आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनम्
- आस्तिकविष्णुसंवादे -
आस्तिकः -
वेदैर्वदान्योत्तममीशमेकं मत्वा महादेवमुपाश्रितोऽहम् ।
स एव मे सर्ववरप्रदाता दाता वराणां वरदोत्तमोऽयम् ॥ ८५॥
यं यं वाञ्च्छति शाम्भवः प्रतिदिनं तं तं प्रयच्छत्युमा-
कान्तः सन्ततमन्तकान्तक इति ख्यातो य एव श्रुतौ ।
तस्मिन् मे वरदोत्तमे सति मनो दैन्यं न जानात्यतः
किं मे दुर्लभमस्ति शङ्करपदध्यानेन तन्मे मनः ॥ ८६॥
यो दाताःजगतां तवापि कमलाकान्तामराधीश्वरो
गौरीचारुपयोधराधरमहाहाराबलीलया ।
लोकान् पालयति स्वभावविभवस्तद्वैभवस्या-
वधिर्नास्त्येवेति स एव मे वरद इत्यन्यं न मन्यामहे ॥ ८७॥
स्वप्ने वा गिरिजामनोहरपदाम्भोजार्चनान्मे मनो
नैवासीद्विरतं न चान्यभञ्जनासक्तं प्रमत्तं च न ।
तेनैवेप्सितसिद्धिरित्यपि मतिवृद्धिं प्रयात्येव मे
दैत्यारातिरुमापतिः शरणमित्यन्यं न मन्यामहे ॥ ८८॥
यद्दौवारिकदण्डमण्डलकशाधातादिभीतो भवानादावेव
चतुर्मुखोऽपि स शचीनाथोऽपि तं केवलम् ।
याचे याचककल्पभूरुहमहं मोहं विहायाधुना
मोहध्वान्तविनाशके सति शिवेत्यन्यं न मन्यामहे ॥ ८९॥
अस्माकं गिरिजामनोहरहरापारादरात्यादरे शान्ते
शान्ततरं निरन्तरमुमाकान्तानुरक्ते सति ।
अन्यस्मात् किमपेक्षितं किमपि न न्यूनं जगन्मण्डले
पीयूषांशुकलावतंसभजनादन्यन्न मन्यामहे ॥ ९०॥
स्मृत्वा जनाजराभिघातनिहताः शर्वान्यसंसेवनात्
श्रान्तं मे मन एव तावदधुना तेभ्यो निवृत्तं ततः ।
भूयस्तत्पदसेवनं न कुरुते तुच्छ्रत्वबुद्ध्या षरं
तांस्त्यक्त्वा शिवपूजनं परमतोऽप्यन्यं न मन्यामहे ॥ ९१॥
मृत्युर्यस्य जरादिजन्मजनितं दुःखं न यस्याभवत्
तं मृत्युञ्जयमेकमेव शरणं प्राप्ताः सदा सादरम् ।
तस्मिन्नेव वदान्यनायकवरे गौरीविहारे षरे
इत्थं क्रीडति तेन सिद्धिरभितोऽप्यन्यं न मन्यामहे ॥ ९२॥
यावद् भ्रान्तिरभूत् पुराऽतिविषमा तावत्पराराधने-
प्यासक्तं त्वयि जन्ममृत्युवशगे ज्ञाते निवृत्तं मनः ।
को वा जन्मजराविहीन इति तच्चित्तं विचार्याधुना
श्रीमृत्युञ्जयचिन्तने विरतमित्यन्यं न मन्यामहे ॥ ९३॥
को वा रत्नविशेषनिर्मितलसत्पात्रस्य दुग्धं शिवे
दत्तं शर्करया समेतमनघेनाज्येन युक्तं परम् ।
त्यक्त्वा क्षारजलं पिबत्यनुदिनं तस्माछिवान्यः सुरो
नोपास्योऽपि न तेन वाक्फलमतोऽप्यन्यं न मन्यामहे ॥ ९४॥
को वा मेरुशरापनं त्रिनयनं गौरीविहारादर-
व्याख्यानप्रवणप्रसाधनधनं कैलाससिंहासनम् ।
त्यक्त्वाऽन्यामरसेवनाय यतते भीतो यथा भीतितः
प्राप्नोत्येव विमोहितः प्रकृतितोऽप्यन्यं न मन्यामहे ॥ ९५॥
कः प्राप्यापि सुधाब्धितीरमसकृद्धीरः पिपासातुरः
तत्क्षीरं परिहाय दुर्मतियुतः क्षीराम्बुराशिं व्रजेत् ।
तस्माद्देवशिखामणिं सुरमणिं श्रीशूलपाणिं मनः
त्यक्त्वान्यं न भजत्यपि स्वयमतोऽप्यन्यं न मन्यामहे ॥ ९६॥
किं कष्टान्यपि विस्मृतानि भवता विश्वेश्वराराधन-
त्यागात् सायमिमं गतैव कमला सिन्धुं ततः पीडया ।
तन्निर्मन्थनकालकूटकलितज्वालाकुलः कृष्णतां
प्राप्तोऽसि स्मर तत्परं स्मृतमतोऽप्यन्यं न मन्यामहे ॥ ९७॥
त्वं घोरे विपिने वराहवपुषा लक्ष्मीविहीनस्तदा
तद्वन्याशनजीवनः शिवपदाम्भोजार्चनानादरात् ।
तत् किं विस्मृतमेव तत्स्मर पुनः तेनापि लज्जा न किं
ते तावद्वद तेन तावदधुना त्वन्यं न मन्यामहे ॥ ९८॥
स्वत्वं वस्तुषु भूतलेऽपि विदितं विश्वेश्वरस्येत्यतः
सर्वे तस्य स एव तावदसकृद् दाता वदान्योत्तमः ।
तस्मादेव समस्तवस्तुनिचयप्राप्तिस्तदन्यस्य किं
स्वत्वं वस्तुषु केष्वपीत्यपि मितेरन्यं न मन्यामहे ॥ ९९॥
भक्ताभीप्सितवस्तुजातमसकृद्दत्वा पुनर्वाञ्छितं
भक्तस्यास्ति किमित्यनक्षणमुमाकान्तो विचार्यादरात ।
दातृत्वव्यसनेन दातुमभितो वाञ्छत्यपूर्वं फलं
लिङ्गाराधनतत्पराद्य सततोप्यन्यं न मन्यामहे ॥ १००॥
वाञ्छा यत्र न सर्वथा न विदितं नापि श्रुतं सर्वथा
तद्दातुं शिवपूजकाय यतते मृत्युञ्जयः सर्वथा ।
तं देवोत्तममप्रयासफलदं त्यक्त्वा तदन्यं मनो
गन्तुं वाञ्च्छति तुछमित्यपि कदाप्यन्यं न मन्यामहे ॥ १०१॥
मातेवाशु शरीरपोषणरतो लिङ्गार्चकानां सदा
विश्वेशः स पिता पितेव विहिते भक्तिं नियुङ्क्ते पुनः ।
स्नेहाम्भोनिधिमालया परिवृतं भक्तं करोत्येव तं
त्यक्त्वा तावदुमासहायमधुना त्वन्यं न मन्यामहे ॥ १०२॥
अस्मत्पूर्वजपूर्वजार्चितमहापुण्याम्बुराशेः फलं
संवृत्तं फलमित्यवैमि बहुधा यस्मादुमावल्लभः ।
अस्माकं फलदैवतं परहितं कर्तुं समर्थः सदा
तस्मादेव हितार्थलाभकथनादन्यं न मन्यामहे ॥ १०३॥
धन्यानां शिव एव दैवतमिति ज्ञातं शिवप्रार्थनं
धन्या एव परं विहाय सकलं संसाररूपं फलम् ।
नित्यं निर्मलचेतसोऽप्यविकलं कुर्वन्त्युदाराः फलं
हारा एव हरात्परं परतरं त्वन्यं न मन्यामहे ॥ १०४॥
सम्प्राप्यापि शिवार्चनेन सकलं सर्वः शिवाराधनो-
पायः प्राप्त इति प्रभूतविभवाः कुर्वन्ति लिङ्गार्चनम् ।
तस्मादप्यमितं फलं पुनरुमाकान्तादवाप्यं ततः
शान्ता एव शिवं प्रयान्ति तमतोप्यन्यं न मन्यामहे ॥ १०५॥
यद्बिल्वदलमप्युमापतिरतिप्रीत्या गृहीत्वा नवं
जीर्णं वा त्रुटितं च नीरसमपि श्रेयस्करं केवलम् ।
मत्वा सर्वधराधिनाथविनतं दीनं करोत्यादरात्
अन्ते मुक्तिमपि प्रयच्छति ततोप्यन्यं न मन्यामहे ॥ १०६॥
श्रीकण्ठाद्गिरिराजराजतनयामेरुस्फुरच्छीकरात्
हारश्रीपरिहारदक्षविलसद्वक्षोजवक्षःस्थलात् ।
इन्द्रादिप्रतिपक्षदक्षदलनात् भालानलाक्षात् परं
स्वप्ने वा मरणेऽपि वा स्वकरणैरन्यं न मन्यामहे ॥ १०७॥
॥ इति शिवरहस्यान्तर्गते आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २८। २३-१०७ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 28. 23-107 ..
Proofread by Ruma Dewan