श्रीशैलेशमहात्म्यवर्णनम्
शिवः -
श्रृणु देवि प्रियं नित्यमस्ति क्षेत्रवरं मम ।
यत्रैतत् ज्ञानममलं दत्तं स्कन्दाय शङ्करि ॥ १०॥
श्रीशैले हि महादेवि मत्पुत्रस्य तपस्यया ।
तुष्टोऽहं तस्य च स्तुत्या ज्ञानं दत्तं मयाम्बिके ॥ ११॥
देवी -
कुत्र श्रीशैलसञ्ज्ञोऽस्ति भूधरस्त्वत्प्रियङ्करः ।
वद तन्महिमानं मे स्मन्दे तुष्टो भवान्कथम् ॥ १२॥
तत्कथां श्रोतुमिच्छामि वद तन्मह्यमादरात् ।
इति श्रुत्वाम्बिकावाक्यं प्राह देवो घृणानिधिः ॥ १३॥
ईश्वरः -
श्रीशैलोऽपि च देवेशि निवासो मम विश्रुतः ।
श्रीशैलेश्वरलिङ्गात्मा तत्र नित्यं वसाम्यहम् ॥ १४॥
भ्रमराम्बेति विख्याता गौरि त्वं तत्र संस्थिता ।
तत्रापि बहवः शैवाः श्रीशैलेशार्चने रताः ॥ १५॥
भस्मरुद्राक्षसंवीतास्त्रिपुण्ड्रोज्वलभालकाः ।
रुद्रलिङ्गार्चनरता रुद्राध्यायजपादराः ॥ १६॥
पञ्चाक्षररता नित्यं पञ्चास्यध्यानपूर्वकम् ।
श्रीशैले निवसामीशे गणवृन्दैश्च संवृतः ॥ १७॥
तत्र त्वया तपस्तप्तं ब्रह्मविष्णुमुखैः सुरैः ।
इन्द्राद्या विबुधाः सर्वे तप्यन्ति परमं तपः ॥ १८॥
अन्यैर्मुनिवरैर्देवि गौतमात्रिपराशरैः ।
तपःसिद्धिकरं स्थानं मम श्रीशैलमुत्तमम् ॥ १९॥
अत्र जप्तो महादेवि मनुः कोटिगुणो भवेत् ।
अत्रान्नं ये प्रयच्छन्ति स्मृत्वान्नपतिमादरात् ॥ २०॥
अन्नं मत्प्रीतये देवि बहु कुर्वीत च श्रुतिः ।
शाम्भवं भोजयित्वैकं सन्तोषयति मां सदा ॥ २१॥
कृष्णा नाम महापुण्या नदी सागरगामिनी ।
भित्वा श्रीशैलमूलं मे स्नातानामघहारिणी ॥ २२॥
सन्तर्प्य पाथसा तस्याः पितॄन् देवानृषीनपि ।
पितरस्तस्य तृप्ताः स्युर्मल्लोके निवसन्ति ते ॥ २३॥
तत्पूतनीरैर्बिल्वैर्मां समाराध्यातिभक्तितः ।
मदालयस्य शिखरं दृष्ट्वा नैवाप्नुयाञ्जनुः ॥ २४॥
शिवलोकप्रियान्मर्त्यः श्रीशैले निवसेच्च यः ।
प्रातःसङ्गवमध्याह्नसायाह्नेष्वर्च्य शङ्करम् ॥ २५॥
बिल्वपत्रैर्महादेवि मुक्तश्चाज्ञानतो भवेत् ।
अश्वमेधादयो यज्ञाः येन सान्नाः सदक्षिणाः ॥ २६॥
कृतास्तेनैव लभ्येत श्रीशैलेशस्य दर्शनम् ।
नातप्ततपसो देवि श्रीशैलेश्वरदर्शने ॥ २७॥
(येन मोदकदानानि ब्रह्माण्डदीनि सत्तमे ।
कृतानि तस्य देवेशि श्रीशैलेश्वरदर्शनम् ॥)
(अधिक श्लोक)
मतिर्भवति तस्यैव येन तप्ततपोऽम्बिके ।
अद्यापि ब्रह्मविष्ण्वाद्या मुनयश्च तथाऽपरे ॥ २८॥
पश्यन्ति नियतं गौरि तल्लिङ्गं द्रष्टुमिच्छवः ।
रुद्राध्यायावर्तनैश्च पञ्चाक्षरजपादिभिः ॥ २९॥
शिवलिङ्गार्चको यः स्यात् भूरिभाग्येन शाम्भवि ।
यो भस्मनिष्ठः सततं रुद्राक्षकृतकङ्कणः ॥ ३०॥
त्रिपुण्ड्रधारी सततं तस्य मे दर्शनं भवेत् ।
प्राप्य नारं वपुरिदं दृष्ट्वा श्रीशैलनायकम् ॥ ३१॥
तज्जन्म सफलं गौरि नो चेज्जन्म निरथकम् ।
शतायुः पुरुषो यो हि जन्ममध्येऽपि मां शिवम् ॥ ३२॥
श्रीशैलेशं सकृद्दृष्ट्वा मुच्यते भवबन्धनात् ।
अन्यत्रापि मृतो देवि मम लोके वसेच्चिरम् ॥ ३३॥
श्रीशैले च मृतो जन्तुर्न पुनर्जन्मभाग्भवेत् ।
अत्रापि देवि लिङ्गानि श्रीशैले सन्ति तान्यपि ॥ ३४॥
पूजितानीह मुक्तिः स्याद्दृष्टान्यपि मनोरमे ।
बिल्वपत्रैः सदा देवि पुष्पैर्दूर्वाङ्कुरैरपि ॥ ३५॥
उत्फुल्लपद्मैरमलैः फुल्लनीलोत्पलैरपि ।
भूधराराधितं लिङ्गं त्रिपुरान्तकसञ्ज्ञितम् ॥ ३६॥
तल्लिङ्गदर्शनेनैव सर्वपापक्षयो भवेत् ।
दृष्टे लिङ्गे महादेवि मुक्तो भवति शङ्करि ॥ ३७॥
पूर्वं त्रिपुरसंहारं कृत्वा देवैस्तथा स्तुतः ।
त्रिपुरान्तकलिङ्गस्थः श्रीशैले सर्वकामदे ॥ ३८॥
घण्टाकर्णेश्वरं लिङ्गमत्रास्ति भुवनेश्वरि ।
घण्टाकर्णगणेशेन पूजितं मुक्तिदायकम् ॥ ३९॥
यस्तल्लिङ्गं सकृद्दृष्ट्वा पूज्य बिल्वैश्च कोमलैः ।
मुक्तिकान्ता कराक्रान्ता तस्य देवि भविष्यति ॥ ४०॥
तत्रास्ति च सुधाकुण्डं सुधास्वादुजलं शिवे ।
तस्मिन्कुण्डे सकृत्स्नात्वा न यामीं यातनां व्रजेत् ॥ ४१॥
घण्टाकर्णमहालिङ्गं दृष्ट्वा यः स्तोष्यति प्रिये ।
तस्य मुक्तिं ददामीशे या देवैरपि दुर्लभा ॥ ४२॥
अनेन स्तोत्रवर्येण घण्टाकर्णस्तदास्तवीत् ।
घण्टाकर्णः -
विश्वेश प्रमथाधिनाथ पुरहन् श्रीशैलगोले स्थित
पापानङ्गपतङ्गसङ्गजनितानन्दाङ्गविद्युत्प्रभ ।
त्वन्नामान्यनिशं वदामि भगवन्नन्यानि नामानि मे
घण्टाकर्णोऽहमीश त्वयि शिव सततं भक्तिरस्त्वद्य शम्भो ॥ ४३॥
ईश्वरः -
अथान्यदपि देवेशि लिङ्गं तच्छिखरेश्वरम् ।
तच्च लिङ्गं सकृद्दृष्ट्वा बिल्वैः सम्पूज्य मुक्तिभाक् ॥ ४४॥
विभूतिकुण्डं तत्रास्ति स्नानात् पानावगाहनात् ।
पापनाशकरं देवि सर्वसौभाग्यदायकम् ॥ ४५॥
हाटकेशं तथान्यत् हि लिङ्गमस्त्येकमुत्तमम् ।
सम्पूज्य हाटकेशं तु बिल्वैर्मुक्तस्तथाम्बिके ॥ ४६॥
हाटकाख्यं महाकुण्डं तल्लिङ्गाग्रे महेश्वरि ।
तत्र स्नात्वा स गौरीशसेवया गणपो भवेत् ॥ ४७॥
स तु लिङ्गमयो देवि नानाकुण्डविराजितः ।
श्रीपर्वतः श्रिया युक्तो नानालिङ्गविराजितः ॥ ४८॥
भ्रमराम्बा च गौरि त्वं सदा तच्छिखरे स्थिता ।
तव पादाम्बुजद्वन्द्वदर्शनान्मुक्तिभाङ् नरः ॥ ४९॥
श्रीशैलेशोऽहमीशानि तत्तुङ्गशिखरे स्थितः ।
ब्रह्मविष्ण्वादिभिर्देवैर्गणेन्द्रैरपि सेवितः ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे श्रीशैलेशमहात्म्यवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २७॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 27..
Notes:
Shri Shailam Kshetra is abode to Shaileshwara Linga (Mallikarjuna Jyotirlinga) having Vibhuti Kunda and the origin of River Krishna near it. Mallikarjuna (Shiva / Shailesha / Shaileshwara) resides here with Bhramaramba (Devi).
Shri (Devi Lakshmi), was graced by Shiva at this place with resurrection of Her son Manmatha who had been burned to ashes. Hence, the region came to be known as Shri Shailam (Shri - Lakshmi, Shailam - Mountain).
Shri Shailam Kshetra is also an abode to Tripurantaka Linga, Ghantakarneshwara Linga (with Sudha Kunda), and Hatakeshwara Linga (with Hataka Kunda).
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan