रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनम्
आशास्या भक्तिरस्माकमीदृशी खलु दुर्लभा ।
वाञ्छयापि न तत्प्राप्तिर्मुनीनामपि दुर्लभा ॥ १४९॥
तपो घोरतरं प्राप्तं वनेषु मुनिपुङ्गवैः ।
तथापि तादृशी भक्तिर्न प्राप्ता तत्तपस्यया ॥ १५०॥
अपाराण्यपि दानानि कृतानि जगतीतले ।
भूपालैस्तादृशी भक्तिः न प्राप्ता शङ्करे खलु ॥ १५१॥
गोकोटीनां प्रदानेन तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५२॥
तुला कोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥॥ १५३॥
रत्नराशिप्रदानेन तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५४॥
रत्नाभरणदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५५॥
दुकूलगिरिदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५६॥
दिव्यचन्दनदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५७॥
कर्पूरराशिदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५८॥
घृतकम्बलदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १५९॥
कन्याकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६०॥
गजकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६१॥
वाजिकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६२॥
अन्नराशिप्रदानैर्वा तादृशी भक्तिरीश्वरे ।
न भवत्येव सहसा शङ्करानुग्रहं विना ॥ १६३॥
केन स्वरूपेण महेश्वरोऽपि भक्तावनाशाय करोति यत्नम् ।
केनापि न ज्ञायत एव नूनं तज्ज्ञानमप्यक्षयपुण्यहेतुः ॥ १६४॥
धन्याः कृतार्थाश्च शिवार्चनेन भवन्ति मुक्ताश्च महाघबन्धात् ।
संसारबन्धोऽपि स नाशमेति महेशलिङ्गार्चनपुण्यलेशात् ॥ १६५॥
धर्मास्तु सन्त्येव सहस्रशोऽपि किं तैः फलं शङ्करपूजनेन ।
यद्यद्भवेत् तत्सममप्यनल्पं न पुण्यमित्यस्ति मतिस्वभावात् ॥ १६६॥
अहो महद्भाग्यफलप्रदाने समर्थमेतद्गिरिशार्चनं हि ।
इदं कथं पुण्यमहाब्धिपूरैर्विना भविष्यत्यतिदुर्लभत्वात् ॥ १६७॥
एतल्लिङ्गविलोकनेन बहुधा नष्टेषु पापेष्वियं
तल्लिङ्गे बहुपुण्यराशिरधुना क्षिप्तस्ततः शङ्करः ।
सन्तुष्टो गिरिशः स्वभावतः इति ज्ञेयः स लिङ्गार्चनात्
प्रीतः स्यादिति तस्य दिव्यमहिमा ज्ञेयः कथं मादृशैः ॥ १६८॥
॥ इति शिवरहस्यान्तर्गते रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३२। १४९-१६८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 32. 149-168 ..
Proofread by Ruma Dewan