शनिप्रदोषमहिमावर्णनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
श्रीमहादेव उवाच ।
त्रयोदशी प्रदोषेभ्यो मन्दवारेण संयुतः ।
प्रदोषो मे महाप्रीतिदायकः शङ्करि प्रियो ॥ १॥
शनिप्रदोषे सम्प्राप्ते शुक्ले कृष्णेऽथवा शिवे ।
पक्षद्वये त्रयोदश्यां निराहारो भवेदथ ॥ २॥
ब्रह्मचारी गृही भिक्षुर्वनी नारी नरोऽपि ।
नित्यं नैमित्तिकं काम्यमिति त्रेधाऽस्य संस्थितिः ॥ ३॥
यो यथा कामयेद्वापि द्वादशाब्दं समाचरेत् ।
उद्यापनं चास्य शिवे सोमवारसमो विधिः ॥ ४॥
कालो हि माघमासोऽस्य श्रावणो वा महेश्वरि ।
शनिप्रदोषयोगेन यदा सम्पद्यते तदा ॥ ५॥
कुर्यादुद्यापनं चास्य आजन्मा नैवमाचरेत् ।
विधिमस्य प्रवक्ष्यामि पूजायाः शृणु शैलजे ॥ ६॥
नद्यादौ च नरः स्नात्वा शुक्लवासा जितेन्द्रियः ।
प्रक्षाल्य पादावाचम्य यतवाक् शुद्धमानसः ॥ ७॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूल्य विग्रहम् ।
त्रियायुषत्रिपुण्ड्राङ्कः रुद्राक्षाभरणोज्जवलः ॥ ८॥
घटीत्रयावशेषेण नित्यकर्म समाप्य च ।
लिङ्गस्य पार्श्वमागत्य कुर्यात्सङ्कल्पपूर्वकम् ॥ ९॥
सम्पाद्य पूजासम्भारं कालं लब्ध्वाथ तं शिवे ।
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर ! ॥ १०॥
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर ।
सर्वपापक्षयकरः ऋणदारिद्र्यनाशकः ॥ ११॥
दुर्लभः शनिवारेण युक्तो मुक्तिप्रदो नृणाम् ।
प्रदोषो दुर्लभतरस्तत्र पूजापि दुर्लभा ॥ १२॥
देव्युवाच ।
भगवन् केन विधिना समभ्यर्च्य महेश्वरम् ।
प्रदोषे चास्तदोषे ते शनियुक्ते शिवार्चकैः ॥ १३॥
सर्वपापविनिर्मुक्तः सर्वान्कामान्वाप्नुयात् ।
शिव उवाच ।
सायं सन्ध्याप्रदोषे तु त्रयोदश्यां शनेर्दिने ॥ १४॥
अब्दश्चेच्छुक्लकृष्णे वा शिवं दृष्ट्वा महाफलम् ।
स्थावरे जङ्गमे वापि लिङ्गे तुङ्गे महेश्वरि ॥ १५॥
उदये द्वादशी किञ्चित्प्रदोषेऽथ त्रयोदशी ।
शिवार्चननेन यत्पुण्यं तत्पुण्यं नान्यधर्मतः ॥ १६॥
देववादैस्तथान्यैर्वा योगैर्वा किं तपस्यया ।
शनिप्रदोषे लिङ्गार्चा एकबिल्वप्रपूजना ॥ १७॥
शनिप्रदोषं सम्प्राप्य प्रातः कृत्यं समाप्य च ।
स्नात्वा नद्यां तटाके वा धौतवासा जितेन्द्रियः ॥ १८॥
उपास्य पश्चिमां सन्ध्यां भस्मरुद्राक्षभूषणः ।
शिवागारं प्रविश्याथ वितानसमलङ्कृतम् ॥ १९॥
पुष्पमालाऽऽवृतं चारु तौर्यत्रिकविनादितम् ।
उपविश्यासने शुभ्रे प्राणानायम्य वाग्यतः ॥ २०॥
भूतशुद्धिं ततः कृत्वा मातृकाक्षरपूर्वकम् ।
मन्त्रन्यासं ततः कृत्वा शिवपीठं समर्चयेत् ॥ २१॥
आधारशक्तिपूजां च कुर्यादागममन्त्रतः ।
उमामहेश्वरं लिङ्गे स्थाप्य पीठे मनोरमे ॥ २२॥
पञ्चब्रह्मविधानेन देवं ध्यायेद्विचक्षणः ।
मूलमन्त्रात्मकं देवमम्बिकासहितं शिवम् ॥ २३॥
ध्यात्वा चावाहयेद्देवं पद्मस्थं पद्मसन्निभम् ।
चतुर्भुजं प्रसन्नास्यं वरदाभयपाणिकम् ॥ २४॥
अक्षमालावृतकरं चन्द्ररेखाविभूषितम् ।
नीलकण्ठं त्रिणनेत्रं मां त्वां च मद्वामपार्श्वगाम् ॥ २५॥
सोमधामाननां चारुचञ्चच्चन्द्रकलाधराम् ।
प्रसन्नास्यां च सुदतीं ताटङ्कपरिमण्डिताम् ॥ २६॥
सर्वाभरणशोभाढ्यां वासस्स्रग्गन्धभूषिताम् ।
एवं ध्यात्वार्चयेद्देवं श्रद्धया परमेश्वरम् ॥ २७॥
अत्रागच्छ महादेव पार्वत्या सह शङ्कर ।
गृहाण मत्कृतां पूजामासनं परमेश्वरि ॥ २८॥
भवायेति शिवे पाद्यं वामायेति तथाचमम् ।
अर्घ्यं सद्येति मन्त्रेण सपुष्पं विनिवेदयेत् ॥ २९॥
अधोरेण शिवे स्नानं वस्त्रं तत्पुरुषेण च ।
ईशानेति च मन्त्रेण उपवीतं प्रकल्पयेत् ॥ ३०॥
यज्ञोपवीतमन्त्रेण दद्यादुत्तरवाससम् ।
गन्धमाल्याक्षतान् दद्यान्नमः सोमाय मन्त्रतः ॥ ३१॥
त्रियम्बकेति मन्त्रेण बिल्वपत्राणि चार्पयेत् ।
इमा रुद्रेति मन्त्रेण अक्षतांश्च समर्पयेत् ॥ ३२॥
मानस्तोकेन धूपं च मानो मन्त्रेण दीपकम् ।
यच्छं च योश्च मन्त्रेण नैवेद्यं दापयेच्छिवे ॥ ३३॥
परिणेति परीवारान् पूजयेत यतव्रतः ।
ब्रह्माणं भास्करं विष्णुं जयं विजयमेव च ॥ ३४॥
दुर्गां गणपतिं चैव यजेत्प्राच्यादियोगतः ।
नन्दीशं क्षेत्रपालं च चण्डेशं भैरवं तथा ॥ ३५॥
कैलासादीनाथाद्रींश्च कपालं शूलमेव च ।
अथ सम्पूज्य विधिवत् मदग्रे वृषभेश्वरम् ॥ ३६॥
स्तुहि श्रुतेति मन्त्रेण वृषभं धर्मरूपिणम् ।
मीढुष्टमेति च स्कन्दं गणानां त्वा गणाधिपम् ॥ ३७॥
सर्वोपचारैर्देवस्य देव्या सह समर्चनम् ।
परिवारान् समभ्यर्च्य तत्तन्मन्त्रैर्विशेषतः ॥ ३८॥
महानैवेद्यमीशाय देवस्यत्वेति मन्त्रतः ।
प्रणामप्रक्रमं चैव नीराजनपुरःसरम् ॥ ३९॥
छत्रचामरदानं च घण्टा तौर्यत्रिकं शिवे ।
दद्यात्प्रसादयेद्देवं क्षम्यतामिति सत्तमे ॥ ४०॥
होमं च वाग्यतः कुर्यात्प्रतिष्ठाप्य हुताशनम् ।
अष्टोत्तरसमिद्भिश्च बैल्वाज्यचरुणा शतम् ॥ ४१॥
शतरुद्रेण जुहुयात्वषेष्यन्त्यपिस्विष्टकृत् ।
ततस्स्तुवीत देवेशं शङ्करं शशिशेखरम् ॥ ४२॥
- -(अथ शिवशिवास्तुतिः)
भवाय भवनाशाय महादेवाय धीमहि ।
शिवाय नीलकण्ठाय शर्वाय शशिमौलये ॥ ४३॥
उग्रायोग्राघनाशाय भीमाय भयनाशिने ।
ईशानाय नमस्तुभ्यं पशूनां पतये नमः ॥ ४४॥
यथा समस्ताभयदः पशूनां पाशमोचकः ।
तथा व्रतेन मे तुष्टः ऋणदौर्भाग्यनाशकः ॥ ४५॥
नमो गौर्यै महादेव्यै भवान्यै ते शिवे नमः ।
शिवप्रदायै शर्वाण्यै सृष्टिस्थित्यन्तहेतवे ॥ ४६॥
नमोऽस्त्वार्तिविनाशिन्यै तुभ्यं सर्वभयापहे ।
तुभ्यमानन्दरूपिण्यै नमः कमललोचने ॥ ४७॥
विद्यायै वेदमात्रे च वेदशक्तिस्वरूपिणि ।
अम्बिके ते नमो नित्यं ममास्तु वरदः शिवः ॥ ४८॥
- -(इति शिवशिवास्तुतिः)
इत्युपस्थाय मां देवि पुनः कुर्यात्प्रदक्षिणाम् ।
कृत्वा सव्यापसेव्येन प्रदक्षिणविधानतः ॥ ४९॥
शतमष्टोत्तरं कृत्वा प्रणम्य च पुनः पुनः ।
सव्यापसव्यमानेन सोमसूत्रं न लङ्घयेत् ॥ ५०॥
शनैः शनैः क्रमं कुर्यात्त्वरालस्यादिवर्जितः ।
देवं सम्मुखतः कृत्वा ब्राह्मणांश्च विशेषतः ॥ ५१॥
प्रदक्षिणं क्रमात्कुर्यात् वृषेण सहितं शिवम् ।
यानि कानि च पापानि जन्मान्तरकृतानि च ॥ ५२॥
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ।
एवं प्रदक्षिणं कृत्वा नमस्कृत्य पुनः पुनः ॥ ५३॥
गणयित्वा पदं भूयस्तत्कोटिगुणितं भवेत् ।
अङ्गप्रदक्षिणा देवि ततः कोटिगुणोत्तरा ॥ ५४॥
प्रति प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणमेद्भुवि ।
शिवस्याग्रे समे देशे भूमिसंलग्नमस्तकः ॥ ५५॥
व्रती तु विधिवद् दद्यादर्घ्यमष्टाङ्गसंयुतम् ।
गोक्षीरं च कुशाग्राणि घृतं दधि च तण्डुलाः ॥ ५६॥
सिद्धार्थकास्तथा दूर्वा गन्धपुष्पाक्षतास्तथा ।
अर्थ्योऽष्टाङ्ग इति प्रोक्तस्तदभावे सुमैर्युतः ॥ ५७॥
पञ्चामृतं पञ्चगव्यं गन्धपुष्पकुशोदकम् ।
फलजालरसं चापि घृताभ्यङ्गं तु कारयेत् ॥ ५८॥
भयरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
ऋणशोकं मनस्तापं नश्यन्तु मम सर्वदा ॥ ५९॥
मन्त्रेणानेन दत्वार्घ्यं त्रिवारं प्रार्थयेच्छिवम् ।
प्रसीद देव देवेश प्रसीद परमेश्वर ॥ ६०॥
प्रसीद सोम सर्वज्ञ प्रसीद करुणाकर ।
एवं सम्प्रार्थ्य देवेशमुमां चापि ततो व्रती ॥ ६१॥
शनिप्रदोषयोगे मे व्रतं सम्पूर्णतामियात् ।
प्रसादं कुरु देवेश येन मुच्ये ऋणार्णवात् ॥ ६२॥
जन्मान्तरसहस्रेषु यदृणं च कृतं मया ।
दैवं पित्र्यं मानुषार्षं मुच्ये ऋणचतुष्टयात् ॥ ६३॥
अनृणोऽहं भविष्यामि धनाढयोऽहं भवामि च ।
इत्थं सम्प्रार्थ्य देवेशमाचार्यं पूजयेच्छिवे ॥ ६४॥
होमशेषं दापयेच्च गां च दद्यात्पयस्विनीम् ।
अरोगां च सवत्सां च कांस्यदोहनसंयुताम् ॥ ६५॥
अणुमात्रप्रदानेन प्रदोषेऽथ शनेर्दिने ।
इहामुत्राक्षयं पुण्यं भोगानाप्नोति शाश्वतान् ॥ ६६॥
ततो वृषभमभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।
धूपदीपै च नैवेद्यं ताम्बूलं श्वेतवस्त्रकम् ॥ ६७॥
वृषाय धर्मरूपाय शिवाय शिवमूर्तये ।
इत्यर्घ्यं प्रार्थ्य दत्वा तु प्रार्थयेत्तं यतव्रतः ॥ ६८॥
अण्डं स्पृष्ट्वा जपेन्मन्त्रमिन्मतस्य वृषस्य च ।
शृङ्गमध्ये शिवं दृष्ट्वा ममाहितमनाः शिवे ॥ ६९॥
धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ।
अष्टमूर्तेरधिष्ठाता त्वमतः पाहि मामधात् ॥ ७०॥
पृथिव्यां यानि तीर्थानि सागरान्तानि यानि वै ।
अण्डमाश्रित्य तिष्ठन्ति प्रदोषे गोवृषस्य च ॥ ७१॥
कुर्यात्तद्वृषणं स्पृष्ट्वा शङ्करस्य विलोकनम् ।
प्रदोषे शङ्करं दृष्ट्वा वृषशृङ्गान्तरे शिवे ॥ ७२॥
ब्रह्महत्याऽयुतं नश्येन्मुक्तिं भुक्तिं च विन्दति ।
एवं दृष्ट्वा तु भुञ्जीत शाम्भवैः क्षारवर्जितम् ॥ ७३॥
व्रतं समर्प्य देवाय मन्त्रेणानेन शाम्भवि ।
व्रतेनानेन चीर्णेन प्रसन्नो भव शङ्कर ॥ ७४॥
त्वद्भक्तिं परमं ज्ञानं मुक्तिं चैव प्रयच्छ मे ।
अज्ञानाद् ज्ञानतो वापि यत्कृतं पूजनं तव ॥ ७५॥
शनिप्रदोषयोगेऽस्मिन् तदस्तु प्रीतिकृत्तव ।
एवं कृत्वा व्रतं भक्त्या सम्पूज्य शिवमम्बिकाम् ॥ ७६॥
सर्वज्ञत्वमवाप्नोति मम लोकं स विन्दति ।
इदं व्रतं सप्तकृत्वो यः करोति जितेन्द्रियः ॥ ७७॥
महत्फलमवाप्नोति ऋणकोट्या विमुच्यते ।
एकविंशति कृत्वस्तु व्रतमेतत्सुदुर्लभम् ॥ ७८॥
पुत्राँल्ललभते लोके भुक्तिं मुक्तिं च विन्दति ।
व्रतसम्पूर्णतार्थाय गामेकां वृषभं शिवे ॥ ७९॥
शिवाय वा द्विजायाथ दत्त्वा चाशीः प्रयोजयेत् ॥ ८०॥
ईश्वर उवाच ।
दधिक्षीरमध्वाज्य सशर्कराभिः
शिवे नारिकेलाम्रजम्बीरसारैः ।
सुगन्धोदकैः पुष्पबिल्वादिभिर्मां
समभ्यर्च्य मुक्तः शिवे धूपदीपैः ॥ ८४॥
वरान्नैः शिवे पायसापूपशाकैः
सुताम्बूलनीराजनछत्रदानैः ।
प्रणामस्तव प्रक्रमैर्नृत्तगेयै-
र्वरैश्चामरैरर्चको मत्प्रियः स्यात् ॥ ८५॥
ब्रह्माण्डमण्डलगतानि सुतीर्थषण्डा-
न्यायान्ति मद्वृषवराण्डगतानि तत्र ।
शृङ्गान्तरे तु निवसेदथ धर्मजालं
तस्मात्प्रदोषसमये क्षणकृत्स्पृशेन्माम् ॥ ८६॥
भूमौ पुत्रकलत्रमित्रसाहिताः सत्रातिरात्रादिभिः
यष्टारोऽत्र भवन्ति धान्यधनकैर्गोभिश्च नागाश्वकैः ।
प्रासादाम्बरभूषणं मम शिवे प्राप्य प्रसादोच्चयात्
तस्मिन् तां प्रदिशामि सम्पदधिकां मुक्तिं प्रदोषार्चनात् ॥ ८७॥
आनन्दाम्बुजकन्द एष गिरिजे मन्दप्रदोषो मम
मन्दारोत्तममालया सुमगणैः वृन्दारवृन्दोत्तमाः ।
सानन्दाम्बुधिवीचिमग्नहृदयाः सम्पूजयन्ति द्रुतं
कुन्दामन्दसुनिर्मलेन्दुशकलालङ्कारमीशे तदा ॥ ८८॥
शशिखण्डशिखण्डखण्डपर्शुं
विधिमुण्डामलकुण्डलेशमालम् ।
घनकोदण्डधरं त्वखण्डबिल्वैः
प्रकटोच्चण्डताण्डवं समर्च्य नेमुः ॥ ८९॥
शतमखमुखमुख्यलेखजालाः
सुमुखा एव नमन्ति शङ्कराङ्घ्रिम् ।
सकलघौघहरे प्रदोषकाले
प्रमथा यल्लकलिङ्गकेन हृष्टाः ॥ ९०॥
॥ इति शिवरहस्यान्तर्गते शनिप्रदोषमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३१ शनिप्रदोषमहिमा । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 31 shanipradoShamahimA . vAvRRittashlokAH ..
Notes:
Śiva शिव describes to Pārvatī पार्वती about worshiping Him including the entire ŚivaParivāra शिवपरिवार during Trayodaśī त्रयोदशी of Mandavāra मन्दवार of ŚuklaPakśa शुक्लपक्ष and KṛṣṇaPakśa कृष्णपक्ष i.e. ŚaniPradoṣa / MandaPradoṣa शनिप्रदोष / मन्दप्रदोष.
Selected Śloka-s from the chapter are presented on this page, including a ŚivaŚivāStutiḥ शिवशिवास्तुतिः.
Proofread by Ruma Dewan