नन्दिकेशप्रोक्तं शिवाध्वन्रहस्यम्
सशिवं हृदि साधु शीलयन्तः शिवपञ्चाक्षरमक्षरं जपन्तः ।
गिरिशाय हितार्थमर्पयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ १॥
गिरिशाहितमर्थमर्दयन्तः शिवपूजार्थमिहार्थमर्थयन्तः ।
शिवमार्गरतान् प्रचारयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ २॥
शिवशास्त्ररतान् परीक्षयन्तः शिवपूजानिरतान् प्रमोदयन्तः ।
शिवमेव सुरोत्तमं वदन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ३॥
शिवपूजनपुण्यमाचरन्तः शिवपूजानियमान् प्रतीक्षयन्तः ।
शिवभक्तिविरोधमाक्षिपन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ४॥
शिवभक्तिनिधानमार्जयन्तः शिवभक्त्यम्बुनिधीन् प्रवर्धयन्तः ।
शिवभक्तिरसं प्रबोधयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ५॥
श्रुतिबोधितभूतिमुद्वहन्तः श्रुतरुद्राक्षविभूषणं वहन्तः ।
शिवलिङ्गमसङ्गमर्चयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ६॥
स्मरशासकमेव संस्मरन्तो भगवन्तं भवमेव भावयन्तः ।
भवभूतभयानि संहरन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ७॥
शिवनामसुधानिधिं पिबन्तः शिवमूर्तिं हृदि सन्ततं भजन्तः ।
शिवसुन्दरमन्दिरे वसन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ८॥
त्रिपुरारिपुरेषु सञ्चरन्तः त्रिपुरारातिकथां विचारयन्तः ।
त्रिदशेशविधेयमाचरन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ ९॥
नवरत्ननुतिं मुहुः पठन्तो नवचन्द्राभरणं विलोकयन्तः ।
नवखण्डमहीं प्रशासयन्तः शिवमेव प्रयताः प्रयान्ति सन्तः ॥ १०॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवाध्वन्रहस्यं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४३। ६६-७५ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 43. 66-75 ..
Proofread by Ruma Dewan