कैलासदर्शने शङ्करावासवर्णनम्

कैलासदर्शने शङ्करावासवर्णनम्

॥ कैलासदर्शने हिमावन्प्रति नन्दिकेशप्रोक्तं शङ्करावासवर्णनम् ॥ (शिवरहस्यान्तर्गते कैलासदर्शनम् - १) नन्दिकेशः (उवाच) पश्य धन्येन नेत्रेण कैलासं शङ्करस्य हि । यत्रैकं वा शिवागारं तत्क्षेत्रं योजनायु(वृ)तम् ॥ २२.२४॥ तत्रैव वसतां पुंसामप्या(पि)कीटपिपीलिकम् । मुक्तिरीशप्रसादेन पश्यतां पापनाशनम् ॥ २२.२५॥ अत्रानन्तशिवागारे मौलीकुम्भैकदर्शनात् । न जाने महिमां वक्तुं शिवो जानाति नेतरः ॥ २२.२६॥ कैलासं शङ्करावासं नानाद्रुमलतायुतम् । रत्नपुष्करिणीफुल्लसरोजकुलसङ्कुलम् ॥ २२.२७॥ नानावल्लीवेष्टितोरुवनस्पतिशतायुतम् । नानापक्षिरुतापारवननिर्ज्झरकन्ध(न्द)रम् ॥ २२.२८॥ मृगेन्द्रसिन्धुरेन्द्रादिचमरीमहिषार्वृतम् । (मृगेन्द्रसिन्धुरेन्द्रादिचमरैरहिभिर्वृतम् ।) कोकिलाकाह(क)लीगानशुकशा(सा)रिकसारसैः ॥ २२.२९॥ कुरराक्रन्दबहुलं हंसनादविनादितम् । नगमौलिगतोत्तुङ्गसालतालद्रुमाकुलम् ॥ २२.३०॥ सुरम्यबन्धुरामोदपुष्पकिञ्जल्कमारुतम् । पुष्पगुच्छभरालोलमारुतामलभूतलम् ॥ २२.३१॥ तलशोभितपुष्पौघफलतारायितोत्तमम् । प्रभातवातपोतोद्यच्छीतलायितभूतलम् ॥ २२.३२॥ द्रौणिजालम्बिसत्क्षौ(सक्षौ)द्ररसाक्तससुधाङ्गणम् । भ्रमद्भ्रमरझङ्कारमधु(धू)कोद्दामगन्धिनम् ॥ २२.३३॥ केतकीपुष्पसौरभ्यसुगन्धायितदिक्तटम् । कुरवोद्दामगन्धोद्यच्चन्दनानन्दिताननम् ॥ २२.३४॥ तिलकायितदेवद्रुमौलिस्थतिलकैर्युतम् । वातपोतमुखाहारवल्मीकक्षितिपन्नगम् ॥ २२.३५॥ करटीकटधारार्दीकृतगन्धितभूतलम् । रोमन्थफेन बिन्दूद्यन्महिषीणां गवां तथा ॥ २२.३६॥ ऊधोनिर्यत्पयःपूरपङ्किलायितभूतलम् । तत्पङ्कपङ्क्तिसंलग्नवरैणखुरभूतलम् ॥ २२.३७॥ मुस्ताम्रेड(डा)नकोद्धु(द्धृ)ष्टकोलदंष्ट्रोत्थितोपलम् । गैरिकापीतहारीतरक्तमाञ्जिष्ठधातुभिः ॥ २२.३८॥ स्रवन्तं रीतिभिश्शैलं गजेन्द्रमिव (गजेन्द्र इव) च त्रिधा । उत्तुङ्गशिखरापारश्रृङ्गैरुल्लिखिताम्बरम् ॥ २२.३९॥ - - स्कन्दः - दर्शयामास नन्दीशो नगराजायतन्नगम् । कैलासं कलधौतोद्यद्रम्यकान्तिविराजितम् ॥ २२.४०॥ प्राह तं नन्दिकेशोऽपि शिखरीन्द्र शिवाज्ञया ॥ २२.४१॥ - - नन्दिकेशः (शैलादिः) उवाच पश्य शैलं महाशैलं महेशस्य दृशा तव । पश्य पश्येदमतुलं प्राकारं(र)वरगोपुरम् ॥ २२.४२॥ नानागोपुरसौधैश्च मदालयमिदं ततम् । विकेशस्येदमतुलं (अम्बिकेशाख्यमतुलं) गृहं शम्भोर्वरालयं (गृहेशं भो वरालयम्) ॥ २२.४३॥ एष रत्नगिरिर्भाति रत्नकान्तिशिलोच्चयः । तत्र रत्नाग्रशिखरः प्रासादोऽयं महेशितुः ॥ २२.४४॥ उद्यत्पताकरुचिरो रत्नतोरणमण्डितः । हरिन्मणिमयो भाति सहस्रस्तम्भमण्डपः ॥ २२.४५॥ मध्येशैलं सदाभाति हरमानसमोदभूः । कोटिलिङ्गालयानाञ्च शिखराण्यपि पश्य भोः ॥ २२.४६॥ दर्शनेनापि पापानां प्रलयोऽद्य भविष्यति । एष दक्षिणतो मेरोः प्राकारो मणिकल्पितः ॥ २२.४७॥ चण्डीश्वरालयं पश्य रत्नसौधवरान्वितम् । चण्डीश्वरेशशिखरं पश्य तञ्च नमस्कुरु ॥ २२.४८॥ लिङ्गायुतमहासद्मप्रोद्यत्कुम्भैकभासुरम् । पश्य शैलेश्वरापारगोपुराणां तलान्यपि ॥ २२.४९॥ सुरत्नपद्मिनीचेयं रत्नसोपानमण्टपैः । परितः परिविता (पदवीनां) च रत्नकुण्डलहल्लकैः ॥ २२.५०॥ मणिजैररविन्दोद्यत्परागरसरञ्जिता । कैलासेशस्य शिखरं पश्य भूधरनायक ॥ २२.५१॥ उद्यत्पताकाकलशरत्नगोपुरभासुरम् । अत्र स्वयं महादेवः सम्पूजयति सर्वदा ॥ २२.५२॥ तल्लिङ्गं वरिवस्यातो (तल्लिङ्गवरिवस्यातः) हर्षतो देवनायकः । प्रदोषेषु विशेषेण पश्यन्नृत्तोरुमण्डपम् ॥ २२.५३॥ अभ्रंलिहैर्महाकुम्भैर्विशालैर्मणिभासुरैः । सुरम्यरत्नवेदीभिः परितः परिवेष्टितैः ॥ २२.५४॥ अत्र देवीं समावेश्य रत्नसिह्मासने शिवः । मणिरङ्गे सदा सायं नृत्यत्यानन्दनिर्भरः ॥ २२.५५॥ मया च गणनाथेन स्कन्देन गणपैर्वृतः । वेणुमद्दलमड्डूत्थतालकाहलनिःस्वनैः ॥ २२.५६॥ सभाः पश्यात्रवितता मणिमौलिपताककाः । सहस्रस्तम्भसंयुक्ताश्चतुर्दिक्षु मनोहराः ॥ २२.५७॥ सौवर्णी राजती चापि चित्सभात्र महेशितुः । अन्यारत्नसभाचेयं रत्नापारैककान्तियुक् ॥ २२.५८॥ सायं नृत्यति देवेशो देव्यग्रेऽत्र (देव्यग्रे च) सभासु च । रम्यं सहस्रलिङ्गानामिदमालयमुत्तमम् ॥ २२.५९॥ उद्यद्दिवाकरप्रख्यं कुम्भजालकिताम्बरम् । पश्यात्र देवदेवस्य कोटिस्तम्भोरुमण्टपम् ॥ २२.६०॥ धूपदीपमणिज्योतिरुद्राक्रीडनमुत्तमम् । मौलिजालकमध्यस्थमणिकुम्भोज्ज्वलद्वृषम् ॥ २२.६१॥ सुरम्यवापिकाचेयं सुधाकल्लोलमालिनी । देवगङ्गातटं पश्य लिङ्गसौधोरुमण्टपा ॥ २२.६२॥ सुधासागरगा चैष गङ्गा कैलासमौलिगा । पञ्चवक्त्रेश्वरस्यापि सभां पश्य मनोहरां (पश्य सद्म मनोहरम्) ॥ २२.६३॥ रत्नकुम्भमहाकान्ति तिरस्कृतदिवाकरम् । तल्लिङ्गपञ्चवक्त्रोत्था नद्यः पञ्चाद्य(त्र) सुस्रुवुः ॥ २२.६४॥ शिवगङ्गा देवगङ्गा रत्नगङ्गेति विश्रुताः । कैलासगङ्गा शैलेन्द्र मधुगङ्गेति च क्रमात् ॥ २२.६५॥ सर्वास्तास्तीरबद्धोरुमणिसोपानमण्टपाः । परितश्शोभितापारशिवसौधविराजिताः ॥ २२.६६॥ लिङ्गसद्ममहाकुम्भबिम्बितोत्तुङ्गनीरकाः । रत्नकर्कटमत्स्यैश्च पद्महंसैककोककाः ॥ २२.६७॥ नीलोत्पलामलमणिप्रासादोरत्नरञ्जितः । उद्यत्कुम्भस्सदाभाति दिव्यसिह्मासनञ्चितः (नोचितः) ॥ २२.६८॥ रत्नेश्वरालयं पश्य नवरत्नविचित्रितम् । पश्य बिल्ववनं शम्भोर्नवारुणदलान्वितम् ॥ २२.६९॥ तन्मूलमणिलिङ्गोद्यद्धारारसविजृम्भितम् । कल्पवाटीमिमां पश्य रत्नवेदिक(नवरत्नवि)चित्रिताम् ॥ २२.७०॥ कन्दललेशालयं पश्य शैलात्र सुमनोहरम् । कुल्याश्चाद्य(त्र) प्रपश्यात्र(द्य) मधुक्षीरघृतस्रवाः ॥ २२.७१॥ देवीश्वरालयं पश्य सदा देव्याः प्रियङ्करम् । तत्र सालवनं पश्य परिच्छदफलावृतम् ॥ २२.७२॥ विलोकय दृशा शैल पश्चिमे गोपुरं स्थितम् । सहस्रतलसंयुक्तं गवाक्ष(क्षं)वृषभैर्युतम् ॥ २२.७३॥ रम्योत्तुङ्गमणिद्योति शिखराग्रपताककम् । उग्रेश्वरालयं पश्य चो(उ)ग्रपातकनाशनम् ॥ २२.७४॥ भृङ्गिसौधोऽयमतुलो बाणस्यात्र गृहं महत् । हरिकेशालयं पश्य पश्य स्कन्दालयं महत् ॥ २२.७५॥ अम्बिकेशस्य शिखरं पश्य प्रणतिगो नग । नवरत्नमहाशैलान्पश्य सौधोत्तमैर्वृतान् ॥ २२.७६॥ उत्तमेशमहाधाम पश्यात्र सुमनोहरम् । गर्भेशगर्भभवनं पश्य कुम्भैकभाततम् ॥ २२.७७॥ मण्टपं दशसाहस्रस्तम्भकुम्भविराजितम् । कैलासनलिनी चेयं रत्नफुल्लाम्बुजावृता ॥ २२.७८॥ तन्मध्यसौधमध्यस्थमणिमञ्चं प्रपश्य भो (भोः) । कुलिशेशालयं पश्य पापाद्रिकुलिशं हि तत् ॥ २२.७९॥ कुलशैल(लं)प्रपश्याद्य चन्द्रकान्तशिलातलम् । सहस्रयोजनायामं तत्र चन्द्रेश्वरालयम् ॥ २२.८०॥ कुलाचलमहासौधान्प्रपश्य नगसत्तम । अयुतं लिङ्गसदनं मदनान्तकरप्रियम् ॥ २२.८१॥ आलोकय महाशैल शैलेशस्य वरालयम् । क्षीरोदवापिका चेयं रत्नसोपानमण्टपा ॥ २२.८२॥ क्षीरेश्वरालयं तीरे तस्याः पश्य मनोहरम् । मयूरेशस्य सद्मैतद्वनगर्भे विलोकय ॥ २२.८३॥ रिटिरास्तेऽत्र सौधे तु चा(आ)ज्ञया शूलिनो नग । पूर्वतोऽहं दक्षिणतश्चण्डी भृङ्गी रिटिस्तथा ॥ २२.८४॥ पश्चादथोत्तरे शैल चन्द्रचूडस्य शासनात् । पालयामो गणौघैश्च सदा शूलवरायुधैः ॥ २२.८५॥ एतल्लिङ्गकुलं त्वपारमणिजैस्सौधैश्च सद्गोपुरैः रम्योत्तुङ्गनिखातसागरमहाप्राकारभूभृद्गणैः । फुल्लाब्जैस्सरसीगणैस्सुमवनैः कॢर्प्तोऽद्य वै भूधरो(र) विश्वेशेन विचित्रचित्रमनसा सम्पश्य शैलोत्तम ॥ २२.८६॥ ताराराजविराजितोरुशिरसो वासो ह्ययं शैलराट् राजद्राजतकान्तिसारनिवहैश्श्रीविप्रराजाधिकः । राजल्लिङ्गगणै रराज भुवने विश्वेश्वरस्याज्ञया राजद्राजसखस्य राजति परं शैलाधिराजेक्षया(य) ॥ २२.८७॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये कैलासदर्शने हिमावन्प्रति नन्दिकेशप्रोक्तं शङ्करावासवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २२ । २४-८७॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 22 . 24-87.. Notes Upon being instructed by Śiva शिव; Nandikeśa नन्दिकेश (a.k.a Śailādi (शैलादि) initiates a guided tour of Kailāsadarshana कैलासदर्शन for Himāvan हिमावन्, whereby He begins with the description of the magnificent zones that are abode to Śaṅkara शङ्कर and Devī देवी at Kailāsa कैलास. Proofread by Ruma Dewan
% Text title            : Shankaravasavarnanam
% File name             : shankarAvAsavarNanam.itx
% itxtitle              : kailAsadarshanam 1 shaNkarAvAsavarNanam kailAsadarshane (shivarahasyAntargatam)
% engtitle              : shankarAvAsavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 22 | 24\-87||
% Indexextra            : (Scans 1, 2, Manuscript)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org