला- द्यत्पाताले यदपि धरणौ वार्षिकीषु क्षपासु । रूढं गाढं तम इति समस्तं च तच्चिन्त्यमानं नास्माकान्तःकरणतमसो दासभावेऽपि योग्यम् ॥ २५॥ सर्वानर्थप्रथमकरणे सर्वभावैर्जिहास्ये देहे मोहो यदि परिणतः पोषणीयो मयेति । आस्तामेवं वपुरिदमिवागामि चास्माकमेवे- त्येषाप्यास्तां मतिरिति परं धर्मशास्त्रेषु घोषः ॥ २६॥ कामी कामव्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् । इत्थङ्कारं विषयसुखभोगैकतानैर्नरैर- प्यस्मिन्देहे कतिपयदिनान्येष भोगो विवर्ज्यः ॥ २७॥ न्याय्यादर्थादपि किमधिकं लभ्यमुन्मार्गवृत्त्या वैधादन्नादपि किमधिकं पर्युदस्तेषु भोज्यम् । भार्याभोगादपि भवति कः पण्यकान्तासु भोगः प्रायो नेति श्रुतिविषयता विश्वमाधुर्यहेतुः ॥ २८॥ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्हं नास्तिक्यं चेत्तदपि सुतरां भोगहेतोरपास्यम् । अस्पृष्ट्वापि स्वयमतिरहः स्थाप्यते यत्तदन्त- स्तस्मिन्हेतुः क इति निभृतं तर्कयामो न विद्मः ॥ २९॥ श्वानः पुच्छाञ्चलकुटिलतां सूकराः कुक्षिपोषं कीशा दन्तप्रकटनविधि गर्दभा रूक्षघोषम् ॥ मा वक्षःश्वयथुमपि च स्त्रीषु दृष्ट्वा रमन्ते तत्सौन्दर्यं किमिति फलितं तत्तदज्ञानतोऽन्यत् ॥ ३०॥ रन्तुं प्राप्तो दशति दशनैराननं चेत्प्रियाया भोक्तुं प्राप्तः किमिति न दशेदग्रहस्तं प्रदातुः । इत्थं व्यक्ते हृदयजनुषः पामरोन्मादकत्वे हातुं सद्यः प्रभवति न कोऽप्यन्ततो लज्जितुं वा ॥ ३१॥ दाराः पुत्राः शयनमशनं भूषणाच्छादने वा यच्चेदृक्षं पुमभिलषितं तेषु माशब्दिकः कः । किं त्वेतेषां भवति नियमः सेवने कोऽपि कोऽपि द्वेषस्तस्मिन्नपि यदि भवेत्तत्र वक्ता कृतान्तः ॥ ३२॥ वेदाभ्यासव्यसनरसिकैः स्थीयते तावता किं सूक्ष्मा बुद्धिः श्रुतमिव विशत्यश्रुतं तावता किम् । जल्पारम्भे जयति नियतं वादिनस्तावता किं निर्वेदार्तं न यदि हृदयं शान्तिमभ्येति पुंसः ॥ ३३॥ यस्त्वत्यन्तव्यवसितमतिः सञ्जिघृक्षेत धर्मं खट्वाङ्गादारव न किमलं तस्य यामार्धमायुः । दुष्पाण्डित्यादपहृतमतिर्यः पुनः संशयात्मा कस्मै तस्य प्रभवतु वृथा काकवद्दीर्घमायुः ॥ ३४॥ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः । कायः श्रान्तो यदि भवति कस्तावता धर्मलोप- श्चित्तं दत्त्वा सकृदपि शिवे चिन्तितं साधयामः ॥ ३५॥ स्वेनैवोक्तं निगमवचसा बोधनीयास्तु जीवा जीवैरेवेत्यपि च मुनिभिः कारितं धर्मशास्त्रम् । उत्पश्यन्तु स्वयमिति भवो दारुणश्चाल्यतेऽसा- वद्यापि स्मो यदि खलु जडाः किं विधत्तां शिवोऽपि ॥ ३६॥ येनाचान्ताः सलिलनिधयो येन सृष्टा प्रतिद्यौः शस्त्राण्यस्त्राण्यपि कबलितान्येकया यस्य यष्ट्या । कस्तादृक्षः प्रभवतु जनो देवभूदेववर्गे कालः कीटानिव कवलयामास तानप्ययत्नम् ॥ ३७॥ कायस्थैर्य करणपटुतां बन्धुसम्पत्तिमर्थं चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः । अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥ ३८॥ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्था- निष्ट्वा यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते । इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥ ३९॥ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्थम् । भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण व्यामुह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ ४०॥ प्रायश्चित्तं सकृदुपनते वा प्रमादात्कृते वा भूयो भूयोऽप्यवहिततरैः साधिते कः समाधिः । कारुण्याब्धिर्यदि पुरहरः सत्सु कामं दयेत भ्रष्टे मादृश्यपि स दयते चेत्क्षतो धर्मसेतुः ॥ ४१॥ साध्या शम्भोः कथमपि दयेत्यप्यसाध्योपदेशः कोपं तस्य प्रथममपनुद्यैव साध्यः प्रसादः । कोपो वर्णाश्रमनियमिताचारनिर्लङ्घनोत्थः शान्तिं नेयः स कथमधुनाप्यव्यवस्थाप्रवृत्तैः ॥ ४२॥ इष्टापूर्तैर्निगमपठनैः कृच्छूचान्द्रायणाद्यैः स्वामिन्नन्यैरपि तव मनः काममावर्जयेम । मध्ये मध्ये यदि न निपतेत्कर्मणा चोदितानां ज्ञानं श्रद्धेत्युभयमपि नो जातिवैर्यर्गलेव ॥ ४३॥ निर्मर्यादः परमचपलो निःसमाज्ञानराशि- र्मादृक्षोऽन्यः क इति भुवने मार्गणीयं त्वयैव । ईदृक्षेऽपि क्वचिदिह दयेयेति कौतूहलं चे- त्स्वामिन्विश्वेश्वर तव भवं निस्तरेयं तदाहम् ॥ ४४॥ पश्चात्तप्ताः कथमपि विधेः किङ्करीभूय कुर्मः सेवां शम्भोरिति च नियमं वापि सङ्कल्पयामः । आयुः किं मे किमिव करणं दुस्तरे सङ्कटेऽस्मि- न्स्वामिन्गौरीरमण शरणं नस्त्वमेव त्वमेव ॥ ४५॥ सम्यङ्युक्तास्त्रिभिरपि मलैश्चिद्विकासैकरूपा- स्त्वन्निध्यानप्रवणमनसः सूरयस्त्वत्पुरे ये । तेषां सन्दर्शयितुमपरिज्ञातपूर्वं कदाचि- ज्जन्तुं मुग्धं शिव नयसि किं विश्वपारं पुरं माम् ॥ ४६॥ दिष्ट्या लब्धं द्विजवरकुले जन्म तत्रापि दिष्ट्या धर्माधर्मस्थितिरवगतैव प्रसादाद्गुरूणाम् । जन्मन्यस्मिन्नपि यदि न मे सम्भवेदास्तिकत्वं निस्तारः किं निरयभवनात्सर्वमोक्षेऽपि लभ्यः ॥ ४७॥ भव्ये देहे पटुषु करणेष्वालये श्रीसमृद्धे कौमारान्ते वयसि कथमप्यप्रवृत्ते च दुःखे । प्रत्यक्पुष्पीप्रसवविधया यस्य पुंसो निसर्गा- त्प्रत्यग्वक्त्रं भवति हृदयं कस्ततोऽप्यस्ति धन्यः ॥ ४८॥ नाहं याचे पदमुडुपतेर्नाधिकारं मघोनो नापि ब्राह्मीं भुवनगुरुतां का कथान्यप्रपञ्चे । अन्यस्यान्यः श्रियमभिलषन्नस्तु कस्तस्य लोको मह्यं शम्भो दिश मसृणितं मामकानन्दमेव ॥ ४९॥ आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्चन्द्रमौले । मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥ ५०॥ दण्डं धत्ते सकलजगतां दक्षिणो यः कृतान्तो नामाप्यस्य प्रतिभयतनोर्नोपगृह्णीमहीति । प्राप्ताः स्मम्तं निगमवचसामुत्तरो यः कृतान्तो यद्वा तद्वा भवतु न पुनस्तस्य पश्येम वक्त्रम् ॥ ५१॥ इति श्रीनीलकण्ठदीक्षितविरचितं शान्तिविलासः सम्पूर्णः ॥ Proofread by Rajesh Thyagarajan
% Text title            : Shantivilasah by Neelakantha Dikshita
% File name             : shAntivilAsaH.itx
% itxtitle              : shAntivilAsaH (nIlakaNThadIkShitavirachitaH)
% engtitle              : shAntivilAsaH by nIlakaNThadIkShita
% Category              : shiva, nIlakaNThadIkShita
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan 1, 2, Info 1, 2)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org