शिवशतरुद्रीयम्
शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः ।
न शिवात्परमो देवः सत्यमेतच्छिवव्रताः ॥ १४०॥
शिवं विहाय यो ह्यन्यदसत्किञ्चिदुपासते ।
करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति ॥ १४१॥
शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत् ।
लिङ्गाङ्कं च भगाङ्कं च नान्यदेवाङ्कितं क्वचित् ॥ १४२॥
यश्च तं पितरं रुद्रं त्यक्त्वा मातरमम्बिकाम् ।
वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिण्डकः ।
यस्य रुद्रस्य माहात्म्यं शतरुद्रीयमुत्तमम् ॥ १४३॥
श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम् ।
ब्रह्मा हाटकलिङ्गं च समाराध्य कपर्दिनः ॥ १४४॥
जगत्प्रधानमिति च नाम जप्त्वा विराजते ।
कृष्णमूले कृष्णलिङ्गं नाम चार्जितमेव च ॥ १४५॥
सनकाद्यैश्च तल्लिङ्गं पूज्याजयुर्जगद्गतिम् ।
दर्भाङ्कुरमयं सप्त मुनयो विश्वयोनिकम् ॥ १४६॥
नारदस्त्वन्तरिक्षे च जदद्बीजमिदं गृणन् ।
वज्रमिन्द्रो लिङ्गमेवं विश्वात्मानं च नाम च ॥ १४७॥
सूर्यस्ताम्रं तथा लिङ्गं नाम विश्वसृजं जपन् ।
चन्द्रश्च मौक्तिकं लिङ्गं जपन्नाम जगत्पतिम् ॥ १४८॥
इन्द्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन् ।
पुष्परागं गुरुलिङ्गं विश्वयोनिं जपन्हरम् ॥ १४९॥
पद्मरागमयं शुक्रो विश्वकर्मेति नाम च ।
हेमलिङ्गं च धनदो जपन्नाम्ना तथेश्वरम् ॥ १५०॥
रौप्यजं विश्वदेवाश्च नामापि जगताम्पतिम् ।
वायवो रीतिजं लिङ्गं शम्भुमित्येव नाम च ॥ १५१॥
काशजं वसवो लिङ्गं स्वयम्भुमिति नाम च ।
त्रिलोहं मातरो लिङ्गं नाम भूतेशमेव च ॥ १५२॥
लौहं च रक्षसां नाम भूतभव्यभवोद्भवम् ।
गुह्यकाः सीसजं लिङ्गं नाम योगं जपन्ति च ॥ १५३॥
जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन् ।
निमिर्नयनयोर्लिङ्गे जपञ्शर्वेति नाम च ॥ १५४॥
धन्वन्तरिर्गोमयं च सर्वलोकेश्वरेश्वरम् ।
गन्धर्वा दारुजं लिङ्गं सर्वश्रेष्ठेति नाम च ॥ १५५॥
वैडूर्यं राघवो लिङ्गं जगज्ज्येष्ठेति नाम च ।
बाणो मारकतं लिङ्गं वसिष्ठमिति नाम च ॥ १५६॥
वरुणः स्फाटिकं लिङ्गं नाम्ना च परमेश्वरम् ।
नागा विद्रुमलिङ्गं च नाम लोकत्रयङ्करम् ॥ १५७॥
भारती तारलिङ्गं च नाम लोकत्रयाश्रितम् ।
शनिश्च सङ्गमावर्ते जगन्नाथेति नाम च ॥ १५८॥
शनिदेशे मध्यरात्रौ महीसागरसङ्गमे ।
जातीजं रावणो लिङ्गं जपन्नाम सुदुर्जयम् ॥ १५९॥
सिद्धाश्च मानसं नाम काममृत्युजरातिगम् ।
उञ्छजं च बलिर्लिङ्गं ज्ञानात्मेत्यस्य नाम च ॥ १६०॥
मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च ।
शकृताः शकृतं लिङ्गं ज्ञानज्ञेयेति नाम च ॥ १६१॥
फेनपाः फेनजं लिङ्गं नाम चापि सुदुर्विदम् ।
कपिलो वालुकालिङ्गं वरदं च जपन्हरम् ॥ १६२॥
सारस्वतो वाचिलिङ्गं नाम वागीश्वरेति च ।
गणा मूर्तिमयं लिङ्गं नाम रुद्रेति चाब्रुवन् ॥ १६३॥
जाम्बूनदमयं देवाः शितिकण्ठेति नाम च ।
शङ्खलिङ्गं बुधो नाम कनिष्ठमिति सञ्जपन् ॥ १६४॥
अश्विनौ मृण्मयं लिङ्गं नाम्ना चैव सुवेधसम् ।
विनायकः पिष्टलिङ्गं नाम्ना चापि कपर्दिनम् ॥ १६५॥
नावनीतं कुजो लिङ्गं नाम्ना चापि करालकम् ।
तार्क्ष्य ओदनलिङ्गं च हर्यक्षेति हि नाम च ॥ १६६॥
गौडं कामस्तथा लिङ्गं रतिदं चेति नाम च ।
शची लवणलिङ्गं तु बभ्रुकेशेति नाम च ॥ १६७॥
विश्वकर्मा च प्रासादलिङ्गं याम्येति नाम च ।
विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च ।
वंशाङ्कुरोत्थं सगरो नाम सङ्गतमेव च ॥ १६८॥
राहुश्च रामठं लिङ्गं नाम गम्येति कीर्तयन् ।
लेप्यलिङ्गं तथा लक्ष्मीर्हरिनेत्रेति नाम च ॥ १६९॥
योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च ।
नानाविधं मनुष्याश्च पुरुषं नाम नाम च ॥ १७०॥
तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम् ।
किन्नरा धातुलिङ्गं च सुदीप्तमिति नाम च ॥ १७१॥
देवदेवेति नामास्ति लिङ्गं च ब्रह्मराक्षसाः ।
दन्तजं वारणा लिङ्गं नाम रंहसमेव च ॥ १७२॥
सप्तलोकमयं साध्या बहूरूपेति नाम च ।
दूर्वाङ्कुरमयं लिङ्गमृतवः सर्वनाम च ॥ १७३॥
कौङ्कुममप्सरसो लिङ्गं नाम शम्भोः प्रियेति च ।
सिन्दूरजं चोर्वशी च नाम च प्रियवासनम् ॥ १७४॥
ब्रह्मचारि गुरुर्लिङ्गं नाम चोष्णीषिणं विदुः ।
अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम् ॥ १७५॥
श्रीखण्डं सिद्धयोगिन्यः सहस्राक्षेति नाम च ।
डाकिन्यो मांसलिङ्गं च नाम चास्य च मीढुषम् ॥ १७६॥
अप्यन्नजं च मनवो गिरिशेति च नाम च ।
अगस्त्यो व्रीहिजं वापि सुशान्तमिति नाम च ॥ १७७॥
यवजं देवलो लिङ्गं पतिमित्येव नाम च ।
वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च ॥ १७८॥
प्रतर्दनो बाणलिङ्गं हिरण्यभुजनाम च ।
राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम् ॥ १७९॥
निष्पावजं दानवाश्च लिङ्गनाम च दिक्पतिम् ।
मेघा नीरमयं लिङ्गं पर्जन्यपतिनाम च ॥ १८०॥
राजमाषमयं यक्षा नाम भूतपतिं स्मृतम् ।
तिलान्नजं च पितरो नाम वृषपतिस्तथा ॥ १८१॥
गौतमो गोरजमयं नाम गोपतिरेव च ।
वानप्रस्थाः फलमयं नाम वृक्षावृतेति च ॥ १८२॥
स्कन्दः पाषाणलिङ्गं च नाम सेनान्य एव च ।
नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च ॥ १८३॥
पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च ।
यमः कालायसमयं नाम प्राह च धन्विनम् ॥ १८४॥
यवाङ्कुरं जामदग्न्यो भर्गदैत्येति नाम च ।
पुरूरवाश्चान्नमयं बहुरूपेति नाम च ॥ १८५॥
मान्धाता शर्करालिङ्गं नाम बाहुयुगेति च ।
गावः पयोमयं लिङ्गं नाम नेत्रसहस्रकम् ॥ १८६॥
साध्या भर्तृमयं लिङ्गं नाम विश्वपतिः स्मृतम् ।
नारायणो नरो मौञ्जं सहस्रशिरनाम च ॥ १८७॥
तार्क्ष्यं पृथुस्तथा लिङ्गं सहस्रचरणाभिधम् ।
पक्षिणो व्योमलिङ्गं च नाम सर्वात्मकेति च ॥ १८८॥
पृथिवी मेरुलिङ्गं च द्वितनुश्चास्य नाम च ।
भस्मलिङ्गं पशुपतिर्नाम चास्य महेश्वरः ॥ १८९॥
ऋषयो ज्ञानलिङ्गं च चिरस्थानेति नाम च ।
ब्राह्मणा ब्रह्मलिङ्गं च नाम ज्येष्ठेति तं विदुः ॥ १९०॥
गोरोचनमयं शेषो नाम पशुपतिः स्मृतम् ।
वासुकिर्विषलिङ्गं च नाम वै शङ्करेति च ॥ १९१॥
तक्षकः कालकूटाख्यं बहुरूपेति नाम च ।
हालाहलं च कर्कोट एकाक्ष इति नाम च ॥ १९२॥
श्रृङ्गी विषमयं पद्मो नाम धूर्जटिरेव च ।
पुत्रः पितृमयं लिङ्गं विश्वरूपेति नाम च ॥ १९३॥
पारदं च शिवा देवी नाम त्र्यम्बक एव च ।
मत्स्याद्याः शास्त्रलिङ्गं च नाम चापि वृषाकपिः ॥ १९४॥
एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत् ।
जगत्यामस्ति तज्जातं शिवाराधनयोगतः ॥ १९५॥
भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात् ।
शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते ॥ १९६॥
धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः ।
ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः ॥ १९७॥
य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति ।
तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान् ॥ १९८॥
नातः परं पुण्यतमं किञ्चिदस्ति महाफलम् ।
सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम ॥ १९९॥
वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम् ।
पापं तन्नाशमायाति कीर्तिते शतरुद्रिये ॥ २००॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम् ॥ २०१॥
नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम् ।
प्रणामानां शतेनापि मुच्यते सर्वपातकैः ॥ २०२॥
लिङ्गानां शतमेतच्च शतमाराधकास्तथा ।
नामानि च शतं सर्वदोषसन्नाशकं स्मृतम् ॥ २०३॥
विशेषादेषु लिङ्गेषु यः पठिष्यति पञ्चसु ।
पञ्चभिर्विषयोद्भूतैः स दोषैः परिमुच्यते ॥ २०४॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, कौमारिकाखण्डे,
अष्टमाध्यायान्तर्गतं भर्तृयज्ञमुनिप्रोक्तं शिवमहिमास्तोत्रं
समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । कौमारिकाखण्ड । अध्याय १३/१४०-२०४॥
skandapurANa . mAheshvarakhaNDa . kaumArikAkhaNDa . adhyAya 13/140-204..
Proofread by PSA Easwaran