ईश्वरप्रोक्तं शिवार्चनमहात्मयम्
ईश्वरः -
शृणु वक्ष्यामि ते देवि हितमात्यन्तिकं शिवे ।
यत्प्रोक्तं पूजनं देवि सुराणाञ्च नृणां सदा ॥ १॥
सा प्रजानन्तफलदा जन्मकर्यप्रणाशिनी ।
संविदेव परा पूजा सा तु तस्यां मनोलयः ॥ २॥
साधारणानां सा पूजा ह्यव्यक्तातीव दुर्घटा ।
मत्प्रसादेन देवेशि पचेलिमतपःफलैः ॥ ३॥
योगर्यागैश्च तपसा महानन्दकदम्बकैः ।
भस्मनिष्ठस्य सततं रुद्रावर्तनशीलिनः ॥ ४॥
भस्मत्रिपुण्ड्रयुक्तस्य सदा रुद्राक्षधारिणः ।
पञ्चाक्षरपरस्यैव सदा लिङ्गार्चकस्य च ॥ ५॥
बिल्वपत्रैर्महादेवि प्रदोषे पूजकस्य माम् ।
नक्ताशनार्चनध्यानचतुर्दश्यष्टमीषु च ॥ ६॥
सोमवारव्रताचारयुक्तस्य नियतस्य च ।
मत्क्षेत्रवासिनो देवि ह्यविमुक्तरतस्य च ॥ ७॥
विश्वेश्वरार्चकस्यास्य सुरस्य च नरस्य च ।
तथा महालये पुण्ये रुद्रकोटौ महेश्वरि ॥ ८॥
कालञ्जरे प्रभासेऽपि पुष्करेऽमरकण्टके ।
पिण्डारके कुरुक्षेत्रे महाकाले महेश्वरे ॥ ९॥
देवदारुवने पुण्ये नैमिषे चित्रकूटके ।
केदारे कामदे पुण्ये वैद्यनाथे महेश्वरि ॥ १०॥
श्रीशैले च तथोङ्कारे तथा वेणुवने शिवे ।
आवटङ्के सोमनाथे गोकर्णे त्र्यम्बके गिरौ ॥ ११॥
श्रीमद्दक्षिणकैलासे तथैकाम्रवने मम ।
वृद्धाद्रावरुणाद्रौ च तथा गोपर्वते शिवे ॥ १२॥
हृत्पुण्डरीके गूढे च जप्येशे श्वेतकानने ।
गजारण्ये रत्नगिरौ श्रीकण्ठे मातृपर्वते ॥ १३॥
कोटिकायां मङ्गले च पुण्ये द्रुतिवनेऽपि च ।
कुम्भघोणेऽर्जुने चैव श्रीसुन्दर गिरौ तथा ॥ १६॥
माधवीतेजिनीदेवीक्षीरिणीकानने तथा ।
शमीवने बिल्ववने घटेशे ब्रह्मकानने ॥ १५॥
छायावने च श्रीवाञ्छ्ये तथा वेदवने शिवे ।
वल्मीके वातपुर्याञ्च सेतो वै गन्धमादने ॥ १६॥
हालास्ये शालिकवने गजशैले महेन्द्रके ।
वसतः पुण्यशीलस्य नक्ताशनरतस्य च ॥ १७॥
संवसद्द्वादशाब्दं तु भस्मनोद्धूलितस्य च ।
कस्यचिद्भाग्यनिवहैर्ज्ञानन्तल्लभ्यते मम ॥ १८॥
बहुभिर्जन्मभिर्देवि मत्प्रसादयुतस्य च ।
वैराग्यभक्तियुक्तस्य चात्मलिङ्गार्चने मतिः ॥ १९॥
जायते पुण्यपाकेन चित्तशुद्ध्यनुसारतः ।
जायते जन्मनाशाय नृणामत्यन्तदुर्लभम् ॥ २०॥
नानाचारविहाराणां विषयासक्तचेतसाम् ।
वाञ्छा न जायते देवि कस्यचित्कचिदेव हि ॥ २१॥
बहुजन्मसहस्रेषु तिर्यक्स्थावरजङ्गमैः ।
जन्मभिः पुण्यनिचयैर्युक्तस्य पुरुषस्य च ॥ २२॥
मत्प्रसादेन विज्ञानं जायते नान्यधा(नान्यथा) शिवे ।
मध्यानधारामोदादियुक्तस्य निरतस्य च ॥ २३॥
अथर्वशिरसोऽध्यायशिखाजपयुतस्य च ।
जावालश्रुतिनिष्टस्य शाम्भवस्य विशेषतः ॥ २४॥
कैवल्यकालरुद्रादिजापिनो ब्राह्मणस्य च ।
रुद्रावर्तनशीलस्य भस्मनिष्ठस्य मे सदा ॥ २५॥
ज्ञानं विजायते गौरि कस्यचिच्छिवयोगिनः ।
यततामपि शैवानां कश्चिन्मां वेत्ति तत्वतः ॥ २६॥
मज्ज्ञानसाधनं देवि नृणमत्यन्तदुर्लभम् ।
मां ध्यायेद्धृदयागारपद्मसंस्थं चतुर्भुजम् ॥ २७॥
मृगटङ्कधरं सौम्यं सञ्चिदानन्दविग्रहम् ।
शुद्धकर्पूरसाराच्छकुन्देन्दुधवलप्रभम् ॥ २८॥
मुकुटोद्भासिचन्द्राङ्कं गङ्गामलकपर्दकम् ।
भुजङ्गराजवलय महार्हमणिभूषणम् ॥ २९॥
दिव्यानेकमणिव्रातचितसिह्मासनस्थितम् ।
त्रिणेत्रं नीलकण्ठञ्चापीन्दुधामसमाननम् ॥ ३०॥
उमया सहितं ध्यायेत्क्षणं वाथ क्षणार्धकम् ।
सोऽहमीशश्शिवस्साक्षादहं रुद्रो हरिर्विधिः ॥ ३१॥
अहमिन्द्रोऽनलो वायुर्यमोऽहं वरुणोऽर्यमा ।
चन्द्रः कुबेरो मरुतो ह्यश्विनौ मरुतोऽर्ककाः ॥ ३२॥
स्कन्दो विघ्नेश्वरश्चैव नन्दिकेशादयो गणाः ।
सर्वेषां जनिता चाहं मत्त एवाद्य निर्गताः ॥ ३३॥
मयैव विधये दत्ता वेदास्सर्वे सनातनाः ।
मयैव विष्णवे दत्तं सहस्रारं सुदर्शनम् ॥ ३४॥
अहमेवेति विज्ञाय ध्यायेन्मद्रूपमैश्वरम् ।
एवं हि ध्यायतां देवि मज्ज्ञानं जायते नृणाम् ॥ ३५॥
अथवा देवमीशानं मां ध्यायेत्सूर्यमण्डले ।
हिरण्यबहुमाशास्यं हिरण्यश्मश्रुमीश्वरम् ॥ ३६॥
हिरण्यवर्णं देवेशि ह्यम्बिकापतिमीश्वरम् ।
सर्वग्रन्थिविमोक्षाय तज्ज्ञानं जायते नृणाम् ॥ ३७॥
योगेन वापि नियमयमासनयुतस्य च ।
रेचके पूरयेद्वायुं पूरकेणाथ पूरयेत् ॥ ३८॥
कुम्भके कुम्भवद्धीमान्धारयेद्धटिकात्रयम् ।
योगाग्निदग्धकायोत्थमलस्यामलचेतसः ॥ ३९॥
नीहारधूमसंविद्युत्स्फटिकोज्वलदीपवत् ।
ज्योतिर्विभासते देवि हृदि पूरितवायुभिः ॥ ४०॥
प्राणायामेन सततं तन्नीवारशिखेव हि ।
सोऽहं ज्योतिर्महानात्मा ह्यसङ्गः पुरुषश्शिवः ॥ ४१॥
आपादमस्तकं देहं व्याप्य सर्वेष्वस्थितः ।
यो मां योगेन जानाति स्वात्मारामं महेश्वरम् ॥ ४२॥
तस्य सिद्ध्यन्ति नियतं सिद्धयोऽष्टौ महेश्वरि ।
तस्य मूर्ध्नि महानात्मासहस्रदलपङ्कजे ॥ ४३॥
गोस्तनाकारवद्धारा ह्यमृतैकरसस्रवा ।
व्यपोह्य तत्कपालन्तु चेडायां सन्ततस्रवा ॥ ४४॥
पिङ्गलाकुण्डलीमध्यात्पतन्तीशिखिमस्तके ।
वैश्वानरोऽयं सर्वेषु मद्रूपो देहिषु स्थितः ॥ ४५॥
तत्र चन्द्रामृतकरैः पिङ्गलायां महेश्वरि ।
स आत्मज्योतिरानन्दो नित्यमुक्तो महेश्वरः ॥ ४६॥
सदा क्रीडन्नभोमध्यं दहराकाशगस्सदा ।
चेतयामीन्द्रियगणं वाचा च मनसा सह ॥ ४७॥
परापश्यावैखरीषु प्रणवादिरसस्त्वहम् ।
सोऽहमावसथातीतः पुरुषोऽहं पुरीशयः ॥ ४८॥
अलिङ्गोऽस्म्यहमात्मा च सुरतिर्यङ्नरेषु च ।
नामरूपातिगस्साक्षादहङ्कारविवर्जितः ॥ ४९॥
रस्यस्तत्कृतकर्माणिविषयान्वैषिकंसुखम् ।
षोडशाख्यकला देविह्ययेकोजानामिसर्वशः ॥ ५०॥
तास्सर्वापि कला देविमयिद्योतन्तिनित्यशः ।
मन्ताबोद्धारसयिताज्ञाताविज्ञानईश्वरः ॥ ५१॥
श्रुतेश्श्रोता तथाघ्राता दृग्दृष्ट्याद्यहमेव हि ।
(श्रुतेश्श्रोता तथाघ्राता दृष्टेर्द्रष्टाद्यहमेव हि) ।
यथा कूर्ममहाग्रीवा ह्रस्वदीर्घा भवेच्छिवे ॥ ५२॥
यथा नद्यस्स्यन्दमाना नामरूपगुणातिगाः ।
समुद्रेऽस्तं प्रयान्तीशे यथा ते भानुदीप्तयः ॥ ५३॥
पुनर्यथोदयं प्राप्ते सूर्यस्येव मरीचयः ।
प्रसरन्ति महादेवि तथा मत्सन्निधौ जगत् ॥ ५४॥
पद्मं मित्रकरैर्यद्वद्विकसत्यब्जिनीकुलम् ।
यथा मणिजसान्निध्याच्चेष्टन्ते लोहसूचयः ॥ ५५॥
कालकर्मविपाकेन तथा मत्सन्निधौ जगत् ।
चेष्टते नितरां देवि स्थितिसंहारजन्मतः ॥ ५६॥
सोऽहं सृष्ट्वा प्रविश्यैव तन्नामगुणरूपतः ।
ब्रह्मविष्णुहराख्याभिर्यथापूर्वंयुगेयुगे ॥ ५७॥
सृजाम्यात्मानमेवाग्रे ततो नानाविधं जगत् ।
यथाग्नेर्विस्फुलिङ्गा वैक्षुद्रास्सम्भवतिप्रिये ॥ ५८॥
इन्द्रो मित्रोऽथ वरुणः पूषा सोमोऽहमेवहि ।
मनवः पितरोविप्रास्ताराजालङ्ग्रहास्तथा ॥ ५९॥
स्थावरं जङ्गमं चैतदहमेव सनातनः ।
सर्वस्सर्वशरीरेषु सर्वेन्द्रियगुणातिगः ॥ ६०॥
सर्वभोक्ताहमेवास्मि सर्वकार्यकृतास्पदः ।
नाहं तज्जन्ममरणैस्स्थितिसङ्गेष्वसज्जकः ॥ ६१॥
असङ्गोनैवलिप्तोऽस्मिसर्वबाह्यान्तरस्त्वहम् ।
एकस्तथान्तरस्सर्वदुःखहीनोऽस्मिशङ्करि ॥ ६२॥
एवं मां यो विजानाति सोहंसो मे हृदन्तरः ।
तस्याहं न प्रणश्यामि सचमेनप्रणश्यति ॥ ६३॥
योगसाङ्ख्यौ महादेवि तथोक्तौ मम हृत्तमौ ।
(योगसाङ्ख्यौ मया देवि तवोक्तौ मम हृत्तमौ) ।
सर्वसाधारणं देवि कथयिष्येऽप्युपासनम् ॥ ६४॥
अलिङ्गोऽस्म्यहमीशानो लिङ्गे तिष्ठामि सर्वदा ।
यथा गवि गतङ्क्षीरंविषाणादौनदृश्यते ॥ ६७॥
ऊधस्येव प्रदृश्येत तथाहं सर्ववास्यपि ।
हृदिद्ध्यात्मशक्तानां ज्ञानयोगेन वै शिवे ॥ ६८॥
लिङ्गे कृतां परां पूजां शाम्भवैर्भस्मधारिभिः ।
मत्पुण्ड्रनिरतैरेव रुद्राक्षवरकङ्कणैः ॥ ६९॥
रुद्राध्यायाध्ययनतः पञ्चाक्षरजपेन च ।
एकं वा बिल्वपत्रं यैर्निक्षिप्तं मम मस्तके ॥ ७०॥
भक्तैर्गृह्णामि तद्दैवि तस्मै ज्ञानं ददामि च ।
तं ज्ञानभाजनं कुर्यां प्रतिज्ञा मम शङ्करि ॥ ७१॥
नान्यवर्णाश्रमैधर्मैर्विविधैरपि मे शिवे ।
नैव तुष्टिर्मम परा जायते कर्मकोटिभिः ॥ ७०॥
न षोडशमहादानैरेकाहाहीनसत्रकैः ।
प्रपावापीप्रदानैर्वा कन्यान्नादिप्रदानतः ॥ ७१॥
कथञ्चिज्जायते देवि मदर्चायाम्पतिर्भवेत् ।
पुण्ड्रान्तरेषु विषेषु मस्करीणां गणेषुच ॥ ७२॥
नैव प्रीतिर्महादेवि यथा मत्पुण्ड्रधारिषु ।
भस्मधार्येव सततं मद्ज्ञानस्यैव भाजनम् ॥ ७३॥
शिवलिङ्गार्चनध्यानरुद्राध्यायजपेषु च ।
पञ्चाक्षरजपैश्चैव मम क्षेत्रनिवासकः ॥ ७४॥
भस्मत्रिपुण्ड्रधार्येव स्वीकार्यानान्य उच्यते ।
ऊर्ध्वपुण्ड्र भ्रमेणापि नकुर्यान्मोहतोद्विजः ॥ ७५॥
प्रत्युतो नरकायैव तस्य सर्वमनुष्ठितम् ।
यदि कुर्यात्प्रमादेन पितृभिस्सपतेदधः ॥ ७६॥
ऊर्ध्वपुण्ड्राङ्कितं दृष्ट्वा मीलयाम्यद्य लोचने ।
मत्प्रसादालोकनेन तज्ज्ञानं जायते शिवे ॥ ७७॥
यन्नेत्रे मीलिते देवि कथं ज्ञानं भविष्यति ।
(यन्निमीलनतः देवि कथं ज्ञानं भविष्यति) ।
लिङ्गं कैलासमौलौ मे कैलासेश्वरसञ्ज्ञितम् ॥ ७८॥
देवतिर्यङ्मनुष्याद्यैरदृश्यमपि कामदम् ।
स्मरणादेव सान्निध्यं यत्र कुत्रापि सिद्धिदम् ॥ ७९॥
एतल्लिङ्गस्य महिमा वेदैर्नज्ञात एव हि ।
सुरासुरैश्च मनुभिर्गणेन्द्रैरपि शङ्करि ॥ ८०॥
कैलासेश्वरसञ्ज्ञं तु लिङ्गं मुक्तिप्रदायकम् ।
लिङ्गराजमिदं देवि ब्रह्मैवेदं सनातनम् ॥ ८१॥
ममैव हृदयानन्ददायकं स्वर्गमोक्षदम् ।
संसारसागरापारतारकं भवभेषजम् ॥ ८२॥
वेदान्तसारसर्वस्वमेतलिङ्गवरं शिवे ।
न कस्यचिन्मया ख्यातं नाख्येयं यस्य कस्यचित् ॥ ८३॥
एतल्लिङ्गप्रभावेन जगत्सृष्टिं वितन्वते ।
विधातारस्सर्वएव कल्पेकल्पे स्वसूनुभिः ॥ ८४॥
देवतिर्यङनराकारसमुर्वीसरितो वनम् ।
लोका लोक्याश्च देवेशि विधाताद्यं तनोति च ॥ ८५॥
(लोका लोक्याश्च देवेशि विधाताद्यन्तनेऽपि च) ॥ ८५॥
विष्णवः प्रतिकल्पं वै चैतल्लिङ्गप्रभावतः ।
दैत्येश्वरान्निहन्तारो महतामलचक्रतः ॥ ८६॥
वैकुण्ठवासिनस्सर्वे ते लक्ष्याः पतयश्शिवे ।
प्रतिकल्पं तथा रुद्रास्ते गौर्याः पतयोऽम्बिके ॥ ८७॥
एतल्लिङ्गप्रभावेन प्रलये संहरन्त्यपि ।
जगज्जालं तथा शूलैर्वृक्णं सासुरमानुषम् ॥ ८८॥
सेन्द्राश्च मनवश्चैव ऋषिभिः पितृभिश्शिवे ।
एतल्लिङ्गे लयं यान्ति प्रतिकल्पं सुरासुराः ॥ ८९॥
जगद्ब्रह्माण्डजालैश्च सर्वाधारमिदं शिवे ।
रूपं सङ्कोच्य मे दिव्यं महान्ते प्रलये शिवे ॥ ९०॥
त्वया गणवरैर्देवि स्कन्दहेरम्बपूर्वकैः ।
निवसामि सदा लिङ्गे कैलासेश्वरसञ्ज्ञिते ॥ ९१॥
अलिङ्गोलिङ्गसंस्थोऽहंसृजामिविसृजामिच ।
जगज्जालमिदं देवि ब्रह्मविष्ण्वीशपूर्वकम् ॥ ९२॥
संहरामि तथैवान्ते लीलेयं मम शङ्करि ।
आत्मक्रीड आत्मरतिस्सृष्टिस्थित्यन्तकारकः ॥ ९३॥
कारणं कारणानाञ्च पतीनां पतिरीश्वरः ।
चेतनश्चेतनानां च नित्योऽहं परमेश्वरि ॥ ९४॥
सकारणोऽहं कारणाधिपाधिपो ममैव कश्चिज्जनको नहीश्वरि ।
कालात्मयुक्तान्यधितिष्ठतीशो गुणी सर्वज्ञस्सर्वभूताधिवासः ॥ ९५॥
(कालात्मयुक्तान्यधितप्यामीशो गुणी सर्वज्ञस्सर्वभूताधिवासः) ॥ ९५॥
एतत्ते कथितं देवि रहस्यार्थप्रकाशकम् ।
न देयं गुह्यमप्येतद्भक्तेषु प्रतिपादय ॥ ९६॥
रहस्यांशमिदं शैवमादिमं परमेश्वरि ।
गुह्यज्ञानमिदं सुभ्रु रहस्यज्ञानसङ्ग्रहम् ॥ ९७॥
न प्रकाश्यमिदं भद्रे कस्यचिद्धेलयाम्बिके ।
इदं रहस्यं वेदानामनन्तानां सनातनम् ॥ ९८॥
देवादीनां मुनीनां च गणानाञ्चप्रकाशितम् ।
तव हार्देन देवेशि रहस्यं कथितं मया ॥ ९९॥
हृदि धार्यं सदा देवि गोप्याद्गोप्यमनुत्तमम् ।
प्रथमश्शिवरत्नाब्धिरहस्यस्यांश उत्तमः ॥ १००॥
कर्णभूषामणिस्तेऽद्य कथितस्तु सुगोप्यताम् ।
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ॥ १०१॥
स्कन्दः -
इत्युक्त्वा गिरिजां देवस्समालिङ्ग्य महेश्वरः ।
कैलासमौलौ शिवया विजहार यथासुखम् ॥ १०२॥
देव्युवाच -
वस्त्राधौतविधौ सहस्रकरता पुष्पार्पणे विष्णुता
गन्धे गन्धवता महान्नपचने बर्हिर्मुखाध्यक्षता ।
(गन्धे गन्धवहाप्ततान्नपचने बर्हिर्मुखाध्यक्षता) ।
पात्रे काञ्चनगर्ततास्ति भगवन्कारुण्यवारान्निधे
शुश्रूषां करवाणि ते पशुपते स्वामिन्स्त्रिलोकीगुरो ॥ १०३॥
गण्डूषाम्बुनिमज्जनाय हृदभूद्गङ्गावतंसस्य ते
(गण्डूषाम्बुनिमज्जनाय यदभूद्गङ्गावतंसस्य ते)
चूडालङ्कृतिकल्पनाय विधृतं ज्योतिस्मुधाधाम ते ।
तृप्त्यै भक्षितशेषमामिषमपि त्रैलोक्यकुक्षिम्भरे
विद्याधीशमृते तव स्तुतिरियं वाणी लघिष्ठापि मे ॥ १०४॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं शिवार्चनमहात्मयम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ६० - स्कन्दस्तुतिः । १-१०४॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 60 - skandastutiH . 1-104..
Notes:
Śiva शिव reveals to Devī देवी, the mysteries of Śivatattva शिवतत्त्व that permeates The Universe, and subtleties of worship of Śivaliṅga शिवलिङ्ग - including the merits of performing pūjā पूजा at several Śivakṣetra शिवक्षेत्र.
Encoded and proofread by Ruma Dewan