शतरुद्रीयनामावलिः
(स्कन्दपुराणे माहेश्वरखण्डे भर्तृयज्ञमुनिप्रोक्तशतरुद्रीयव्युत्पन्ना)
ॐ जगत्प्रधानाय नमः ।
ॐ अर्जिताय नमः ।
ॐ जगद्गतये नमः ।
ॐ विश्वयोनये नमः ।
ॐ जगद्बीजाय नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वसृजे नमः ।
ॐ जगत्पतये नमः ।
ॐ विश्वेश्वराय नमः ।
ॐ विश्वयोनये नमः । १० ॥
ॐ विश्वकर्मणे नमः ।
ॐ ईश्वराय नमः ।
ॐ जगतां पतये नमः ।
ॐ शम्भवे नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ भूतेशाय नमः ।
ॐ भूतभव्यभवोद्भवाय नमः ।
ॐ योगाय नमः ।
ॐ योगेश्वराय नमः ।
ॐ शर्वाय नमः । २० ॥
ॐ सर्वलोकेश्वराय नमः ।
ॐ सर्वश्रेष्ठाय नमः ।
ॐ जगज्ज्येष्ठाय नमः ।
ॐ वसिष्ठाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ लोकत्रयङ्कराय नमः ।
ॐ लोकत्रयाश्रिताय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ सुदुर्जयाय नमः ।
ॐ काममृत्युजरातिगाय नमः । ३० ॥
ॐ ज्ञानात्मने नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानज्ञेयाय नमः ।
ॐ सुदुर्विदाय नमः ।
ॐ वरदाय नमः ।
ॐ वागीश्वराय नमः ।
ॐ रुद्राय नमः ।
ॐ शितिकण्ठाय नमः ।
ॐ कनिष्ठाय नमः ।
ॐ सुवेधसे नमः । ४० ॥
ॐ कपर्दिने नमः ।
ॐ करालकाय नमः ।
ॐ हर्यक्षाय नमः ।
ॐ रतिदाय नमः ।
ॐ बभ्रुकेशाय नमः ।
ॐ याम्याय नमः ।
ॐ सुहृत्तमाय नमः ।
ॐ सङ्गताय नमः ।
ॐ गम्याय नमः ।
ॐ हरिनेत्राय नमः । ५० ॥
ॐ स्थाणवे नमः ।
ॐ पुरुषंनाम्ने नमः ।
ॐ भगभास्वराय नमः ।
ॐ सुदीप्ताय नमः ।
ॐ देवदेवाय नमः ।
ॐ रंहसे नमः ।
ॐ बहुरूपाय नमः ।
ॐ सर्वाय नमः ।
ॐ शम्भोःप्रियाय नमः ।
ॐ प्रियवासनाय नमः । ६० ॥
ॐ उष्णीषिणे नमः ।
ॐ सुबभ्रुकाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ मीढुषे नमः ।
ॐ गिरिशाय नमः ।
ॐ सुशान्ताय नमः ।
ॐ पतये नमः ।
ॐ चिरवासिने (चीरवासिने, चीरवाससे) नमः ।
ॐ हिरण्यभुजाय नमः ।
ॐ उग्राय नमः । ७० ॥
ॐ दिक्पतये नमः ।
ॐ पर्जन्यपतये नमः ।
ॐ भूतपतये नमः ।
ॐ वृषपतये नमः ।
ॐ गोपतये नमः ।
ॐ वृक्षावृताय नमः ।
ॐ सेनान्ये नमः ।
ॐ मध्यमाय नमः ।
ॐ स्रुवहस्ताय नमः ।
ॐ धन्विने नमः । ८० ॥
ॐ भर्गदैत्याय नमः ।
ॐ बहुरूपाय नमः ।
ॐ बाहुयुगाय / युगबाहवे नमः ।
ॐ नेत्रसहस्रकाय नमः ।
ॐ विश्वपतये नमः ।
ॐ सहस्रशिरसे नमः ।
ॐ सहस्रचरणाय नमः ।
ॐ सर्वात्मकाय नमः ।
ॐ द्वितनवे नमः ।
ॐ महेश्वराय नमः । ९० ॥
ॐ चिरस्थानाय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ पशुपतये नमः ।
ॐ शङ्कराय नमः ।
ॐ बहुरूपाय नमः ।
ॐ एकाक्षाय नमः ।
ॐ धूर्जटये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ त्र्यम्बकाय नमः ।
ॐ वृषाकपये नमः । १०० ॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे कौमारिकाखण्डे
त्रयोदशाध्यायान्तर्गतं भर्तृयज्ञमुनिप्रोक्तशतरुद्रीयव्युत्पन्ना
शतरुद्रीयनामावलिः सम्पूर्णा ।
Notes:
The ŚatarudrīyaNāmāvaliḥ शतरुद्रीयनामावलिः is derived from the Śatarudrīyam शतरुद्रीयम् from SkandaPurāṇam स्कन्दपुराणम् that mentions the 100 Names of Śiva शिव, with one Name each pertaining to the Śivaliṅga शिवलिङ्ग made of a certain material worshipped by respective deities and beings.
The Śatarudrīyam शतरुद्रीयम् can be accessed from the link given below.
Encoded and proofread by Ruma Dewan