शिवशतरुद्रीयम्

शिवशतरुद्रीयम्

शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः । न शिवात्परमो देवः सत्यमेतच्छिवव्रताः ॥ १४०॥ शिवं विहाय यो ह्यन्यदसत्किञ्चिदुपासते । करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति ॥ १४१॥ शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत् । लिङ्गाङ्कं च भगाङ्कं च नान्यदेवाङ्कितं क्वचित् ॥ १४२॥ यश्च तं पितरं रुद्रं त्यक्त्वा मातरमम्बिकाम् । वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिण्डकः । यस्य रुद्रस्य माहात्म्यं शतरुद्रीयमुत्तमम् ॥ १४३॥ श‍ृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम् । ब्रह्मा हाटकलिङ्गं च समाराध्य कपर्दिनः ॥ १४४॥ जगत्प्रधानमिति च नाम जप्त्वा विराजते । कृष्णमूले कृष्णलिङ्गं नाम चार्जितमेव च ॥ १४५॥ सनकाद्यैश्च तल्लिङ्गं पूज्याजयुर्जगद्गतिम् । दर्भाङ्कुरमयं सप्तमुनयो विश्वयोनिकम् ॥ १४६॥ नारदस्त्वन्तरिक्षे च जगद्बीजमिदं गृणन् । वज्रमिन्द्रो लिङ्गमेवं विश्वात्मानं च नाम च ॥ १४७॥ सूर्यस्ताम्रं तथा लिङ्गं नाम विश्वसृजं जपन् । चन्द्रश्च मौक्तिकं लिङ्गं जपन्नाम जगत्पतिम् ॥ १४८॥ इन्द्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन् । पुष्परागं गुरुलिङ्गं विश्वयोनिं जपन्हरम् ॥ १४९॥ पद्मरागमयं शुक्रो विश्वकर्मेति नाम च । हेमलिङ्गं च धनदो जपन्नाम्ना तथेश्वरम् ॥ १५०॥ रौप्यजं विश्वदेवाश्च नामापि जगताम्पतिम् । वायवो रीतिजं लिङ्गं शम्भुमित्येव नाम च ॥ १५१॥ काशजं वसवो लिङ्गं स्वयम्भुमिति नाम च । त्रिलोहं मातरो लिङ्गं नाम भूतेशमेव च ॥ १५२॥ लौहं च रक्षसां नाम भूतभव्यभवोद्भवम् । गुह्यकाः सीसजं लिङ्गं नाम योगं जपन्ति च ॥ १५३॥ जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन् । निमिर्नयनयोर्लिङ्गे जपञ्शर्वेति नाम च ॥ १५४॥ धन्वन्तरिर्गोमयं च सर्वलोकेश्वरेश्वरम् । गन्धर्वा दारुजं लिङ्गं सर्वश्रेष्ठेति नाम च ॥ १५५॥ वैडूर्यं राघवो लिङ्गं जगज्ज्येष्ठेति नाम च । बाणो मारकतं लिङ्गं वसिष्ठमिति नाम च ॥ १५६॥ वरुणः स्फाटिकं लिङ्गं नाम्ना च परमेश्वरम् । नागा विद्रुमलिङ्गं च नाम लोकत्रयङ्करम् ॥ १५७॥ भारती तारलिङ्गं च नाम लोकत्रयाश्रितम् । शनिश्च सङ्गमावर्ते जगन्नाथेति नाम च ॥ १५८॥ शनिदेशे मध्यरात्रौ महीसागरसङ्गमे । जातीजं रावणो लिङ्गं जपन्नाम सुदुर्जयम् ॥ १५९॥ सिद्धाश्च मानसं नाम काममृत्युजरातिगम् । उञ्छजं च बलिर्लिङ्गं ज्ञानात्मेत्यस्य नाम च ॥ १६०॥ मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च । शकृताः शकृतं लिङ्गं ज्ञानज्ञेयेति नाम च ॥ १६१॥ फेनपाः फेनजं लिङ्गं नाम चापि सुदुर्विदम् । कपिलो वालुकालिङ्गं वरदं च जपन्हरम् ॥ १६२॥ सारस्वतो वाचिलिङ्गं नाम वागीश्वरेति च । गणा मूर्तिमयं लिङ्गं नाम रुद्रेति चाब्रुवन् ॥ १६३॥ जाम्बूनदमयं देवाः शितिकण्ठेति नाम च । शङ्खलिङ्गं बुधो नाम कनिष्ठमिति सञ्जपन् ॥ १६४॥ अश्विनौ मृण्मयं लिङ्गं नाम्ना चैव सुवेधसम् । विनायकः पिष्टलिङ्गं नाम्ना चापि कपर्दिनम् ॥ १६५॥ नावनीतं कुजो लिङ्गं नाम्ना चापि करालकम् । तार्क्ष्य ओदनलिङ्गं च हर्यक्षेति हि नाम च ॥ १६६॥ गौडं कामस्तथा लिङ्गं रतिदं चेति नाम च । शची लवणलिङ्गं तु बभ्रुकेशेति नाम च ॥ १६७॥ विश्वकर्मा च प्रासादलिङ्गं याम्येति नाम च । विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च । वंशाङ्कुरोत्थं सगरो नाम सङ्गतमेव च ॥ १६८॥ राहुश्च रामठं लिङ्गं नाम गम्येति कीर्तयन् । लेप्यलिङ्गं तथा लक्ष्मीर्हरिनेत्रेति नाम च ॥ १६९॥ योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च । नानाविधं मनुष्याश्च पुरुषं नाम नाम च ॥ १७०॥ तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम् । किन्नरा धातुलिङ्गं च सुदीप्तमिति नाम च ॥ १७१॥ देवदेवेति नामास्ति लिङ्गं च ब्रह्मराक्षसाः । दन्तजं वारणा लिङ्गं नाम रंहसमेव च ॥ १७२॥ सप्तलोकमयं साध्या बहूरूपेति नाम च । दूर्वाङ्कुरमयं लिङ्गमृतवः सर्वनाम च ॥ १७३॥ कौङ्कुममप्सरसो लिङ्गं नाम शम्भोः प्रियेति च । सिन्दूरजं चोर्वशी च नाम च प्रियवासनम् ॥ १७४॥ ब्रह्मचारि गुरुर्लिङ्गं नाम चोष्णीषिणं विदुः । अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम् ॥ १७५॥ श्रीखण्डं सिद्धयोगिन्यः सहस्राक्षेति नाम च । डाकिन्यो मांसलिङ्गं च नाम चास्य च मीढुषम् ॥ १७६॥ अप्यन्नजं च मनवो गिरिशेति च नाम च । अगस्त्यो व्रीहिजं वापि सुशान्तमिति नाम च ॥ १७७॥ यवजं देवलो लिङ्गं पतिमित्येव नाम च । वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च ॥ १७८॥ प्रतर्दनो बाणलिङ्गं हिरण्यभुजनाम च । राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम् ॥ १७९॥ निष्पावजं दानवाश्च लिङ्गनाम च दिक्पतिम् । मेघा नीरमयं लिङ्गं पर्जन्यपतिनाम च ॥ १८०॥ राजमाषमयं यक्षा नाम भूतपतिं स्मृतम् । तिलान्नजं च पितरो नाम वृषपतिस्तथा ॥ १८१॥ गौतमो गोरजमयं नाम गोपतिरेव च । वानप्रस्थाः फलमयं नाम वृक्षावृतेति च ॥ १८२॥ स्कन्दः पाषाणलिङ्गं च नाम सेनान्य एव च । नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च ॥ १८३॥ पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च । यमः कालायसमयं नाम प्राह च धन्विनम् ॥ १८४॥ यवाङ्कुरं जामदग्न्यो भर्गदैत्येति नाम च । पुरूरवाश्चान्नमयं बहुरूपेति नाम च ॥ १८५॥ मान्धाता शर्करालिङ्गं नाम बाहुयुगेति च । गावः पयोमयं लिङ्गं नाम नेत्रसहस्रकम् ॥ १८६॥ साध्या भर्तृमयं लिङ्गं नाम विश्वपतिः स्मृतम् । नारायणो नरो मौञ्जं सहस्रशिरनाम च ॥ १८७॥ तार्क्ष्यं पृथुस्तथा लिङ्गं सहस्रचरणाभिधम् । पक्षिणो व्योमलिङ्गं च नाम सर्वात्मकेति च ॥ १८८॥ पृथिवी मेरुलिङ्गं च द्वितनुश्चास्य नाम च । भस्मलिङ्गं पशुपतिर्नाम चास्य महेश्वरः ॥ १८९॥ ऋषयो ज्ञानलिङ्गं च चिरस्थानेति नाम च । ब्राह्मणा ब्रह्मलिङ्गं च नाम ज्येष्ठेति तं विदुः ॥ १९०॥ गोरोचनमयं शेषो नाम पशुपतिः स्मृतम् । वासुकिर्विषलिङ्गं च नाम वै शङ्करेति च ॥ १९१॥ तक्षकः कालकूटाख्यं बहुरूपेति नाम च । हालाहलं च कर्कोट एकाक्ष इति नाम च ॥ १९२॥ श‍ृङ्गी विषमयं पद्मो नाम धूर्जटिरेव च । पुत्रः पितृमयं लिङ्गं विश्वरूपेति नाम च ॥ १९३॥ पारदं च शिवा देवी नाम त्र्यम्बक एव च । मत्स्याद्याः शास्त्रलिङ्गं च नाम चापि वृषाकपिः ॥ १९४॥ एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत् । जगत्यामस्ति तज्जातं शिवाराधनयोगतः ॥ १९५॥ भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात् । शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते ॥ १९६॥ धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः । ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः ॥ १९७॥ य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति । तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान् ॥ १९८॥ नातः परं पुण्यतमं किञ्चिदस्ति महाफलम् । सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम ॥ १९९॥ वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम् । पापं तन्नाशमायाति कीर्तिते शतरुद्रिये ॥ २००॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम् ॥ २०१॥ नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम् । प्रणामानां शतेनापि मुच्यते सर्वपातकैः ॥ २०२॥ लिङ्गानां शतमेतच्च शतमाराधकास्तथा । नामानि च शतं सर्वदोषसन्नाशकं स्मृतम् ॥ २०३॥ विशेषादेषु लिङ्गेषु यः पठिष्यति पञ्चसु । पञ्चभिर्विषयोद्भूतैः स दोषैः परिमुच्यते ॥ २०४॥ इति श्रीस्कन्दपुराणे माहेश्वरखण्डे कौमारिकाखण्डे त्रयोदशाध्यायान्तर्गतं भर्तृयज्ञमुनिप्रोक्तं शतरुद्रीयं सम्पूर्णम् । स्कन्दपुराण । माहेश्वरखण्ड । कौमारिकाखण्ड । अध्याय १३/१४०-२०४॥ skandapurANa . mAheshvarakhaNDa . kaumArikAkhaNDa . adhyAya 13/140-204.. Notes: The Śatarudrīyam शतरुद्रीयम् from SkandaPurāṇam स्कन्दपुराणम् mentions the 100 Names of Śiva शिव, with one Name each pertaining to the Śivaliṅga शिवलिङ्ग made of a certain material worshipped by respective deities and beings. The ŚatarudrīyaNāmāvaliḥ शतरुद्रीयनामावलिः is derived from the Śatarudrīyam शतरुद्रीयम् and can be accessed from the respective link given below. Proofread by PSA Easwaran
% Text title            : Shivashatarudriyam
% File name             : shivashatarudrIyam.itx
% itxtitle              : shivashatarudrIyam (skandapurANAntargatam)
% engtitle              : shivashatarudrIyam
% Category              : shiva, skandapurANa
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | mAheshvarakhaNDa | kaumArikAkhaNDa | adhyAya 13/140-204|| See corresponding nAmAvalI
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English,  nAmAvalI)
% Latest update         : April 27, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org